भारद्वाज शिक्षा
भारद्वाजशिक्षा
1
गणेशं प्रणिपत्याहं संदेहानां निवृत्तये ।
शीक्षामनुप्रवक्ष्यामि वेदानां मूलकारणम् ।। 1 ।।
2
वृजने ज उदात्तश्चेदकारेण सहोच्यते ।
स्तुतं पदं तु वाक्यान्ते प्रचयं परिकीर्तितम् ।। 2 ।।
3
आ पञ्चमाद्धव्यपूर्वो घृतेनोर्ध्वश्च आहुतम् ।
वाक्यान्तोऽपि तथा प्रोक्तो यःपूर्वस्तु न विद्यते ।। 3 ।।
4
रादत् परशुरन्तोच्चे त्विङ्ग्यः पर्शुश्च भक्तिता ।
पर्षच्चेहातिपर्षाऽपि स्वरभक्तेस्तु नित्यता ।। 4 ।।
5
पापं-विलोम-पूर्वे चाकार्षं कार्षीत्तदादिषु ।
स्वरभक्तिं विजानीयान्नान्यवर्णोऽत्र संभवेत् ।। 5 ।।
6
अग्ने तान्नपते त्रींश्च त्रिष्टुभा चैवमाद्भवेत् ।
क्षिप्रा भर्त्र्य-यित्र्य-1रात्र्य-मन्त्र्य-पित्र्यापि काठके ।। 6 ।।
7
समाने तु पदे ह्रस्वाः सहल्रा विरळाश्च ये ।
जुष्टो वाचः प्रजाग्निंचि1 मानोमित्र उदस्त च ।। 7 ।।
8
अग्निर्वाव च देवा वै केशवापविधायकः ।
रक्षांसीत्यनुवाकेषु ह्यप्येतीकारवान्भवेत् ।। 8 ।।
9
छन्दा या ते-न बर्हिश्च इद्ध्या अग्ने बृहन्परे ।
यज्ञस्य पूर्व इष्ट्यै च त्विकारादिः प्रकीर्तितः ।। 9 ।।
10
अकारिषं च णः पूर्वो रीरिषो रीरिषन्नपि ।
तारिषच्चारिषं चेत् स्यात् स्वरभक्तिर्न विद्यते ।। 10 ।।
11
उपसर्गेषु पूर्वेषु त्वियुरित्यत्र विद्यते ।
जुष्टःप्रश्नकाण्डाच्छिद्रारण्यके मानुषी सईत् ।। 11 ।।
12
विनिष्पर्यसुरःपूर्वक्रीयेत्यत्र न ते परे ।
चातूरथस्यपूर्वान्यौ होत्री मप्त्री च दीर्घगौ ।। 12 ।।
13
पोत्री नेष्ट्री स्वस्री स्तोत्री शतरुद्री न णां परः ।
वरीयसी च पीयूषो दवीयोऽथ ह्रसीय च ।। 13 ।।
14
चीयते च द्वितीयश्च तृतीयादौ तथैव च ।
पीयति त्वस्तृतीयश्चावृकास्ते ऊर्ध्वगामीयुः ।। 14 ।।
15
स्वरोत्तरपपूर्वे तु शषहोर्ध्वे तु मध्यगः ।
रेफादुकार एव स्यात् स्वरभक्तिर्न विद्यते ।। 15 ।।
16
रादुत्वमरुषश्रुच्चेदरुहद्रुह चारुहम् ।
तिक्रुष्ट चक्रुषश्चक्रुः क्रुङ्ङ-मु-क्ष-द्ध-रोत्तरे ।। 16 ।।
17
प-ह-णा-म-त ऊर्ध्वे च त्वभि-मित्र-कपूर्वके ।
द्रुपदं वै द्रु ध्रुवाऽध्रुङ् नानादृत्य दृतिश्रुतिः ।। 17 ।।
18
दृशेऽनादृत्य दृषदः उद्दृष्ट उद्धृतोद्धृतः ।
