हठ योग घेरंड संहिता

ग्रंथालय  > भारतीय षट् दर्शन Posted at 2016-08-10 10:43:57
हठ योग घेरंड संहिता <१.०।१> आदीश्वराय प्रणनामि तस्मै ! <१.०।२> येनोपदिष्टा हठयोगविद्या ! <१.०।३> विराजते प्रोन्नतराजयोगम् ! <१.०।४> आरोढुमिच्छोरधिरोहिणीव !!१.०! <१.१।१> एकदा चण्डकापालिर्गत्वा घेरण्डकुट्टिरम् ! <१.१।२> प्रणम्य विनयाद्भक्त्या घेरण्डं परिपृच्छ्हति !!१.१! <१.२।१> चण्डकापालिरुवाच घटस्थयोगं योगेश तत्त्वज्ञानस्य कारणम् ! <१.२।२> इदानीं श्रोतुमिच्छामि योगेश्वर वद प्रभो !!१.२! <१.३।१> घेरण्ड उवाच साधु साधु महाबाहो यन्मां त्वं परिपृच्छसि ! <१.३।२> कथयामि हि ते तत्त्वं सावधानोऽवधारय !!१.३! <१.४।१> नास्ति मायासमः पाशो नास्ति योगात्परं बलम् ! <१.४।२> न हि ज्ञानात्परो बन्धुर्नाहंकारात्परो रिपुः !!१.४! <१.५।१> अभ्यासात्कादिवर्णादेर्यथा शास्त्राणि बोधयेत्! <१.५।२> तथा योगं समासाद्य तत्त्वज्ञानं च लभ्यते !!१.५! <१.६।१> सुकृतैर्दुष्कृतैः कार्यैर्जायते प्राणिनां घटः ! <१.६।२> घटादुत्पद्यते कर्म घटयन्त्रं यथा भ्रमेत्!!१.६! <१.७।१> ऊर्ध्वाधो भ्रमते यद्वद्घटयन्त्रं गवां वशात्! <१.७।२> तद्वत्कर्मवशाज्जीवो भ्रमते जन्ममृत्युना !!१.७! <१.८।१> आमकुम्भ इवाम्भःस्थो जीर्यमाणः सदा घटः ! <१.८।२> योगानलेन संदह्य घटशुद्धिं समाचरेत्!!१.८! <१.९।१> शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम् ! <१.९।२> प्रत्यक्षं च निर्लिप्तं च घतस्थं सप्तसाधनम् !!१.९! <१.१०।१> षट्कर्मणा शोधनं च आसनेन भवेद्दृढम् ! <१.१०।२> मुद्रया स्थिरता चैव प्रत्याहारेण धैर्यता !!१.१०! <१.११।१> प्राणायामाल्लाघवं च ध्यानात्प्रत्यक्षमात्मनि ! <१.११।२> समाधिना निर्लिप्तं च मुक्तिरेव न संशयः !!१.११! <१.१२।१> धौतिर्वस्तिस्तथा नेतिर्लौलिकी त्राटकं तथा ! <१.१२।२> कपालभातिश्चैतानि षट्कर्माणि समाचरेत्!!१.१२! <१.१३।१> अन्तर्धौतिर्दन्तधौतिर्हृद्धौतिर्मूलशोधनम् ! <१.१३।२> धौत्यश्चतुर्विधा प्रोक्ता घटं कुर्वन्ति निर्मलम् !!१.१३! <१.१४।१> वातसारं वारिसारं वह्निसारं बहिष्कृतम् ! <१.१४।२> घटस्य निर्मलार्थाय ह्यन्तर्धौतिश्चतुर्विधा !!१.१४! <१.१५।१> काकचञ्चूवदास्येन पिबेद्वायुं शनैः शनैः ! <१.१५।२> चालयेदुदरं पश्चाद्वर्त्मना रेचयेच्छनैः !!१.१५! <१.१६।१> वातसारं परं गोप्यं देहनिर्मलकारकम् ! <१.१६।२> सर्वरोगक्षयकरं देहानलविवर्धकम् !!१.१६! <१.१७।१> आकण्ठं पूरयेद्वारि वक्त्रेण च पिबेच्छनैः ! <१.१७।२> चालयेदुदरेणैव चोदराद्रेचयेदधः !!१.१७! <१.१८।१> वारिसारं परं गोप्यं देहनिर्मलकारकम् ! <१.१८।२> साधयेद्यः प्रयत्नेन देवदेहं प्रपद्यते !!१.१८! <१.१९।१> वारिसारं परां धौतिं साधयेद्यः प्रयत्नतः ! <१.१९।२> मलदेहं शोधयित्वा देवदेहं प्रपद्यते !!१.१९! <१.२०।१> नाभिग्रन्थिं मेरुपृष्ठे शतवारं च कारयेत्! <१.२०।२> उदरामयजं त्यक्त्वा जाठराग्निं विवर्धयेत्! <१.२०।३> वह्निसारमियं धौतिर्योगिनां योगसिद्धिदा !!१.२०! <१.२१।१> एषा धौतिः परा गोप्या न प्रकाश्या कदाचन ! <१.२१।२> केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् !!१.२१! <१.२२।१> काकीमुद्रां साधयित्वा पूरयेदुदरं महत्! <१.२२।२> धारयेदर्धयामं तु चालयेदधवर्त्मना ! <१.२२।३> एषा धौतिः परा गोप्या न प्रकाश्या कदाचन !!१.२२! <१.२३।१> नाभिमग्नजले स्थित्वा शक्तिनाडीं विमर्जयेत्! <१.२३।२> काराभ्यां क्षालयेन्नाडीं यावन्मलविसर्जनम् !!१.२३! <१.२४।१> तावत्प्रक्षाल्य नाडीं च उदरे वेशयेत्पुनः ! <१.२४।२> इदं प्रक्षालनं गोप्यं देवानामपि दुर्लभम् ! <१.२४।३> केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् !!१.२४! <१.२५।१> यामार्धधारणाशक्तिं यावन्न साधयेन्नरः ! <१.२५।२> बहिष्कृतं महाधौती तावन्नैव तु जायते !!१.२५! <१.२६।१> दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः ! <१.२६।२> कपालरन्ध्रं पञ्चेति दन्तधौतिर्विधीयते !!१.२६! <१.२७।१> खदिरेण रसेनाथ मृत्तिकया च शुद्धया ! <१.२७।२> मार्जयेद्दन्तमूलं च यावत्किल्बिषमाहरेत्!!१.२७! <१.२८।१> दन्तमूलं परा धौतिर्योगिनां योगसाधने ! <१.२८।२> नित्यं कुर्यात्प्रभाते च दन्तरक्षाय योगवित्! <१.२८।३> दन्तमूलं धारणादि कार्येषु योगिनां यतः !!१.२८! <१.२९।१> अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम् ! <१.२९।२> जरामरणरोगादीन्नाशयेद्दीर्घलम्बिका !!१.२९! <१.३०।१> तर्जनीमध्यमानामा अङ्गुलित्रययोगतः ! <१.३०।२> वेशयेद्गलमध्ये तु मार्जयेल्लम्बिकामलम् ! <१.३०।३> शनैः शनैर्मार्जयित्वा कफदोषं निवारयेत्!!१.३०! <१.३१।१> मार्जयेन्नवनीतेन दोहयेच्च पुनः पुनः ! <१.३१।२> तदग्रं लौहयन्त्रेण कर्षयित्वा पुनः पुनः !!१.३१! <१.३२।१> नित्यं कुर्यात्प्रयत्नेन रवेरुदयके श्तके ! <१.३२।२> एवं कृते तु नित्ये च लम्बिका दीर्घतां गता !!१.३२! <१.३३।१> तर्जन्यङ्गुल्यग्रयोगान् मार्जयेत्कर्णरन्ध्रयोः ! <१.३३।२> नित्यमभ्यासयोगेन नादान्तरं प्रकाशनम् !!१.३३! <१.३४।१> वृद्धाङ्गुष्ठेन दक्षेण मर्दयेद्भालरन्ध्रकम् ! <१.३४।२> एवमभ्यासयोगेन कफदोषं निवारयेत्!!१.३४! <१.३५।१> नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते ! <१.३५।२> निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने !!१.३५! <१.३६।१> हृद्धौतिं त्रिविधां कुर्याद्दण्डवमनवाससा !!१.३६! <१.३७।१> रम्भादण्डं हरिद्दण्डं वेत्रदण्डं तथैव च ! <१.३७।२> हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच्छनैः !!१.३७! <१.३८।१> कफपित्तं तथा क्लेदं रेचयेदूर्ध्ववर्त्मना ! <१.३८।२> दण्डधौतिविधानेन हृद्रोगं नाशयेद्ध्रुवम् !!१.३८! <१.३९।१> भोजनान्ते पिबेद्वारि आकर्णपूरितं सुधीः ! <१.३९।२> ऊर्ध्वदृष्टिं क्षणं कृत्वा तज्जलं वमयेत्पुनः ! <१.३९।३> नित्यमभ्यासयोगेन कफपित्तं निवारयेत्!!१.३९! <१.४०।१> एकोनविंशतिः हस्तः पञ्चविंशति वै तथा ! <१.४०।२> चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रसेत्! <१.४०।३> पुनः प्रत्याहरेदेतत्प्रोच्यते धौतिकर्मकम् !!१.४०! <१.४१।१> गुल्मज्वरप्लीहाकुष्ठ कफपित्तं विनश्यति ! <१.४१।२> आरोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने !!१.४१! <१.४२।१> अपानक्रूरता तावद्यावन्मूलं न शोधयेत्! <१.४२।२> तस्मात्सर्वप्रयत्नेन मूलशोधनमाचरेत्!!१.४२! <१.४३।१> पीतमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा ! <१.४३।२> यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुनः !!१.४३! <१.४४।१> वारयेत्कोष्ठकाठिन्यमामाजीर्णं निवारयेत्! <१.४४।२> कारणं कान्तिपुष्ट्योश्च दीपनं वह्निमण्डलम् !!१.४४! <१.४५।१> जलवस्तिः शुष्कवस्तिर्वस्ती च द्विविधौ स्मृतौ ! <१.४५।२> जलवस्तिं जले कुर्याच्छुष्कवस्तिं क्षितौ सदा !!१.४५! <१.४६।१> नाभिमग्नजले पायु न्यस्तनालोत्कटासनः ! <१.४६।२> आकुञ्चनं प्रकाशं च जलवस्तिं समाचरेत्!!१.४६! <१.४७।१> प्रमेहं च गुदावर्तं क्रूरवायुं निवारयेत्! <१.४७।