गुरू अष्टोत्तरशतनाम स्तोत्र

नामावली  > नवग्रह नामावली Posted at 2018-11-07 10:15:02
॥ गुरू अष्टोत्तरशतनाम स्तोत्र ॥ गुरु बीज मन्त्र -- ॥ ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः ॥ गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः । गुणी गुणवतांश्रेष्ठो गुरूणाङ्गुरुरव्ययः ॥ १॥ जेता जयन्तो जयदो जीवोऽनन्तो जयावहः । आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ २॥ वाचस्पतिर् वशी वश्यो वरिष्ठो वाग्विचक्षणः । चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥ ३॥ बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः । सुराचार्यः सुराराध्यः सुरकार्यहितंकरः ॥ ४॥ गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः । धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥ ५॥ धनुर्धरो दैत्यहन्ता दयासारो दयाकरः । दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥ ६॥ धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः । आङ्गीरसाब्दसञ्जातो आङ्गीरसकुलसम्भवः ॥ ७ ॥ आङ्गीरसकुलोद्भवः सिन्धुदेशाधिपो धीमान् हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥ ८॥ पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः । काशपुष्पसमानाभः कलिदोषनिवारकः ॥ ९॥ इन्द्रादिदेवोदेवेषो देवताभीष्टदायकः । असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥ १०॥ भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः । धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥ ११॥ सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः । सर्वपापप्रशमनः स्वमतानुगतामरः ॥ १२॥ ऋग्वेदपारगोऋक्ष राशिमार्गप्रचारकः । सदानन्दः सत्यसन्धः सत्यसंकल्पमानसः ॥ १३॥ सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः । ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥ १४॥ समानाधिकनिर्मुक्तः सर्वलोकवशंवदः । ससुरासुरगन्धर्ववन्दितः सत्यभाषणः ॥ १५॥ नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः । नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥ १६॥ सदानन्द नमस्तेस्तु नमः पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥ १७॥ नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः । नमः प्रकृष्टनेत्राय विप्राणाम्पतये नमः ॥ १८॥ नमो भार्गवषिष्याय विपन्नहितकारिणे । नमस्ते सुरसैन्यानांविपत्छिद्रानकेतवे ॥ १९॥ बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः । लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥ २०॥ सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः । अक्रोधनो मुनिश्रेष्ठो दीप्तिकर्ता जगत्पिता ॥ २१॥ विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः । भूर्भुवोधनदासाजभक्ताजीवो महाबलः ॥ २२॥ बृहस्पतिः काष्यपेयो दयावान् षुभलक्षणः । अभीष्टफलदः श्रीमान् सुभद्गर नमोस्तु ते ॥ २३॥ बृहस्पतिस्सुराचार्यो देवासुरसुपूजितः । आचार्योदानवारिष्ट सुरमन्त्री पुरोहितः ॥ २४॥ कालज्ञः कालऋग्वेत्ता चित्तदश्च प्रजापतिः । विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥ २५॥ ॥ इति गुर्वाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Search

Search here.