च वि मे नम आ देवः स्तुहीह हवनेत्यसिस् ।। 18 ।।
19
वाजं वो वै सित स्वर्षिं तपो मे हृदये न च ।
गण् माच्योर्ध्व श्रुतः श्रुष्टी श्रुधी श्रुत् श्मश्रु शुश्रुवान् ।। 19 ।।
20
द्वित्वं चाप्यृतवो यज्ञो र्वतः पूर्वं श्रितः सइत् ।
परिन्ययो वचोर्ध्वे च स्रुति शब्दश्च सस्रुषः ।। 20 ।।
21
स्रुक् पदे स्रुह्युकारः स्यात्ससृवां स न विद्यते ।
षान्तः प्रुट् स्रुक्ति चोर्ध्वश्च वाग्भ्रू शुभ्रु च शत्रु च ।। 21 ।।
22
भ्रुमिं भ्रुविग्रुमुष्टिश्च क्षामन्रुरुच वव्रु रुत् ।
शतमित्त्यान् च मामस्मान् पूर्वं नीदुत्वमुच्यते ।। 22 ।।
23
जुह्वत्यप्याहि जुह्वेऽन्त्यस्वारो गृह्णोपभोत्तरे ।
उकारवान् जुह्वशब्दः संधानं परतो न चेत् ।। 23 ।।
24
देवानां त्वे क्रतुं चासौ यजमानेषु षात्तदुत् ।
भूतेभ्यः प्रोक्षति तस्माद्विभूर्देवायतः परे ।। 24 ।।
25
वृष्ट्यहृत ऋकारः स्याद् विवा यस्य ह ऋध्यते ।
अक्षरान्तऌकारो यः स्वरो ज्ञेयो विचक्षणैः ।। 25 ।।
26
उदाहृतः कॢप्तशब्दे न पदाद्यन्तयोः स्वरः ।
बद्धैने सा भवे मैच्च येन्त एकादशत्रयम् ।। 26 ।।
27
ग्नीपूर्वतो जुषेतां च प्रथमोऽञ्जन्तिसत्ययोः ।
येकेशिनः सऐकारो व्यैच्छन्नित्यत्र वर्णितः ।। 27 ।।
28
प्रैयमेधा आसन् नैयग्रोध-प्रैयंगवं यथा ।
दोहै यज्ञं च वैयाघ्रे दैयांपात्यैत्वगा इमे ।। 28 ।।
29
ब्रह्मवर्प्रेन्द्रियं चेन्द्रि पशून्वीर्यमनुपरः ।
मुखतो ज्योतिरूर्जाय एवास्मै चैवमैद् भवेत् ।। 29 ।।
30
त्रीन्, ब्रह्म व्यग्नि, चेन्द्राग्नी, मेदसैच्च पुरोहविः ।
एनौ विवा इन्द्रस्यायुरादावन्तेऽग्नयेऽन्नवत् ।। 30 ।।
31
स्फ्येन यां परि घर्मापनुत्त्यै तेषां पराणुत्त्यै ।
इत उत्तरं ककारादिप्रथमान् वक्ष्यामः ।
अन्तःस्थाभ्यः पवर्गाच्च स्वरेभ्यः पूर्वतः स्थितौ ।। 31 ।।
32
त्रिष्टुक् शब्दस्तथाऽनुष्टुक् ककारान्तावितीरितौ ।
अन्यत्र तु पकारान्तावेताविति विनिश्चितौ ।। 32 ।।
33
पूर्वस्य तु बिधेस्तत्र वैपरीत्यमिति स्थितिः ।। 33 ।।
34
चक्षे सू श्रद्धऊर्ध्वे क उत्करोऽन्तोच्च एव कः ।
विष्टुतं कृष्टशब्दश्च पच्योर्ध्वः षात् परस्तु टः ।। 34 ।।
35
त्वष्ट्रे वस्वग्नये प्रातर्मत्या अष्टाकपालमत् ।