२> भवेत्स्वच्छन्ददेहश्च कामदेवसमो भवेत्!!१.४७! <१.४८।१> वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः ! <१.४८।२> अश्विनीमुद्रया पायुमाकुञ्चयेत्प्रकाशयेत्!!१.४८! <१.४९।१> एवमभ्यासयोगेन कोष्ठदोषो न विद्यते ! <१.४९।२> विवर्धयेज्जाठराग्निमामवातं विनाशयेत्!!१.४९! <१.५०।१> वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत्! <१.५०।२> मुखान्निर्गमयेत्पश्चात्प्रोच्यते नेतिकर्मकम् !!१.५०! <१.५१।१> साधनान्नेतिकर्मापि खेचरीसिद्धिमाप्नुयात्! <१.५१।२> कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजायते !!१.५१! <१.५२।१> अमन्दवेगं तुन्दं च भ्रामयेदुभपार्श्वयोः ! <१.५२।२> सर्वरोगान्निहन्तीह देहानलविवर्धनम् !!१.५२! <१.५३।१> निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत्! <१.५३।२> यावदश्रू निपतते त्राटकं प्रोच्यते बुधैः !!१.५३! <१.५४।१> एवमभ्यासयोगेन शांभवी जायते ध्रुवम् ! <१.५४।२> न जायते नेत्ररोगः दिव्यदृष्टिप्रदायकम् !!१.५४! <१.५५।१> वामक्रमेण व्युत्क्रमेण शीत्क्रमेण विशेषतः ! <१.५५।२> भालभातिं त्रिधा कुर्यात्कफदोषं निवारयेत्!!१.५५! <१.५६।१> इडया पूरयेद्वायुं रेचयेत्पिङ्गला पुनः ! <१.५६।२> पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत्!!१.५६! <१.५७।१> पूरकं रेचकं कृत्वा वेगेन न तु चालयेत्! <१.५७।२> एवमभ्यासयोगेन कफदोषं निवारयेत्!!१.५७! <१.५८।१> नासाभ्यां जलमाकृष्य पुनर्वक्त्रेण रेचयेत्! <१.५८।२> पायं पायं प्रकुर्वंश्चेच्छ्लेष्मदोषं निवारयेत्!!१.५८! <१.५९।१> शीत्कृत्य पीत्वा वक्त्रेण नासानलैर्विरेचयेत्! <१.५९।२> एवमभ्यासयोगेन कामदेवसमो भवेत्!!१.५९! <१.६०।१> न जायते वार्द्धकं च ज्वरो नैव प्रजायते ! <१.६०।२> भवेत्स्वच्छन्ददेहश्च कफदोषं निवारयेत्!!१.६०! <१.६१।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे षट्कर्मसाधनं नाम प्रथमोपदेशः !!१! ]] <२.१।१> घेरण्ड उवाच <२.१।११> आसनानि समस्तानि यावन्तो जीवजन्तवः ! <२.१।२> चतुरशीति लक्षाणि शिवेन कथितं पुरा !!२.१! <२.२।१> तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम् ! <२.२।२> तेषां मध्ये मर्त्यलोके द्वात्रिंशदासनं शुभम् !!२.२! <२.३।१> सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम् ! <२.३।२> सिंहं च गोमुखं वीरं धनुरासनमेव च !!२.३! <२.४।१> मृतं गुप्तं तथा मात्स्यं मत्स्येन्द्रासनमेव च ! <२.४।२> गोरक्षं पश्चिमोत्तानमुत्कटं संकटं तथा !!२.४! <२.५।१> मयूरं कुक्कुटं कूर्मं तथा उत्तानकूर्मकम् ! <२.५।२> उत्तानमण्डुकं वृक्षं मण्डूकं गरुडं वृषम् !!२.५! <२.६।१> शलभं मकरं चोष्ट्रं भुजंगं च योगासनम् ! <२.६।२> द्वात्रिंशदासनान्येव मर्त्यलोके च सिद्धिदा !!२.६! <२.७।१> योनिस्थानकमङ्घ्रिमूलघटितं संपीड्य गुल्फेतरं ! <२.७।११> मेढ्रोपर्यथ संनिधाय चिबुकं कृत्वा हृदि स्थापितम् ! <२.७।२> स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरे ! <२.७।३> एतन्मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते !!२.७! <२.८।१> वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा ! <२.८।११> दक्षोरूपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् ! <२.८।२> अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेद् ! <२.८।३> एतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते !!२.८! <२.९।१> गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ॰ ! <२.९।२> पादाङ्गुष्ठौ कराभ्यां च धृत्वा च पृष्ठदेशतः !!२.९! <२.१०।१> जालंधरं समासाद्य नासाग्रमवलोकयेत्! <२.१०।२> भद्रासनं भवेदेतत्सर्वव्याधिविनाशकम् !!२.१०! <२.११।१> पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि ! <२.११।२> शिरोग्रीवासमे काये मुक्तासनं तु सिद्धिदम् !!२.११! <२.१२।१> जङ्घयोर्वज्रवत्कृत्वा गुदपार्श्वे पदावुभौ ! <२.१२।२> वज्रासनं भवेदेतद्योगिनां सिद्धिदायकम् !!२.१२! <२.१३।१> जानूर्वोरन्तरे कृत्वा योगी पादतले उभे ! <२.१३।२> ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते !!२.१३! <२.१४।१> गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ ! <२.१४।२> चितिमूलौ भूमिसंस्थौ करौ च जानुनोपरि !!२.१४! <२.१५।१> व्यात्तवक्त्रो जलंध्रेण नासाग्रमवलोकयेत्! <२.१५।२> सिंहासनं भवेदेतत्सर्वव्याधिविनाशकम् !!२.१५! <२.१६।१> पादौ भूमौ च संस्थाप्य पृष्ठपार्श्वे निवेशयेत्! <२.१६।२> स्थिरकायं समासाद्य गोमुखं गोमुखाकृति !!२.१६! <२.१७।१> एकपादमथैकस्मिन् विन्यसेदूरुसंस्थितम् ! <२.१७।२> इतरस्मिंस्तथा पश्चाद्वीरासनमितीरितम् !!२.१७! <२.१८।१> प्रसार्य पादौ भुवि दण्डरूपौ ! <२.१८।११> करौ च पृष्ठं धृतपादयुग्मम् ! <२.१८।२> कृत्वा धनुस्तुल्यविवर्तिताङ्गं ! <२.१८।३> निगद्यते वै धनुरासनं तत्!!२.१८! <२.१९।१> उत्तानं शववद्भूमौ शयानं तु शवासनम् ! <२.१९।२> शवासनं श्रमहरं चित्तविश्रान्तिकारणम् !!२.१९! <२.२०।१> जानूर्वोरन्तरे पादौ कृत्वा पादौ च गोपयेत्! <२.२०।२> पादौपरि च संस्थाप्य गुदं गुप्तासनं विदुः !!२.२०! <२.२१।१> मुक्तपद्मासनं कृत्वा उत्तानशयनं चरेत्! <२.२१।२> कूर्पराभ्यां शिरो वेष्ट्य मत्स्यासनं तु रोगहा !!२.२१! <२.२२।१> उदरे पश्चिमं॰ तानं कृत्वा तिष्ठति यत्नतः ! <२.२२।२> नम्राङ्गं वामपदं हि दक्षजानूपरि न्यसेत्!!२.२२! <२.२३।१> तत्र याम्यं कूर्परं च याम्यकरे च वक्त्रकम् ! <२.२३।२> भ्रुवोर्मध्ये गता दृष्टिः पीठं मत्स्येन्द्रमुच्यते !!२.२३! <२.२४।१> जानूर्वोरन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ ! <२.२४।२> गुल्फौ चाच्छाद्य हस्ताभ्यामुत्तानाभ्यं प्रयत्नतः !!२.२४! <२.२५।१> कण्ठसंकोचनं कृत्वा नासाग्रमवलोकयेत्! <२.२५।२> गोरक्षासनमित्याहुर्योगिनां सिद्धिकारणम् !!२.२५! <२.२६।१> प्रसार्य पादौ भुवि दण्डरूपौ ! <२.२६।२> संन्यस्तभालं चितियुग्ममध्ये ! <२.२६।३> यत्नेन पादौ च धृतौ कराभ्यां ! <२.२६।४> योगेन्द्रपीठं पश्चिमतानमाहुः !!२.२६! <२.२७।१> अङ्गुष्ठाभ्यामवष्टभ्य धरां गुल्फौ च खे गतौ ! <२.२७।२> तत्रोपरि गुदं न्यसेद्विज्ञेयमुत्कटासनम् !!२.२७! <२.२८।१> वामपादचितेर्मूलं संन्यस्य धरणीतले ! <२.२८।२> पाददण्डेन याम्येन वेष्टयेद्वामपादकम् ! <२.२८।३> जानुयुग्मे करयुग्ममेतत्संकटमासनम् !!२.२८! <२.२९।१> धरामवष्टभ्य करद्वयाभ्यां ! <२.२९।२> तत्कूर्परे स्थापितनाभिपार्श्वम् ! <२.२९।३> उच्चासने दण्डवदुत्थितः खे ! <२.२९।४> मयूरमेतत्प्रवदन्ति पीठम् !!२.२९! <२.३०।१> बहुकदशनभुक्तं भस्म कुर्यादशेषं ! <२.३०।२> जनयति जठराग्निं जारयेत्कालकूटम् ! <२.३०।३> हरति सकलरोगानाशु गुल्मज्वरादीन् ! <२.३०।४> भवति विगतदोषं ह्यासनं श्रीमयूरम् !!२.३०! <२.३१।१> पद्मासनं समासाद्य जानूर्वोरन्तरे करौ ! <२.३१।२> कूर्पराभ्यां समासीनो मञ्चस्थः कुक्कुटासनम् !!२.३१! <२.३२।१> गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ ! <२.३२।२> ऋजुकायशिरोग्रीवं कूर्मासनमितीरितम् !!