हठ योग घेरंड संहिता
ग्रंथालय > भारतीय षट् दर्शन Posted at 2016-08-10 10:43:57
हठ योग घेरंड संहिता
<१.०।१> आदीश्वराय प्रणनामि तस्मै !
<१.०।२> येनोपदिष्टा हठयोगविद्या !
<१.०।३> विराजते प्रोन्नतराजयोगम् !
<१.०।४> आरोढुमिच्छोरधिरोहिणीव !!१.०!
<१.१।१> एकदा चण्डकापालिर्गत्वा घेरण्डकुट्टिरम् !
<१.१।२> प्रणम्य विनयाद्भक्त्या घेरण्डं परिपृच्छ्हति !!१.१!
<१.२।१> चण्डकापालिरुवाच घटस्थयोगं योगेश तत्त्वज्ञानस्य कारणम् !
<१.२।२> इदानीं श्रोतुमिच्छामि योगेश्वर वद प्रभो !!१.२!
<१.३।१> घेरण्ड उवाच साधु साधु महाबाहो यन्मां त्वं परिपृच्छसि !
<१.३।२> कथयामि हि ते तत्त्वं सावधानोऽवधारय !!१.३!
<१.४।१> नास्ति मायासमः पाशो नास्ति योगात्परं बलम् !
<१.४।२> न हि ज्ञानात्परो बन्धुर्नाहंकारात्परो रिपुः !!१.४!
<१.५।१> अभ्यासात्कादिवर्णादेर्यथा शास्त्राणि बोधयेत्!
<१.५।२> तथा योगं समासाद्य तत्त्वज्ञानं च लभ्यते !!१.५!
<१.६।१> सुकृतैर्दुष्कृतैः कार्यैर्जायते प्राणिनां घटः !
<१.६।२> घटादुत्पद्यते कर्म घटयन्त्रं यथा भ्रमेत्!!१.६!
<१.७।१> ऊर्ध्वाधो भ्रमते यद्वद्घटयन्त्रं गवां वशात्!
<१.७।२> तद्वत्कर्मवशाज्जीवो भ्रमते जन्ममृत्युना !!१.७!
<१.८।१> आमकुम्भ इवाम्भःस्थो जीर्यमाणः सदा घटः !
<१.८।२> योगानलेन संदह्य घटशुद्धिं समाचरेत्!!१.८!
<१.९।१> शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम् !
<१.९।२> प्रत्यक्षं च निर्लिप्तं च घतस्थं सप्तसाधनम् !!१.९!
<१.१०।१> षट्कर्मणा शोधनं च आसनेन भवेद्दृढम् !
<१.१०।२> मुद्रया स्थिरता चैव प्रत्याहारेण धैर्यता !!१.१०!
<१.११।१> प्राणायामाल्लाघवं च ध्यानात्प्रत्यक्षमात्मनि !
<१.११।२> समाधिना निर्लिप्तं च मुक्तिरेव न संशयः !!१.११!
<१.१२।१> धौतिर्वस्तिस्तथा नेतिर्लौलिकी त्राटकं तथा !
<१.१२।२> कपालभातिश्चैतानि षट्कर्माणि समाचरेत्!!१.१२!
<१.१३।१> अन्तर्धौतिर्दन्तधौतिर्हृद्धौतिर्मूलशोधनम् !
<१.१३।२> धौत्यश्चतुर्विधा प्रोक्ता घटं कुर्वन्ति निर्मलम् !!१.१३!
<१.१४।१> वातसारं वारिसारं वह्निसारं बहिष्कृतम् !
<१.१४।२> घटस्य निर्मलार्थाय ह्यन्तर्धौतिश्चतुर्विधा !!१.१४!
<१.१५।१> काकचञ्चूवदास्येन पिबेद्वायुं शनैः शनैः !
<१.१५।२> चालयेदुदरं पश्चाद्वर्त्मना रेचयेच्छनैः !!१.१५!
<१.१६।१> वातसारं परं गोप्यं देहनिर्मलकारकम् !
<१.१६।२> सर्वरोगक्षयकरं देहानलविवर्धकम् !!१.१६!
<१.१७।१> आकण्ठं पूरयेद्वारि वक्त्रेण च पिबेच्छनैः !
<१.१७।२> चालयेदुदरेणैव चोदराद्रेचयेदधः !!१.१७!
<१.१८।१> वारिसारं परं गोप्यं देहनिर्मलकारकम् !
<१.१८।२> साधयेद्यः प्रयत्नेन देवदेहं प्रपद्यते !!१.१८!
<१.१९।१> वारिसारं परां धौतिं साधयेद्यः प्रयत्नतः !
<१.१९।२> मलदेहं शोधयित्वा देवदेहं प्रपद्यते !!१.१९!
<१.२०।१> नाभिग्रन्थिं मेरुपृष्ठे शतवारं च कारयेत्!
<१.२०।२> उदरामयजं त्यक्त्वा जाठराग्निं विवर्धयेत्!
<१.२०।३> वह्निसारमियं धौतिर्योगिनां योगसिद्धिदा !!१.२०!
<१.२१।१> एषा धौतिः परा गोप्या न प्रकाश्या कदाचन !
<१.२१।२> केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् !!१.२१!
<१.२२।१> काकीमुद्रां साधयित्वा पूरयेदुदरं महत्!
<१.२२।२> धारयेदर्धयामं तु चालयेदधवर्त्मना !
<१.२२।३> एषा धौतिः परा गोप्या न प्रकाश्या कदाचन !!१.२२!
<१.२३।१> नाभिमग्नजले स्थित्वा शक्तिनाडीं विमर्जयेत्!
<१.२३।२> काराभ्यां क्षालयेन्नाडीं यावन्मलविसर्जनम् !!१.२३!
<१.२४।१> तावत्प्रक्षाल्य नाडीं च उदरे वेशयेत्पुनः !
<१.२४।२> इदं प्रक्षालनं गोप्यं देवानामपि दुर्लभम् !
<१.२४।३> केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् !!१.२४!
<१.२५।१> यामार्धधारणाशक्तिं यावन्न साधयेन्नरः !
<१.२५।२> बहिष्कृतं महाधौती तावन्नैव तु जायते !!१.२५!
<१.२६।१> दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः !
<१.२६।२> कपालरन्ध्रं पञ्चेति दन्तधौतिर्विधीयते !!१.२६!
<१.२७।१> खदिरेण रसेनाथ मृत्तिकया च शुद्धया !
<१.२७।२> मार्जयेद्दन्तमूलं च यावत्किल्बिषमाहरेत्!!१.२७!
<१.२८।१> दन्तमूलं परा धौतिर्योगिनां योगसाधने !
<१.२८।२> नित्यं कुर्यात्प्रभाते च दन्तरक्षाय योगवित्!
<१.२८।३> दन्तमूलं धारणादि कार्येषु योगिनां यतः !!१.२८!
<१.२९।१> अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम् !
<१.२९।२> जरामरणरोगादीन्नाशयेद्दीर्घलम्बिका !!१.२९!
<१.३०।१> तर्जनीमध्यमानामा अङ्गुलित्रययोगतः !
<१.३०।२> वेशयेद्गलमध्ये तु मार्जयेल्लम्बिकामलम् !
<१.३०।३> शनैः शनैर्मार्जयित्वा कफदोषं निवारयेत्!!१.३०!
<१.३१।१> मार्जयेन्नवनीतेन दोहयेच्च पुनः पुनः !
<१.३१।२> तदग्रं लौहयन्त्रेण कर्षयित्वा पुनः पुनः !!१.३१!
<१.३२।१> नित्यं कुर्यात्प्रयत्नेन रवेरुदयके श्तके !
<१.३२।२> एवं कृते तु नित्ये च लम्बिका दीर्घतां गता !!१.३२!
<१.३३।१> तर्जन्यङ्गुल्यग्रयोगान् मार्जयेत्कर्णरन्ध्रयोः !
<१.३३।२> नित्यमभ्यासयोगेन नादान्तरं प्रकाशनम् !!१.३३!
<१.३४।१> वृद्धाङ्गुष्ठेन दक्षेण मर्दयेद्भालरन्ध्रकम् !
<१.३४।२> एवमभ्यासयोगेन कफदोषं निवारयेत्!!१.३४!
<१.३५।१> नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते !
<१.३५।२> निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने !!१.३५!
<१.३६।१> हृद्धौतिं त्रिविधां कुर्याद्दण्डवमनवाससा !!१.३६!
<१.३७।१> रम्भादण्डं हरिद्दण्डं वेत्रदण्डं तथैव च !
<१.३७।२> हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच्छनैः !!१.३७!
<१.३८।१> कफपित्तं तथा क्लेदं रेचयेदूर्ध्ववर्त्मना !
<१.३८।२> दण्डधौतिविधानेन हृद्रोगं नाशयेद्ध्रुवम् !!१.३८!
<१.३९।१> भोजनान्ते पिबेद्वारि आकर्णपूरितं सुधीः !
<१.३९।२> ऊर्ध्वदृष्टिं क्षणं कृत्वा तज्जलं वमयेत्पुनः !
<१.३९।३> नित्यमभ्यासयोगेन कफपित्तं निवारयेत्!!१.३९!
<१.४०।१> एकोनविंशतिः हस्तः पञ्चविंशति वै तथा !
<१.४०।२> चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रसेत्!
<१.४०।३> पुनः प्रत्याहरेदेतत्प्रोच्यते धौतिकर्मकम् !!१.४०!
<१.४१।१> गुल्मज्वरप्लीहाकुष्ठ कफपित्तं विनश्यति !
<१.४१।२> आरोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने !!१.४१!
<१.४२।१> अपानक्रूरता तावद्यावन्मूलं न शोधयेत्!
<१.४२।२> तस्मात्सर्वप्रयत्नेन मूलशोधनमाचरेत्!!१.४२!
<१.४३।१> पीतमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा !
<१.४३।२> यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुनः !!१.४३!
<१.४४।१> वारयेत्कोष्ठकाठिन्यमामाजीर्णं निवारयेत्!
<१.४४।२> कारणं कान्तिपुष्ट्योश्च दीपनं वह्निमण्डलम् !!१.४४!
<१.४५।१> जलवस्तिः शुष्कवस्तिर्वस्ती च द्विविधौ स्मृतौ !