वैश्वानरश्च जुष्टोऽम्बे शं नोऽग्निर्नश्च तारिषत् ।। 35 ।।
36
परापात्वेभ्यएवैनत् ब्रह्माद्येकाप एव तः ।
विदुषो हविषा चैनत् वेदत्पशुर्ऋतव्यतः ।। 36 ।।
37
थमेनात्मानं स्पृणुत स्पृणोति स्पृत सांहितः ।
प्राणानां स्पृत्यै द्वावेव लोकस्पृते ब्रह्मस्पृतम् ।। 37 ।।
38
सघा चतुर्थो नोदेऽसि सघ्यासं लान्यमेघ च ।
रघाऽनघाभ्य आघाऽघ प्रघातश्चैव मोघं च ।। 38 ।।
39
क्रियाशब्दश्च यत्रैव तदन्यो घन जङ्घ च ।
पुनस्तुवी प्रतूर्तिश्च त्वावतश्च बृहत्कृधि ।। 39 ।।
40
स्यन्दता ये वलं विद्म च नो वसु सुरेतसम् ।
पूर्वो मघः पितृशब्दः परो वा मघवश्रुतिः ।। 40 ।।
41
त्रीणि प्राणादि विश्वान्यो जिघाँसन् यो जघन्थ च ।
टवर्गेऽपि चतुर्थत्वं वोढवेत्यादिरुच्यते ।। 41 ।।
42
यदक्रन्दश्च दीध्यानो भिर्वस्तेधस्तु चर्तुधा ।
ब्रह्मन्पञ्चान्त्यमेधाश्च तनूवर्चपयोर्ध्वगः ।। 42 ।।
43
उपायज्ञो येत ईशा, जी, सी, सू, दक्षि, मेपरः ।
परि, स्यनः, पुनः, र्देहिवेद्यूर्ध्वे च चतुर्थकः ।। 43 ।।
44
यस्य स्वाहा परः चेद्वा कर्मण्यं श्रवणो वरम् ।
नयास्माकं यमो मे नो धाता वेदो मनस्ततः ।। 44 ।।
45
इन्द्रः पूर्वो ददात्वन्यः सुकुताद्युत्तरे च धः ।
तेनायुरेषां रूपाणां त्रयस्त्रिंशत्तथैव च ।। 45 ।।
46
श-म-स-प्र-च-नोर्ध्वश्च कामेनान्नात्परोऽपि च ।
चतुर्थ्यन्तपरोऽपि स्यादाभ्यो येऽध्वर्यवेऽपि च ।। 46 ।।
47
अग्नीधे ब्रह्मणे होत्रे चैनत् बर्हिषि दक्षिणाम् ।
तार्प्यं हिरण्यं वै धेनुमात्मना यश्चपूर्वकः ।। 47 ।।
48
ददातीति तृतीयत्वं तदन्यत्र च संपिबत् ।
या, मानोभ्रिं रुचन्नीं शूना, मन्नाद्यं, रभि स्वयम् ।। 48 ।।
49
यं सू द्धि, ची, न्द्रियं, दत्ते धेयमात्मन्न धो [मतु] ।
ब्रूह्यवसः, तुरीपं, थं जहि ओहैः , विक्षु, सप्रथाः ।। 49 ।।
50
शोचिरमुत्र भूयात् भूः श्रृण्वै रश्मिरनागसः ।
देवं भूयिष्ठभाजश्च सहध्यै पूर्वतस्त्वथ ।। 50 ।।
51
वमदाबसशत्राश्च सस्वरा गोकुरो अयः ।
स्वरपूर्वा अमीत्वाद्या अकाराद्यश्च तत्रधः ।। 51 ।।
52
रधामद्रधसी गाधं कॢधानधः षतोरधम् ।
क्षुधक्षोधुस्पृधोनाधै मागघं विवधादध ।। 52 ।।
53
वावृध वैमृध व्याध युधश्रुद्वीवृधादधुः ।