२.३२! <२.३३।१> कुक्कुटासनबन्धस्थं कराभ्यां धृतकन्धरम् ! <२.३३।२> खगकूर्मवदुत्तानमेतदुत्तानकूर्मकम् !!२.३३! <२.३४।१> पादतलौ पृष्ठदेशे अङ्गुष्ठौ द्वौ च संस्पृशेत्! <२.३४।२> जानुयुग्मं पुरस्कृत्य साधयेन्मण्डुकासनम् !!२.३४! <२.३५।१> मण्डूकासनबन्धस्थं कूर्पराभ्यां धृतं शिरः ! <२.३५।२> एतद्भेकवदुत्तानमेतदुत्तानमण्डुकम् !!२.३५! <२.३६।१> वामोरुमूलदेशे च याम्यं पादं निधाय तु ! <२.३६।२> तिष्ठति वृक्षवद्भूमौ वृक्षासनमिदं विदुः !!२.३६! <२.३७।१> जङ्घोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना ! <२.३७।२> जानूपरि करयुग्मं गरुडासनमुच्यते !!२.३७! <२.३८।१> याम्यगुल्फे पायुमूलं वामभागे पदेतरम् ! <२.३८।२> विपरीतं स्पृशेद्भूमिं वृषासनमिदं भवेत्!!२.३८! <२.३९।१> अध्यास्य शेते पदयुग्मवक्षे ! <२.३९।२> भूमिमवष्टभ्य करद्वयाभ्याम् ! <२.३९।३> पादौ च शून्ये च वितस्ति चोर्ध्वं ! <२.३९।४> वदन्ति पीठं शलभं मुनीन्द्राः !!२.३९! <२.४०।१> अध्यास्य शेते हृदयं निधाय ! <२.४०।२> भूमौ च पादौ प्रविसार्यमाणौ ! <२.४०।३> शिरश्च धृत्वा करदण्डयुग्मे ! <२.४०।४> देहाग्निकारं मकरासनं तत्!!२.४०! <२.४१।१> अध्यास्य शेते पदयुग्ममस्तं ! <२.४१।११> पृष्ठे निधायापि धृतं कराभ्याम् ! <२.४१।२> आकुञ्च्य सम्यग्घ्युदरास्यगण्डम् ! <२.४१।३> उष्ट्रं च पीठं यतयो वदन्ति !!२.४१! <२.४२।१> अङ्गुष्ठनाभिपर्यन्तमधो भूमौ च विन्यसेत्! <२.४२।२> करतलाभ्यां धरां धृत्वा ऊर्ध्वं शीर्षं फणीव हि !!२.४२! <२.४३।१> देहाग्निर्वर्धते नित्यं सर्वरोगविनाशनम् ! <२.४३।२> जागर्ति भुजगी देवी साधनाद्भुजंगासनम् !!२.४३! <२.४४।१> उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि ! <२.४४।२> आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् !!२.४४! <२.४५।१> पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत्! <२.४५।२> योगासनं भवेदेतद्योगिनां योगसाधने !!२.४५! <२.४६।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोग आसनप्रयोगो नाम द्वितीयोपदेशः !!२! ]] <३.१।१> घेरण्ड उवाच महामुद्रा नभोमुद्रा उड्डीयानं जलंधरम् ! <३.१।२> मूलबन्धं महाबन्धं महावेधश्च खेचरी !!३.१! <३.२।१> विपरीतकरणी योनिर्वज्रोली शक्तिचालनी ! <३.२।२> तडागी माण्डुकी मुद्रा शांभवी पञ्चधारणा !!३.२! <३.३।१> अश्विनी पाशिनी काकी मातङ्गी च भुजंगिनी ! <३.३।२> पञ्चविंशतिमुद्राश्च सिद्धिदा इह योगिनाम् !!३.३! <३.४।१> मुद्राणां पटलं देवि कथितं तव संनिधौ ! <३.४।२> येन विज्ञातमात्रेण सर्वसिद्धिः प्रजायते !!३.४! <३.५।१> गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित्! <३.५।२> प्रीतिदं योगिनां चैव दुर्लभं मरुतामपि !!३.५! <३.६।१> पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः ! <३.६।२> याम्यपादं प्रसार्याथ कराभ्यां धृतपदाङ्गुलिः !!३.६! <३.७।१> कण्ठसंकोचनं कृत्वा भ्रुवोर्मध्ये निरीक्षयेत्! <३.७।२> पूरकैर्वायुं संपूर्य महामुद्रा निगद्यते !!३.७! <३.८।१> वलितं पलितं चैव जरां मृत्युं निवारयेत्! <३.८।२> क्षयकासं गुदावर्तं प्लीहाजीर्णं ज्वरं तथा ! <३.८।३> नाशयेत्सर्वरोगांश्च महामुद्राभिसेवनात्!!३.८! <३.९।१> यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा ! <३.९।२> ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत्पवनं सदा ! <३.९।३> नभोमुद्रा भवेदेषा योगिनां रोगनाशिनी !!३.९! <३.१०।१> उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत्! <३.१०।२> उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः ! <३.१०।३> उड्डीयानं त्वसौ बन्धो मृत्युमातंगकेसरी !!३.१०! <३.११।१> समग्राद्बन्धनाद्ध्येतदुड्डीयानं विशिष्यते ! <३.११।२> उड्डीयाने समभ्यस्ते मुक्तिः स्वाभाविकी भवेत्!!३.११! <३.१२।१> कण्ठसंकोचनं कृत्वा चिबुकं हृदये न्यसेत्! <३.१२।२> जालंधरे कृते बन्धे षोडशाधारबन्धनम् ! <३.१२।३> जालंधरमहामुद्रा मृत्योश्च क्षयकारिणी !!३.१२! <३.१३।१> सिद्धं जालंधरं बन्धं योगिनां सिद्धिदायकम् ! <३.१३।२> षण्मासमभ्यसेद्यो हि स सिद्धो नात्र संशयः !!३.१३! <३.१४।१> पार्ष्णिना वामपादस्य योनिमाकुञ्चयेत्ततः ! <३.१४।२> नाभिग्रन्थिं मेरुदण्डे संपीड्य यत्नतः सुधीः !!३.१४! <३.१५।१> मेढ्रं दक्षिणगुल्फेन दृढबन्धं समाचरेत्! <३.१५।२> नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः ! <३.१५।३> जराविनाशिनी मुद्रा मूलबन्धो निगद्यते !!३.१५! <३.१६।१> संसारसागरं तर्तुमभिलषति यः पुमान् ! <३.१६।२> विरले सुगुप्तो भूत्वा मुद्रामेतां समभ्यसेत्!!३.१६! <३.१७।१> अभ्यासाद्बन्धनस्यास्य मरुत्सिद्धिर्भवेद्ध्रुवम् ! <३.१७।२> साधयेद्यत्नतस्तर्हि मौनी तु विजितालसः !!३.१७! <३.१८।१> वामपादस्य गुल्फेन पायुमूलं निरोधयेत्! <३.१८।२> दक्षपादेन तद्गुल्फं संपीड्य यत्नतः सुधीः !!३.१८! <३.१९।१> शनैः शनैश्चालयेत्पार्ष्णिं योनिमाकुञ्चयेच्छनैः ! <३.१९।२> जालंधरे धारयेत्प्राणं महाबन्धो निगद्यते !!३.१९! <३.२०।१> महाबन्धः परो बन्धो जरामरणनाशनः ! <३.२०।२> प्रसादादस्य बन्धस्य साधयेत्सर्ववाञ्छितम् !!३.२०! <३.२१।१> रूपयौवनलावण्यं नारीणां पुरुषं विना ! <३.२१।२> मूलबन्धमहाबन्धौ महावेधं विना तथा !!३.२१! <३.२२।१> महाबन्धं समासाद्य उड्डानकुम्भकं चरेत्! <३.२२।२> महावेधः समाख्यातो योगिनां सिद्धिदायकः !!३.२२! <३.२३।१> महाबन्धमूलबन्धौ महावेधसमन्वितौ ! <३.२३।२> प्रत्यहं कुरुते यस्तु स योगी योगवित्तमः !!३.२३! <३.२४।१> न मृत्युतो भयं तस्य न जरा तस्य विद्यते ! <३.२४।२> गोपनीयः प्रयत्नेन वेधो यं योगिपुंगवैः !!३.२४! <३.२५।१> जिह्वाधो नाडीं संछित्य रसनां चालयेत्सदा ! <३.२५।२> दोहयेन्नवनीतेन लौहयन्त्रेण कर्षयेत्!!३.२५! <३.२६।१> एवं नित्यं समभ्यासाल्लम्बिका दीर्घतां व्रजेत्! <३.२६।२> यावद्गच्छेद्भ्रुवोर्मध्ये तदा सिध्यति खेचरी !!३.२६! <३.२७।१> रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत्! <३.२७।२> कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ! <३.२७।३> भ्रुवोर्मध्ये गता दृष्टिर्मुद्रा भवति खेचरी !!३.२७! <३.२८।१> न च मूर्च्छा क्षुधा तृष्णा नैवालस्यं प्रजायते ! <३.२८।२> न च रोगो जरा मृत्युर्देवदेहं प्रपद्यते !!३.२८! <३.२९।१> न चाग्निर्दहते गात्रं न शोषयति मारुतः ! <३.२९।२> न देहं क्लेदयन्त्यापो दंशयेन्न भुजंगमः !!३.२९! <३.३०।१> लावण्यं च भवेद्गात्रे समाधिर्जायते ध्रुवम् ! <३.३०।२> कपालवक्त्रसंयोगे रसना रसमाप्नुयात्!!३.३०! <३.३१।१> नानाविधिसमुद्भूतमानन्दं च दिने दिने ! <३.३१।२> आदौ लवणक्षारं च ततस्तिक्तकषायकम् !!३.३१! <३.३२।१> नवनीतं घृतं क्षीरं दधितक्रमधूनि च ! <३.३२।२> द्राक्षारसं च पीयूषं जायते रसनोदकम् !!३.३२! <३.३३।१> नाभिमूले वसेत्सूर्यस्तालुमूले च चन्द्रमाः ! <३.३३।२> अमृतं ग्रसते सूर्यस्ततो मृत्युवशो नरः !!३.३३! <३.३४।१> ऊर्ध्वं च योजयेत्सूर्यं चन्द्रं च अध आनयेत्! <३.३४।