<१.४५।२> जलवस्तिं जले कुर्याच्छुष्कवस्तिं क्षितौ सदा !!१.४५!
<१.४६।१> नाभिमग्नजले पायु न्यस्तनालोत्कटासनः !
<१.४६।२> आकुञ्चनं प्रकाशं च जलवस्तिं समाचरेत्!!१.४६!
<१.४७।१> प्रमेहं च गुदावर्तं क्रूरवायुं निवारयेत्!
<१.४७।२> भवेत्स्वच्छन्ददेहश्च कामदेवसमो भवेत्!!१.४७!
<१.४८।१> वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः !
<१.४८।२> अश्विनीमुद्रया पायुमाकुञ्चयेत्प्रकाशयेत्!!१.४८!
<१.४९।१> एवमभ्यासयोगेन कोष्ठदोषो न विद्यते !
<१.४९।२> विवर्धयेज्जाठराग्निमामवातं विनाशयेत्!!१.४९!
<१.५०।१> वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत्!
<१.५०।२> मुखान्निर्गमयेत्पश्चात्प्रोच्यते नेतिकर्मकम् !!१.५०!
<१.५१।१> साधनान्नेतिकर्मापि खेचरीसिद्धिमाप्नुयात्!
<१.५१।२> कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजायते !!१.५१!
<१.५२।१> अमन्दवेगं तुन्दं च भ्रामयेदुभपार्श्वयोः !
<१.५२।२> सर्वरोगान्निहन्तीह देहानलविवर्धनम् !!१.५२!
<१.५३।१> निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत्!
<१.५३।२> यावदश्रू निपतते त्राटकं प्रोच्यते बुधैः !!१.५३!
<१.५४।१> एवमभ्यासयोगेन शांभवी जायते ध्रुवम् !
<१.५४।२> न जायते नेत्ररोगः दिव्यदृष्टिप्रदायकम् !!१.५४!
<१.५५।१> वामक्रमेण व्युत्क्रमेण शीत्क्रमेण विशेषतः !
<१.५५।२> भालभातिं त्रिधा कुर्यात्कफदोषं निवारयेत्!!१.५५!
<१.५६।१> इडया पूरयेद्वायुं रेचयेत्पिङ्गला पुनः !
<१.५६।२> पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत्!!१.५६!
<१.५७।१> पूरकं रेचकं कृत्वा वेगेन न तु चालयेत्!
<१.५७।२> एवमभ्यासयोगेन कफदोषं निवारयेत्!!१.५७!
<१.५८।१> नासाभ्यां जलमाकृष्य पुनर्वक्त्रेण रेचयेत्!
<१.५८।२> पायं पायं प्रकुर्वंश्चेच्छ्लेष्मदोषं निवारयेत्!!१.५८!
<१.५९।१> शीत्कृत्य पीत्वा वक्त्रेण नासानलैर्विरेचयेत्!
<१.५९।२> एवमभ्यासयोगेन कामदेवसमो भवेत्!!१.५९!
<१.६०।१> न जायते वार्द्धकं च ज्वरो नैव प्रजायते !
<१.६०।२> भवेत्स्वच्छन्ददेहश्च कफदोषं निवारयेत्!!१.६०!
<१.६१।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे षट्कर्मसाधनं नाम प्रथमोपदेशः !!१! ]]
<२.१।१> घेरण्ड उवाच
<२.१।११> आसनानि समस्तानि यावन्तो जीवजन्तवः !
<२.१।२> चतुरशीति लक्षाणि शिवेन कथितं पुरा !!२.१!
<२.२।१> तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम् !
<२.२।२> तेषां मध्ये मर्त्यलोके द्वात्रिंशदासनं शुभम् !!२.२!
<२.३।१> सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम् !
<२.३।२> सिंहं च गोमुखं वीरं धनुरासनमेव च !!२.३!
<२.४।१> मृतं गुप्तं तथा मात्स्यं मत्स्येन्द्रासनमेव च !
<२.४।२> गोरक्षं पश्चिमोत्तानमुत्कटं संकटं तथा !!२.४!
<२.५।१> मयूरं कुक्कुटं कूर्मं तथा उत्तानकूर्मकम् !
<२.५।२> उत्तानमण्डुकं वृक्षं मण्डूकं गरुडं वृषम् !!२.५!
<२.६।१> शलभं मकरं चोष्ट्रं भुजंगं च योगासनम् !
<२.६।२> द्वात्रिंशदासनान्येव मर्त्यलोके च सिद्धिदा !!२.६!
<२.७।१> योनिस्थानकमङ्घ्रिमूलघटितं संपीड्य गुल्फेतरं !
<२.७।११> मेढ्रोपर्यथ संनिधाय चिबुकं कृत्वा हृदि स्थापितम् !
<२.७।२> स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरे !
<२.७।३> एतन्मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते !!२.७!
<२.८।१> वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा !
<२.८।११> दक्षोरूपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् !
<२.८।२> अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेद् !
<२.८।३> एतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते !!२.८!
<२.९।१> गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ॰ !
<२.९।२> पादाङ्गुष्ठौ कराभ्यां च धृत्वा च पृष्ठदेशतः !!२.९!
<२.१०।१> जालंधरं समासाद्य नासाग्रमवलोकयेत्!
<२.१०।२> भद्रासनं भवेदेतत्सर्वव्याधिविनाशकम् !!२.१०!
<२.११।१> पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि !
<२.११।२> शिरोग्रीवासमे काये मुक्तासनं तु सिद्धिदम् !!२.११!
<२.१२।१> जङ्घयोर्वज्रवत्कृत्वा गुदपार्श्वे पदावुभौ !
<२.१२।२> वज्रासनं भवेदेतद्योगिनां सिद्धिदायकम् !!२.१२!
<२.१३।१> जानूर्वोरन्तरे कृत्वा योगी पादतले उभे !
<२.१३।२> ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते !!२.१३!
<२.१४।१> गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ !
<२.१४।२> चितिमूलौ भूमिसंस्थौ करौ च जानुनोपरि !!२.१४!
<२.१५।१> व्यात्तवक्त्रो जलंध्रेण नासाग्रमवलोकयेत्!
<२.१५।२> सिंहासनं भवेदेतत्सर्वव्याधिविनाशकम् !!२.१५!
<२.१६।१> पादौ भूमौ च संस्थाप्य पृष्ठपार्श्वे निवेशयेत्!
<२.१६।२> स्थिरकायं समासाद्य गोमुखं गोमुखाकृति !!२.१६!
<२.१७।१> एकपादमथैकस्मिन् विन्यसेदूरुसंस्थितम् !
<२.१७।२> इतरस्मिंस्तथा पश्चाद्वीरासनमितीरितम् !!२.१७!
<२.१८।१> प्रसार्य पादौ भुवि दण्डरूपौ !
<२.१८।११> करौ च पृष्ठं धृतपादयुग्मम् !
<२.१८।२> कृत्वा धनुस्तुल्यविवर्तिताङ्गं !
<२.१८।३> निगद्यते वै धनुरासनं तत्!!२.१८!
<२.१९।१> उत्तानं शववद्भूमौ शयानं तु शवासनम् !
<२.१९।२> शवासनं श्रमहरं चित्तविश्रान्तिकारणम् !!२.१९!
<२.२०।१> जानूर्वोरन्तरे पादौ कृत्वा पादौ च गोपयेत्!
<२.२०।२> पादौपरि च संस्थाप्य गुदं गुप्तासनं विदुः !!२.२०!
<२.२१।१> मुक्तपद्मासनं कृत्वा उत्तानशयनं चरेत्!
<२.२१।२> कूर्पराभ्यां शिरो वेष्ट्य मत्स्यासनं तु रोगहा !!२.२१!
<२.२२।१> उदरे पश्चिमं॰ तानं कृत्वा तिष्ठति यत्नतः !
<२.२२।२> नम्राङ्गं वामपदं हि दक्षजानूपरि न्यसेत्!!२.२२!
<२.२३।१> तत्र याम्यं कूर्परं च याम्यकरे च वक्त्रकम् !
<२.२३।२> भ्रुवोर्मध्ये गता दृष्टिः पीठं मत्स्येन्द्रमुच्यते !!२.२३!
<२.२४।१> जानूर्वोरन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ !
<२.२४।२> गुल्फौ चाच्छाद्य हस्ताभ्यामुत्तानाभ्यं प्रयत्नतः !!२.२४!
<२.२५।१> कण्ठसंकोचनं कृत्वा नासाग्रमवलोकयेत्!
<२.२५।२> गोरक्षासनमित्याहुर्योगिनां सिद्धिकारणम् !!२.२५!
<२.२६।१> प्रसार्य पादौ भुवि दण्डरूपौ !
<२.२६।२> संन्यस्तभालं चितियुग्ममध्ये !
<२.२६।३> यत्नेन पादौ च धृतौ कराभ्यां !
<२.२६।४> योगेन्द्रपीठं पश्चिमतानमाहुः !!२.२६!
<२.२७।१> अङ्गुष्ठाभ्यामवष्टभ्य धरां गुल्फौ च खे गतौ !
<२.२७।२> तत्रोपरि गुदं न्यसेद्विज्ञेयमुत्कटासनम् !!२.२७!
<२.२८।१> वामपादचितेर्मूलं संन्यस्य धरणीतले !
<२.२८।२> पाददण्डेन याम्येन वेष्टयेद्वामपादकम् !
<२.२८।३> जानुयुग्मे करयुग्ममेतत्संकटमासनम् !!२.२८!
<२.२९।१> धरामवष्टभ्य करद्वयाभ्यां !
<२.२९।२> तत्कूर्परे स्थापितनाभिपार्श्वम् !
<२.२९।३> उच्चासने दण्डवदुत्थितः खे !
<२.२९।४> मयूरमेतत्प्रवदन्ति पीठम् !!२.२९!
<२.३०।१> बहुकदशनभुक्तं भस्म कुर्यादशेषं !
<२.३०।२> जनयति जठराग्निं जारयेत्कालकूटम् !
<२.३०।३> हरति सकलरोगानाशु गुल्मज्वरादीन् !
<२.३०।४> भवति विगतदोषं ह्यासनं श्रीमयूरम् !!२.३०!
<२.३१।१> पद्मासनं समासाद्य जानूर्वोरन्तरे करौ !