रुधश्रुदृणधन्नद्धो नाधमान रराध च ।। 53 ।।
54
गवीधुकस्रिध ग्रोधमिदधज्जनधाः षध ।
पदान्ते च धिकारोऽपि राधश्रुदवधिष्मच ।। 54 ।।
55
अधोनिष्ट्या वि घोषवद्युक्तः पदादिगस्त्वपि ।
अश्वाभिधानीमिषुधे त्वबाधन्त विबाध च ।। 55 ।।
56
कायाधवश्च निध च निर्बाधाबधिरोपि च ।
असाधयत गौधूमं गावीधुकमिति स्थितिः ।। 56 ।।
57
नाकारान्तवृथाद्युच्चा अर्थोऽर्थं तीर्थ पार्थ च ।
वीथोऽभागोर्थशब्दस्तु रूथ्यो निर्ऋथ एव च ।। 57 ।।
58
जगन्थ घन्थ ततन्थ दाधर्थ मो ववर्थ च ।
मेथीं मथित थायन्ति राथीतरो विमाथ च ।। 58 ।।
59
वेत्थावृथं चावृथाश्च जहर्थास्थ्ना तथैव च ।
अन्तोच्चकाविथेत्थौ च विसर्गान्तौ न चेच्छिथि ।। 59 ।।
60
ग्रमात्थ्नश्च विदथ्यं च कतियूरूपपूर्वकः ।। 60 ।।
61
श्रृं पं ग्रं मं च मां पूर्वः समाने तु चतुर्थ च ।
मथ्यमानो रथ्यस्वारः पृथ्वी राथन्तरोऽपि च ।। 61 ।।
62
फल फेन फणत् फर्व्य शफेभ्योऽन्यो भ उच्यते ।
वैशंभल्या च शीभादौ पवर्गे च चतुर्थगः ।। 62 ।।
63
अवाङिति ङकारान्तं नाभिमूर्ध्वं च सर्वदा ।
याच्ञैव च ञकारान्तमुपज्ञु च तथैव च ।। 63 ।।
64
कस्मा उप य रा जाच्च ने नवर्णात्परौ च ये ।
तपूर्वौ तपरौ स्यातां जञावन्यौ गनौ स्मृतौ ।। 64 ।।
65
भूयांस उनन्तशब्दोच्चशंस्तासूर्ध्वोंहोऽतंसयत् ।
उन्नवंशं स्त्रीषसादं सावन्यो मुखोच्चकः ।। 65 ।।
66
आताँसीच्छँसिने शँसन्नासिक्यो दुषदँ सदः ।
शब्दैक्ये रषपूर्वो णो व्योवेतो स्पृषतेः क्वचित् ।। 66 ।।
67
चर्मण् चर्षण् वृषण् शीर्षण् ब्रह्मण्णक्षण्णवग्रहे ।
वाणश्शताणवश्चापि मेण्यादौ प्राकृतश्च णः ।। 67 ।।
68
बस्तपूर्वपरो वृष्णि वृष्णा वृष्णश्च वृष्णियम् ।
रुन्धे हुकः पूर्वाद्यज्ञो विष्णुः कृष्णः क्रमोदितौ ।। 68 ।।
69
अन्तोऽनन्त्यं न वै इन्द्रस्तस्याप्रति न मध्यगम् ।
तार्प्य च रुन्धते त्वेषु दधते स्यात्परत्र तु ।। 69 ।।
70
एकैकस्त्रिवृदाग्नेयं विश्वा युञ्जन्ति चाग्नये ।
त्वं ह्यप वै न देवोर्ध्वे इन्द्रश्रत् पुर आदितः ।। 70 ।।
71
नवान्ये दधते विद्वाँसः साध्याः षडृतवो वै ।
पृथिव्यै जाजायन्तेन्य एष्वतिष्ठन्त इत्यपि ।। 71 ।।
72