२> विपरीतकरी मुद्रा सर्वतन्त्रेषु गोपिता !!३.३४! <३.३५।१> भूमौ शिरश्च संस्थाप्य करयुग्मं समाहितः ! <३.३५।२> ऊर्ध्वपादः स्थिरो भूत्वा विपरीतकरी मता !!३.३५! <३.३६।१> मुद्रेयं साधयेन्नित्यं जरां मृत्युं च नाशयेत्! <३.३६।२> स सिद्धः सर्वलोकेषु प्रलयेऽपि न सीदति !!३.३६! <३.३७।१> सिद्धासनं समासाद्य कर्णाक्षिनासिकामुखम् ! <३.३७।२> अङ्गुष्ठतर्जनीमध्या नामादिभिश्च धारयेत्!!३.३७! <३.३८।१> काकीभिः प्राणं संकृष्य अपाने योजयेत्ततः ! <३.३८।२> षट्चक्राणि क्रमाद्धृत्वा हुंहंसमनुना सुधीः !!३.३८! <३.३९।१> चैतन्यमानयेद्देवीं निद्रिता या भुजंगिनी ! <३.३९।२> जीवेन सहितां शक्तिं समुत्थाप्य पराम्बुजे !!३.३९! <३.४०।१> शक्तिमयं स्वयं भूत्वा परं शिवेन संगमम् ! <३.४०।२> नानासुखं विहारं च चिन्तयेत्परमं सुखम् !!३.४०! <३.४१।१> शिवशक्तिसमायोगादेकान्तं भुवि भावयेत्! <३.४१।२> आनन्दमानसो भूत्वा अहं ब्रह्मेति संभवेत्!!३.४१! <३.४२।१> योनिमुद्रा परा गोप्या देवानामपि दुर्लभा ! <३.४२।२> सकृत्तद्भावसंसिद्धः समाधिस्थः स एव हि !!३.४२! <३.४३।१> ब्रह्महा भ्रूणहा चैव सुरापो गुरुतल्पगः ! <३.४३।२> एतैः पापैर्न लिप्यते योनिमुद्रानिबन्धनात्!!३.४३! <३.४४।१> यानि पापानि घोराणि उपपापानि यानि च ! <३.४४।२> तानि सर्वाणि नश्यन्ति योनिमुद्रानिबन्धनात्! <३.४४।३> तस्मादभ्यसनं कुर्याद्यदि मुक्तिं समिच्छति !!३.४४! <३.४५।१> धरामवष्टभ्य करद्वयाभ्याम् ! <३.४५।११> ऊर्ध्वं क्षिपेत्पादयुगं शिरः खे ! <३.४५।२> शक्तिप्रबोधाय चिरजीवनाय ! <३.४५।३> वज्रोलिमुद्रां मुनयो वदन्ति !!३.४५! <३.४६।१> अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम् ! <३.४६।२> अयं हितप्रदो योगो योगिनां सिद्धिदायकः !!३.४६! <३.४७।१> एतद्योगप्रसादेन बिन्दुसिद्धिर्भवेद्ध्रुवम् ! <३.४७।२> सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले !!३.४७! <३.४८।१> भोगेन महता युक्तो यदि मुद्रां समाचरेत्! <३.४८।२> तथापि सकला सिद्धिस्तस्य भवति निश्चितम् !!३.४८! <३.४९।१> मूलाधारे आत्मशक्तिः कुण्डली परदेवता ! <३.४९।२> शयिता भुजगाकारा सार्धत्रिवलयान्विता !!३.४९! <३.५०।१> यावत्सा निद्रिता देहे तावज्जीवः पशुर्यथा ! <३.५०।२> ज्ञानं न जायते तावत्कोटियोगं समभ्यसेत्!!३.५०! <३.५१।१> उद्घाटयेत्कवाटं च यथा कुञ्चिकया हठात्! <३.५१।२> कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं विभेदयेत्!!३.५१! <३.५२।१> नाभिं बृहद्वेष्टनं च न च नग्नं बहिः स्थितम् ! <३.५२।२> गोपनीयगृहे स्थित्वा शक्तिचालनमभ्यसेत्!!३.५२! <३.५३।१> वितस्तिप्रमितं दीर्घं विस्तारे चतुरङ्गुलम् ! <३.५३।२> मृदुलं धवलं सूक्ष्म वेष्टनाम्बरलक्षणम् ! <३.५३।३> एवमम्बरमुक्तं च कटिसूत्रेण योजयेत्!!३.५३! <३.५४।१> भास्मना गात्रसंलिप्तं सिद्धासनं समाचरेत्! <३.५४।२> नासाभ्यां प्राणमाकृष्य अपाने योजयेद्बलात्!!३.५४! <३.५५।१> तावदाकुञ्चयेद्गुह्यं शनैरश्विनिमुद्रया ! <३.५५।२> यावद्गच्छेत्सुषुम्णायां वायुः प्रकाशयेद्धठात्!!३.५५! <३.५६।१> तावद्वायुप्रभेदेन कुम्भिका च भुजंगिनी ! <३.५६।२> बद्धश्वासस्ततो भूत्वा च ऊर्ध्वमात्रं प्रपद्यते ! <३.५६।३> शब्दद्वयं फलैकं तु योनिमुद्रां च चालयेत्!!३.५६! <३.५७।१> विना शक्तिचालनेन योनिमुद्रा न सिध्यति ! <३.५७।२> आदौ चालनमभ्यस्य योनिमुद्रां समभ्यसेत्!!३.५७! <३.५८।१> इति ते कथितं चण्ड प्रकारं शक्तिचालनम् ! <३.५८।२> गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत्!!३.५८! <३.५९।१> मुद्रेयं परमा गोप्या जरामरणनाशिनी ! <३.५९।२> तस्मादभ्यसनं कार्यं योगिभिः सिद्धिकाङ्क्षिभिः !!३.५९! <३.६०।१> नित्यं योऽभ्यसते योगी सिद्धिस्तस्य करे स्थिता ! <३.६०।२> तस्य विग्रहसिद्धिः स्याद्रोगाणां संक्षयो भवेत्!!३.६०! <३.६१।१> उदरे पश्चिमं तानं कृत्वा च तडागाकृति ! <३.६१।२> तडागी सा परा मुद्रा जरामृत्युविनाशिनी !!३.६१! <३.६२।१> मुखं संमुद्रितं कृत्वा जिह्वामूलं प्रचालयेत्! <३.६२।२> शनैर्ग्रसेदमृतं तन्माण्डुकीं मुद्रिकां विदुः !!३.६२! <३.६३।१> वलितं पलितं नैव जायते नित्ययौवनम् ! <३.६३।२> न केशे जायते पाको यः कुर्यान्नित्य माण्डुकीम् !!३.६३! <३.६४।१> नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत्! <३.६४।२> सा भवेच्छांभवी मुद्रा सर्वतन्त्रेषु गोपिता !!३.६४! <३.६५।१> वेदशास्त्रपुराणानि सामान्यगणिका इव ! <३.६५।२> इयं तु शांभवी मुद्रा गुप्ता कुलवधूरिव !!३.६५! <३.६६।१> स एव आदिनाथश्च स च नारायणः स्वयम् ! <३.६६।२> स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शांभवीम् !!३.६६! <३.६७।१> सत्यं सत्यं पुनः सत्यं सत्यमुक्तं महेश्वर ! <३.६७।२> शांभवीं यो विजानीयात्स च ब्रह्म न चान्यथा !!३.६७! <३.६८।१> कथिता शांभवी मुद्रा शृणुष्व पञ्चधारणाम् ! <३.६८।२> धारणानि समासाद्य किं न सिध्यति भूतले !!३.६८! <३.६९।१> अनेन नरदेहेन स्वर्गेषु गमनागमम् ! <३.६९।२> मनोगतिर्भवेत्तस्य खेचरत्वं न चान्यथा !!३.६९! <३.७०।१> यत्तत्त्वं हरितालदेशरचितं भौमं लकारान्वितं ! <३.७०।११> वेदास्रं कमलासनेन सहितं कृत्वा हृदि स्थायिनम् ! <३.७०।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्! <३.७०।३> एषा स्तम्भकरी सदा क्षितिजयं कुर्यादधोधारणा !!३.७०! <३.७१।१> पार्थिवीधारणामुद्रां यः करोति च नित्यशः ! <३.७१।२> मृत्युंजयः स्वयं सोऽपि स सिद्धो विचरेद्भुवि !!३.७१! <३.७२।१> शङ्खेन्दुप्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं ! <३.७२।११> तत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना ! <३.७२।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्! <३.७२।३> एषा दुःसहतापपापहरिणी स्यादाम्भसी धारणा !!३.७२! <३.७३।१> आम्भसीं परमां मुद्रां यो जानाति स योगवित्! <३.७३।२> जले च गभीरे घोरे मरणं तस्य नो भवेत्!!३.७३! <३.७४।१> इयं तु परमा मुद्रा गोपनीया प्रयत्नतः ! <३.७४।२> प्रकाशात्सिद्धिहानिः स्यात्सत्यं वच्मि च तत्त्वतः !!३.७४! <३.७५।१> यन्नाभिस्थितमिन्द्र गोपसदृशं बीजत्रिकोणान्वितं ! <३.७५।११> तत्त्वं तेजमयं प्रदीप्तमरुणं रुद्रेण यत्सिद्धिदम् ! <३.७५।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्! <३.७५।३> एषा कालगभीरभीतिहरणी वैश्वानरी धारणा !!३.७५! <३.७६।१> प्रदीप्ते ज्वलिते वह्नौ यदि पतति साधकः ! <३.७६।२> एतन्मुद्राप्रसादेन स जीवति न मृत्युभाक्!!३.७६! <३.७७।१> यद्भिन्नाञ्जनपुञ्जसंनिभमिदं धूम्रावभासं परं ! <३.७७।११> तत्त्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता ! <३.७७।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्! <३.७७।३> एषा खे गमनं करोति यमिनां स्याद्वायवी धारणा !!३.७७! <३.७८।१> इयं तु परमा मुद्रा जरामृत्युविनाशिनी ! <३.७८।२> वायुना म्रियते नापि खे च गतिप्रदायिनी !!३.७८! <३.७९।१> शठाय भक्तिहीनाय न देया यस्य कस्यचित्! <३.७९।२> दत्ते च सिद्धिहानिः स्यात्सत्यं वच्मि च चण्ड ते !!३.७९! <३.