<२.३१।२> कूर्पराभ्यां समासीनो मञ्चस्थः कुक्कुटासनम् !!२.३१!
<२.३२।१> गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ !
<२.३२।२> ऋजुकायशिरोग्रीवं कूर्मासनमितीरितम् !!२.३२!
<२.३३।१> कुक्कुटासनबन्धस्थं कराभ्यां धृतकन्धरम् !
<२.३३।२> खगकूर्मवदुत्तानमेतदुत्तानकूर्मकम् !!२.३३!
<२.३४।१> पादतलौ पृष्ठदेशे अङ्गुष्ठौ द्वौ च संस्पृशेत्!
<२.३४।२> जानुयुग्मं पुरस्कृत्य साधयेन्मण्डुकासनम् !!२.३४!
<२.३५।१> मण्डूकासनबन्धस्थं कूर्पराभ्यां धृतं शिरः !
<२.३५।२> एतद्भेकवदुत्तानमेतदुत्तानमण्डुकम् !!२.३५!
<२.३६।१> वामोरुमूलदेशे च याम्यं पादं निधाय तु !
<२.३६।२> तिष्ठति वृक्षवद्भूमौ वृक्षासनमिदं विदुः !!२.३६!
<२.३७।१> जङ्घोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना !
<२.३७।२> जानूपरि करयुग्मं गरुडासनमुच्यते !!२.३७!
<२.३८।१> याम्यगुल्फे पायुमूलं वामभागे पदेतरम् !
<२.३८।२> विपरीतं स्पृशेद्भूमिं वृषासनमिदं भवेत्!!२.३८!
<२.३९।१> अध्यास्य शेते पदयुग्मवक्षे !
<२.३९।२> भूमिमवष्टभ्य करद्वयाभ्याम् !
<२.३९।३> पादौ च शून्ये च वितस्ति चोर्ध्वं !
<२.३९।४> वदन्ति पीठं शलभं मुनीन्द्राः !!२.३९!
<२.४०।१> अध्यास्य शेते हृदयं निधाय !
<२.४०।२> भूमौ च पादौ प्रविसार्यमाणौ !
<२.४०।३> शिरश्च धृत्वा करदण्डयुग्मे !
<२.४०।४> देहाग्निकारं मकरासनं तत्!!२.४०!
<२.४१।१> अध्यास्य शेते पदयुग्ममस्तं !
<२.४१।११> पृष्ठे निधायापि धृतं कराभ्याम् !
<२.४१।२> आकुञ्च्य सम्यग्घ्युदरास्यगण्डम् !
<२.४१।३> उष्ट्रं च पीठं यतयो वदन्ति !!२.४१!
<२.४२।१> अङ्गुष्ठनाभिपर्यन्तमधो भूमौ च विन्यसेत्!
<२.४२।२> करतलाभ्यां धरां धृत्वा ऊर्ध्वं शीर्षं फणीव हि !!२.४२!
<२.४३।१> देहाग्निर्वर्धते नित्यं सर्वरोगविनाशनम् !
<२.४३।२> जागर्ति भुजगी देवी साधनाद्भुजंगासनम् !!२.४३!
<२.४४।१> उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि !
<२.४४।२> आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् !!२.४४!
<२.४५।१> पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत्!
<२.४५।२> योगासनं भवेदेतद्योगिनां योगसाधने !!२.४५!
<२.४६।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोग आसनप्रयोगो नाम द्वितीयोपदेशः !!२! ]]
<३.१।१> घेरण्ड उवाच महामुद्रा नभोमुद्रा उड्डीयानं जलंधरम् !
<३.१।२> मूलबन्धं महाबन्धं महावेधश्च खेचरी !!३.१!
<३.२।१> विपरीतकरणी योनिर्वज्रोली शक्तिचालनी !
<३.२।२> तडागी माण्डुकी मुद्रा शांभवी पञ्चधारणा !!३.२!
<३.३।१> अश्विनी पाशिनी काकी मातङ्गी च भुजंगिनी !
<३.३।२> पञ्चविंशतिमुद्राश्च सिद्धिदा इह योगिनाम् !!३.३!
<३.४।१> मुद्राणां पटलं देवि कथितं तव संनिधौ !
<३.४।२> येन विज्ञातमात्रेण सर्वसिद्धिः प्रजायते !!३.४!
<३.५।१> गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित्!
<३.५।२> प्रीतिदं योगिनां चैव दुर्लभं मरुतामपि !!३.५!
<३.६।१> पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः !
<३.६।२> याम्यपादं प्रसार्याथ कराभ्यां धृतपदाङ्गुलिः !!३.६!
<३.७।१> कण्ठसंकोचनं कृत्वा भ्रुवोर्मध्ये निरीक्षयेत्!
<३.७।२> पूरकैर्वायुं संपूर्य महामुद्रा निगद्यते !!३.७!
<३.८।१> वलितं पलितं चैव जरां मृत्युं निवारयेत्!
<३.८।२> क्षयकासं गुदावर्तं प्लीहाजीर्णं ज्वरं तथा !
<३.८।३> नाशयेत्सर्वरोगांश्च महामुद्राभिसेवनात्!!३.८!
<३.९।१> यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा !
<३.९।२> ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत्पवनं सदा !
<३.९।३> नभोमुद्रा भवेदेषा योगिनां रोगनाशिनी !!३.९!
<३.१०।१> उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत्!
<३.१०।२> उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः !
<३.१०।३> उड्डीयानं त्वसौ बन्धो मृत्युमातंगकेसरी !!३.१०!
<३.११।१> समग्राद्बन्धनाद्ध्येतदुड्डीयानं विशिष्यते !
<३.११।२> उड्डीयाने समभ्यस्ते मुक्तिः स्वाभाविकी भवेत्!!३.११!
<३.१२।१> कण्ठसंकोचनं कृत्वा चिबुकं हृदये न्यसेत्!
<३.१२।२> जालंधरे कृते बन्धे षोडशाधारबन्धनम् !
<३.१२।३> जालंधरमहामुद्रा मृत्योश्च क्षयकारिणी !!३.१२!
<३.१३।१> सिद्धं जालंधरं बन्धं योगिनां सिद्धिदायकम् !
<३.१३।२> षण्मासमभ्यसेद्यो हि स सिद्धो नात्र संशयः !!३.१३!
<३.१४।१> पार्ष्णिना वामपादस्य योनिमाकुञ्चयेत्ततः !
<३.१४।२> नाभिग्रन्थिं मेरुदण्डे संपीड्य यत्नतः सुधीः !!३.१४!
<३.१५।१> मेढ्रं दक्षिणगुल्फेन दृढबन्धं समाचरेत्!
<३.१५।२> नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः !
<३.१५।३> जराविनाशिनी मुद्रा मूलबन्धो निगद्यते !!३.१५!
<३.१६।१> संसारसागरं तर्तुमभिलषति यः पुमान् !
<३.१६।२> विरले सुगुप्तो भूत्वा मुद्रामेतां समभ्यसेत्!!३.१६!
<३.१७।१> अभ्यासाद्बन्धनस्यास्य मरुत्सिद्धिर्भवेद्ध्रुवम् !
<३.१७।२> साधयेद्यत्नतस्तर्हि मौनी तु विजितालसः !!३.१७!
<३.१८।१> वामपादस्य गुल्फेन पायुमूलं निरोधयेत्!
<३.१८।२> दक्षपादेन तद्गुल्फं संपीड्य यत्नतः सुधीः !!३.१८!
<३.१९।१> शनैः शनैश्चालयेत्पार्ष्णिं योनिमाकुञ्चयेच्छनैः !
<३.१९।२> जालंधरे धारयेत्प्राणं महाबन्धो निगद्यते !!३.१९!
<३.२०।१> महाबन्धः परो बन्धो जरामरणनाशनः !
<३.२०।२> प्रसादादस्य बन्धस्य साधयेत्सर्ववाञ्छितम् !!३.२०!
<३.२१।१> रूपयौवनलावण्यं नारीणां पुरुषं विना !
<३.२१।२> मूलबन्धमहाबन्धौ महावेधं विना तथा !!३.२१!
<३.२२।१> महाबन्धं समासाद्य उड्डानकुम्भकं चरेत्!
<३.२२।२> महावेधः समाख्यातो योगिनां सिद्धिदायकः !!३.२२!
<३.२३।१> महाबन्धमूलबन्धौ महावेधसमन्वितौ !
<३.२३।२> प्रत्यहं कुरुते यस्तु स योगी योगवित्तमः !!३.२३!
<३.२४।१> न मृत्युतो भयं तस्य न जरा तस्य विद्यते !
<३.२४।२> गोपनीयः प्रयत्नेन वेधो यं योगिपुंगवैः !!३.२४!
<३.२५।१> जिह्वाधो नाडीं संछित्य रसनां चालयेत्सदा !
<३.२५।२> दोहयेन्नवनीतेन लौहयन्त्रेण कर्षयेत्!!३.२५!
<३.२६।१> एवं नित्यं समभ्यासाल्लम्बिका दीर्घतां व्रजेत्!
<३.२६।२> यावद्गच्छेद्भ्रुवोर्मध्ये तदा सिध्यति खेचरी !!३.२६!
<३.२७।१> रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत्!
<३.२७।२> कपालकुहरे जिह्वा प्रविष्टा विपरीतगा !
<३.२७।३> भ्रुवोर्मध्ये गता दृष्टिर्मुद्रा भवति खेचरी !!३.२७!
<३.२८।१> न च मूर्च्छा क्षुधा तृष्णा नैवालस्यं प्रजायते !
<३.२८।२> न च रोगो जरा मृत्युर्देवदेहं प्रपद्यते !!३.२८!
<३.२९।१> न चाग्निर्दहते गात्रं न शोषयति मारुतः !
<३.२९।२> न देहं क्लेदयन्त्यापो दंशयेन्न भुजंगमः !!३.२९!
<३.३०।१> लावण्यं च भवेद्गात्रे समाधिर्जायते ध्रुवम् !
<३.३०।२> कपालवक्त्रसंयोगे रसना रसमाप्नुयात्!!३.३०!
<३.३१।१> नानाविधिसमुद्भूतमानन्दं च दिने दिने !
<३.३१।२> आदौ लवणक्षारं च ततस्तिक्तकषायकम् !!३.३१!