कुसुरुबिन्दोऽप्रतिष्ठां च उत्क्रा प्रजापतिर्नव ।
आयुर्वा अन्त आदित्यं प्रजाग्निं तं प्र संततिः ।। 72 ।।
73
धिष्ण्याद्वितीयं च साकं देवस्य स्फयं तु बार्ह च ।
ब्रह्म द्वितीयतृतीये पुरुषं प्रतिपूरुषम् ।। 73 ।।
74
देवा मिथो देवस्याहं च्यवन्ते चैषु तद्विधिः ।
वाग्वा इन्द्रस्त्रिवृद्बर्हिर्नः प्रतिष्ठापयन्ति च ।। 74 ।।
75
विवा एता वप्रतिष्ठां तार्प्यं तृतीयतुर्ययोः ।
संततिर्यस्य युञ्जन्ति तार्प्येणासुर्यमन्तगम् ।। 75 ।।
76
प्रजापतिः शुक्रमादियत्पशुः समर्धयन्ति नः ।
साव्यूर्ध्वं त्र्यहा भवन्ति न प्रत्यङ् पृष्ठ्य आपृथि ।। 76 ।।
77
आद्या वैन्द्रमुक्षाऽऽग्नेयीं तयास्मिन्नप्रथत्परे ।
पूर्वो मेधा यालभन्त ह्यादन्तोऽस्ना भवेच्च नः ।। 77 ।।
78
ते भविष्यन्ति देवासुस्तेभ्यः षड्द्वा परश्च च्छन् ।
इन्द्रोऽगच्छदगच्छन्त्यसौ देवानां नेन्द्रियं तु छन् ।। 78 ।।
79
देवस्य रश, सावित्रं मेध्यानेवैना उच्यते ।
देवानाग्नउ पूर्वं तु समीच्येनान्निरन्तरम् ।। 79 ।।
80
स्यात्ते तास्तान्यथोनत्वं बहुश्रुति दधत्यपि ।
संवत्सरो द्वि साध्यर्तव आदित्याद्वे यथाऽजान् ।। 80 ।।
81
सुवरयाम चादित्याः प्रजापत्याङ्गिरोऽपि चेत् ।
भूत्वा पुरुष दामापि द्यावा शकुनि संश्रितम् ।। 81 ।।
82
तेन ब्रह्मान्तरेणोर्ध्वो हिरण्मयोऽत्र संस्मृतः ।
पारावगत्य बहूनामिवोर्ध्वः समनेऽपि मः ।। 82 ।।
83
वारुणोऽन्ते द्विरेवैनां इमेऽवन्ति च सप्तभिः ।
यजुषाग्नेः पुनः सृष्टीश्चैनां ब्रह्मा तु दीर्घतः ।। 83 ।।
84
पीवोन्नां प्रथमं चैव हरिं प्रथमजां च मः ।
अग्नये नासो, धात्रादि प्रजां वृद्धां च सर्वतः ।। 84 ।।
85
यामिति मुनिकाण्डे चाप्यर्धुकं स्याद्विसर्जयेत् ।
ऐत्वं हित्वा ष्यतोर्ध्वश्चत् अइमध्ये य एकतः ।। 85 ।।
86
निवृश्चत वृश्चतश्च अन्यो वृश्च्यत तेपरः ।
योनिः पुण्यो हवै योनिं तस्माद्गर्भो यजै महै ।। 86 ।।
87
महो य एष, स्य हिस्थ पूर्व ऋत्विय एव यः ।
यदग्ने तु यविष्ठ्यात्र सकारोर्ध्वो न होतयुक् ।। 87 ।।
88
उषसं चामृतं पूर्वे मर्त्यासोऽत्र य उच्यते ।
आकारान्तोरयिष्ठा च अस्तभ्नाद्द्यांदसंयुतम् ।। 88 ।।
89
विराज्येप्रत्यसद्देवा संवत्सर्तुविवै परः ।
