गणपतिस्तवः

स्तोत्र - मंत्र  > गणेश स्तोत्र Posted at 2016-02-09 16:22:46
गणपतिस्तवः । श्रीगणेशाय नमः ॥ ऋषिरुवाच ॥ अजं निर्विकल्पं निराहारमेकं निरानन्दमानंदमद्वैतपूर्णम् ॥ परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम् ॥१॥ गुणातीतमानं चिदानंदरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ॥ मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेश भजेम् ॥२॥ जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गुणेशं गणेशम् ॥ जगद्व्यापिनं विश्ववंद्यं सुरेशं परब्रह्मरूपं गणेशं भजेम् ॥३॥ रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं ह्रदाऽचिंत्यरूपम् ॥ जगत्कारणं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नताः स्मः ॥४॥ सदा सत्ययोग्यं मुदा क्रीडमानं सुरारी न्हरंतं जगत्पालयंतम् ॥ अनेकावतारं निजज्ञानहारं सदा विश्वरूपं गणेशं नमामः ॥५॥ तपोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ॥ अनेकागमैः स्वं जनं बोधयंतं सदा सर्वरूपं गणेशं नमामः ॥६॥ नमः स्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् ॥ मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥७॥ निजैरोषधीस्तर्पयंतं कराद्यैः सुरौघान्कलाभिः सुधास्त्राविणीभिः ॥ दिनेशांशुसंतापहारं द्विजेशं शशांकस्वरूप गणेशं नमामः ॥८॥ अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥९॥ प्रधानस्वरूपं महत्तत्वरूपं धराचारिरूपं दिगीशादिरूपम् ॥ असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्वरूपं गणेशं नताः स्मः ॥१०॥ त्वदीये मनः स्थापयेदंघ्रियुग्मे स नो विघ्नसंघातपीडां लभेत ॥ लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वांतपीडा कथं वा लभेत ॥११॥ वयं भ्रामिताः सर्थथाऽज्ञानयोगादलब्धास्तवांघ्रि बहून्वर्षपूगान् ॥ इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥१२॥ एवं स्तुतो गणेशस्तु संतुष्टोऽभून्महामुने ॥ कृपया परयोपेतोऽभिधातुमुपचक्रमे ॥१३॥ इति श्रीमद्‌गर्गमहर्षिप्रणीतो गणपतिस्तवः सम्पूर्णः ।

Search

Search here.