८०।१> यत्सिन्धौ वरशुद्धवारिसदृशं व्योमं परं भासितं ! <३.८०।११> तत्त्वं देवसदाशिवेन सहितं बीजं हकारान्वितम् ! <३.८०।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्! <३.८०।३> एषा मोक्षकवाटभेदनकरी तु स्यान् नभोधारणा !!३.८०! <३.८१।१> आकाशीधारणां मुद्रां यो वेत्ति स च योगवित्! <३.८१।२> न मृत्युर्जायते तस्य प्रलये नावसीदति !!३.८१! <३.८२।१> आकुञ्चयेद्गुदद्वारं प्रकाशयेत्पुनः पुनः ! <३.८२।२> सा भवेदश्विनी मुद्रा शक्तिप्रबोधकारिणी !!३.८२! <३.८३।१> अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी ! <३.८३।२> बलपुष्टिकरी चैव अकालमरणं हरेत्!!३.८३! <३.८४।१> कण्ठपृष्टे क्षिपेत्पादौ पाशवद्दृढबन्धनम् ! <३.८४।२> सा एव पाशिनी मुद्रा शक्तिप्रबोधकारिणी !!३.८४! <३.८५।१> पाशिनी महती मुद्रा बलपुष्टिविधायिनी ! <३.८५।२> साधनीया प्रयत्नेन साधकैः सिद्धिकाङ्क्षिभिः !!३.८५! <३.८६।१> काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः ! <३.८६।२> काकी मुद्रा भवेदेषा सर्वरोगविनाशिनी !!३.८६! <३.८७।१> काकीमुद्रा परा मुद्रा सर्वतन्त्रेषु गोपिता ! <३.८७।२> अस्याः प्रसादमात्रेण न रोगी काकवद्भवेत्!!३.८७! <३.८८।१> कण्ठमग्नजले स्थित्वा नासाभ्यां जलमाहरेत्! <३.८८।२> मुखान्निर्गमयेत्पश्चात्पुनर्वक्त्रेण चाहरेत्!!३.८८! <३.८९।१> नासाभ्यां रेचयेत्पश्चात्कुर्यादेवं पुनः पुनः ! <३.८९।२> मातङ्गिनी परा मुद्रा जरामृत्युविनाशिनी !!३.८९! <३.९०।१> विरले निर्जने देशे स्थित्वा चैकाग्रमानसः ! <३.९०।२> कुर्यान्मातङ्गिनीं मुद्रां मातङ्ग इव जायते !!३.९०! <३.९१।१> यत्र यत्र स्थितो योगी सुखमत्यन्तमश्नुते ! <३.९१।२> तस्मात्सर्वप्रयत्नेन साधयेन्मुद्रिकां पराम् !!३.९१! <३.९२।१> वक्त्रं किंचित्सुप्रसार्य चालिनं गलया पिबेत्! <३.९२।२> सा भवेद्भुजगी मुद्रा जरामृत्युविनाशिनी !!३.९२! <३.९३।१> यावच्च उदरे रोगमजीर्णादि विशेषतः ! <३.९३।२> तत्सर्वं नाशयेदाशु यत्र मुद्रा भुजंगिनी !!३.९३! <३.९४।१> इदं तु मुद्रापटलं कथितं चण्ड ते शुभम् ! <३.९४।२> वल्लभं सर्वसिद्धानां जरामरणनाशनम् !!३.९४! <३.९५।१> शठाय भक्तिहीनाय न देयं यस्य कस्यचित्! <३.९५।२> गोपनीयं प्रयत्नेन दुर्लभं मरुतामपि !!३.९५! <३.९६।१> ऋजवे शान्तचित्ताय गुरुभक्तिपराय च ! <३.९६।२> कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम् !!३.९६! <३.९७।१> मुद्राणां पटलं ह्येतत्सर्वव्याधिविनाशनम् ! <३.९७।२> नित्यमभ्यासशीलस्य जठराग्निविवर्धनम् !!३.९७! <३.९८।१> न तस्य जायते मृत्युर्नास्य जरादिकं तथा ! <३.९८।२> नाग्निजलभयं तस्य वायोरपि कुतो भयम् !!३.९८! <३.९९।१> कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश्च विंशतिः ! <३.९९।२> मुद्राणां साधनाच्चैव विनश्यन्ति न संशयः !!३.९९! <३.१००।१> बहुना किमिहोक्तेन सारं वच्मि च चण्ड ते ! <३.१००।२> नास्ति मुद्रासमं किंचित्सिद्धिदं क्षितिमण्डले !!३.१००! <३.१०१।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे मुद्राप्रयोगो नाम तृतीयोपदेशः !!३! ]] <३.१०२।०> <४.१।१> घेरण्ड उवाच <४.१।११> अथातः संप्रवक्ष्यामि प्रत्याहारकमुत्तमम् ! <४.१।२> यस्य विज्ञानमात्रेण कामादिरिपुनाशनम् !!४.१! <४.२।१> यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ! <४.२।२> ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्!!४.२! <४.३।१> यत्र यत्र गता दृष्टिर्मनस्तत्र प्रगच्छति ! <४.३।२> ततः प्रत्याहरेदेतदात्मन्येव वशं नयेत्!!४.३! <४.४।१> पुरस्कारं तिरस्कारं सुश्राव्यं वा भयानकम् ! <४.४।२> मनस्तस्मान्नियम्यैतदात्मन्येव वशं नयेत्!!४.४! <४.५।१> शीतं वापि तथा चोष्णं यन्मनःस्पर्शयोगतः ! <४.५।२> तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत्!!४.५! <४.६।१> सुगन्धे वापि दुर्गन्धे घ्राणेषु जायते मनः ! <४.६।२> तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत्!!४.६! <४.७।१> मधुराम्लकतिक्तादि+ !रसं गतं यदा मनः ! <४.७।२> तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत्!!४.७! <४.८।१> शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित्! <४.८।२> कुर्याच्चित्तानुचारीणि प्रत्याहारपरायणः !!४.८! <४.९।१> वश्यता परमा तेन जायतेऽतिचलात्मनाम् ! <४.९।२> इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः !!४.९! <४.१०।१> प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषम् ! <४.१०।२> प्रत्याहारेण विषयान् ध्यानेनानीश्वरान् गुणान् !!४.१०! <४.११।१> यथा पर्वतधातूनां दोषा दह्यन्ति धाम्यताम् ! <४.११।२> तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात्!!४.११! <४.१२।१> समः समासनो भूत्वा संहृत्य चरणावुभौ ! <४.१२।२> संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः !!४.१२! <४.१३।१> पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन् प्रयतः स्थितः ! <४.१३।२> किंचिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत्! <४.१३।३> संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् !!४.१३! <४.१४।१> रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ! <४.१४।२> संछाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित्!!४.१४! <४.१५।१> इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च ! <४.१५।२> निगृह्य समवायेन प्रत्याहारमुपक्रमेत्!!४.१५! <४.१६।१> यस्तु प्रत्याहरेत्कामान् सर्वाङ्गानीव कच्छपः ! <४.१६।२> सदात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि !!४.१६! <४.१७।१> स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः ! <४.१७।२> पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत्!!४.१७! <४.१८।१> तथा वै योगयुक्तस्य योगिनो नियतात्मनः ! <४.१८।२> (सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते) !!४.१८! <४.१९।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः !!४! ]] <५.१।१> घेरण्ड उवाच <५.१।११> अथातः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम् ! <५.१।२> यस्य साधनमात्रेण देवतुल्यो भवेन्नरः !!५.१! <५.२।१> आदौ स्थानं तथा कालं मिताहारं तथापरम् ! <५.२।२> नाडीशुद्धिं ततः पश्चात्प्राणायामं च साधयेत्!!५.२! <५.३।१> दूरदेशे तथारण्ये राजधान्यां जनान्तिके ! <५.३।२> योगारम्भं न कुर्वीत कृतश्चेत्सिद्धिहा भवेत्!!५.३! <५.४।१> अविश्वासं दूरदेशे अरण्ये भक्षवर्जितम् ! <५.४।२> लोकारण्ये प्रकाशश्च तस्मात्त्रीणि विवर्जयेत्!!५.४! <५.५।१> सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे ! <५.५।२> तत्रैकं कुटिरं कृत्वा प्राचीरैः परिवेष्टयेत्!!५.५! <५.६।१> वापीकूपतडागं च प्राचीरमध्यवर्ति च ! <५.६।२> नात्युच्चं नातिनीचं वा कुटिरं कीटवर्जितम् !!५.६! <५.७।१> सम्यग्गोमयलिप्तं च कुटिरं रन्ध्रवर्जितम् ! <५.७।२> एवं स्थाने हि गुप्ते च प्राणायामं समभ्यसेत्!!५.