गुरू पादुका स्तोत्र

स्तोत्र - मंत्र  > श्री सद्‌गुरु स्तोत्र Posted at 2018-10-27 15:22:24
श्रीगुरुपादुकास्तोत्रम् नालीकनीकाशपदादृताभ्यां नारीविमोहादिनिवारकाभ्याम् । नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥१॥ शमादिषट्कप्रदवैभवाभ्यां समाधिदानव्रतदीक्षिताभ्याम् । रमाधवांघ्रि स्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥२॥ नृपालिमौलिव्रजरत्नकान्ति- सरिद्विराजज्झषकन्यकाभ्याम् । नृपत्वदाभ्यां नतलोकपंक्तेः नमो नमः श्रीगुरुपादुकाभ्याम् ॥३॥ अनन्तसंसारसमुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् । वैराग्यसाम्राज्यदपूजनाभ्या नमो नमः श्रीगुरुपादुकाभ्याम् ॥४॥ पापान्धकारार्कपरम्पराभ्यां तापत्रयाहीन्द्रखगेश्वराभ्याम् । जाड्याब्धिसंशोषणबाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥५॥ कवित्ववाराशिनिशाकराभ्यां दारिद्र्‌यदावाम्बुधिमालिकाभ्याम् । दूरीकृतानम्रविपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥६॥ नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः । मूकश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥७॥ कामादिसर्पव्रजभञ्जकाभ्या विवेकवैराग्यनिधिप्रदाभ्याम् । बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥८॥ स्वार्चापराणामखिलेष्टदाभ्या स्वाहासहायाक्षधुरंधराभ्याम् । स्वान्ताच्छभावप्रदपूजनाभ्यां ॥इति श्रीगुरुपादुकास्तोत्रम्॥

Search

Search here.