मर्तेष्वयोग्निरूर्ध्वे तु पूर्वश्चाद्युच्चमिङ्ग्यगम् ।। 89 ।।
90
अन्तोदात्त सुवर्गश्च लोकशब्दपरेऽपि वा ।
वीर्यस्य नस्य चानात्यै राध्नुवन्त्यप्यरेफता ।। 90 ।।
91
युक्तोत्तमाच्च पूर्वं तु शब्दैक्ये नाऽनुनासिकः ।
मनोजयदु यत्पञ्च त्रयस्त्रिंशत् परोऽनुदत् ।। 91 ।।
92
आद्युदात्ते तथेङ्ग्यस्थे द्वित्वं वात्र ग्रहे गरौ ।
तव्याः ष्योर्ध्वेऽप्यृकारान्ते न मेधपतिसोत्तरे ।। 92 ।।
93
एवैनं च पतिं साक्षात्ताभिरन्तं मुखं तथा ।
ऋतेन मुखतः पूर्वो र स्यादारभतेऽन्वपि ।। 93 ।।
94
अगौः पूर्वे तु यज्ञं चान्वात्मानं वत्सरं तथा ।
यज्ञेनोर्ध्वो गृहीत्वा स्वात्तोर्ध्व आरभ्य रेफगः ।। 94 ।।
95
नरन् रभेत्वनारब्धोऽस्य प्रक्ष्यः प्रवतापि च ।
पशुमादित्रयं प्रक्षो देवा होत्रा च रोऽसमः ।। 95 ।।
96
अतप्यतपरः सोमश्चाद्याः पञ्च रुण्यतरः ।
सूर्यादित्यपयोधाता दूरादपि च सौर्यरः ।। 96 ।।
97
एक मैत्र जुहोत्यूर्ध्वो नाङ्ग्ध्यूर्ध्वो जरितार च ।
नासिक्यलत्वमध्ये वोऽन्यंव्लीनासंव्लियाय च ।। 97 ।।
98
दीर्घ प्रजावतीर्वश्च नक्षैकावं ग्रहावहै ।
त्रिसप्तग्राम्याः पशवो वस्व्यथैकात्रिवृत्परः ।। 98 ।।
99
स्वे भवेद्यतने धेये स्तोमे योनावृतौपरः ।
स्वया देवतयेत्यत्र ह्यैकारान्तः प्रकीर्तितः ।। 99 ।।
100
कषचाषजषाशब्दाः चषाल्ममाषवाजकः ।
षाट् चानवर्ण पूर्वः षण् नदकोर्ध्वो यथा मषम् ।। 100 ।।
101
सख्या श्रेष्ठः पदे स स्यादिध्यसेऽत्र स उच्यते ।
योऽसौ, चतुःससर्वेषां ; यद्यश्वा[प] समर्धयत् ।। 101 ।।
102
वीते एव च ते; ग्नीतौ अमीसामेव सेत्यपि ।
सत्रं केन वैपर्यन्तं एकसंख्याद्वयात्रयुक् ।। 102 ।।
103
छन्दो; देवा सुरास्तेन पूर्वं वृष्टिसनीः पशुः ।
यथाधत्त तृतीयान्ता यथावै मान्त वान्त च ।। 103 ।।
104
यत्पत्न्यादीन्द्र इष्टर्गो यजुषा छन्द इत्यपि ।
नो भ्रातृव्यस्य वृङ्क्ते स्यादात्मन् यज्ञस्य सं पच ।। 104 ।।
105
देवासुराब्रुवन्नादौ तथा दधत कीर्तितम् ।
सर्वा वयो वै ज्योतिष्मः कुरुते देवकद्रविण् ।। 105 ।।
106
तेऽस्मात् सृष्टाश्च नर्क्षैनान् पशून्परः पतिः पशून् ।
यावैतन्मेदपूर्वेद्युर्यज्ञं च मनसातनु ।। 106 ।।
107