७! <५.८।१> हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा ! <५.८।२> योगारम्भं न कुर्वीत कृते योगो हि रोगदः !!५.८! <५.९।१> वसन्ते शरदि प्रोक्तं योगारम्भं समाचरेत्! <५.९।२> तदा योगो भवेत्सिद्धो रोगान्मुक्तो भवेद्ध्रुवम् !!५.९! <५.१०।१> चैत्रादिफाल्गुनान्ते च माघादिफाल्गुनान्तिके ! <५.१०।२> द्वौ द्वौ मासौ ऋतुभागौ अनुभावश्चतुश्चतुः !!५.१०! <५.११।१> वसन्तश्चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ ! <५.११।२> वर्षा श्रावणभाद्राभ्यां शरदाश्विनकार्तिकौ ! <५.११।३> मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ !!५.११! <५.१२।१> अनुभावं प्रवक्ष्यामि ऋतूनां च यथोदितम् ! <५.१२।२> माघादिमाधवान्ते हि वसन्तानुभवश्चतुः !!५.१२! <५.१३।१> चैत्रादि चाषाढान्तं च ग्रीष्मश्चानुभवश्चतुः ! <५.१३।२> आषाढादि चाश्विनान्तं वर्षा चानुभवश्चतुः !!५.१३! <५.१४।१> भाद्रादि मार्गशीर्षान्तं शरदोऽनुभवश्चतुः ! <५.१४।२> कार्तिकादिमाघमासान्तं हेमन्तानुभवश्चतुः ! <५.१४।३> मार्गादींश्चतुरो मासाञ्शिशिरानुभवं विदुः !!५.१४! <५.१५।१> वसन्ते वापि शरदि योगारम्भं तु समाचरेत्! <५.१५।२> तदा योगो भवेत्सिद्धो विनायासेन कथ्यते !!५.१५! <५.१६।१> मिताहारं विना यस्तु योगारम्भं तु कारयेत्! <५.१६।२> नानारोगो भवेत्तस्य किंचिद्योगो न सिध्यति !!५.१६! <५.१७।१> शाल्यन्नं यवपिण्डं वा गोधूमपिण्डकं तथा ! <५.१७।२> मुद्गं माषचणकादि शुभ्रं च तुषवर्जितम् !!५.१७! <५.१८।१> पटोलं पनसं मानं कक्कोलं च शुकाशकम् ! <५.१८।२> द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टकम् !!५.१८! <५.१९।१> आमरम्भां बालरम्भां रम्भादण्डं च मूलकम् ! <५.१९।२> वार्ताकीं मूलकमृद्धिं योगी भक्षणमाचरेत्!!५.१९! <५.२०।१> बालशाकं काल शाकं तथा पटोलपत्रकम् ! <५.२०।२> पञ्चशाकं प्रशंसीयाद्वास्तूकं हिलमोचिकां !!५.२०! <५.२१।१> शुद्धं सुमधुरं स्निग्धमुदरार्धविवर्जितम् ! <५.२१।२> भुज्यते सुरसंप्रीत्या ( सुरसं प्रित्या ) मिताहारमिमं विदुः !!५.२१! <५.२२।१> अन्नेन पूरयेदर्धं तोयेन तु तृतीयकम् ! <५.२२।२> उदरस्य तुरीयांशं संरक्षेद्वायुचारणे !!५.२२! <५.२३।१> कट्वम्लं लवणं तिक्तं भृष्टं च दधि तक्रकम् ! <५.२३।२> शाकोत्कटं तथा मद्यं तालं च पनसं तथा !!५.२३! <५.२४।१> कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम् ! <५.२४।२> तुम्बीकोलकपित्थं च कण्टबिल्वं पलाशकम् !!५.२४! <५.२५।१> कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम् ! <५.२५।२> कामरङ्गं पियालं च हिङ्गुशाल्मलिकेमुकम् !!५.२५! <५.२६।१> योगारम्भे वर्जयेच्च पथस्त्रीवह्निसेवनम् !!५.२६! <५.२७।१> नवनीतं घृतं क्षीरं गुडं शर्करादि चेक्षवं ! <५.२७।२> पक्वरम्भां नारिकेलं दाडिम्बमशिवासवम् ! <५.२७।३> द्राक्षां तु लवलीं धात्रीं रसमम्लविवर्जितम् !!५.२७! <५.२८।१> एलाजातिलवङ्गं च पौरुषं जम्बुजाम्बलम् ! <५.२८।२> हरीतकीं खर्जूरं च योगी भक्षणमाचरेत्!!५.२८! <५.२९।१> लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम् ! <५.२९।२> मनोभिलषितं योग्यं योगी भोजनमाचरेत्!!५.२९! <५.३०।१> काठिन्यं दुरितं पूतिमुष्णं पर्युषितं तथा ! <५.३०।२> अतिशीतं चाति चोष्णं भक्ष्यं योगी विवर्जयेत्!!५.३०! <५.३१।१> प्रातःस्नानोपवासादि कायक्लेशविधिं तथा ! <५.३१।२> एकाहारं निराहारं यामान्ते च न कारयेत्!!५.३१! <५.३२।१> एवंविधिविधानेन प्राणायामं समाचरेत्! <५.३२।२> आरम्भे प्रथमे कुर्यात्क्षीराद्यं नित्यभोजनम् ! <५.३२।३> मध्याह्ने चैव सायाह्ने भोजनद्वयमाचरेत्!!५.३२! <५.३३।१> कुशासने मृगाजिने व्याघ्राजिने च कम्बले ! <५.३३।२> स्थूलासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः ! <५.३३।३> नाडीशुद्धिं समासाद्य प्राणायामं समभ्यसेत्!!५.३३! <५.३४।१> चण्डकापालिरुवाच <५.३४।११> नाडीशुद्धिं कथं कुर्यान्नाडीशुद्धिस्तु कीदृशी ! <५.३४।२> तत्सर्वं श्रोतुमिच्छामि तद्वदस्व दयानिधे !!५.३४! <५.३५।१> घेरण्ड उवाच <५.३५।११> मलाकुलासु नाडीषु मारुतो नैव गच्छति ! <५.३५।२> प्राणायामः कथं सिध्येत्तत्त्वज्ञानं कथं भवेत्! <५.३५।३> तस्मादादौ नडीशुद्धिं प्राणायामं ततोऽभ्यसेत्!!५.३५! <५.३६।१> नाडीशुद्धिर्द्विधा प्रोक्ता समनुर्निर्मनुस्तथा ! <५.३६।२> बीजेन समनुं कुर्यान्निर्मनुं धौतिकर्मणि !!५.३६! <५.३७।१> धौतिकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा ! <५.३७।२> शृणुष्व समनुं चण्ड नाडीशुद्धिर्यथा भवेत्!!५.३७! <५.३८।१> उपविश्यासने योगी पद्मासनं समाचरेत्! <५.३८।२> गुर्वादिन्यासनं कृत्वा यथैव गुरुभाषितम् ! <५.३८।३> नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये !!५.३८! <५.३९।१> वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम् ! <५.३९।२> चन्द्रेण पूरयेद्वायुं बीजं षोडशकैः सुधीः !!५.३९! <५.४०।१> चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्! <५.४०।२> द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या च रेचयेत्!!५.४०! <५.४१।१> नाभिमूलाद्वह्निमुत्थाप्य ध्यायेत्तेजो वनीयुतम् ! <५.४१।२> वह्निबीजं षोडशेन सूर्यनाड्या च पूरयेत्!!५.४१! <५.४२।१> चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्! <५.४२।२> द्वात्रिंशन्मात्रया वायुं शशिनाड्या च रेचयेत्!!५.४२! <५.४३।१> नासाग्रे शशधृग्बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम् ! <५.४३।२> ठं बीजं षोडशेनैव इडया पूरयेन्मरुत्!!५.४३! <५.४४।१> चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्! <५.४४।२> अमृतप्लावितं ध्यात्वा प्राणायामं समभ्यसेत्!!५.४४! <५.४५।१> वं बीजं शोडशेनैव सूर्यनाड्या च पूरयेत् ! <५.४५।२> द्वात्रिंशेन लकारेण दृढं भाव्यं विरेचयेत्!!५.४५! <५.४६।१> एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत्! <५.४६।२> दृढो भूत्वासनं कृत्वा प्राणायामं समाचरेत्!!५.४६! <५.४७।१> सहितः सूर्यभेदश्च उज्जायी शीतली तथा ! <५.४७।२> भस्त्रिका भ्रामरी मूर्च्छा केवली चाष्ट कुम्भिकाः !!५.४७! <५.४८।१> सहितौ द्विविधौ प्रोक्तौ प्राणायामं समाचरेत्! <५.४८।२> सगर्भो बीजमुच्चार्य निर्गर्भो बीजवर्जितः ! <५.४८।३> प्राणायामं सगर्भं च प्रथमं कथयामि ते !!५.४८! <५.४९।१> सुखासने चोपविश्य प्राङ्मुखो वाप्युदङ्मुखः ! <५.४९।२> ध्यायेद्विधिं रजोगुणं रक्तवर्णमवर्णकम् !!५.४९! <५.५०।१> इडया पूरयेद्वायुं मात्रया षोडशैः सुधीः ! <५.५०।२> पूरकान्ते कुम्भकाद्ये कर्तव्यस्तूड्डियानकः !!५.५०! <५.५१।१> सत्त्वमयं हरिं ध्यात्वा उकारैः शुक्लवर्णकैः ! <५.५१।२> चतुःषष्ट्या च मात्रया अनिलं कुम्भकं चरेत्! <५.५१।३> कुम्भकान्ते रेचकाद्ये कर्तव्यं च जालंधरम् !!५.५१! <५.५२।१> रुद्रं तमोगुणं ध्यात्वा मकारैः कृष्णवर्णकैः ! <५.५२।२> द्वात्रिंशन्मात्रया चैव रेचयेद्विधिना पुनः !!५.५२! <५.५३।१> पुनः पिङ्गलयापूर्य कुम्भकेनैव धारयेत्! <५.५३।२> इडया रेचयेत्पश्चात्तद्बीजेन क्रमेण तु !!