<३.३२।१> नवनीतं घृतं क्षीरं दधितक्रमधूनि च !
<३.३२।२> द्राक्षारसं च पीयूषं जायते रसनोदकम् !!३.३२!
<३.३३।१> नाभिमूले वसेत्सूर्यस्तालुमूले च चन्द्रमाः !
<३.३३।२> अमृतं ग्रसते सूर्यस्ततो मृत्युवशो नरः !!३.३३!
<३.३४।१> ऊर्ध्वं च योजयेत्सूर्यं चन्द्रं च अध आनयेत्!
<३.३४।२> विपरीतकरी मुद्रा सर्वतन्त्रेषु गोपिता !!३.३४!
<३.३५।१> भूमौ शिरश्च संस्थाप्य करयुग्मं समाहितः !
<३.३५।२> ऊर्ध्वपादः स्थिरो भूत्वा विपरीतकरी मता !!३.३५!
<३.३६।१> मुद्रेयं साधयेन्नित्यं जरां मृत्युं च नाशयेत्!
<३.३६।२> स सिद्धः सर्वलोकेषु प्रलयेऽपि न सीदति !!३.३६!
<३.३७।१> सिद्धासनं समासाद्य कर्णाक्षिनासिकामुखम् !
<३.३७।२> अङ्गुष्ठतर्जनीमध्या नामादिभिश्च धारयेत्!!३.३७!
<३.३८।१> काकीभिः प्राणं संकृष्य अपाने योजयेत्ततः !
<३.३८।२> षट्चक्राणि क्रमाद्धृत्वा हुंहंसमनुना सुधीः !!३.३८!
<३.३९।१> चैतन्यमानयेद्देवीं निद्रिता या भुजंगिनी !
<३.३९।२> जीवेन सहितां शक्तिं समुत्थाप्य पराम्बुजे !!३.३९!
<३.४०।१> शक्तिमयं स्वयं भूत्वा परं शिवेन संगमम् !
<३.४०।२> नानासुखं विहारं च चिन्तयेत्परमं सुखम् !!३.४०!
<३.४१।१> शिवशक्तिसमायोगादेकान्तं भुवि भावयेत्!
<३.४१।२> आनन्दमानसो भूत्वा अहं ब्रह्मेति संभवेत्!!३.४१!
<३.४२।१> योनिमुद्रा परा गोप्या देवानामपि दुर्लभा !
<३.४२।२> सकृत्तद्भावसंसिद्धः समाधिस्थः स एव हि !!३.४२!
<३.४३।१> ब्रह्महा भ्रूणहा चैव सुरापो गुरुतल्पगः !
<३.४३।२> एतैः पापैर्न लिप्यते योनिमुद्रानिबन्धनात्!!३.४३!
<३.४४।१> यानि पापानि घोराणि उपपापानि यानि च !
<३.४४।२> तानि सर्वाणि नश्यन्ति योनिमुद्रानिबन्धनात्!
<३.४४।३> तस्मादभ्यसनं कुर्याद्यदि मुक्तिं समिच्छति !!३.४४!
<३.४५।१> धरामवष्टभ्य करद्वयाभ्याम् !
<३.४५।११> ऊर्ध्वं क्षिपेत्पादयुगं शिरः खे !
<३.४५।२> शक्तिप्रबोधाय चिरजीवनाय !
<३.४५।३> वज्रोलिमुद्रां मुनयो वदन्ति !!३.४५!
<३.४६।१> अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम् !
<३.४६।२> अयं हितप्रदो योगो योगिनां सिद्धिदायकः !!३.४६!
<३.४७।१> एतद्योगप्रसादेन बिन्दुसिद्धिर्भवेद्ध्रुवम् !
<३.४७।२> सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले !!३.४७!
<३.४८।१> भोगेन महता युक्तो यदि मुद्रां समाचरेत्!
<३.४८।२> तथापि सकला सिद्धिस्तस्य भवति निश्चितम् !!३.४८!
<३.४९।१> मूलाधारे आत्मशक्तिः कुण्डली परदेवता !
<३.४९।२> शयिता भुजगाकारा सार्धत्रिवलयान्विता !!३.४९!
<३.५०।१> यावत्सा निद्रिता देहे तावज्जीवः पशुर्यथा !
<३.५०।२> ज्ञानं न जायते तावत्कोटियोगं समभ्यसेत्!!३.५०!
<३.५१।१> उद्घाटयेत्कवाटं च यथा कुञ्चिकया हठात्!
<३.५१।२> कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं विभेदयेत्!!३.५१!
<३.५२।१> नाभिं बृहद्वेष्टनं च न च नग्नं बहिः स्थितम् !
<३.५२।२> गोपनीयगृहे स्थित्वा शक्तिचालनमभ्यसेत्!!३.५२!
<३.५३।१> वितस्तिप्रमितं दीर्घं विस्तारे चतुरङ्गुलम् !
<३.५३।२> मृदुलं धवलं सूक्ष्म वेष्टनाम्बरलक्षणम् !
<३.५३।३> एवमम्बरमुक्तं च कटिसूत्रेण योजयेत्!!३.५३!
<३.५४।१> भास्मना गात्रसंलिप्तं सिद्धासनं समाचरेत्!
<३.५४।२> नासाभ्यां प्राणमाकृष्य अपाने योजयेद्बलात्!!३.५४!
<३.५५।१> तावदाकुञ्चयेद्गुह्यं शनैरश्विनिमुद्रया !
<३.५५।२> यावद्गच्छेत्सुषुम्णायां वायुः प्रकाशयेद्धठात्!!३.५५!
<३.५६।१> तावद्वायुप्रभेदेन कुम्भिका च भुजंगिनी !
<३.५६।२> बद्धश्वासस्ततो भूत्वा च ऊर्ध्वमात्रं प्रपद्यते !
<३.५६।३> शब्दद्वयं फलैकं तु योनिमुद्रां च चालयेत्!!३.५६!
<३.५७।१> विना शक्तिचालनेन योनिमुद्रा न सिध्यति !
<३.५७।२> आदौ चालनमभ्यस्य योनिमुद्रां समभ्यसेत्!!३.५७!
<३.५८।१> इति ते कथितं चण्ड प्रकारं शक्तिचालनम् !
<३.५८।२> गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत्!!३.५८!
<३.५९।१> मुद्रेयं परमा गोप्या जरामरणनाशिनी !
<३.५९।२> तस्मादभ्यसनं कार्यं योगिभिः सिद्धिकाङ्क्षिभिः !!३.५९!
<३.६०।१> नित्यं योऽभ्यसते योगी सिद्धिस्तस्य करे स्थिता !
<३.६०।२> तस्य विग्रहसिद्धिः स्याद्रोगाणां संक्षयो भवेत्!!३.६०!
<३.६१।१> उदरे पश्चिमं तानं कृत्वा च तडागाकृति !
<३.६१।२> तडागी सा परा मुद्रा जरामृत्युविनाशिनी !!३.६१!
<३.६२।१> मुखं संमुद्रितं कृत्वा जिह्वामूलं प्रचालयेत्!
<३.६२।२> शनैर्ग्रसेदमृतं तन्माण्डुकीं मुद्रिकां विदुः !!३.६२!
<३.६३।१> वलितं पलितं नैव जायते नित्ययौवनम् !
<३.६३।२> न केशे जायते पाको यः कुर्यान्नित्य माण्डुकीम् !!३.६३!
<३.६४।१> नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत्!
<३.६४।२> सा भवेच्छांभवी मुद्रा सर्वतन्त्रेषु गोपिता !!३.६४!
<३.६५।१> वेदशास्त्रपुराणानि सामान्यगणिका इव !
<३.६५।२> इयं तु शांभवी मुद्रा गुप्ता कुलवधूरिव !!३.६५!
<३.६६।१> स एव आदिनाथश्च स च नारायणः स्वयम् !
<३.६६।२> स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शांभवीम् !!३.६६!
<३.६७।१> सत्यं सत्यं पुनः सत्यं सत्यमुक्तं महेश्वर !
<३.६७।२> शांभवीं यो विजानीयात्स च ब्रह्म न चान्यथा !!३.६७!
<३.६८।१> कथिता शांभवी मुद्रा शृणुष्व पञ्चधारणाम् !
<३.६८।२> धारणानि समासाद्य किं न सिध्यति भूतले !!३.६८!
<३.६९।१> अनेन नरदेहेन स्वर्गेषु गमनागमम् !
<३.६९।२> मनोगतिर्भवेत्तस्य खेचरत्वं न चान्यथा !!३.६९!
<३.७०।१> यत्तत्त्वं हरितालदेशरचितं भौमं लकारान्वितं !
<३.७०।११> वेदास्रं कमलासनेन सहितं कृत्वा हृदि स्थायिनम् !
<३.७०।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्!
<३.७०।३> एषा स्तम्भकरी सदा क्षितिजयं कुर्यादधोधारणा !!३.७०!
<३.७१।१> पार्थिवीधारणामुद्रां यः करोति च नित्यशः !
<३.७१।२> मृत्युंजयः स्वयं सोऽपि स सिद्धो विचरेद्भुवि !!३.७१!
<३.७२।१> शङ्खेन्दुप्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं !
<३.७२।११> तत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना !
<३.७२।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्!
<३.७२।३> एषा दुःसहतापपापहरिणी स्यादाम्भसी धारणा !!३.७२!
<३.७३।१> आम्भसीं परमां मुद्रां यो जानाति स योगवित्!
<३.७३।२> जले च गभीरे घोरे मरणं तस्य नो भवेत्!!३.७३!
<३.७४।१> इयं तु परमा मुद्रा गोपनीया प्रयत्नतः !
<३.७४।२> प्रकाशात्सिद्धिहानिः स्यात्सत्यं वच्मि च तत्त्वतः !!३.७४!
<३.७५।१> यन्नाभिस्थितमिन्द्र गोपसदृशं बीजत्रिकोणान्वितं !
<३.७५।११> तत्त्वं तेजमयं प्रदीप्तमरुणं रुद्रेण यत्सिद्धिदम् !
<३.७५।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्!
<३.७५।३> एषा कालगभीरभीतिहरणी वैश्वानरी धारणा !!३.७५!
<३.७६।१> प्रदीप्ते ज्वलिते वह्नौ यदि पतति साधकः !