तं सृप्र सोऽबिभेत्सोऽस्मात् सोऽश्वोऽग्निमसृजापि च ।
यशसर्तुक्षुरचिनुत पृथिव्यग्न्यचिकीषत ।। 107 ।।
108
अनुजावरं परं चैन्द्रं राजानं सोममेव च ।
सा सृष्टाश्वविराजं च सोऽग्निं च पुरुषं तथा ।। 108 ।।
109
स इन्द्रं तत्परो देवा सुरानिति च कीर्तितम् ।
सोऽस्मात्तं सृष्टमित्यस्मिन्नश्वमेधं परे तथा ।। 109 ।।
110
अग्निहोत्रं परे यज्ञान् देवान्ते पाप्मना परः ।
विश्वकर्मात ऊर्ध्वं तु व्यानं मध्यं परोंऽशुना ।। 110 ।।
111
न कस्त्वा वाक्यवद् ग्रन्थे न स्वाहोर्ध्वैकवाक्यके ।
प्रजा त्रिवृत् वसीयान् स्यात् पूर्वं तु स्वयमुत्तरा ।। 111 ।।
112
प्रदशहोतारं तेन द्वादशासुरपूर्वकम् ।
प्रान्याऽमुंपूर्वमम्भांसि सविता द्वयमध्यगम् ।। 112 ।।
113
अग्निद्वितीयतृतीये देवाश्चैवंपरद्वयम् ।
यावती प्रथमे तुर्ये यदेकेनादिगत्रयम् ।। 113 ।।
114
भूमिरादिद्वयं चास्मिंश्चामुष्मिँश्चेति सर्वतः ।
अन्त्यं तु ज्योतिरापो वा इमे वा एत एव च ।। 114 ।।
115
प्रजापती रक्षांस्येवप्रजापतिर्नवैषु च ।
आदौ नयति वित्तान्ववाणुशःशोयुनक्त्यमन् ।। 115 ।।
116
दर्भास्यास्माद्विशानीममब्राह्मण इति त्वतः ।
द्विरुद्वयस्यपस्याश्वसदृशत्रयमध्यगः ।। 116 ।।
117
द्वितीय ससृवांसोऽवधत्तामुत्तमं जुहुयात् ।
वेत्वाहाऽहंत्रिस्ते नन्दा आह्वयता च दिश्यति ।। 117 ।।
118
उत्तमए इकारान्ता रेफाच्च वर्णतः क्रमात् ।
व्युत्क्रमावस्यवान्या यत्सुभगा ददतु प्रियम् ।। 118 ।।
119
घृतभूतकृतावोच्च पृथिवीत्वारदब्रुवन् ।
रात्र्यस्यत्यत्यहश्चन्द्र वा योनिर्नवैष्यथः ।। 119 ।।
120
एतेनोक्तं न्यदाग्नेयः पशवोनो विचारथ ।
प्राणममृत आदित्यः सतनूपसृपानुवि ।। 120 ।।
121
तस्मा एत मवाचस्त्वा सजाता ह्याय चातिथिः ।
जुषन्तां पुष्कलेभिश्च स्यातां जीवांश्च तेजसा ।। 121 ।।
122
तेदक्षन्त पुरोडाशं दिशोऽस्माकं च दुष्करम् ।
विष्णोष्टभ्नाच्च दाधर्थ निर्घ्नन्ति यामि चेमि चेत् ।। 122 ।।
123
मये हनिधिना चोग्रमन्यस्तिग्मं च मष्मषा ।
पिप्रतोथो अधीयीत परिदत्तादमं फला ।। 123 ।।
124
द्विविषाद्यपिधानं च रोहोर्ध्वो, यजमान अत् ।
[दिशोऽस्माकं स्तवानि यत् सुभगा र्धूर्ददत्वपि ।