५.५३! <५.५४।१> अनुलोमविलोमेन वारं वारं च साधयेत्! <५.५४।२> पूरकान्ते कुम्भकाद्ये धृतं नासापुटद्वयम् ! <५.५४।३> कनिष्ठानामिकाङ्गुष्ठैस्तर्जनीमध्यमे विना !!५.५४! <५.५५।१> प्राणायामं निगर्भं तु विना बीजेन जायते ! <५.५५।२> वामजानूपरि न्यस्त वामपाणितलं भ्रमेत्! <५.५५।३> मात्रादिशतपर्यन्तं पूरकुम्भकरेचनम् !!५.५५! <५.५६।१> उत्तमा विंशतिर्मात्रा मध्यमा षोडशी स्मृता ! <५.५६।२> अधमा द्वादशी मात्रा प्राणायामास्त्रिधा स्मृताः !!५.५६! <५.५७।१> अधमाज्जायते घर्मो मेरुकम्पश्च मध्यमात्! <५.५७।२> उत्तमाच्च भूमित्यागस्त्रिविधं सिद्धिलक्षणम् !!५.५७! <५.५८।१> प्राणायामात्खेचरत्वं प्राणायामाद्रोगनाशनम् ! <५.५८।२> प्राणायामाद्बोधयेच्छक्तिं प्राणायामान्मनोन्मनी ! <५.५८।३> आनन्दो जायते चित्ते प्राणायामी सुखी भवेत्!!५.५८! <५.५९।१> कथितं सहितं कुम्भं सूर्यभेदनकं शृणु ! <५.५९।२> पूरयेत्सूर्यनाड्या च यथाशक्ति बहिर्मरुत्!!५.५९! <५.६०।१> धारयेद्बहुयत्नेन कुम्भकेन जलंधरैः ! <५.६०।२> यावत्स्वेदं नखकेशाभ्यां तावत्कुर्वन्तु कुम्भकम् !!५.६०! <५.६१।१> प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ! <५.६१।२> नागः कूर्मश्च कृकरो देवदत्तो धनंजयः !!५.६१! <५.६२।१> हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले ! <५.६२।२> समानो नाभिदेशे तु उदानः कण्ठमध्यगः ! <५.६२।३> व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः !!५.६२! <५.६३।१> प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ! <५.६३।२> तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् !!५.६३! <५.६४।१> उद्गारे नाग आख्यातः कूर्मस्तून्मीलने स्मृतः ! <५.६४।२> कृकरः क्षुत्तृषे ज्ञेयो देवदत्तो विजृम्भणे ! <५.६४।३> न जहाति मृते क्वापि सर्वव्यापी धनंजयः !!५.६४! <५.६५।१> नागो गृह्णाति चैतन्यं कूर्मश्चैव निमेषणम् ! <५.६५।२> क्षुत्तृषं कृकरश्चैव जृम्भणं चतुर्थेन तु ! <५.६५।३> भवेद्धनंजयाच्छब्दं क्षणमात्रं न निःसरेत्!!५.६५! <५.६६।१> सर्वं च सूर्यकं भित्वा नाभिमूलात्समुद्धरेत्!!५.६६! <५.६७।१> इडया रेचयेत्पश्चाद्धैर्येणाखण्डवेगतः ! <५.६७।२> पुनः सूर्येण चाकृष्य कुम्भयित्वा यथाविधि !!५.६७! <५.६८।१> रेचयित्वा साधयेत्तु क्रमेण च पुनः पुनः ! <५.६८।२> कुम्भकः सूर्यभेदस्तु जरामृत्युविनाशकः !!५.६८! <५.६९।१> बोधयेत्कुण्डलीं शक्तिं देहानलविवर्धनम् ! <५.६९।२> इति ते कथितं चण्ड सूर्यभेदनमुत्तमम् !!५.६९! <५.७०।१> नासाभ्यां वायुमाकृष्य मुखमध्ये च धारयेत्! <५.७०।२> हृद्गलाभ्यां समाकृष्य वायुं वक्त्रेण धारयेत्!!५.७०! <५.७१।१> मुखं प्रफुल्लं संरक्ष्य कुर्याज्जालंधरं ततः ! <५.७१।२> आशक्ति कुम्भकं कृत्वा धारयेदविरोधतः !!५.७१! <५.७२।१> उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत्! <५.७२।२> न भवेत्कफरोगश्च क्रूरवायुरजीर्णकम् !!५.७२! <५.७३।१> आमवातः क्षयः कासो ज्वरप्लीहा न जायते ! <५.७३।२> जरामृत्युविनाशाय चोज्जायीं साधयेन्नरः !!५.७३! <५.७४।१> जिह्वया वायुमाकृष्य उदरे पूरयेच्छनैः ! <५.७४।२> क्षणं च कुम्भकं कृत्वा नासाभ्यां रेचयेत्पुनः !!५.७४! <५.७५।१> सर्वदा साधयेद्योगी शीतलीकुम्भकं शुभम् ! <५.७५।२> अजीर्णं कफपित्तं च नैव तस्य प्रजायते !!५.७५ भस्त्रेव लोहकाराणां यथाक्रमेण संभ्रमेत्! <५.७५।३> ततो वायुं च नासाभ्यामुभाभ्यां चालयेच्छनैः !!५.७६! <५.७७।१> एवं विंशतिवारं च कृत्वा कुर्याच्च कुम्भकम् ! <५.७७।२> तदन्ते चालयेद्वायुं पूर्वोक्तं च यथाविधि !!५.७७! <५.७८।१> त्रिवारं साधयेदेनं भस्त्रिकाकुम्भकं सुधीः ! <५.७८।२> न च रोगो न च क्लेश आरोग्यं च दिने दिने !!५.७८! <५.७९।१> अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते ! <५.७९।२> कर्णौ निधाय हस्ताभ्यां कुर्यात्पूरकमुत्तमम् !!५.७९! <५.८०।१> शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सुधीः ! <५.८०।२> प्रथमं झिंझीनादं च वंशीनादं ततः परम् ! <५.८०।३> मेघघर्घरभ्रामरी च घण्टाकांस्यं ततः परम् !!५.८०! <५.८१।१> तुरीभेरीमृदङ्गादि वीणानादकदुन्दुभिः ! <५.८१।२> एवं नानाविधो नादो जायते नित्यमभ्यसात्!!५.८१! <५.८२।१> अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ! <५.८२।२> ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः !!५.८२! <५.८३।१> तस्मिंस्तु विलयं याति तद्विष्णोः परमं पदम् ! <५.८३।२> एवं भ्रामरीसंसिद्धिः समाधिसिद्धिमाप्नुयात्!!५.८३! <५.८४।१> मुखे च कुम्भकं कृत्वा भ्रुवोरन्तर्गतं मनः ! <५.८४।२> संत्यज्य विषयान् सर्वान्मनोमूर्च्छा सुखप्रदा !!५.८४! <५.८५।१> आत्मनि मनसंयोगादानन्दं जायते ध्रुवम् ! <५.८५।२> एवं नानाविधानन्दो जायते नित्यमभ्यसात्! <५.८५।३> एवमभ्यासयोगेन समाधिसिद्धिमाप्नुयात्!!५.८५! <५.८६।१> भुजंगिन्याः श्वासवशादजपा जायते ननु ! <५.८६।२> हंकारेण बहिर्याति सःकारेण विशेत्पुनः !!५.८६! <५.८७।१> षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ! <५.८७।२> अजपां नाम गायत्रीं जीवो जपति सर्वदा !!५.८७! <५.८८।१> मूलाधारे यथा हंसस्तथा हि हृदि पङ्कजे ! <५.८८।२> तथा नासापुटद्वन्द्वे त्रिवेणीसंगमागमम् !!५.८८! <५.८९।१> षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम् ! <५.८९।२> देहाद्बहिर्गतो वायुः स्वभावाद्द्वादशाङ्गुलिः !!५.८९! <५.९०।१> शयने षोडशाङ्गुल्यो भोजने विंशतिस्तथा ! <५.९०।२> चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंशदङ्गुलिः ! <५.९०।३> मैथुने षट्त्रिंशदुक्तं व्यायामे च ततोऽधिकम् !!५.९०! <५.९१।१> स्वभावे श्य गतेर्न्यूने परमायुः प्रवर्धते ! <५.९१।२> आयुःक्षयोऽधिके प्रोक्तो मारुते चान्तराद्गते !!५.९१! <५.९२।१> तस्मात्प्राणे स्थिते देहे मरणं नैव जायते ! <५.९२।२> वायुना घटसंबन्धे भवेत्केवलकुम्भकः !!५.९२! <५.९३।१> यावज्जीवं जपेन्मन्त्रमजपासंख्यकेवलम् ! <५.९३।२> अद्यावधि धृतं संख्या विभ्रमं केवलीकृते !!५.९३! <५.९४।१> अत एव हि कर्तव्यः केवलीकुम्भको नरैः ! <५.९४।२> केवली चाजपासंख्या द्विगुणा च मनोन्मनी !!५.९४! <५.९५।१> नासाभ्यां वायुमाकृष्य केवलं कुम्भकं चरेत्! <५.९५।२> एकादिकचतुःषष्टिं धारयेत्प्रथमे दिने !!५.९५! <५.९६।१> केवलीमष्टधा कुर्याद्यामे यामे दिने दिने ! <५.९६।२> अथ वा पञ्चधा कुर्याद्यथा तत्कथयामि ते !!५.९६! <५.९७।१> प्रातर्मध्याह्नसायाह्ने मध्यरात्रे चतुर्थके ! <५.९७।२> त्रिसंध्यमथ वा कुर्यात्सममाने दिने दिने !!५.९७! <५.९८।१> पञ्चवारं दिने वृद्धिर्वारैकं च दिने तथा ! <५.९८।२> अजपापरिमाणे च यावत्सिद्धिः प्रजायते !!५.९८! <५.९९।१> प्राणायामं केवलीं नाम तदा वदति योगवित्! <५.९९।२> कुम्भके केवले सिद्धे किं न सिध्यति भूतले !!५.९९! <५.१००।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगप्रकरणे प्राणायामप्रयोगो नाम पञ्चमोपदेशः !!५ ]] <६.१।१> घेरण्ड उवाच <६.१।११> स्थूलं ज्योतिस्तथा सूक्ष्मं ध्यानस्य त्रिविधं विदुः ! <६.