चाक्षुषोपनिषत्

ग्रंथालय  > उपनिषद Posted at 2016-11-17 13:36:00
​हे चाक्षुष उपनिषद आहे . याला कोणी नेत्र उपनिषद असे सुद्धा म्हणतात .. नेत्र विकार बरे होण्यासाठी याचे पठण अत्यंत फलदायी आहे . या स्तोत्राच्या पठणाने नेत्रविकार दूर होऊन उत्तम दृष्टी प्राप्त होते . याच्या अनुष्ठानाने विशेष सिद्धी किंवा दिव्य दृष्टी सुद्धा प्राप्त होते असा उल्लेख आहे . ( येथे दिव्य दृष्टी म्हणजे इतर सर्वांहून चांगली स्वच्छ दृष्टी असा घ्यावा. तसेच व्यवहारातील काही गोष्टी आपोआप आधी समजणे क्साइनवा त्यांचा संकेत मिळणे असा सुद्धा अर्थ होतो . अर्थात यासाठी आपले आचरण विचार आहार हे शुद्ध सात्विक असावेत )  ॥ चाक्षुषोपनिषत् नेत्रोपनिषत् च ॥  अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामो यया चक्षूरोगाः सर्वतो नश्यन्ति चक्षुषो दीप्तिर्भवति । अस्याश्वक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः । अस्याचाक्षुषविद्याया गायत्री छंदः । सूर्योदेवता । सवितादेवता चक्षूरोगनिवृत्तये विनियोगः । ॐ चक्षुश्चक्षुश्चक्षुश्तेजस्थिरोभव । मां पाहि पाहि । त्वरितम् चक्षूरोगान् शमय शमय । त्वरितं ममाजातरूपं तेजो दर्शय दर्शय । यथाहमंधोनस्यां तथा कल्पय कल्पय । कल्याण कुरु कुरु । यानि यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । दिव्याय भास्कराय ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय । करुणाकराय ॐ नमो भगवते सूर्याय अक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः । हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति । न तस्य कुले अंधो भवति । न तस्य कुलेऽंधो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति । ॐ विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपंतं सहस्ररश्मिभिः शतधावर्तमानः पुरःप्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते आदित्याय अवाग्वादिने स्वाहा ।  चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः । चक्षुर्धाता दधातु नः । चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्ये तनूच्यः । संचेदं विच पश्येम । सुसंदृशंत्वा वयं प्रति पश्येम सूर्य । विपश्येम नृचक्षसः ॥ 

Search

Search here.