<३.७६।२> एतन्मुद्राप्रसादेन स जीवति न मृत्युभाक्!!३.७६!
<३.७७।१> यद्भिन्नाञ्जनपुञ्जसंनिभमिदं धूम्रावभासं परं !
<३.७७।११> तत्त्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता !
<३.७७।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्!
<३.७७।३> एषा खे गमनं करोति यमिनां स्याद्वायवी धारणा !!३.७७!
<३.७८।१> इयं तु परमा मुद्रा जरामृत्युविनाशिनी !
<३.७८।२> वायुना म्रियते नापि खे च गतिप्रदायिनी !!३.७८!
<३.७९।१> शठाय भक्तिहीनाय न देया यस्य कस्यचित्!
<३.७९।२> दत्ते च सिद्धिहानिः स्यात्सत्यं वच्मि च चण्ड ते !!३.७९!
<३.८०।१> यत्सिन्धौ वरशुद्धवारिसदृशं व्योमं परं भासितं !
<३.८०।११> तत्त्वं देवसदाशिवेन सहितं बीजं हकारान्वितम् !
<३.८०।२> प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद्!
<३.८०।३> एषा मोक्षकवाटभेदनकरी तु स्यान् नभोधारणा !!३.८०!
<३.८१।१> आकाशीधारणां मुद्रां यो वेत्ति स च योगवित्!
<३.८१।२> न मृत्युर्जायते तस्य प्रलये नावसीदति !!३.८१!
<३.८२।१> आकुञ्चयेद्गुदद्वारं प्रकाशयेत्पुनः पुनः !
<३.८२।२> सा भवेदश्विनी मुद्रा शक्तिप्रबोधकारिणी !!३.८२!
<३.८३।१> अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी !
<३.८३।२> बलपुष्टिकरी चैव अकालमरणं हरेत्!!३.८३!
<३.८४।१> कण्ठपृष्टे क्षिपेत्पादौ पाशवद्दृढबन्धनम् !
<३.८४।२> सा एव पाशिनी मुद्रा शक्तिप्रबोधकारिणी !!३.८४!
<३.८५।१> पाशिनी महती मुद्रा बलपुष्टिविधायिनी !
<३.८५।२> साधनीया प्रयत्नेन साधकैः सिद्धिकाङ्क्षिभिः !!३.८५!
<३.८६।१> काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः !
<३.८६।२> काकी मुद्रा भवेदेषा सर्वरोगविनाशिनी !!३.८६!
<३.८७।१> काकीमुद्रा परा मुद्रा सर्वतन्त्रेषु गोपिता !
<३.८७।२> अस्याः प्रसादमात्रेण न रोगी काकवद्भवेत्!!३.८७!
<३.८८।१> कण्ठमग्नजले स्थित्वा नासाभ्यां जलमाहरेत्!
<३.८८।२> मुखान्निर्गमयेत्पश्चात्पुनर्वक्त्रेण चाहरेत्!!३.८८!
<३.८९।१> नासाभ्यां रेचयेत्पश्चात्कुर्यादेवं पुनः पुनः !
<३.८९।२> मातङ्गिनी परा मुद्रा जरामृत्युविनाशिनी !!३.८९!
<३.९०।१> विरले निर्जने देशे स्थित्वा चैकाग्रमानसः !
<३.९०।२> कुर्यान्मातङ्गिनीं मुद्रां मातङ्ग इव जायते !!३.९०!
<३.९१।१> यत्र यत्र स्थितो योगी सुखमत्यन्तमश्नुते !
<३.९१।२> तस्मात्सर्वप्रयत्नेन साधयेन्मुद्रिकां पराम् !!३.९१!
<३.९२।१> वक्त्रं किंचित्सुप्रसार्य चालिनं गलया पिबेत्!
<३.९२।२> सा भवेद्भुजगी मुद्रा जरामृत्युविनाशिनी !!३.९२!
<३.९३।१> यावच्च उदरे रोगमजीर्णादि विशेषतः !
<३.९३।२> तत्सर्वं नाशयेदाशु यत्र मुद्रा भुजंगिनी !!३.९३!
<३.९४।१> इदं तु मुद्रापटलं कथितं चण्ड ते शुभम् !
<३.९४।२> वल्लभं सर्वसिद्धानां जरामरणनाशनम् !!३.९४!
<३.९५।१> शठाय भक्तिहीनाय न देयं यस्य कस्यचित्!
<३.९५।२> गोपनीयं प्रयत्नेन दुर्लभं मरुतामपि !!३.९५!
<३.९६।१> ऋजवे शान्तचित्ताय गुरुभक्तिपराय च !
<३.९६।२> कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम् !!३.९६!
<३.९७।१> मुद्राणां पटलं ह्येतत्सर्वव्याधिविनाशनम् !
<३.९७।२> नित्यमभ्यासशीलस्य जठराग्निविवर्धनम् !!३.९७!
<३.९८।१> न तस्य जायते मृत्युर्नास्य जरादिकं तथा !
<३.९८।२> नाग्निजलभयं तस्य वायोरपि कुतो भयम् !!३.९८!
<३.९९।१> कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश्च विंशतिः !
<३.९९।२> मुद्राणां साधनाच्चैव विनश्यन्ति न संशयः !!३.९९!
<३.१००।१> बहुना किमिहोक्तेन सारं वच्मि च चण्ड ते !
<३.१००।२> नास्ति मुद्रासमं किंचित्सिद्धिदं क्षितिमण्डले !!३.१००!
<३.१०१।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे मुद्राप्रयोगो नाम तृतीयोपदेशः !!३! ]]
<३.१०२।०>
<४.१।१> घेरण्ड उवाच
<४.१।११> अथातः संप्रवक्ष्यामि प्रत्याहारकमुत्तमम् !
<४.१।२> यस्य विज्ञानमात्रेण कामादिरिपुनाशनम् !!४.१!
<४.२।१> यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् !
<४.२।२> ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्!!४.२!
<४.३।१> यत्र यत्र गता दृष्टिर्मनस्तत्र प्रगच्छति !
<४.३।२> ततः प्रत्याहरेदेतदात्मन्येव वशं नयेत्!!४.३!
<४.४।१> पुरस्कारं तिरस्कारं सुश्राव्यं वा भयानकम् !
<४.४।२> मनस्तस्मान्नियम्यैतदात्मन्येव वशं नयेत्!!४.४!
<४.५।१> शीतं वापि तथा चोष्णं यन्मनःस्पर्शयोगतः !
<४.५।२> तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत्!!४.५!
<४.६।१> सुगन्धे वापि दुर्गन्धे घ्राणेषु जायते मनः !
<४.६।२> तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत्!!४.६!
<४.७।१> मधुराम्लकतिक्तादि+ !रसं गतं यदा मनः !
<४.७।२> तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत्!!४.७!
<४.८।१> शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित्!
<४.८।२> कुर्याच्चित्तानुचारीणि प्रत्याहारपरायणः !!४.८!
<४.९।१> वश्यता परमा तेन जायतेऽतिचलात्मनाम् !
<४.९।२> इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः !!४.९!
<४.१०।१> प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषम् !
<४.१०।२> प्रत्याहारेण विषयान् ध्यानेनानीश्वरान् गुणान् !!४.१०!
<४.११।१> यथा पर्वतधातूनां दोषा दह्यन्ति धाम्यताम् !
<४.११।२> तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात्!!४.११!
<४.१२।१> समः समासनो भूत्वा संहृत्य चरणावुभौ !
<४.१२।२> संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः !!४.१२!
<४.१३।१> पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन् प्रयतः स्थितः !
<४.१३।२> किंचिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत्!
<४.१३।३> संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् !!४.१३!
<४.१४।१> रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा !
<४.१४।२> संछाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित्!!४.१४!
<४.१५।१> इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च !
<४.१५।२> निगृह्य समवायेन प्रत्याहारमुपक्रमेत्!!४.१५!
<४.१६।१> यस्तु प्रत्याहरेत्कामान् सर्वाङ्गानीव कच्छपः !
<४.१६।२> सदात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि !!४.१६!
<४.१७।१> स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः !
<४.१७।२> पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत्!!४.१७!
<४.१८।१> तथा वै योगयुक्तस्य योगिनो नियतात्मनः !
<४.१८।२> (सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते) !!४.१८!
<४.१९।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः !!४! ]]
<५.१।१> घेरण्ड उवाच
<५.१।११> अथातः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम् !
<५.१।२> यस्य साधनमात्रेण देवतुल्यो भवेन्नरः !!५.१!
<५.२।१> आदौ स्थानं तथा कालं मिताहारं तथापरम् !
<५.२।२> नाडीशुद्धिं ततः पश्चात्प्राणायामं च साधयेत्!!५.२!
<५.३।१> दूरदेशे तथारण्ये राजधान्यां जनान्तिके !
<५.३।२> योगारम्भं न कुर्वीत कृतश्चेत्सिद्धिहा भवेत्!!५.३!
<५.४।१> अविश्वासं दूरदेशे अरण्ये भक्षवर्जितम् !
<५.४।२> लोकारण्ये प्रकाशश्च तस्मात्त्रीणि विवर्जयेत्!!५.४!
<५.५।१> सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे !
<५.५।२> तत्रैकं कुटिरं कृत्वा प्राचीरैः परिवेष्टयेत्!!५.५!
<५.६।१> वापीकूपतडागं च प्राचीरमध्यवर्ति च !
<५.६।२> नात्युच्चं नातिनीचं वा कुटिरं कीटवर्जितम् !!५.६!
<५.७।१> सम्यग्गोमयलिप्तं च कुटिरं रन्ध्रवर्जितम् !
<५.७।२> एवं स्थाने हि गुप्ते च प्राणायामं समभ्यसेत्!!५.७!
<५.८।१> हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा !
<५.८।२> योगारम्भं न कुर्वीत कृते योगो हि रोगदः !!५.८!
<५.९।१> वसन्ते शरदि प्रोक्तं योगारम्भं समाचरेत्!
<५.९।२> तदा योगो भवेत्सिद्धो रोगान्मुक्तो भवेद्ध्रुवम् !!५.९!
<५.१०।१> चैत्रादिफाल्गुनान्ते च माघादिफाल्गुनान्तिके !