१।२> स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं तथा ! <६.१।३> सूक्ष्मं बिन्दुमयं ब्रह्म कुण्डली परदेवता !!६.१! <६.२।१> स्वकीयहृदये ध्यायेत्सुधासागरमुत्तमम् ! <६.२।२> तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम् !!६.२! <६.३।१> चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम् ! <६.३।२> नीपोपवनसंकुलैर्वेष्टितं परिता इव !!६.३! <६.४।१> मालती मल्लिकाजाती केसरैश्चम्पकैस्तथा ! <६.४।२> पारिजातैः स्थलपद्मैर्गन्धामोदितदिङ्मुखैः !!६.४! <६.५।१> तन्मध्ये संस्मरेद्योगी कल्पवृक्षं मनोरमम् ! <६.५।२> चतुःशाखाचतुर्वेदं नित्यपुष्पफलान्वितम् !!६.५! <६.६।१> भ्रमराः कोकिलास्तत्र गुञ्जन्ति निगदन्ति च ! <६.६।२> ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम् !!६.६! <६.७।१> तन्मध्ये तु स्मरेद्योगी पर्यङ्कं सुमनोहरम् ! <६.७।२> तत्रेष्टदेवतां ध्यायेद्यद्ध्यानं गुरुभाषितम् !!६.७! <६.८।१> यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ! <६.८।२> तद्रूपं ध्यायते नित्यं स्थूलध्यानमिदं विदुः !!६.८! <६.९।१> सहस्रारमहापद्मे कर्णिकायां विचिन्तयेत्! <६.९।२> विलग्नसहितं पद्मं द्वादशैर्दलसंयुतम् !!६.९! <६.१०।१> शुभ्रवर्णं महातेजो द्वादशैर्बीजभाषितम् ! <६.१०।२> सहक्षमवलरियुं हंसशक्तिं यथाक्रमम् !!६.१०! <६.११।१> तन्मध्ये कर्णिकायां तु अकथादिरेखात्रयम् ! <६.११।२> हलक्षकोणसंयुक्तं प्रणवं तत्र वर्तते !!६.११! <६.१२।१> नादबिन्दुमयं पीठं ध्यायेत्तत्र मनोहरम् ! <६.१२।२> तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते !!६.१२! <६.१३।१> ध्यायेत्तत्र गुरुं देवं विभुजं च त्रिलोचनम् ! <६.१३।२> श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम् !!६.१३! <६.१४।१> शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम् ! <६.१४।२> एवंविधगुरुध्यानात्स्थूलध्यानं प्रसिध्यति !!६.१४! <६.१५।१> कथितं स्थूलध्यानं तु तेजोध्यानं शृणुष्व मे ! <६.१५।२> यद्ध्यानेन योगसिद्धिरात्मप्रत्यक्षमेव च ! <६.१५।३> मूलाधारे कुण्डलिनी भुजगाकाररूपिणी !!६.१५! <६.१६।१> जीवात्मा तिष्ठति तत्र प्रदीपकलिकाकृतिः ! <६.१६।२> ध्यायेत्तेजोमयं ब्रह्म तेजोध्यानं तदेव हि !!६.१६! <६.१७।१> नाभिमूले स्थितं सूर्य मण्डलं वह्निसंयुतम् ! <६.१७।२> ध्यायेत्तेजो महद्व्याप्तं तेजोध्यानं तदेव हि !!६.१७! <६.१८।१> भ्रुवोर्मध्ये मनोर्ध्वे च यत्तेजः प्रणवात्मकम् ! <६.१८।२> ध्यायेज्ज्वालावलीयुक्तं तेजोध्यानं तदेव हि !!६.१८! <६.१९।१> तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं वदाम्यहम् ! <६.१९।२> बहुभाग्यवशाद्यस्य कुण्डली जाग्रती भवेत्!!६.१९! <६.२०।१> आत्मना सह योगेन नेत्ररन्ध्राद्विनिर्गता ! <६.२०।२> विहरेद्राजमार्गे च चञ्चलत्वान्न दृश्यते !!६.२०! <६.२१।१> शांभवीमुद्रया योगी ध्यानयोगेन सिध्यति ! <६.२१।२> सूक्ष्मध्यानमिदं गोप्यं देवानामपि दुर्लभम् !!६.२१! <६.२२।१> स्थूलध्यानाच्छतगुणं तेजोध्यानं प्रचक्षते ! <६.२२।२> तेजोध्यानाल्लक्षगुणं सूक्ष्मध्यानं परात्परम् !!६.२२! <६.२३।१> इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम् ! <६.२३।२> आत्मा साक्षाद्भवेद्यस्मात्तस्माद्ध्यानं विशिष्यते !!६.२३! <६.२४।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगे सप्तसाधने ध्यानयोगो नाम षष्ठोपदेशः !!६ ]] <७.१।१> घेरण्ड उवाच <७.१।११> समाधिश्च परं तत्त्वं बहुभाग्येन लभ्यते ! <७.१।२> गुरोः कृपाप्रसादेन प्राप्यते गुरुभक्तितः !!७.१! <७.२।१> विद्याप्रतीतिः स्वगुरुप्रतीतिर्! <७.२।२> आत्मप्रतीतिर्मनसः प्रबोधः ! <७.२।३> दिने दिने यस्य भवेत्स योगी ! <७.२।४> सुशोभनाभ्यासमुपैति सद्यः !!७.२! <७.३।१> घटाद्भिन्नं मनः कृत्वा ऐक्यं कुर्यात्परात्मनि ! <७.३।२> समाधिं तं विजानीयान्मुक्तसंज्ञो दशादिभिः !!७.३! <७.४।१> अहं ब्रह्म न चान्यो श्मि ब्रह्मैवाहं न शोकभाक्! <७.४।२> सच्चिदानन्दरूपोऽहं नित्यमुक्तः स्वभाववान् !!७.४! <७.५।१> शांभव्या चैव खेचर्या भ्रामर्या योनिमुद्रया ! <७.५।२> ध्यानं नादं रसानन्दं लयसिद्धिश्चतुर्विधा !!७.५! <७.६।१> पञ्चधा भक्तियोगेन मनोमूर्च्छा च षड्विधा ! <७.६।२> षड्विधोऽयं राजयोगः प्रत्येकमवधारयेत्!!७.६! <७.७।१> शांभवीं मुद्रिकां कृत्वा आत्मप्रत्यक्षमानयेत्! <७.७।२> बिन्दु ब्रह्ममयं दृष्ट्वा मनस्तत्र नियोजयेत्!!७.७! <७.८।१> खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ! <७.८।२> आत्मानं खमयं दृष्ट्वा न किंचिदपि बाध्यते ! <७.८।३> सदानन्दमयो भूत्वा समाधिस्थो भवेन्नरः !!७.८! <७.९।१> खेचरीमुद्रासाधनाद्रसना ऊर्ध्वगता यदा ! <७.९।२> तदा समाधिसिद्धिः स्याद्धित्वा साधारणक्रियाम् !!७.९! <७.१०।१> अनिलं मन्दवेगेन भ्रामरीकुम्भकं चरेत्! <७.१०।२> मन्दं मन्दं रेचयेद्वायुं भृङ्गनादं ततो भवेत्!!७.१०! <७.११।१> अन्तःस्थं भ्रमरीनादं श्रुत्वा तत्र मनो नयेत्! <७.११।२> समाधिर्जायते तत्र आनन्दः सोऽहमित्यतः !!७.११! <७.१२।१> योनिमुद्रां समासाद्य स्वयं शक्तिमयो भवेत्! <७.१२।२> सुशृङ्गाररसेनैव विहरेत्परमात्मनि !!७.१२! <७.१३।१> आनन्दमयः संभूत्वा ऐक्यं ब्रह्मणि संभवेत्! <७.१३।२> अहं ब्रह्मेति चाद्वैतं समाधिस्तेन जायते !!७.१३! <७.१४।१> स्वकीयहृदये ध्यायेदिष्टदेवस्वरूपकम् ! <७.१४।२> चिन्तयेद्भक्तियोगेन परमाह्लादपूर्वकम् !!७.१४! <७.१५।१> आनन्दाश्रुपुलकेन दशाभावः प्रजायते ! <७.१५।२> समाधिः संभवेत्तेन संभवेच्च मनोन्मनी !!७.१५! <७.१६।१> मनोमूर्च्छां समासाद्य मन आत्मनि योजयेत्! <७.१६।२> परात्मनः समायोगात्समाधिं समवाप्नुयात्!!७.१६! <७.१७।१> इति ते कथितं चण्ड समाधिर्मुक्तिलक्षणम् ! <७.१७।२> राजयोगः समाधिः स्यादेकात्मन्येव साधनम् ! <७.१७।३> उन्मनी सहजावस्था सर्वे चैकात्मवाचकाः !!७.१७! <७.१८।१> जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ! <७.१८।२> ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत्!!७.१८! <७.१९।१> भूचराः खेचराश्चामी यावन्तो जीवजन्तवः ! <७.१९।२> वृक्षगुल्मलतावल्ली तृणाद्या वारि पर्वताः ! <७.१९।३> सर्वं ब्रह्म विजानीयात्सर्वं पश्यति चात्मनि !!७.१९! <७.२०।१> आत्मा घतस्थचैतन्यमद्वैतं शाश्वतं परम् ! <७.२०।२> घटाद्भिन्नतरं ज्ञानं वीतरागं विवासनम् !!७.२०! <७.२१।१> एवंविधिः समाधिः स्यात्सर्वसंकल्पवर्जितः ! <७.२१।२> स्वदेहे पुत्रदारादि+ !बान्धवेषु धनादिषु ! <७.२१।३> सर्वेषु निर्ममो भूत्वा समाधिं समवाप्नुयात्!!७.२१! <७.२२।१> लयामृतं परं तत्त्वं शिवोक्तं विविधानि च ! <७.२२।२> तेषां संक्षेपमादाय कथितं मुक्तिलक्षणम् !!७.२२! <७.२३।१> इति ते कथितश्चण्ड समाधिर्दुर्लभः परः ! <७.२३।२> यं ज्ञात्वा न पुनर्जन्म जायते भूमिमण्डले !!७.२३! <७.२४।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगसाधने योगस्य सप्तसारे समाधियोगो नाम सप्तमोपदेशः समाप्तः !!७ ]]

Search

Search here.