Oops! It appears that you have disabled your Javascript. In order for you to see this page as it is meant to appear, we ask that you please re-enable your Javascript!

श्री विष्णु शतनाम स्तोत्रम्

श्री वेदव्यासकृतं श्री विष्णुशतनामस्तोत्रम् वासुदेवं ह्रषीकेशं वामनं जलशायिनम्। जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम्॥ वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम्। अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम्॥ नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम्। गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम्॥ वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम्। चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम्॥ वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम्।

गोरक्षशतकम्

गोरक्षशतकम् ॐ गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये । आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकां । । १ । । एतद्विमुक्ति-सोपानं एतत्कालस्य वञ्चनं । यद्व्यावृत्तं मनो मोहादासक्तं परमात्मनि । । २ । । द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलं । शमनं भव-तापस्य योगं भजति सज्जनः । । ३ ।

स्तवचिन्तामणिः — भट्टनारायण

स्तवचिन्तामणिः  — भट्टनारायण सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्युल्लासितानन्द- महिमा परमेश्वरः । । १ । । यः स्फीतः श्रीदयाबोध- परमानन्दसम्पदा । विद्योद्द्योतितमाहात्म्यः स जयत्यपराजितः । । २ । । प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने । नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे । । ३ । । द्विष्मस्त्वां

पति प्राप्ति हेतु पार्वतिपञ्चकस्तोत्र

पति  –  प्राप्ति हेतु पार्वतिपञ्चकस्तोत्र धराधरेंद्रनन्दिनी शशाङ्कमौलिसङ्गिनी सुरेशशक्तिवर्धिनी नितान्त कंटकामिनि । निशाचरेन्द्रमर्दिनी त्रिशूलशूलधारिणी मनोव्यथाविदारिणी शिवं तनोतु पार्वति ।। भुजङकतल्पशायिनी महोग्रकांतभामिनी प्रकाशपुञ्जदामिनी विचित्रचित्रकारिणी । प्रचण्डशत्रुधर्षिणी दया प्रवहवार्षिणी सदा सुभाग्यदायिनी शिवं तनोतु पार्वती ।। प्रकृष्टसृष्टिकारिका प्रचण्डनृत्यनार्तिका पिनाकपाणिधारिका गिरीशश्रृङ्कमालिका समस्तभक्तपालिका पीयूशपूर्णवर्षिका कूभाग्यरेखामार्जिका शिवं

पुष्करोपाख्यान

पुष्कर उवाच शान्तातीतं गणं हुत्वा शान्तिमाप्नोति मानवः   । भैषज्यं च गणं हुत्वा सर्वान् रोगान् व्यपोहति  ॥ २,१२७.१ ॥ त्रिषप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते  । क्वचिन्नाअप्नोति च भयं हुत्वा चैवाभयं गणम्  ॥ २,१२७.२ ॥ न पराजायते राम गणं हुत्वापराजितम्  ।

जैमिनीय गृह्यसूत्रम्

जैमिनीयगृह्यसूत्रम् १.१ अथातोऽग्निं प्रणोष्यन्प्रागुदक्प्रवणमभ्युक्ष्य स्थणिडलं लक्षणं कुर्यान्मध्ये प्राचीं रेखामुल्लिख्योदीचीं च संहितां पश्चात्तिस्रो मध्ये प्राच्योऽभ्युक्ष्याग्निं प्रतिष्ठापयेद्भूर्भुवः स्वरिति लक्षणावृदेषा सर्वत्राथातः पाकयज्ञान्व्याख्यास्यामो हुतोऽहुतः प्रहुतः प्राशित इति तेषामेकाग्नौ होमो नित्ये यज्ञोपवीतोदकाचमने दर्शपूर्णमासतन्त्राः स्नतन्त्रा वा दक्षिणतोऽग्नेः पूर्णपात्रमुपनिदधाति स्रुवं चापां पूर्णमुत्तरतोऽग्नेरिध्माबहिर्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां

देवीकालोत्तरागमः

देवीकालोत्तरागमः सर्वेषामपि मुक्त्यर्थं मुक्तिमार्गस्य दर्शनम्  । देवेश ज्ञानमाचारं कृपया कथयस्व मे  ॥ १ ॥ ईश्वर उवाच ज्ञानाचारौ वरारोहे कथयामि तवाधुना  । प्रविशन्ति यतो मोक्षं ज्ञानिनो ध्वस्तकल्मषम्  ॥ २ ॥ येषां बोधेन संजातं कालज्ञानं वरानने  । न तेषां जायते बोधः शास्त्रकोटिशतैरपि 

Don`t copy text!