<५.१०।२> द्वौ द्वौ मासौ ऋतुभागौ अनुभावश्चतुश्चतुः !!५.१०!
<५.११।१> वसन्तश्चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ !
<५.११।२> वर्षा श्रावणभाद्राभ्यां शरदाश्विनकार्तिकौ !
<५.११।३> मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ !!५.११!
<५.१२।१> अनुभावं प्रवक्ष्यामि ऋतूनां च यथोदितम् !
<५.१२।२> माघादिमाधवान्ते हि वसन्तानुभवश्चतुः !!५.१२!
<५.१३।१> चैत्रादि चाषाढान्तं च ग्रीष्मश्चानुभवश्चतुः !
<५.१३।२> आषाढादि चाश्विनान्तं वर्षा चानुभवश्चतुः !!५.१३!
<५.१४।१> भाद्रादि मार्गशीर्षान्तं शरदोऽनुभवश्चतुः !
<५.१४।२> कार्तिकादिमाघमासान्तं हेमन्तानुभवश्चतुः !
<५.१४।३> मार्गादींश्चतुरो मासाञ्शिशिरानुभवं विदुः !!५.१४!
<५.१५।१> वसन्ते वापि शरदि योगारम्भं तु समाचरेत्!
<५.१५।२> तदा योगो भवेत्सिद्धो विनायासेन कथ्यते !!५.१५!
<५.१६।१> मिताहारं विना यस्तु योगारम्भं तु कारयेत्!
<५.१६।२> नानारोगो भवेत्तस्य किंचिद्योगो न सिध्यति !!५.१६!
<५.१७।१> शाल्यन्नं यवपिण्डं वा गोधूमपिण्डकं तथा !
<५.१७।२> मुद्गं माषचणकादि शुभ्रं च तुषवर्जितम् !!५.१७!
<५.१८।१> पटोलं पनसं मानं कक्कोलं च शुकाशकम् !
<५.१८।२> द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टकम् !!५.१८!
<५.१९।१> आमरम्भां बालरम्भां रम्भादण्डं च मूलकम् !
<५.१९।२> वार्ताकीं मूलकमृद्धिं योगी भक्षणमाचरेत्!!५.१९!
<५.२०।१> बालशाकं काल शाकं तथा पटोलपत्रकम् !
<५.२०।२> पञ्चशाकं प्रशंसीयाद्वास्तूकं हिलमोचिकां !!५.२०!
<५.२१।१> शुद्धं सुमधुरं स्निग्धमुदरार्धविवर्जितम् !
<५.२१।२> भुज्यते सुरसंप्रीत्या ( सुरसं प्रित्या ) मिताहारमिमं विदुः !!५.२१!
<५.२२।१> अन्नेन पूरयेदर्धं तोयेन तु तृतीयकम् !
<५.२२।२> उदरस्य तुरीयांशं संरक्षेद्वायुचारणे !!५.२२!
<५.२३।१> कट्वम्लं लवणं तिक्तं भृष्टं च दधि तक्रकम् !
<५.२३।२> शाकोत्कटं तथा मद्यं तालं च पनसं तथा !!५.२३!
<५.२४।१> कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम् !
<५.२४।२> तुम्बीकोलकपित्थं च कण्टबिल्वं पलाशकम् !!५.२४!
<५.२५।१> कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम् !
<५.२५।२> कामरङ्गं पियालं च हिङ्गुशाल्मलिकेमुकम् !!५.२५!
<५.२६।१> योगारम्भे वर्जयेच्च पथस्त्रीवह्निसेवनम् !!५.२६!
<५.२७।१> नवनीतं घृतं क्षीरं गुडं शर्करादि चेक्षवं !
<५.२७।२> पक्वरम्भां नारिकेलं दाडिम्बमशिवासवम् !
<५.२७।३> द्राक्षां तु लवलीं धात्रीं रसमम्लविवर्जितम् !!५.२७!
<५.२८।१> एलाजातिलवङ्गं च पौरुषं जम्बुजाम्बलम् !
<५.२८।२> हरीतकीं खर्जूरं च योगी भक्षणमाचरेत्!!५.२८!
<५.२९।१> लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम् !
<५.२९।२> मनोभिलषितं योग्यं योगी भोजनमाचरेत्!!५.२९!
<५.३०।१> काठिन्यं दुरितं पूतिमुष्णं पर्युषितं तथा !
<५.३०।२> अतिशीतं चाति चोष्णं भक्ष्यं योगी विवर्जयेत्!!५.३०!
<५.३१।१> प्रातःस्नानोपवासादि कायक्लेशविधिं तथा !
<५.३१।२> एकाहारं निराहारं यामान्ते च न कारयेत्!!५.३१!
<५.३२।१> एवंविधिविधानेन प्राणायामं समाचरेत्!
<५.३२।२> आरम्भे प्रथमे कुर्यात्क्षीराद्यं नित्यभोजनम् !
<५.३२।३> मध्याह्ने चैव सायाह्ने भोजनद्वयमाचरेत्!!५.३२!
<५.३३।१> कुशासने मृगाजिने व्याघ्राजिने च कम्बले !
<५.३३।२> स्थूलासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः !
<५.३३।३> नाडीशुद्धिं समासाद्य प्राणायामं समभ्यसेत्!!५.३३!
<५.३४।१> चण्डकापालिरुवाच
<५.३४।११> नाडीशुद्धिं कथं कुर्यान्नाडीशुद्धिस्तु कीदृशी !
<५.३४।२> तत्सर्वं श्रोतुमिच्छामि तद्वदस्व दयानिधे !!५.३४!
<५.३५।१> घेरण्ड उवाच
<५.३५।११> मलाकुलासु नाडीषु मारुतो नैव गच्छति !
<५.३५।२> प्राणायामः कथं सिध्येत्तत्त्वज्ञानं कथं भवेत्!
<५.३५।३> तस्मादादौ नडीशुद्धिं प्राणायामं ततोऽभ्यसेत्!!५.३५!
<५.३६।१> नाडीशुद्धिर्द्विधा प्रोक्ता समनुर्निर्मनुस्तथा !
<५.३६।२> बीजेन समनुं कुर्यान्निर्मनुं धौतिकर्मणि !!५.३६!
<५.३७।१> धौतिकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा !
<५.३७।२> शृणुष्व समनुं चण्ड नाडीशुद्धिर्यथा भवेत्!!५.३७!
<५.३८।१> उपविश्यासने योगी पद्मासनं समाचरेत्!
<५.३८।२> गुर्वादिन्यासनं कृत्वा यथैव गुरुभाषितम् !
<५.३८।३> नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये !!५.३८!
<५.३९।१> वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम् !
<५.३९।२> चन्द्रेण पूरयेद्वायुं बीजं षोडशकैः सुधीः !!५.३९!
<५.४०।१> चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्!
<५.४०।२> द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या च रेचयेत्!!५.४०!
<५.४१।१> नाभिमूलाद्वह्निमुत्थाप्य ध्यायेत्तेजो वनीयुतम् !
<५.४१।२> वह्निबीजं षोडशेन सूर्यनाड्या च पूरयेत्!!५.४१!
<५.४२।१> चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्!
<५.४२।२> द्वात्रिंशन्मात्रया वायुं शशिनाड्या च रेचयेत्!!५.४२!
<५.४३।१> नासाग्रे शशधृग्बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम् !
<५.४३।२> ठं बीजं षोडशेनैव इडया पूरयेन्मरुत्!!५.४३!
<५.४४।१> चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्!
<५.४४।२> अमृतप्लावितं ध्यात्वा प्राणायामं समभ्यसेत्!!५.४४!
<५.४५।१> वं बीजं शोडशेनैव सूर्यनाड्या च पूरयेत् !
<५.४५।२> द्वात्रिंशेन लकारेण दृढं भाव्यं विरेचयेत्!!५.४५!
<५.४६।१> एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत्!
<५.४६।२> दृढो भूत्वासनं कृत्वा प्राणायामं समाचरेत्!!५.४६!
<५.४७।१> सहितः सूर्यभेदश्च उज्जायी शीतली तथा !
<५.४७।२> भस्त्रिका भ्रामरी मूर्च्छा केवली चाष्ट कुम्भिकाः !!५.४७!
<५.४८।१> सहितौ द्विविधौ प्रोक्तौ प्राणायामं समाचरेत्!
<५.४८।२> सगर्भो बीजमुच्चार्य निर्गर्भो बीजवर्जितः !
<५.४८।३> प्राणायामं सगर्भं च प्रथमं कथयामि ते !!५.४८!
<५.४९।१> सुखासने चोपविश्य प्राङ्मुखो वाप्युदङ्मुखः !
<५.४९।२> ध्यायेद्विधिं रजोगुणं रक्तवर्णमवर्णकम् !!५.४९!
<५.५०।१> इडया पूरयेद्वायुं मात्रया षोडशैः सुधीः !
<५.५०।२> पूरकान्ते कुम्भकाद्ये कर्तव्यस्तूड्डियानकः !!५.५०!
<५.५१।१> सत्त्वमयं हरिं ध्यात्वा उकारैः शुक्लवर्णकैः !
<५.५१।२> चतुःषष्ट्या च मात्रया अनिलं कुम्भकं चरेत्!
<५.५१।३> कुम्भकान्ते रेचकाद्ये कर्तव्यं च जालंधरम् !!५.५१!
<५.५२।१> रुद्रं तमोगुणं ध्यात्वा मकारैः कृष्णवर्णकैः !
<५.५२।२> द्वात्रिंशन्मात्रया चैव रेचयेद्विधिना पुनः !!५.५२!
<५.५३।१> पुनः पिङ्गलयापूर्य कुम्भकेनैव धारयेत्!
<५.५३।२> इडया रेचयेत्पश्चात्तद्बीजेन क्रमेण तु !!५.५३!
<५.५४।१> अनुलोमविलोमेन वारं वारं च साधयेत्!
<५.५४।२> पूरकान्ते कुम्भकाद्ये धृतं नासापुटद्वयम् !
<५.५४।३> कनिष्ठानामिकाङ्गुष्ठैस्तर्जनीमध्यमे विना !!५.५४!
<५.५५।१> प्राणायामं निगर्भं तु विना बीजेन जायते !
<५.५५।२> वामजानूपरि न्यस्त वामपाणितलं भ्रमेत्!
