Oops! It appears that you have disabled your Javascript. In order for you to see this page as it is meant to appear, we ask that you please re-enable your Javascript!

अकुलवीर तन्त्रम्

॥ अकुलवीर तन्त्रम् ॥ श्रीमच्छन्दपादकेभ्यो नमः । श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् । सर्वमाधारगम्भीरमचलं व्यपकं परम् । अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् । गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १॥ अनग्रहाय लोकानां सिद्धनाथेन भाषितम् । गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २॥ संसारार्णवमग्नातां भूतानां महदाश्रयम्

याजुष ज्योतिषम्

॥ याजुषज्योतिषम् ॥ पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ १॥ ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः । विप्राणां सम्मतं लोके यज्ञकालार्थ सिद्धये ॥ २॥ वेद हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥

रेवा खंड स्कंद पुराण 4

रेवा खंड स्कंद पुराण 91 to 116 last  अध्याय ९१   राजोवाच – अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता  । रुद्रशीर्षस्थिता पुण्या देवी कथमिहागता  ॥ ९१.१ ॥ पुण्या देवशिलानाम तस्या माहात्म्यमुत्तमम्  । एतदाख्याहि मे सर्वं प्रसादात्पुरुषोत्तम  ॥ ९१.२ ॥ रुद्र उवाच –

रेवा खंड स्कंद पुराण 3

रेवा खंड स्कंद पुराण  61 to 90    अध्याय ६१   युधिष्ठिर उवाच – श्रुत्वा नानाविधान् धर्मास्त्वत्प्रसादान्महामुने  । नाहं तृप्तिं तु गच्छामि नर्मदाख्यानकीर्तनात् ॥ ६१.१ ॥   मार्कण्डेय उवाच – गावः पवित्रमतुलं गावः सर्वार्थसाधकाः  । तस्माद्धि गोप्रदानेन शिवभक्त्या प्रमुच्यते  ॥

रेवा खंड स्कंद पुराण 2

रेवा खंड स्कंद पुराण 31 to 60  अध्याय ३१   युधिष्ठिर उवाच – हिरण्यबाहुः शापान्ते नगरीं प्राप्य निर्वृतः  । दक्षादयः कथं मुक्तास्तस्माच्छापाच्च कथ्यताम्  ॥ ३१.१ ॥   मार्कण्डेय उवाच – शृणु राजन्महाबाहो कथ्यमानं निबोध मे  । हिरण्यबाहुना शप्ता यावन्मुक्ता द्विजोत्तमाः 

रेवा खंड स्कंद पुराण 1

रेवा खंड स्कंद पुराण    01 to 30 अध्याय १ मज्जनमातङ्गगण्डच्युतमदमदिरामोदमत्तालिजालम्  । स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम्  ॥ १.१ ॥ सायं प्रातर्मुनीनां कुशकुसुमचयाच्छन्नतीरस्थनीरम्  । पायाद्वो नर्मदाम्भः करिकरभकराक्रान्तरहस्तरङ्गम्  ॥ १.२ ॥   मार्कण्डेय उवाच – हिमवच्छिखरे रम्ये सिद्धगन्धर्वसेविते  । यक्षविद्याधराकीर्णे नानागणसमन्विते  ॥ १.३ ॥ ब्रह्मविष्णुसुराः

रासक्रीडा – गर्गसंहिता अश्वमेधखण्डः

गर्गसंहिता अश्वमेधखण्डः – पञ्चचत्वारिंशोऽध्यायः रासक्रीडा – गोप्य ऊचुः अधरबिम्बविडम्बितविद्रुमं  मधुरवेणुनिनादविनोदितम् ॥ कमलकोमलनीलमुखाम्बुजं तमपि गोपकुमारमुपास्महे ॥१॥ श्यामलं विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥ कामदं व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥ तं विसञ्चलितलोचनाञ्चलं सामिकुड्मलितकोमलाधरम् ॥ वंशवल्गितकराङ्गुलीमुखं वेणुनादरसिकं भजामहे ॥३॥ ईषदङ्कुरितदन्तकुड्मलं भूषणं भुवनमङ्गलश्रियः ॥ घोषसौरभमनोहरं हरेर्वेषमेव

Don`t copy text!