ब्रह्मज्ञानावलीमाला

ग्रंथालय  > भारतीय षट् दर्शन Posted at 2016-05-03 14:36:21
ब्रह्मज्ञानावलीमाला सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत । ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥१॥ असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः । सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ॥२॥ नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः । भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः ॥३॥ नित्योऽहं निरवद्योऽहं निराकारोऽहमच्युतः परमानन्दरूपोऽहमहमेवाहमव्ययः ॥४॥ शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च । अखण्डानन्दरूपोऽहमहमेवाहमव्ययः ॥५॥ प्रत्यकचैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः । शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः ॥६॥ तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः । मायातीतः परं ज्योतिरहमेवाहमव्ययः ॥७॥ नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः । सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥८॥ मायातत्कार्यदेहादि मम नास्त्येव सर्वदा । स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥९॥ गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् । अनन्तानन्दरूपोऽहमहमेवाहमव्ययः ॥१०॥ अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् । परमात्मस्वरूपोऽहमहमेवाहमव्ययः ॥११॥ निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः । अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥१२॥ द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः । सर्वासाक्षिस्वरूपोऽहमहमेवाहमव्ययः ॥१३॥ प्रज्ञानघन एवाहं विज्ञानघन एव च । अकर्ताहमभोक्ताहमहमेवाहमव्ययः ॥१४॥ निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च । आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥१५॥ तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः । अवस्थात्रयसाक्ष्यस्मि ह्यहमेवाहमव्ययः ॥१६॥ दृग्दृश्यौ द्दौ पदार्थो स्तः परस्परविलक्षणौ ॥ दृग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः ॥१७॥ अहं साक्षीति यो विद्याद्दिविच्यैवं पुनः पुनः । स एव मुक्तः सन् विद्दानिति वेदान्तडिण्डिमः ॥१८॥ घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च । तद्वद्‌ ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥१९॥ ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः । अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः ॥२०॥ अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः । ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ॥२१॥

Search

Search here.