<५.५५।३> मात्रादिशतपर्यन्तं पूरकुम्भकरेचनम् !!५.५५!
<५.५६।१> उत्तमा विंशतिर्मात्रा मध्यमा षोडशी स्मृता !
<५.५६।२> अधमा द्वादशी मात्रा प्राणायामास्त्रिधा स्मृताः !!५.५६!
<५.५७।१> अधमाज्जायते घर्मो मेरुकम्पश्च मध्यमात्!
<५.५७।२> उत्तमाच्च भूमित्यागस्त्रिविधं सिद्धिलक्षणम् !!५.५७!
<५.५८।१> प्राणायामात्खेचरत्वं प्राणायामाद्रोगनाशनम् !
<५.५८।२> प्राणायामाद्बोधयेच्छक्तिं प्राणायामान्मनोन्मनी !
<५.५८।३> आनन्दो जायते चित्ते प्राणायामी सुखी भवेत्!!५.५८!
<५.५९।१> कथितं सहितं कुम्भं सूर्यभेदनकं शृणु !
<५.५९।२> पूरयेत्सूर्यनाड्या च यथाशक्ति बहिर्मरुत्!!५.५९!
<५.६०।१> धारयेद्बहुयत्नेन कुम्भकेन जलंधरैः !
<५.६०।२> यावत्स्वेदं नखकेशाभ्यां तावत्कुर्वन्तु कुम्भकम् !!५.६०!
<५.६१।१> प्राणोऽपानः समानश्चोदानव्यानौ च वायवः !
<५.६१।२> नागः कूर्मश्च कृकरो देवदत्तो धनंजयः !!५.६१!
<५.६२।१> हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले !
<५.६२।२> समानो नाभिदेशे तु उदानः कण्ठमध्यगः !
<५.६२।३> व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः !!५.६२!
<५.६३।१> प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः !
<५.६३।२> तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् !!५.६३!
<५.६४।१> उद्गारे नाग आख्यातः कूर्मस्तून्मीलने स्मृतः !
<५.६४।२> कृकरः क्षुत्तृषे ज्ञेयो देवदत्तो विजृम्भणे !
<५.६४।३> न जहाति मृते क्वापि सर्वव्यापी धनंजयः !!५.६४!
<५.६५।१> नागो गृह्णाति चैतन्यं कूर्मश्चैव निमेषणम् !
<५.६५।२> क्षुत्तृषं कृकरश्चैव जृम्भणं चतुर्थेन तु !
<५.६५।३> भवेद्धनंजयाच्छब्दं क्षणमात्रं न निःसरेत्!!५.६५!
<५.६६।१> सर्वं च सूर्यकं भित्वा नाभिमूलात्समुद्धरेत्!!५.६६!
<५.६७।१> इडया रेचयेत्पश्चाद्धैर्येणाखण्डवेगतः !
<५.६७।२> पुनः सूर्येण चाकृष्य कुम्भयित्वा यथाविधि !!५.६७!
<५.६८।१> रेचयित्वा साधयेत्तु क्रमेण च पुनः पुनः !
<५.६८।२> कुम्भकः सूर्यभेदस्तु जरामृत्युविनाशकः !!५.६८!
<५.६९।१> बोधयेत्कुण्डलीं शक्तिं देहानलविवर्धनम् !
<५.६९।२> इति ते कथितं चण्ड सूर्यभेदनमुत्तमम् !!५.६९!
<५.७०।१> नासाभ्यां वायुमाकृष्य मुखमध्ये च धारयेत्!
<५.७०।२> हृद्गलाभ्यां समाकृष्य वायुं वक्त्रेण धारयेत्!!५.७०!
<५.७१।१> मुखं प्रफुल्लं संरक्ष्य कुर्याज्जालंधरं ततः !
<५.७१।२> आशक्ति कुम्भकं कृत्वा धारयेदविरोधतः !!५.७१!
<५.७२।१> उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत्!
<५.७२।२> न भवेत्कफरोगश्च क्रूरवायुरजीर्णकम् !!५.७२!
<५.७३।१> आमवातः क्षयः कासो ज्वरप्लीहा न जायते !
<५.७३।२> जरामृत्युविनाशाय चोज्जायीं साधयेन्नरः !!५.७३!
<५.७४।१> जिह्वया वायुमाकृष्य उदरे पूरयेच्छनैः !
<५.७४।२> क्षणं च कुम्भकं कृत्वा नासाभ्यां रेचयेत्पुनः !!५.७४!
<५.७५।१> सर्वदा साधयेद्योगी शीतलीकुम्भकं शुभम् !
<५.७५।२> अजीर्णं कफपित्तं च नैव तस्य प्रजायते !!५.७५ भस्त्रेव लोहकाराणां यथाक्रमेण संभ्रमेत्!
<५.७५।३> ततो वायुं च नासाभ्यामुभाभ्यां चालयेच्छनैः !!५.७६!
<५.७७।१> एवं विंशतिवारं च कृत्वा कुर्याच्च कुम्भकम् !
<५.७७।२> तदन्ते चालयेद्वायुं पूर्वोक्तं च यथाविधि !!५.७७!
<५.७८।१> त्रिवारं साधयेदेनं भस्त्रिकाकुम्भकं सुधीः !
<५.७८।२> न च रोगो न च क्लेश आरोग्यं च दिने दिने !!५.७८!
<५.७९।१> अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते !
<५.७९।२> कर्णौ निधाय हस्ताभ्यां कुर्यात्पूरकमुत्तमम् !!५.७९!
<५.८०।१> शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सुधीः !
<५.८०।२> प्रथमं झिंझीनादं च वंशीनादं ततः परम् !
<५.८०।३> मेघघर्घरभ्रामरी च घण्टाकांस्यं ततः परम् !!५.८०!
<५.८१।१> तुरीभेरीमृदङ्गादि वीणानादकदुन्दुभिः !
<५.८१।२> एवं नानाविधो नादो जायते नित्यमभ्यसात्!!५.८१!
<५.८२।१> अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः !
<५.८२।२> ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः !!५.८२!
<५.८३।१> तस्मिंस्तु विलयं याति तद्विष्णोः परमं पदम् !
<५.८३।२> एवं भ्रामरीसंसिद्धिः समाधिसिद्धिमाप्नुयात्!!५.८३!
<५.८४।१> मुखे च कुम्भकं कृत्वा भ्रुवोरन्तर्गतं मनः !
<५.८४।२> संत्यज्य विषयान् सर्वान्मनोमूर्च्छा सुखप्रदा !!५.८४!
<५.८५।१> आत्मनि मनसंयोगादानन्दं जायते ध्रुवम् !
<५.८५।२> एवं नानाविधानन्दो जायते नित्यमभ्यसात्!
<५.८५।३> एवमभ्यासयोगेन समाधिसिद्धिमाप्नुयात्!!५.८५!
<५.८६।१> भुजंगिन्याः श्वासवशादजपा जायते ननु !
<५.८६।२> हंकारेण बहिर्याति सःकारेण विशेत्पुनः !!५.८६!
<५.८७।१> षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः !
<५.८७।२> अजपां नाम गायत्रीं जीवो जपति सर्वदा !!५.८७!
<५.८८।१> मूलाधारे यथा हंसस्तथा हि हृदि पङ्कजे !
<५.८८।२> तथा नासापुटद्वन्द्वे त्रिवेणीसंगमागमम् !!५.८८!
<५.८९।१> षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम् !
<५.८९।२> देहाद्बहिर्गतो वायुः स्वभावाद्द्वादशाङ्गुलिः !!५.८९!
<५.९०।१> शयने षोडशाङ्गुल्यो भोजने विंशतिस्तथा !
<५.९०।२> चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंशदङ्गुलिः !
<५.९०।३> मैथुने षट्त्रिंशदुक्तं व्यायामे च ततोऽधिकम् !!५.९०!
<५.९१।१> स्वभावे श्य गतेर्न्यूने परमायुः प्रवर्धते !
<५.९१।२> आयुःक्षयोऽधिके प्रोक्तो मारुते चान्तराद्गते !!५.९१!
<५.९२।१> तस्मात्प्राणे स्थिते देहे मरणं नैव जायते !
<५.९२।२> वायुना घटसंबन्धे भवेत्केवलकुम्भकः !!५.९२!
<५.९३।१> यावज्जीवं जपेन्मन्त्रमजपासंख्यकेवलम् !
<५.९३।२> अद्यावधि धृतं संख्या विभ्रमं केवलीकृते !!५.९३!
<५.९४।१> अत एव हि कर्तव्यः केवलीकुम्भको नरैः !
<५.९४।२> केवली चाजपासंख्या द्विगुणा च मनोन्मनी !!५.९४!
<५.९५।१> नासाभ्यां वायुमाकृष्य केवलं कुम्भकं चरेत्!
<५.९५।२> एकादिकचतुःषष्टिं धारयेत्प्रथमे दिने !!५.९५!
<५.९६।१> केवलीमष्टधा कुर्याद्यामे यामे दिने दिने !
<५.९६।२> अथ वा पञ्चधा कुर्याद्यथा तत्कथयामि ते !!५.९६!
<५.९७।१> प्रातर्मध्याह्नसायाह्ने मध्यरात्रे चतुर्थके !
<५.९७।२> त्रिसंध्यमथ वा कुर्यात्सममाने दिने दिने !!५.९७!
<५.९८।१> पञ्चवारं दिने वृद्धिर्वारैकं च दिने तथा !
<५.९८।२> अजपापरिमाणे च यावत्सिद्धिः प्रजायते !!५.९८!
<५.९९।१> प्राणायामं केवलीं नाम तदा वदति योगवित्!
<५.९९।२> कुम्भके केवले सिद्धे किं न सिध्यति भूतले !!५.९९!
<५.१००।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगप्रकरणे प्राणायामप्रयोगो नाम पञ्चमोपदेशः !!५ ]]
<६.१।१> घेरण्ड उवाच
<६.१।११> स्थूलं ज्योतिस्तथा सूक्ष्मं ध्यानस्य त्रिविधं विदुः !
<६.१।२> स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं तथा !
<६.१।३> सूक्ष्मं बिन्दुमयं ब्रह्म कुण्डली परदेवता !!६.१!
<६.२।१> स्वकीयहृदये ध्यायेत्सुधासागरमुत्तमम् !