घृतभूतकृतावोच्चैः पृथिव्यै त्वारदब्रुवन् ।।
रात्रियास्यत्यहश्चन्द्रा वा योनिर्न उपैष्यथ ।
तस्मा एत मवाचस्त्वा सजाता ह्याय चातिथिः ।।
एते तस्यान्यदाग्नेयः पशवो न तथा विचि ।
अधरामृत आदित्यसतनूपसृष्ठानुवि ।।
जुषन्तां पुष्कलेभ्येजज्जीवानस्माकं मामित ।
मयेह निधनोग्रमन्यस्तिग्मेन च मष्मषा ।।
विष्णोऽष्टभ्नाच्च दाधर्थ निर्घ्नन्ति यामि चेमि च ।
ते दक्षन्त पुरोडाशं पिधानमसि दुष्करम् ।।
पिप्रतोऽथोऽप्यधीयीत परिदत्तादिदं फला ।
तेजसाऽस्मै च संयन्तु अविग्राहं च विष्यताम् ।।
परस्तादविषादी च अणुभिर्भासि रोह च ।
आसादयेदासवित्रे सशीर्ष्णा ह्याशिषोऽस्म च ।।]
एवेति ह विसर्गौ च मध्ये चान्तेवयोप्युशन् ।। 124 ।।
125
देवा इन्द्रिय इदं वा इन्द्रोवृत्रा प्रकेतुना ।
या वां च पवमानोऽयं वावतृतीय इत्यपि ।। 125 ।।
126
द्वितीये तु प्रदेवं हि देवीः, प्राचीन, चैव चेत् ।
समिद्धो अग्निः संक्रूरं सुवर्दाक्षि च नान्यतः ।। 126 ।।
127
वैपरीत्यं वषट्कारः परा वैश्वानरोऽग्नये ।
देवस्याहं, च सर्वाणि, वयोघ्नन्ति नवापरः ।। 127 ।।
128
एकादशाग्निष्टोमं च ब्रह्म किं चैष वै विभूः ।
वास्तोरिन्द्रं चोपहूतं पूर्वं होताग्निमेव च ।। 128 ।।
129
प्रजापतेस्त्रयं सत्यं देवसवितर्यज्ञ एव च ।
ऋध्यते नीत आहुर्यो विश्व तद्धि सुवर्ग च ।। 129 ।।
130
चैनास्तास्वति छन्दांसि त्वपां नान्त्यं पशुष्वपि ।
देविका एतएवेति; संपैवैनास्तु माध्रुवा ।। 130 ।।
131
आत्पूर्वसमिधः; श्रोत्रं दाविधृतिः; र्वसिष्ठ तैः ।
त्वं सोन्ते तव मय्येषा त्वं सर्वः च ध्रुवोऽसि प्रिः ।। 131 ।।
132
यत्स्थले यादृशः शब्दः तादृशः परिकीर्तितः ।
विभक्तिलिङ्गरूपैश्च वर्णा ज्ञेया विचक्षणैः ।। 132 ।।
133
क्रम इंग्यः च कण्ठोक्ति यजुरादि पदद्वयम् ।
पदसांख्यं वर्णसांख्यमवधानाष्टकं बुधैः ।। 133 ।।
134
यो जानाति भरद्वाजशिक्षामर्थसमन्विताम् ।
स ब्रह्मलोकमाप्नोति गृहमेधी गृहं यथा ।। 134 ।।
।। भारद्वाजशिक्षा समाप्ता ।।

Written by Shyam Joshi

ज्योतिष आचार्य अभ्यासक- प्राचीन इतिहास व कर्मकांड संशोधक वैदिक शास्त्र व आधुनिक विज्ञान संस्थापक - अथातो ब्रह्म जिज्ञासा

Leave a Reply