<६.२।२> तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम् !!६.२!
<६.३।१> चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम् !
<६.३।२> नीपोपवनसंकुलैर्वेष्टितं परिता इव !!६.३!
<६.४।१> मालती मल्लिकाजाती केसरैश्चम्पकैस्तथा !
<६.४।२> पारिजातैः स्थलपद्मैर्गन्धामोदितदिङ्मुखैः !!६.४!
<६.५।१> तन्मध्ये संस्मरेद्योगी कल्पवृक्षं मनोरमम् !
<६.५।२> चतुःशाखाचतुर्वेदं नित्यपुष्पफलान्वितम् !!६.५!
<६.६।१> भ्रमराः कोकिलास्तत्र गुञ्जन्ति निगदन्ति च !
<६.६।२> ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम् !!६.६!
<६.७।१> तन्मध्ये तु स्मरेद्योगी पर्यङ्कं सुमनोहरम् !
<६.७।२> तत्रेष्टदेवतां ध्यायेद्यद्ध्यानं गुरुभाषितम् !!६.७!
<६.८।१> यस्य देवस्य यद्रूपं यथा भूषणवाहनम् !
<६.८।२> तद्रूपं ध्यायते नित्यं स्थूलध्यानमिदं विदुः !!६.८!
<६.९।१> सहस्रारमहापद्मे कर्णिकायां विचिन्तयेत्!
<६.९।२> विलग्नसहितं पद्मं द्वादशैर्दलसंयुतम् !!६.९!
<६.१०।१> शुभ्रवर्णं महातेजो द्वादशैर्बीजभाषितम् !
<६.१०।२> सहक्षमवलरियुं हंसशक्तिं यथाक्रमम् !!६.१०!
<६.११।१> तन्मध्ये कर्णिकायां तु अकथादिरेखात्रयम् !
<६.११।२> हलक्षकोणसंयुक्तं प्रणवं तत्र वर्तते !!६.११!
<६.१२।१> नादबिन्दुमयं पीठं ध्यायेत्तत्र मनोहरम् !
<६.१२।२> तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते !!६.१२!
<६.१३।१> ध्यायेत्तत्र गुरुं देवं विभुजं च त्रिलोचनम् !
<६.१३।२> श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम् !!६.१३!
<६.१४।१> शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम् !
<६.१४।२> एवंविधगुरुध्यानात्स्थूलध्यानं प्रसिध्यति !!६.१४!
<६.१५।१> कथितं स्थूलध्यानं तु तेजोध्यानं शृणुष्व मे !
<६.१५।२> यद्ध्यानेन योगसिद्धिरात्मप्रत्यक्षमेव च !
<६.१५।३> मूलाधारे कुण्डलिनी भुजगाकाररूपिणी !!६.१५!
<६.१६।१> जीवात्मा तिष्ठति तत्र प्रदीपकलिकाकृतिः !
<६.१६।२> ध्यायेत्तेजोमयं ब्रह्म तेजोध्यानं तदेव हि !!६.१६!
<६.१७।१> नाभिमूले स्थितं सूर्य मण्डलं वह्निसंयुतम् !
<६.१७।२> ध्यायेत्तेजो महद्व्याप्तं तेजोध्यानं तदेव हि !!६.१७!
<६.१८।१> भ्रुवोर्मध्ये मनोर्ध्वे च यत्तेजः प्रणवात्मकम् !
<६.१८।२> ध्यायेज्ज्वालावलीयुक्तं तेजोध्यानं तदेव हि !!६.१८!
<६.१९।१> तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं वदाम्यहम् !
<६.१९।२> बहुभाग्यवशाद्यस्य कुण्डली जाग्रती भवेत्!!६.१९!
<६.२०।१> आत्मना सह योगेन नेत्ररन्ध्राद्विनिर्गता !
<६.२०।२> विहरेद्राजमार्गे च चञ्चलत्वान्न दृश्यते !!६.२०!
<६.२१।१> शांभवीमुद्रया योगी ध्यानयोगेन सिध्यति !
<६.२१।२> सूक्ष्मध्यानमिदं गोप्यं देवानामपि दुर्लभम् !!६.२१!
<६.२२।१> स्थूलध्यानाच्छतगुणं तेजोध्यानं प्रचक्षते !
<६.२२।२> तेजोध्यानाल्लक्षगुणं सूक्ष्मध्यानं परात्परम् !!६.२२!
<६.२३।१> इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम् !
<६.२३।२> आत्मा साक्षाद्भवेद्यस्मात्तस्माद्ध्यानं विशिष्यते !!६.२३!
<६.२४।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगे सप्तसाधने ध्यानयोगो नाम षष्ठोपदेशः !!६ ]]
<७.१।१> घेरण्ड उवाच
<७.१।११> समाधिश्च परं तत्त्वं बहुभाग्येन लभ्यते !
<७.१।२> गुरोः कृपाप्रसादेन प्राप्यते गुरुभक्तितः !!७.१!
<७.२।१> विद्याप्रतीतिः स्वगुरुप्रतीतिर्!
<७.२।२> आत्मप्रतीतिर्मनसः प्रबोधः !
<७.२।३> दिने दिने यस्य भवेत्स योगी !
<७.२।४> सुशोभनाभ्यासमुपैति सद्यः !!७.२!
<७.३।१> घटाद्भिन्नं मनः कृत्वा ऐक्यं कुर्यात्परात्मनि !
<७.३।२> समाधिं तं विजानीयान्मुक्तसंज्ञो दशादिभिः !!७.३!
<७.४।१> अहं ब्रह्म न चान्यो श्मि ब्रह्मैवाहं न शोकभाक्!
<७.४।२> सच्चिदानन्दरूपोऽहं नित्यमुक्तः स्वभाववान् !!७.४!
<७.५।१> शांभव्या चैव खेचर्या भ्रामर्या योनिमुद्रया !
<७.५।२> ध्यानं नादं रसानन्दं लयसिद्धिश्चतुर्विधा !!७.५!
<७.६।१> पञ्चधा भक्तियोगेन मनोमूर्च्छा च षड्विधा !
<७.६।२> षड्विधोऽयं राजयोगः प्रत्येकमवधारयेत्!!७.६!
<७.७।१> शांभवीं मुद्रिकां कृत्वा आत्मप्रत्यक्षमानयेत्!
<७.७।२> बिन्दु ब्रह्ममयं दृष्ट्वा मनस्तत्र नियोजयेत्!!७.७!
<७.८।१> खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु !
<७.८।२> आत्मानं खमयं दृष्ट्वा न किंचिदपि बाध्यते !
<७.८।३> सदानन्दमयो भूत्वा समाधिस्थो भवेन्नरः !!७.८!
<७.९।१> खेचरीमुद्रासाधनाद्रसना ऊर्ध्वगता यदा !
<७.९।२> तदा समाधिसिद्धिः स्याद्धित्वा साधारणक्रियाम् !!७.९!
<७.१०।१> अनिलं मन्दवेगेन भ्रामरीकुम्भकं चरेत्!
<७.१०।२> मन्दं मन्दं रेचयेद्वायुं भृङ्गनादं ततो भवेत्!!७.१०!
<७.११।१> अन्तःस्थं भ्रमरीनादं श्रुत्वा तत्र मनो नयेत्!
<७.११।२> समाधिर्जायते तत्र आनन्दः सोऽहमित्यतः !!७.११!
<७.१२।१> योनिमुद्रां समासाद्य स्वयं शक्तिमयो भवेत्!
<७.१२।२> सुशृङ्गाररसेनैव विहरेत्परमात्मनि !!७.१२!
<७.१३।१> आनन्दमयः संभूत्वा ऐक्यं ब्रह्मणि संभवेत्!
<७.१३।२> अहं ब्रह्मेति चाद्वैतं समाधिस्तेन जायते !!७.१३!
<७.१४।१> स्वकीयहृदये ध्यायेदिष्टदेवस्वरूपकम् !
<७.१४।२> चिन्तयेद्भक्तियोगेन परमाह्लादपूर्वकम् !!७.१४!
<७.१५।१> आनन्दाश्रुपुलकेन दशाभावः प्रजायते !
<७.१५।२> समाधिः संभवेत्तेन संभवेच्च मनोन्मनी !!७.१५!
<७.१६।१> मनोमूर्च्छां समासाद्य मन आत्मनि योजयेत्!
<७.१६।२> परात्मनः समायोगात्समाधिं समवाप्नुयात्!!७.१६!
<७.१७।१> इति ते कथितं चण्ड समाधिर्मुक्तिलक्षणम् !
<७.१७।२> राजयोगः समाधिः स्यादेकात्मन्येव साधनम् !
<७.१७।३> उन्मनी सहजावस्था सर्वे चैकात्मवाचकाः !!७.१७!
<७.१८।१> जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके !
<७.१८।२> ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत्!!७.१८!
<७.१९।१> भूचराः खेचराश्चामी यावन्तो जीवजन्तवः !
<७.१९।२> वृक्षगुल्मलतावल्ली तृणाद्या वारि पर्वताः !
<७.१९।३> सर्वं ब्रह्म विजानीयात्सर्वं पश्यति चात्मनि !!७.१९!
<७.२०।१> आत्मा घतस्थचैतन्यमद्वैतं शाश्वतं परम् !
<७.२०।२> घटाद्भिन्नतरं ज्ञानं वीतरागं विवासनम् !!७.२०!
<७.२१।१> एवंविधिः समाधिः स्यात्सर्वसंकल्पवर्जितः !
<७.२१।२> स्वदेहे पुत्रदारादि+ !बान्धवेषु धनादिषु !
<७.२१।३> सर्वेषु निर्ममो भूत्वा समाधिं समवाप्नुयात्!!७.२१!
<७.२२।१> लयामृतं परं तत्त्वं शिवोक्तं विविधानि च !
<७.२२।२> तेषां संक्षेपमादाय कथितं मुक्तिलक्षणम् !!७.२२!
<७.२३।१> इति ते कथितश्चण्ड समाधिर्दुर्लभः परः !
<७.२३।२> यं ज्ञात्वा न पुनर्जन्म जायते भूमिमण्डले !!७.२३!
<७.२४।०> [[इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगसाधने योगस्य सप्तसारे समाधियोगो नाम सप्तमोपदेशः समाप्तः !!७ ]]
Search
Search here.