क्रम दीपिका प्रथमः 1

ग्रंथालय  > प्राचीन हिंदू साहित्य Posted at 2016-08-23 13:42:47
॥श्रीः॥ क्रमदीपिका  1 प्रथमः   श्रीमद्भगवत्श्रीकृष्णाराधननिरूपणप्रवण आगमनिबन्धः विद्याविनोदश्रीगोविन्दभट्टाचार्यकृतविवरणसहिता (१) प्रथमः पटलः वेणुवादविनोदलालसं दिव्यगन्धपरिलिप्तवक्षसम् । वल्लवीहृदयवित्तहारिणं भावये कमपि गोपनन्दनम् ॥ विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकप्रारिप्सितप्रतिबन्धकदुरितनिवृत्त्य्असाधारणकारणमिष्टदेवताऽनुस्मरणपूर्वकं मङ्गलमाशीर्व्याजेन कृतं शिष्यशिक्षार्थमादौ निबध्नाति कलात्तमायेत्यादिना । कलात्तमायालवकात्तमूर्तिः कलक्वणद्वेणुनिनादरम्यः । श्रितो हृदि व्याकुलयंस्त्रिलोकीं श्रियेऽस्तु गोपीजनवल्लभो वः ॥ १.१ ॥ गोपीजनवल्लभो युष्माकं श्रिये सम्पदेऽस्तु भूयादिति योजना । गोपीजनस्य गोपाङ्गनाजनस्य वल्लभः स्वामी । तथा च गोपीजनस्यैवाविज्ञातविनयप्रकरस्यापि वल्लभः किं पुनः साधकस्याशेषपूजाविधानकोविदस्येति भावः । यद्वा गोपी प्रकृतिर्जनो महद्आदिरनयोर्वल्लभः प्रेरक इत्यर्थः । कीदृशः कलायां ज्ञानस्वरूपे स्वस्मिनात्तायाः प्राप्ताया अध्यस्ताया मायाया लवकेन लेशेन विक्षेपात्मस्वभावेन आत्ता प्राप्ता मूर्तिर्येन स तथोक्तः । एतेन तस्य शरीरसम्बन्धेऽपि न स्वरूपानुसन्धानप्रच्युतिरावरणशक्तेरप्रामाण्यादिति भावः । अथ वा कला बन्धने, तथा च बन्धनात्मकसंसारप्रवर्तनार्थं स्वीकृतमायालेशात्मकजलतत्त्वात्मनाङ्गीकृतमूर्तिरिति । तोयेन जीवान् विससर्ज भूम्यामिति । अथवा, संमोहनमन्त्ररूपकं कामबीजं सकलगोपालमन्त्राणां बीजमुदाहरति कलेति । कश्च लश्च कलौ ताभ्यामत्तौ गृहीतौ सम्बद्धौ मायालवकौ चतुर्थस्वरानुस्वारौ ताभ्यामात्ता स्वीकृता बीजरूपा मूर्तिर्येन सः तथोक्तः कल इत्यत्राकार उच्चारणार्थः । पुनः कीदृशः । कलमव्यक्तं मधुरं यथा स्यात्तथा क्वणन् शब्दायमानः वेणुर्वंशः कलक्वणंश्चासौ वेणुश्चेति कलक्वणद्वेणुः । तस्य निनादेन रम्यः सर्वमुखप्रद इत्यर्थः । पुनः कीदृशः । हृदि श्रितः हृत्पङ्कजे स्थितः हृदि ध्येय इत्यर्थः । यद्वा सर्वप्राणिनां हृदयेऽन्तर्यामिरूपेण स्थित इत्यर्थः । किं कुर्वन् । त्रयाणां लोकानां समाहारस्त्रिलोकी । त्रैलोक्यं व्याकुलयन् कर्तव्येषु विचारशून्यं कुर्वन्मायया मोहयन्नित्यर्थः । तदुक्तं गीतायां ईश्वरः सर्वभूतेषु हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ इति । अत्र लघुदीपिकाकारः कलात्तमायेत्य्आदिना गोपीजनवल्लभ इत्यनेन च बीजसहितोऽत्र दशाक्षरः सूचितः । कलक्वणदित्यादिना ध्यानं सूचितम् । त्रिलोकीं व्याकुलयन्नित्यनेन च वश्यादिप्रयोगाः सूचिताः इत्याह ॥ Kर्द्C_१.१ ॥ ______________________________ गुरुनमस्कारपूर्वकं कर्तव्यं प्रतिजानीते गुरुचरणसरोरुहद्वयोत्थान् महितरजःकणकान् प्रणम्य मूर्ध्ना । गदितमिह विविच्य नारदाद्यैर् यजनविधिं कथयामि शार्ङ्गपाणेः ॥ १.२ ॥ इह ग्रन्थे शार्ङ्गपाणेः श्रीकृष्णस्य यजनविधिं पूजाहोमादिकरणप्रकारं विविच्य विवेचनं कृत्वा कथयामि आसमाप्तेर्वर्तमानत्वात् । तथा च, प्राचीनग्रन्थेभ्यः स्वग्रन्थस्योपादेयता दर्शिता । कीदृशम् ? नारदगौतमप्रभृतिभिर्गदितम् । एतेन स्वोक्तेः स्वातन्त्र्यं निराकृतमिति भावः । किं कृत्वा ? मूर्ध्ना मस्तकेन महिताः पूजिता ये रजःकणका धूलिलेशास्तान् प्रणम्य कीदृशान् गुरुचरणद्वयमेव पद्मद्वयं तद्उत्थान् तद्उद्भवान् । एतेन गुरुभर्त्भत्त्य्अतिशयः सूचितः । तथा गुरुध्यानं शिरसि कर्तव्यमित्यपि सूचितम् ॥ Kर्द्C_१.२ ॥ ______________________________ मन्त्रान्तरेभ्यो गोपालमन्त्रस्यातिशायितं वक्तुं भूमिकां रचयति क्षितिसुरनृपविट्तुरीयजानां मुनिवनवासिगृहस्थवर्णिनां च । जपहुतयजआदिभिर्मनूनां फलति हि कश्चन कस्यचित्कथञ्चित् ॥ १.३ ॥ हि यतः मनूनां गोपालमन्त्रव्यतिरिक्तानां मध्ये कश्चन मन्त्रोराश्यादिना शोधितः क्षितिसुरप्रभृतीनां वर्णानां मध्ये मुनिवनवासिप्रभृतीनामाश्रमाणां चकारात्स्त्रीणां मध्ये कस्यचित्कथंचिज्जनस्य भाग्यवशाज्जपहोमादिभिरादिशब्देन तर्पणादेः परिग्रहः । फलति फलं ददातीति योजना । हि शब्दोऽत्रावधारण इति कश्चित्क्षितिसुरो ब्राह्मणः । नृपः क्षत्रियः । विट्वैश्यः । तुरीयः शूद्रः । मुनिर्यतिः । वनवासी वानप्रस्थः । गृहस्थः कृतदारपरिग्रहः । वर्णी ब्रह्मचारी ॥ Kर्द्C_१.३ ॥ ______________________________ अधुना गोपालमन्त्रस्य सर्वेषु सिद्धत्वमाह सर्वेषु वर्णेषु तथाश्रमेषु नारीषु नानाह्वयजन्मभेषु । दाता फलानामभिवाञ्छितानां द्रागेव गोपालकमन्त्र एषः ॥ १.४ ॥ सिद्धादिगणनानिरपेक्ष एवैष प्रथोपस्थितो वक्ष्यमाणदशाक्षरगोपालमन्त्रो न तु गोपालविषयको मन्त्रगणोऽतिप्रसङ्गात् । स्वाहाप्रणवसंयुक्तं मन्त्रं शूद्रे ददद्द्विजः । शूद्रो निरयगामी स्याद्द्विजः शूद्रोऽभिजायते ॥ इत्यागमविरोधात् । लक्षणापत्तेश्च । वाञ्छितानां स्वाभिमतानां फलानां द्रागेव झटित्येव दाता केषु सर्वेषु वर्णेषु ब्राह्मणादिषु सर्वाश्रमेषु ब्रह्मचारिप्रभृतिषु नारीषु नानाह्वयजन्मभेषु नानाप्रकारनामसु तह्ता नानाप्रकारजन्मनक्षत्रेषु स्तस्वपीत्यर्थः ॥ Kर्द्C_१.४ ॥ ______________________________ एवं सत्यपि गुरुचरणशुश्रूषापरोपस्थिताय मन्त्रो देय इति व्यनक्ति नूनमच्युतकटाक्षपातेन कारणं भवति भक्तिरञ्जसा । तच्चतुष्टयफलाप्तये ततो भक्तिमानधिकृतो हरौ गुरौ ॥ १.५ ॥ यस्मान्नूनं निश्चितमच्युतकटाक्षपातेन श्रीकृष्णकृपावलोकने भक्तिरञ्जसा तत्त्वतः कारणं ततस्तस्मात्कारणात्तच्चतुष्टयफलाप्तये प्रसिद्धधर्मादिपुरुषार्थचतुष्टयरूपफलप्राप्त्य्अर्थं हरौ विष्णौ गुरौ मन्त्रदातरि च भक्तियुक्तपुरुषो दीक्षादावधिकृतोऽधिकारी भवतीत्यर्थः । एतेन गुरुदेवतयोरभेदेन ध्यानं कर्तव्यमिति सूचितम् ॥ Kर्द्C_१.५ ॥ ______________________________ अधुना पूजाक्रममाह स्नातो निर्मलशुद्धसूक्स्मवसनो धौताङ्घ्रिपाण्याननः स्वाचान्तः सपवित्रमुद्रितकरः श्वेतोर्ध्वपुण्ड्रोज्ज्वलः । प्राचीदिग्वदनो निबद्ध्यसुदृढं पद्मासनं स्वस्तिकं वासीनः स्वगुरून् गणाधिपमथो वन्देत बद्धाञ्जलिः ॥ १.६ ॥ स्नातः स्वगृह्योक्तविधिना आगमोक्तविधिनापीति केचित् । निर्मले विशदे प्रक्षालिते सूक्ष्मे वस्त्रे यस्य स तथोक्तः । धौतेति प्रक्षालितपाणिपादवदनः । स्वाचान्तः स्मृत्य्उक्तविधिना कृताचमनः । सपवित्रेति पवित्रसहितः मुद्रायुक्तहस्तः सुपवित्रेतिपाठे अतिशोभनपवित्रेण मुद्रितः मुद्रासम्बद्धो तिलकेनोज्ज्वलः । प्राचीदिग्वदनः पूर्वाभिमुखः । अत्र प्राग्वदनस्य कण्ठोक्तत्वात्प्राग्वदनं मुख्यं तद्असम्भवे तूदङ्मुखत्वं रात्रौ तु सर्वपूजास्वेदोदङ्मुखत्वं पुराणे च तथैवाभिधानात् । अनन्तरं सुदृढं यथा स्यात्तथा पद्मासनं स्वस्तिकं वा कृत्वा । तत्र पद्मासनं प्रसिद्धं, स्वस्तिकं लक्षणं तु जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायसमासीनं स्वस्तिकं तत्प्रचक्षते ॥ आसीन उपविष्टः स्वगुरून् गणेशं च वन्देत । अथो शब्दश्चार्थेऽनुक्तसमुच्चयेन तेनाग्रे दुर्गां पृष्ठे क्षेत्रपालं वन्देत तदुक्तं गौतमीये वामे गुरुं दक्षिणतो गणेशं दुर्गां पुरः क्षेत्रपतिं च पश्चात् । इति । प्रयोगश्च गुं गुर्भ्यो नमः, गं गणपतये नमः, दुं दुर्गायै नमः, क्षें क्षेत्रपालाय नमः । बद्धाञ्जलिः कृताञ्जलिपुटः सन्नित्यर्थः । अत्र शारदातिलकोक्तक्रमेणैतद्बोद्धव्यं दक्षिणे पूजाद्रव्यस्थापनं वामे जलकुम्भस्थापनं पृष्ठे करप्रक्षालनपात्रस्थापनं पुरतो दीपचामराद्य्उपकरणस्थापनमिति ॥ Kर्द्C_१.६ ॥ ______________________________ भूतशुद्धेः पूर्वं कृत्यमाह ततोऽस्त्रमन्त्रेण विशोध्य पाणी त्रितालदिग्बन्धहुताशशालान् । विधाय भूतात्मकमेतद्अङ्गं विशोधयेच्छुद्धमतिः क्रमेण ॥ १.७ ॥ ततस्तद्अनन्तरं भूतात्मकं पृथिव्यादिपञ्चमहाभूतमयमेतदङ्गं शरीरं शुद्धमतिः विशदमतिः विशोधयेद्देवतात्मकं कुर्यादित्यर्थः । नादेवो देवमर्चयेदिति वचनात् । क्रमेण वक्ष्यमाणप्रकारेण । किं कृत्वा ? अस्त्रमन्त्रेणैव अस्त्राय फडित्यनेन तन्मन्त्राङ्गास्त्रमन्त्रेणैव वा, गन्धपुष्पाभ्यां हस्तौ संशोध्य करन्यासं कृत्वास्त्रमन्त्रेणैवोर्ध्वोर्ध्वं तालत्रयं कुर्यात् । तदुक्तं शारदायाम्करन्यासं समासाद्य कुर्यात्तालत्रयं ततः इति । अनन्तरमस्त्रमन्त्रेणैव छोटिकया दशदिग्बन्धनमस्त्रमन्त्रेणैव वह्निप्राकारं जलेनात्मनः परिवेष्टनरूपं विधाय कृत्वा । अत्र सम्प्रदायः हृत्पद्मकर्णिकास्थं दीपशिखानिभं जीवात्मानं हंस इति मन्त्रेण सुषुम्णावर्त्मना मस्तकोपरि सहस्रदलकमलावस्थितपरमात्मनि संयोज्य पृथव्य्आदिपञ्चविंशतितत्त्वानि तत्र विलीनानि विभाव्य भूतशुद्धिं कुर्यात् ॥ Kर्द्C_१.७ ॥ ______________________________ भूतशुद्धिमाह इडावक्त्रे धूम्रं सततगतिबीजं सलवकं स्मरेत्पूर्वं मन्त्रो सकलभुवनोच्छोषणकरम् । स्वकं देहं तेन प्रततवपुषापूर्यसकलं विशोष्य व्यामुञ्चेत्पवनमथ मार्गणखमणेः ॥ १.८ ॥ इडावक्त्रे वामनासापुटे सलवकं बिन्दुसहितं सततगतिबीजं वायुबीजं यमिति रूपं पूर्वं प्रथमं मन्त्री साधकः स्मरेत् । किं भूतम् ? धूम्रं कृष्णवर्णम् । पुनः किम्भूतम् ? सकलेति । पञ्चभूतमयदेहशोषकं तथा च वामनासापुटेन वायुमाकर्षन् षोडश्वारं वायुबीजं जपेदिति भावः । अनन्तरं सकलं सर्वं स्वकीयं शरीरं तेन बीजमयेन वायुना प्रततवपुषा विस्तीर्णशरीरेणापूर्य पूरयित्वा देहस्थवायोर्बाह्येनैक्यं विचिन्त्य विशोषं नीत्वा चतुःषष्ठिवारं वायुबीजं कुम्भकेन जप्त्वा खमणेः सूर्यस्य मार्गेण पिङ्गलया दक्षिणनासापुटेन रेचनेनैव वायुबीजं द्वात्रिंशद्वारं जपन् वायुं व्यामुञ्चेत्त्यजेदित्यर्थः ॥ Kर्द्C_१.८ ॥ ______________________________ तेनैव मार्गेण विलीनमारुतं बीजं विचिन्त्यारुणमाशुशुक्षणे । आपूर्य देहं परिदह्य वामतो मुञ्चेत्समीरं सह भस्मना बहिः ॥ १.९ ॥ तेनैव खमणेः सूर्यस्य मार्गेण दक्षिणनासापुटेन विलीनः सम्बद्धो मारुतो वायुर्यत्र तदाशुशुक्षणेर्वह्नेर्बीजं रमिति अरुणमरुणवर्णं विचिन्त्य वायुनापूर्य तद्बीजस्य षोडशवारजपेन पूरकं कृत्वानन्तरं कुम्भकेन चतुर्गुणं रंबीजं जपन् देहं परिदह्य तद्ऊर्ध्वं रमिति द्वात्रिंशद्वारं जपन् वामत इडामार्गेण वामनासापुटेन भस्मना सह बहिः समीरं वायुं मुञ्चेदित्यर्थः ॥ Kर्द्C_१.९ ॥ ______________________________ उत्पत्तिं दर्शयति टपरमतीव शुद्धममृतांशुपथेन विधुं नयतु ललाटचन्द्रममुतः सकलार्णमयीम् । लपरजपान्निपात्य रचयेच्च तया सकलं वपुरमृतौघवृष्टिमथ वक्त्रकराङ्गमिदम् ॥ १.१० ॥ टस्य परष्टपरः ठकारस्तमतीव शुद्धं श्वेतं विधुं चन्द्रबीजरूपममृतांशुपथेन वामनासापुटेन षोडशवारजपेन ललाटचन्द्रं ब्रह्मरन्ध्रस्थचन्द्रं नयतु प्रापयतु । ननु, सर्वशरीरस्य दग्धत्वात्कथममृतांशुपथेन चन्द्रबीजनयनमिति चेन्, न । पूर्वोक्तस्य भावनात्मकत्वात् । अथानन्तरममुतः अमृतांशोर्ललाटचन्द्राद्ब्रह्मरन्ध्रस्थशशङ्कात्सकलार्णमयीं मातृकामयीममृतसमूहवृष्टिं लपरो वकारः वरुणबीजमिति यावत्तज्जपेन कुम्भकेन चतुःषष्ठिवारजपेन निपात्य उत्पाद्य तथा मातृकामय्या वृष्ट्या इदं सकलं शरीरं रचयेदारचयेत् । कीदृशम् ? वपुर्वक्त्रकराङ्गं वक्त्रं च करश्च अङ्गमवयवरूपं यत्र तत्तथा वक्त्रकराढ्यमिति पाठे वक्त्राढ्यं कराढ्यं चेत्यर्थः । अनन्तरं दक्षिणनासापुटेन वायुं रेचयेत्लमिति पृथ्वीबीजं पीतवर्णं द्वात्रिंशद्वारं जपन् तत्शरीरं सुदृष्टं चिन्तयेत् । तद्अनु सोऽहमित्यात्ममन्त्रेण ब्रह्मरन्ध्राज्जीवं हृदयाम्भोजमानयेदिति सम्प्रदायः ॥ Kर्द्C_१.१० ॥ ______________________________ अधुना मातृकान्यासं दर्शयति शिरोवदनवृत्तदृक्श्रवणघोणगण्डोष्ठक द्वयेषु सशिरोमुखेषु च इति क्रमाद्विन्यसेत् । हलश्च करपादसन्धिषु तद्अग्रकेष्वादरात् सपार्श्वयुगपृष्ठनाभ्य्उदरकेषु याद्यानथ ॥ १.११ ॥ हृदयकक्षककुत्करमूलदोः पदयुगोदरवक्त्रागतान् बुधः । हृदयपूर्वमनेन पथान्वहं न्यसतु शुद्धकलेवरसिद्धये ॥ १.१२ ॥ अत्र शिरःशब्दो ललाटस्योपलक्षकः ललाटमुखमावृतेति शारदादर्शनातेकत्राक्षरद्वयस्यापि न्यासापाताच्च । वदनवृत्तं मुखमण्डलं दृक्श्रवणघोणगण्डोष्ठदन्तानां द्वयमिति समासः । द्वयमिति दृग्आदावपि सर्वत्र सम्बध्यते । घोणा नासिका, दद्द्वये दन्तपङ्क्तिद्वये इत्युक्तेषु स्थानेषु अचः षोडशस्वरान् क्रमेणैकाक्षरक्रमेण विन्यसेत्तथा हलश्च कादीनि व्यञ्जनानि च तत्र कादीनि विंशत्य्अक्षराणि आदरातादरपूर्वकं करपादसन्धिषु तद्अग्रकेषु च विन्यसेत् । अनन्तरं यकारादीनि पञ्चाक्षराणि सपार्श्वयुगपृष्ठनाभ्य्उदरकेषु पार्श्वयुगेन सह वर्तते यत्पृष्ठनाभ्य्उदरं तत्र विन्यसेत् । तथानन्तरमनेन वक्ष्यमाणमार्गेण याद्यान् वर्णान् हृदयादिस्थानगतानत्रापि करपद्युगयोरुदरवक्त्रयोश्च हृदयपूर्वं यथा स्यात्तथा अन्वहं प्रतिदिनं न्यसतु । करपद्युगादीनां पूर्वैः पदैः समस्तानामपि हृदयपूर्वमिति क्रियाविशेषणेन सह सम्बन्धः सापेक्षत्वादत्रासमास इति तु तुल्यप्रधानसापेक्षविषयं द्रष्टव्यम् । किम्अर्थं शुद्धकलेवरसिद्धये शुद्धशरीरसम्पादनार्थमित्यर्थः ॥ Kर्द्C_१.१११२ ॥ ______________________________ इत्यारचय्य वपुरर्णशतार्धकेन सार्धक्षपेशसविसर्गकसोभयैस्तैः । विन्यस्य केशवपुरःसरमूर्तयुक्तैः कीर्त्यादिशक्तिसहितैर्न्यसतु क्रमेण ॥ १.१३ ॥ अथ कथयाम्यर्णानां मूर्तीः शक्तीः समस्तभुवनमयीः । केशवकीर्ती नारायणकान्ती माधवस्तथा तुष्टिः ॥ १.१४ ॥ इत्युक्तप्रकारेण वपुः शरीरमर्णशतार्धेन पञ्चाशद्वर्णैः आरचय्य रचयित्वा अनन्तरं तैरेव पञ्चाशद्वर्णैः सार्धक्षपेशसविसर्गकसोभयैः । अर्धक्षपेशेन सह वर्तन्त इति सार्धक्षपेशाः अर्धचन्द्रसहिताः तैः सानुस्वारैरित्यर्थः । सविसर्गकैः विसर्गसहितैः सोभयैरनुस्वारविसर्गसहितैः विन्यस्य तथादौ शरीरसम्पादनार्थं शुद्धेर्मातृकाक्षरैर्विन्यस्य तद्अनन्तरं तेष्वेव ललाटादिषु मातृकास्थानेषु अं नम इत्यादीन् क्षं नम इत्यन्तान्, तथा अः नम इत्यादीन् क्षः नम इत्यन्तान् वर्णान् विन्यसेदित्यर्थः । एवं चतुर्विधो मातृकान्यास उक्तः । ननु, कथमर्णशतार्धकेनेत्युक्तवर्णानामेकपञ्चाशत्त्वादित्युच्यते क्षकारेणाक्षरद्वयस्यैकीकरणात् । लत्वेन लकारद्वयस्यैकीकरणाद्वा । लोकप्रसिद्धेर्वा प्रकरणेनैकपञ्चाशत्सङ्ख्यायास्तात्पर्येऽधिगते पञ्चाशद्वर्ण एव कपञ्चाशत्सङ्ख्यापर इति प्रपञ्चसारविवरणे श्रीप्रेमानन्दभट्टाचार्यशिरोमणयः । वस्तुतस्तु अर्णशतार्धं च क चार्णशतार्धकं तेनाक्षराणामेकपञ्चाशत्त्व्मायातम् । असमविभागे वा अर्धशब्दः । केशवन्यासमाहविन्यस्य केशवेति । केशवः पुरःसरः प्रथमो यासां मूर्तीनां ताः तथा च केशवादिमूर्तिसहितैः कीर्त्यादिशक्तियुक्तैश्च मातृकाक्षरैर्ललाटादिषूक्तस्थानेषु यथाक्रमं न्यासः कार्यः ॥ Kर्द्C_१.१३१४ ॥ ______________________________ गोविन्दः पुष्टियुतो विष्णुधृती सूदनश्च मध्वाद्यः । शान्तिस्त्रिविक्रमश्च क्रियायुतो वामनो दयायुक्तः ॥ १.१५ ॥ सूदनश्च मध्वाद्यः मधुसूदनः इत्यर्थः ॥ १.१५ ॥ ______________________________ श्रीधरयुता च मेधा हृषीकनाथश्च हर्षया युक्तम् । अम्बुजनाभश्रद्धे दामोदरसंयुता तथा लज्जा ॥ १.१६ ॥ हृषीकनाथो हृषीकेश इत्यर्थः । अम्बुजनाभः पद्मनाभः ॥ Kर्द्C_१.१६ ॥ ______________________________ लक्ष्मीः सवासुदेवा सङ्कर्षणकः सरस्वतीयुक्तः । प्राद्यो द्युम्नः प्रीतिसमेतोऽनिरुद्धको रतिरिमाः स्वरोपेताः ॥ १.१७ ॥ प्राद्यो द्युम्नः प्रद्युम्नः ॥ Kर्द्C_१.१७ ॥ ______________________________ चक्रिजये गदिदुर्गे शार्ङ्गी प्रभयान्वितस्तथा खड्गी । सत्या शङ्खीचण्डा हलिवाण्यौ मुसलियुग्बलासिन्किआ ॥ १.१८ ॥ शूली विज्या पाशी विरजा विशान्वितोऽम्बुशीर्भूयः । विमदा मुक्न्दयुक्ता नन्दजसुनन्दजे स्मृतिश्च नन्दियुता ॥ १.१९ ॥ नरर्द्धी नरकजितासमृद्धिरथ शुद्धियुग्घरिः कृष्णः । बुद्धियुतः सत्ययुतभक्तिर्मतियुक्तः स्यात्ततः शौरिः ॥ १.२० ॥ क्षमया शूरो रमया जनार्दनो मेचभूधरः क्लेदी । विश्वाद्यमूर्तियुक्ता क्लिन्ना वैकुण्ठयुक्तथा वसुदा ॥ १.२१ ॥ क्लेदी क्लेदिनीत्यर्थः । छन्दोभङ्गभयात्तथोक्तः । विश्वादिमूर्तिरिति विश्वमूर्तिरित्यर्थः ॥ Kर्द्C_१.१८२१ ॥ ______________________________ पुरुषोत्तमश्च वसुधा बलिना च वरा बलानुजोपेता । भूयः परायणाख्या बालः सूक्ष्मा वृषघ्नसन्ध्ये च ॥ १.२२ ॥ सवृषा प्रज्ञा प्रभा वराहो निशा च विमलोऽमोघा । नरसिंहविद्युते च प्रणिगदिता मूर्तयो हलां शक्तियुताः ॥ १.२३ ॥ अमोघेति च्छेदः ॥ Kर्द्C_१.२२२३ ॥ ______________________________ पूर्वोक्तकेशवादिमूर्तिकीर्त्यादिशक्तिन्यासप्रकारं दर्शयति वर्णनुक्त्वा सार्धचन्द्रान् पुरस्तान् मूर्तीः शक्तीर्ङेऽवसाना नतिं च । उक्त्वा न्यस्येत्यादिभि सप्तधातून् प्राणं जीवं क्रोधमप्यात्मनेऽन्तान् ॥ १.२४ ॥ पुरस्तात्प्रथमं वर्णानकारादिक्षकारआन्तानुक्त्वा कथम्भूतान् वर्णान् सार्धचन्द्रान् सबिन्दूननन्तरं मूर्तीः केशवाद्याः शक्तीः कीर्त्याद्याः ङेऽवसानाः इत्युभयेन सम्बध्यते तन्न हृदयग्राहि प्रयासत्तेः लाघवाच्च अं केशवाय कीर्त्यै नम इति प्रयोगे केशवायेत्यत्र नमःपदस्य योगाभावाच्चतुर्थ्य्अनुपपत्तिः न हि विष्णवे सूर्याय नम इति भवति । भवति च विष्णवे नमः सूर्याय नम इति (तथा च केशवाय नमः कीर्त्यै नम इति) प्रयोगापत्तिः उभयत्र वा चकारो देयः समुच्चयख्यापनार्थः । स श्रिये चामृताय चेतिवत्तथा मातृकाक्षराणामपि उभयसम्बन्धार्थं द्विःप्रयोगापत्तिः । अं केशवकीर्तिभ्यां नम इति प्रयोगे तु नैते दोषाः पतन्ति तत्र द्वन्द्वसमासवशात्सहितावस्थितयोरेवोपस्थितौ चतुर्थ्य्अर्थान्वयसम्भवात्वर्नान्वयसम्भवाच्च अग्नीषोमयोरिव सहितावस्थितयोर्देवतात्वम् । कथं तर्हि यादिषु त्वग्आदिप्रयोगः कार्यम् ? इत्युच्यते यं त्वग्आत्मने पुरुषोत्तमवसुधाभ्यां नमः, रमसृग्आत्मने बलिपराभ्यां नम इत्येवं रूप इति । मन्त्रमुक्तावलिकारेण तथैवाभिधानात् । आत्मने इत्यस्य सुब्अन्तप्रतिरूपकनिपातत्वेनादोषादिति तु प्रपञ्चसारविवरणे परमानन्दभट्टाचार्याभ्याः । तथा च अं केशवकीर्तिभ्यां नम इति प्रयोगः मन्त्रमुक्तावलीकारलघुदीपिकाकारत्रिपाठिरुद्रोपाध्यायविद्याधराचार्यपरमानन्दभट्टाचार्यसंमतः । अं केशवाय कीर्त्यै नम इति प्रयोगः पद्मपादाचार्यप्रभृतीनां संमत इति । ज्ञात्वा यथागुरुसम्प्रदायं व्यवहर्तव्यमिति । अत्रैव न्यासविशेषमाहयादिभिरिति यकाराद्यैर्दशभिरक्षरैः सह सप्त धातून् त्वग्असृङ्मांसमेदोऽस्थिमज्जशुक्राख्यानात्मनेऽन्तानात्मने इति शब्दः अन्ते येषां ते तथा प्राणं जीवं क्रोधं च आत्मनेऽन्तं हृदयादिषु यथास्थानेषु विन्यस्येदित्यर्थः । प्राणं शक्तिमित्यपि पाठान्तरम् ॥ Kर्द्C_१.२४ ॥ ______________________________ केशवादिन्यासे ध्यानमाहोद्यदिति । उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदातं पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टम् । नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रं विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिम् ॥ १.२५ ॥ अहं विष्णुं वन्दे । कीदृशं ? उद्यन्नुदयं गच्छन् प्रद्योतनः सूर्यस्तस्य यच्छतं तस्येव रुचिदीप्तिर्यस्य तं पुनः तप्तेति वह्निमध्यनिक्षिप्तकाञ्चनवद्गौरम् । पुनः कीदृशं पार्श्वद्वन्द्वे इति दक्षिणवामपार्श्वद्वये जलधिसुतया लक्ष्म्या तथा विश्वधात्र्या पृथिव्या जुष्टं सेवितम् । पुनः किम्भूतं ? नानाविधरत्नेन शोभितो नाना बहुप्रकार आकल्पो भूषणं यस्य । पुनः कीदृशं ? आपीतेति आसम्यक्प्रकारेण पीते वस्त्रे यस्य तम् । पुनः कीदृशं ? दरः शङ्खः पद्मं कमलं कौमोदकी गदा चक्रमेतानि पाणौ यस्य तम् । अत्र ऊर्ध्वाधः क्रमेण वामभागे शङ्खपद्मे दक्षिणभागे गदाचक्रे इति बोध्यम् ॥ Kर्द्C_१.२५ ॥ ______________________________ ध्यानन्यासयोः फलमाहध्यात्वैवमिति । ध्यात्वैवं परमपुमांसमक्षरैर्यो विन्यस्योद्दिनमनु केशवादियुक्तैः । मेधायुःस्मृतिधृतिकीरित्कान्तिलक्ष्मी सौभाग्यैश्चिरमुपबृंहितो भवेत्सः ॥ १.२६ ॥ एवमुक्तप्रकारं परमपुमांसं विष्णुं ध्यात्वा योऽनुदिनं प्रत्यहं केशवादिसहितैर्मातृकाकाऐर्विन्यस्येत्स पुरुषः । मेधादिभिश्चिरं बहुकालमुपबृंहित उपचितो भवति मेधा धारणावती बुद्धिः आयुर्जीवनं स्मृतिः स्मरणं धृतिर्धैर्यं कीर्तिरुत्कृष्टकर्मकथा कान्तिः सौन्दर्यं लक्ष्मीरैश्वर्यं सौभाग्यं सर्वप्रियत्वम् ॥ Kर्द्C_१.२६ ॥ ______________________________ न्यासविशेषमाहामुमिति । अमुमेव रमापुरःसरं प्रभजेद्यो मनुजो विधिं बुधः । समुपेत्य रमां प्रथीयसीं पुनरन्ते हरितां व्रजत्यसौ ॥ १.२७ ॥ यः पण्डितो मनुष्यः अमुमेव विधिं केशवादिन्यासप्रकारं रमापुरःसरं श्रीबीजमादौ दत्त्वा प्रभजेत्करोति असौ पुमानिह लोके प्रथीयसीं महतीं रमां लक्ष्मीं समुपेत्य प्राप्य पुनरन्ते अवसाने हरितां विष्णुत्वं व्रजति प्राप्नोतीत्यर्थः ॥ Kर्द्C_१.२७ ॥ ______________________________ तत्त्वन्यासं दर्शयतीत्यच्युतीत्यादि । इत्यच्युतीकृततनुर्विदधीत तत्त्व न्यासं मपूर्वकपराक्षरनत्य्उपेतम् । भूयः पराय च तद्आह्वयमात्मने च नत्य्अन्तमुद्धरतु तत्त्वमनून् क्रमेण ॥ १.२८ ॥ इति पूर्वोक्तप्रकारेण अच्युतीकृततनुः सम्पादितविष्णुशरीरः तत्त्व न्यासं वक्ष्यमाणप्रकारं विदधीत कुर्यात् । प्रकारं दर्शयतिमः पूर्वो यस्य स मपूर्वः । कः परो यस्य स कपरः । नत्य्उपेतं नमःशब्दसहितम् । तथा च मकारादिव्युत्क्रमेण ककारपर्यन्तमेकैकाक्षरं नमःपदसहितं कृत्वा भूयोऽनन्तरं परायेतिपदं दत्त्वा अनन्तरं तद्आह्वयं तेषां तत्त्वानामाद्वयं वक्ष्यमाणं नाम दत्त्वा अनन्तरमात्मने इति पदं दत्त्वा अनन्तरं नत्य्अन्तं नमःपदमन्ते दत्त्वा क्रमेण तत्त्वमनून् तत्त्वमन्त्रानुद्धरतु ॥ Kर्द्C_१.२८ ॥ ______________________________ अधुना तत्त्वानां नामानि न्यासं स्थानं च दर्शयति सकलवपुषि बीजं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कारं मनश्चेति मन्त्री । कमुखहृदयगुह्याङ्घ्रिष्वथो शब्दपूर्वं गुणगणमथ कर्तादिस्थितं श्रोत्रपूर्वम् ॥ १.२९ ॥ सकलवपुषि सर्वाङ्गव्यापके जीवं प्राणं च मन्त्रे आयोज्य तेन न्यस्यतु तथा च मं नमः पराय जीवात्मने नमः भं नमः पराय प्राणात्मने नमः इति द्वयं सर्वशरीरे विन्यस्येदित्यर्थः । इति तत्त्वपदं दत्त्वा मं नमः पराय जीवतत्त्वात्मने नमः इति केचित्तत्प्रयोगान् कुर्वन्ति तन्न प्रमाणाभावात्मूर्तिपञ्जरन्यासेऽपि मूर्तिपदप्रयोगापत्तेः । अत्र मकरादीनां बिन्दुसाहित्यं सम्प्रदायावगतं बोद्धव्यम् । मध्ये हृदये मतिमहङ्कारं मनश्च मन्त्र आयोज्य तेन मन्त्री न्यस्यतु तथा बं नमः पराय मन आत्मने नमः फं नमः पराय अहङ्कारात्मने नमः पं नमः पराय मन आत्मने नमः इति त्रयं हृदि विन्यस्येदित्यर्थः । अथोऽनन्तरं कमुखहृदयगुह्याङ्घ्रिषु पञ्चसु स्थानेषु शब्दपूर्वं गुणसमुदायं शब्दस्पर्शरूपरसगन्धात्मकं मन्त्रे आयोज्य तेन न्यस्यतु तथा च नं नमः पराय रूपात्मने नमः इति हृदये, थं नमः पराय रसात्मने नमः इति गुह्ये, तं नमः पराय गन्धात्मने नमः पादयोर्विन्यस्येदित्यर्थः । अथानन्तरं श्रोत्रत्वग्दृक्जिह्वाघ्राणात्मकं कर्णादिस्थितं कर्णत्वग्दृक्जिह्वाघ्राणेषु स्थितं यथा स्यात्तथा न्यस्यतु तथा च णं नमः पराय श्रोत्रात्मने नमः इति श्रोत्रयोः ढं नमः पराय त्वग्आत्मने नमः इति त्वचि, डं नमः पराय दृग्आत्मने नमः इति नेत्रयोः । ठं नमः पराय जिह्वात्मने नमः इति जिह्वायाम् । टं नमः पराय घ्राणात्मने नमः इति घ्राणयोरिति विन्यस्येत् ॥ Kर्द्C_१.२९ ॥ ______________________________ वाग्आदीति । वाग्आदीन्द्रियवर्गमात्मनिलयेष्वाकाशपूर्वं गणं मूर्ध्यास्ये हृदये शिरे चरणयोर्हृत्पुण्डरीकं हृदि । बिम्बानि द्विषड्अष्टयुग्दशकलाव्याप्तानि सूर्योडुराड् वह्नीनां च यतस्तु भूतवसुमुष्यन्त्याक्षरैर्मन्त्रवित् ॥ १.३० ॥ वाग्आदीन्द्रियवर्गं वाक्पाणिपादपायूपस्थात्मकं कर्मेन्द्रियपञ्चकं मन्त्रे आयोज्य आत्मनिलयेषु मुखपाणिपादपायूपस्थेषु न्यस्यतु । तथा च अं नमः पराय वाग्आत्मने नमः इति मुखे । झं नमः पराय पाण्य्आत्मने नमः इति पाण्योः । जं नमः पराय पादात्मने नमः इति पादयोः । छं नमः पराय पाय्व्आत्मने नमः इति पायौ । चं नमः पराय उपस्थात्मने नमः इत्युपस्थे विन्यस्येदित्यर्थः । आकाशपूर्वं गणमाकाशवाय्व्अग्निजलपृथिव्य्आत्मकं मन्त्रे आयोज्य मूर्धन्यास्ये हृदये शिवे लिङ्गे चरणयोर्न्यस्यतु । तथा च ङं नमः पराय आकाशात्मने नमः इति शिरसि । धं नमः पराय वाय्व्आत्मने नमः इति मुखे । गं नमः परायाग्न्य्आत्मने नमः इति हृदये । खं नमः पराय जलात्मने नमः इति लिङ्गे । कं नमः पराय पृथिव्य्आत्मने नमः इति पादयोर्न्यस्येदित्यर्थः । हृत्पुण्डरीकमित्यादेरयमर्थः । हृत्पुण्डरीकं तथा सूर्योड्डराद्वह्नीनां बिम्बानि सूर्यचन्द्राग्नीनां मण्डलानि त्रीणि द्विषड्अष्टयुग्दशकलाव्याप्तानि द्वादशषोडशदशकलायुक्तानि यतस्तु भूतवसुमुन्य्अक्ष्य्अक्षरैः यतो यकाराद्यो भूतवर्णः पञ्चमवर्णः शकारः वसुवर्णोऽष्तमार्णो हकारः मुनिवर्णः सप्तमः सकारः अक्षिवर्णो द्वित्यवर्णो रेफः । एतैश्च सहितानि मन्त्रे आयोज्य हृदि न्यस्यतु । तथा चशं नमः पराय हृत्पुण्डरीकात्मने नमः । हं नमः पराय द्वादशकलाव्याप्तसूर्यमण्डलात्मने नमः । सं नमः पराय षोडशकलाव्याप्तचन्द्रमण्डलात्मने नमः । रं नमः पराय दशकलाव्याप्तवह्निमण्डलात्मने नमः इति चतुष्टयं हृदये न्यस्यतु ॥ Kर्द्C_१.३० ॥ ______________________________ अथ परमेष्ठिपुमांसौ विश्वनिवृत्ती सर्वहत्य्उपनिषदं न्यसेदाकाशादिस्थानस्थानषोयबलवार्थिः सलावः ॥ १.३१ ॥ अथानन्तरं परमेष्ठिपुमांसौ विश्वनिवृत्ती सर्व इत्युपनिषदो रहस्यान् षोपरबलार्णैरिति षकारः रेफस्य उप समीपं तेन रेफसमीपवर्तिनौ यकारलकारौ लक्ष्येते वकारो लकारश्च एतैः सलवकैर्बिन्दुसहितैः सहितानाकाशादिस्थाने न्यस्येदाकाशादि न्यासस्थानेषु मूर्ध्न्यास्ये हृदये लिङ्गे चरणयोर्न्यस्येत् ॥ Kर्द्C_१.३१ ॥ ______________________________ अत्रैव विशेषमाहवासुदेव इति । वासुदेवः सङ्कर्षणः प्रद्युम्नाश्चानिरुद्धकः नारायणश्च क्रमशह्परमेष्ठ्यादिभिर्युतः ॥ १.३२ ॥ क्रमशः क्रमेण परमेष्ट्य्आदिभिः सहिता वासुदेवादयो न्यस्नीया तथा च षं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः इति शिरसि । यं नमः पराय सङ्कर्षणाय पुरुषात्मने नमः इति मुखे, लं नमः पराय प्रद्युम्नाय विश्वात्मने नम इति हृदये । वं नमः पराय अनिरुद्धाय निवृत्त्यात्मने नम इति लिङ्गे, लं नम इति हृदये । वं नमः पराय अनिरुद्धाय निवृत्य्आत्मने नम इति लिङ्गे । लं नमः पराय नारायणाय सर्वात्मने नम इति चरणयोः । विन्यस्येदित्यर्थः । केचित्तु परमेष्ठ्यादेरनन्तरं वासुदेवादेः प्रयोगं कुर्वन्ति ॥ Kर्द्C_१.३२ ॥ ______________________________ ततः कोपतत्त्वं क्षरौ विन्दुयुक्तं नृसिंहं न्यसेत्सर्वगात्रेषु तज्ज्ञः । क्रमेणेति तत्त्वात्मको न्यास उक्तः स्वासान्निकृद्विश्वमूर्त्य्आदिषु स्यात् ॥ १.३३ ॥ ततस्तद्अनन्तरं क्रमेण गुरूपदेशक्रमेण तज्ज्ञः नृसिंहबीजज्ञः क्षरौ क्षकाररेफाउकार इति मिलितस्वरूपं बिन्दुयुक्तं तथा कोपतत्त्वं नृसिंहं च मन्त्रे आयोज्य सर्वगात्रेषु न्यस्येत् । तथा चक्ष्रौं नमः पराय नृसिंहाय कोपात्मने नमः इति सर्वगात्रेषु न्यस्येदित्यर्थः । तत्त्वन्यासमुपसंहरति इत्युक्तप्रकारेण तत्त्वात्मको न्यासः कथितो भवति । कीदृशः ? विश्वमूर्त्य्आदिषु स्वसान्निध्यकृत्कृष्णसान्निध्यकृत्बिम्बादिष्विति केचिद्बिम्बं प्रतिमा मूर्तिः शरीरमादिपदेन मणिमन्त्रादिसकलस्य परिग्रहः एतेषु हरेः सान्निध्यं करोतीत्यर्थः । क्वचिन्मर्त्यादिष्विति पाठः ॥ Kर्द्C_१.३३ ॥ ______________________________ एतन्न्यासप्रयोजनमाहेति कृत इति । इति कृतोऽधिकृतो भवति ध्रुवं सकलवैष्णवमन्त्रजपादिषु । पवनसंयवलतत्त्वमनुना चरेत् तत्त्वमिह जप्तुमसौ मनुच्छति ॥ १.३४ ॥ तत्त्वन्यासे कृते ध्रुवं निश्चितमधिकृतो भवति न केवलं गोपालविषयमन्त्रकथनादत्रैव अपि तु सकलवैष्णवमन्त्रजपादिष्वपीत्यर्थः । अधुना प्राणायामप्रकारमाहपवनसंयमनमिति । असौ साधकः यं मनुमिह व्यवहारभूमौ जप्तुमिच्छति अमुना मन्त्रेण पवनसंयमनं प्राणायामं चरतु कुर्यादित्यर्थः ॥ Kर्द्C_१.३४ ॥ ______________________________ अत्रैव प्रकारान्तरमाहाथवेति । अथवाखिलेषु हरिमन्त्र जपविधिषु मूलमन्त्रतः । संयमनममलधीर्मरुतो विधिनाभ्यसंश्चरतु तत्त्वसङ्ख्यया ॥ १.३५ ॥ मूलमन्त्रतो मूलमन्त्रेण । वक्ष्यमाणदशाक्षरेणेति केचित् । वस्तुतस्तु सप्ताक्षरगोपीजनवल्लभमन्त्रेण तस्यैव मूलमन्त्रत्वेनाभिधानात्तद्वचनस्य प्रयोजनान्तराभावात्तत्त्वसङ्ख्ययाष्टाविंशतिवारं चतुर्विंशतिवारमिति केचित् ॥ Kर्द्C_१.३५ ॥ ______________________________ पुरतो जपस्य परतोऽपि विहितमथ तत्त्रयं बुधैः । षोडश य इह समाचरेद्दिनेशः परिपूयते स खलु मासतोऽं हंसः ॥ १.३६ ॥ पुरतो जपादौ पश्चाच्च तत्त्रयं बुधैर्विहितं प्राणायामत्रयं, रेचकादित्रयमिति केचित् । एतेन जपाङ्गत्वाच्च तत्राद्य्अन्तेऽयं दर्शितः ॥ Kर्द्C_१.३६ ॥ सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत्त्रयं प्राणायामत्रयमिति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडशप्राणायामानाचरेत्, स मासतः मासेनैकेन अंहसः पापात्परिपूयते शुद्धो भवतीति सामान्यतः फलम् । परं च सर्वं पुर्वं लिखितमेव ॥ (हरिभक्तिविलास ५.१३२) ______________________________ अत्रैव प्रकारान्तरमाहाथवेति । अयवाङ्गजन्मममुनानुसुसंयमं सकलेषु कृष्णमनुजापकर्मसु । सहिऐकसप्तकृतिवारमभ्यसेत् तनुयात्समस्तदुरितापहारिणा ॥ १.३७ ॥ कृतीति कृतिच्छन्दसो विंशत्य्अक्षरत्वात्सहितमेकं यत्र तादृशसप्तकृतिवारम् । अथवा सहितानि मिलितानि एक सप्तकृतयः उभयत्राष्टाविंशतिवारमित्यर्थह् । सर्वेषु कृष्णमनुजापकर्मसु अङ्गजन्ममनुना कामबीजेन प्राणायाममभ्यसंस्तनुयात् । प्रथममेकं ततः सप्त ततो विंशति ततोऽभ्यासपाटवेऽष्टाविंशतिवारमित्यर्थः । कश्चित्तु प्रथमं सप्त ततो विंशतिस्तत एकं ततोऽष्टाविंशतिवारमभ्यासक्रमेणेति तात्पर्यमाह तत्र प्रमाणं स एव प्रष्टव्यः ॥ Kर्द्C_१.३७ ॥ ______________________________ मन्त्रविशेषप्राणायामप्रकारमाहाष्टाविंशतीति । अष्टाविंशतिसङ्ख्यमिष्टफलदं मन्त्रं दशार्णं जपन् नायच्छेत्पवनं सुसंयतमतिस्त्वष्टौ दशार्णेन चेत् । अभ्यस्यन्नविवारमन्यमनुभिर्वर्णानुरूपं जपन् कुर्याद्रेचकपूर्वकमनिपणः प्राणप्रयोगं नरः ॥ १.३८ ॥ सुसंशितमतिर्विमलबुद्धिः अष्टाविंशतिसंख्यं दशार्णं दशाक्षरमन्त्रं जपन् प्रायच्छेत्प्राणायामं कुर्यात्कीदृशं दशार्णमिष्टफलदं स्वाभिमतफलदं तत्र दशाक्षरमन्त्रस्य वारचतुष्टयं जपेन रेचकम् । अष्टवारजपेन पूरकं षोडशवारजपेन कुम्भकं कुर्यादिति गुरुसम्प्रदायः । अष्टादशार्णे चेत्प्राणायामः क्रियत इति शेषः । तदा रविवारं द्वादशवारमभ्यस्यन् प्राणायामं कुर्यादिति गुरुसम्प्रदायः । अन्यमनुभिरन्यमन्त्रैश्चेत्प्राणायामः क्रियते । तदा वर्णानुरूपं मन्त्रवर्णानां तारतम्येन जपं कुर्वन् कुर्यात् । अत्र स्वल्पाक्षरैर्मन्त्रैर्बहुवारमनल्पाक्षरैर्मन्त्रैः स्वल्पवारं जपेदित्यर्थः । कीदृशः ? साधकः रेचकपूरककुम्भकाख्यकर्मकुशल इत्यर्थः । रेचकस्य त्यागस्य पूर्वकर्मणी पूरककुम्भके तत्र निपुणा इति रुद्रधरः । तच्चिन्त्यमेवमपि रेचके नैपुण्यालाभात्प्रपञ्चसारानुसारिणोऽस्य ग्रन्थस्य शारदाग्रन्थानुयायित्वाच्च ॥ Kर्द्C_१.३८ ॥ ______________________________ अधुना प्राणायामप्रकारं दर्शयतिरेचयेन्मारुतमिति । रेचयेन्मारुतं दक्षया दक्षिणः पूरयेद्वामया मध्यनाड्या पुनः । धारयेदीरितं रेचकादित्रयं स्यात् कलादन्तविद्याख्यमात्राच्युकम् ॥ १.३९ ॥ दक्षिणो विचक्षणः पुरुषः दक्षया दक्षिणनाड्या मारुतं वायुं रेचयेत्त्यजेत्तथा वामया वामनाड्या त्यक्तवायुं पूरयेद्मध्यया सुषुम्णया नाड्या मारुतं वायुं धारयेदित्युक्तप्रकारेण रेचकादित्रयं रेचकपूरककुम्भकाख्यत्रितयमीरितं कथितं रेचकादिष्ववधि कालमाहकलादन्तेति । कलाः षोडश, दन्ता द्वात्रिंशद्, विद्याः चतुःषष्ठिरूपा एतत्सङ्ख्याकमात्रात्मकमित्यर्थः । अत्र भैरवत्रिपाठिनो यत्र मन्त्रगणनया प्राणायामः । तत्र कुम्भककाल एवोक्तः श्वासाभ्यासक्रमेण प्राणायामसङ्ख्यया मन्त्रजपः कार्यो निर्गमप्राणायामे तु रेचकादिगणना कार्येत्याहुः । मात्रशब्देन च वामाङ्गुष्ठे कनिष्ठाद्य्अङ्गुलीनां प्रत्येकं पर्वत्रयस्पर्शकालः कथ्यते वामहस्तेन वामजानुमण्डलस्य प्रादक्षिण्येन स्पर्शकालश्च । यदत्र रुद्रोपाध्यायैरुक्तं यद्यप्यत्र रेचकं प्रथममुक्तं तद्अनन्तरं पूरकं तथापि प्रथमं पूरकमनन्तरं कुम्भकं ज्ञेयं यतो गृहीतघृतस्य त्यागो भवति । यत्पुनर्व्यत्यासेन कथनं तद्गोपनाय एवं कलादन्तेत्याद्यपि व्यत्यासेन बोद्धव्यम् । इड्योत्कर्षयेद्वायुमित्यादि शारदादर्शनात् । एवं च गृहीतचतुर्गुणेन धारणं तद्अर्धेन त्याग इत्यपि दर्शितं भवतीति, तन्न प्रपञ्चसारानुसारिणो ग्रन्थस्यास्य शारदानुयायित्वात्प्रपञ्चसारे रेचकादित्वस्यैवोक्तत्वात्पूरकादित्वस्याष्टाङ्गयोगान्तर्भूतप्राणायामविषयत्वात् । यदुक्तं गृहीतस्य त्यागो भवति तत्रोच्यते स्वाभाविकवायुधारणस्यात्रापि सत्त्वादन्यथा शरीरपातापत्तेः । यदुक्तं व्यत्यासेन गोपनार्थं कथनमिति तदयुक्तम् । मन्त्रभिन्नस्यानुष्ठानभागस्य ऋजुमार्गेणैव वक्तुं युक्तत्वात् । यदुक्तं गृहीतचतुर्गुणेनैव धारणं तद्अर्धेन त्याग इति तदप्ययुक्तं प्रमाणाभावात् । दक्षिणामूर्तिसंहितायामङ्गुलीनियमोऽपि प्राणायामे कथितो, यथा कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ इति ॥ Kर्द्C_१.३९ ॥ सनातनः: तदेव क्रमदीपिकोक्त्या संवादयन् तत्रैव किंचिद्विशेषं च दर्शयतिरेचयेदिति । दक्षया दक्षिणनाड्या, दक्षिणः विद्वान् जनः । मध्यनाड्या सुषुम्णया धारयेत् । एवं रेचकपूरककुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालमाहकलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश्चतुःषष्ठिस्तत्तत्सङ्ख्यकमात्रात्मकमित्यर्थः । मात्रा चवामाङ्गुष्ठेन वामकनिष्ठाद्य्अङ्गुलीनां प्रत्येकं पर्वत्रयसम्पर्ककालः । वामहस्तेन वामजानुमण्डलस्य प्रादक्षिण्येन स्पर्शकालो वा । तत्राप्यङ्गुलिनियमोऽप्युक्तः कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ इति । तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्विति भेदः ॥ [हरिभक्तिविलासे ५.१३१] ______________________________ प्रकृतमुपसंहरन्नात्मयागार्थं देहे पीठकल्पनां दर्शयतिप्राणायाममित्यादिना । प्राणायामं विधायेत्यथ निजवपुषा कल्पयेद्योगपीठम् । न्यस्येदाधारशक्तिप्रकृतिकमठक्षमाक्षीरसिन्धून् । श्वेतद्वीपं च रत्नोज्ज्वलमहितमहामण्डपं कल्पवृक्षम् । हृद्देशेऽंशद्वयोरूद्वयवदनकटीपार्श्वयुग्मेषु भूयः ॥ १.४० ॥ धर्माद्य्अधर्मादि च पादगात्र चतुष्टयं हृद्यथ शेषमन्त्रम् । सूर्येन्दुवह्नीन् प्रणवआंशयुक्तान् स्वाद्य्अक्षरैः सत्त्वरजस्तमांसि ॥ १.४१ ॥ इति पूर्वोक्तप्रकारेण प्राणायामं विधाय कृत्वा अथानन्तरं निजवपुषा निजशरीरेण यागपीथं पूजापीठं कल्पयेत्कल्पनाप्रकारमाहन्यस्येदिति । हृद्देशे हृदि आधारशक्त्य्आदिकल्पवृक्षान्तं न्यसेत् । कमठः कूर्मः शेषोऽनन्तः क्षीरसिन्धुः क्षीरसमुद्रः रत्नेन उज्ज्वलः महितो यः महामण्डपः रत्नमण्डपः इति यावत्तथा चाधारशक्तये नमः प्रकृत्यै नम इति नवकं न्यसेधृदीत्यर्थह् । भूयोऽअनन्तरमंसद्वयोरुद्वयवदनकटीपार्श्वयुग्मेषु धर्माद्य्अधर्मादिपादगात्रचतुष्टयं विन्यस्येत् । पादगात्रयोश्चतुष्टयं पादगात्रचतुष्टयमित्युभयत्र सम्बध्यते । पादचतुष्टयं गात्रचतुष्टयं धर्मादिधर्मज्ञानवैराग्यैश्वर्यरूपपादचतुष्टयम् । अंसद्वयोरुद्वये च धर्माय नमः दक्षिणोरौ, इत्येवं प्रादक्षिण्यक्रमेण विन्यसेत् । शारदायां मुखपार्श्वनाभिपार्श्वेष्विति क्रमदर्शनात् । एतच्च भैरवत्रिपाठिनोऽपि संमतम् । एतेषु यथाश्रुतक्रमेणैवेति विद्याधराचार्याः । अथानन्तरं शेषमनन्तमब्जं पद्मं सूर्येन्दुवह्नीन् सूर्यसोमाग्निमण्डलानि । कीदृशान् ? तान् प्रणवांशयुक्तान् प्रणवस्योङ्कारस्यांशाः । अवयवा अकारोकारमकारास्तैर्युक्तान् सहितान् तत्रादौ सबिन्दुप्रणवांशादिसाहित्यं सम्प्रदायतो बोद्धव्यम् । स्वाद्य्अक्षरैः सबिन्दुस्वीयस्वीयप्रथमाक्षरैः सहितानि सत्त्वरजस्तमांसि तथा च हृत्पद्मे अनन्ताय नमः, पद्माय नमः, अं द्वादशकलाव्याप्तसूर्यमण्डलात्मने नमः, उं षोडशकलाव्याप्तचन्द्रमण्डलात्मने नमः, मं दशकलाव्याप्तवह्निमण्डलात्मने नमः, सं सत्त्वाय नमः, रं रजसे नमः, तं तमसे नमः ॥ Kर्द्C_१.४०४१ ॥ ______________________________ आत्मादित्रयमात्मबीजसहितं व्योमाग्निमायालवैर् ज्ञानात्मानमथाष्टदिक्षु परितो मध्ये च शक्तीर्नव । न्यस्त्वा पीठमनुं च तत्र विधिवत्तत्कर्णिकामध्यगं नित्यानन्दचितिप्रकाशममृतं संचिन्तयेन्नाम तत् ॥ १.४२ ॥ आत्मादित्रयमात्मान्तरात्मा परमात्मेति लक्ष्यम् । कीदृशम् ? आदिबीजसहितं सबिन्दुं स्वीयस्वीयप्रथमाक्षररूपबीजसहितमिति विद्याधराचार्याः । आदिः प्रणवस्तत्सहितमिति त्रिपाठिनः । व्योम हकारः । अग्निः रेफः । माया दीर्घः ईः । लवो बिन्दुः । एतैः सह ज्ञानात्मानं भुवनेश्वरीबीजसहितं हृत्पद्मे न्यसेदिति पूर्वेणान्वयः । तथा च आमात्मने नमः । अमन्तरात्मने नमः । पं परमात्मने नमः । ह्रीं ज्ञानात्मने नमः । इति हृदि विन्यसेत् । अथानन्तरमष्टदिक्षु परितः प्रादक्षिण्येन मध्ये च कर्णिकायां नवशक्तीर्विमलोत्कर्षिण्याद्या न्यस्येत् । पद्मस्य पूर्वादिकेसरेषु प्रादक्षिण्येन विमलायै नमः । उत्कर्षिण्यै नमः । ज्ञानायै नमः । क्रियायै नमः । योगायै नमः । प्रह्वयै नमः । सत्यायै नमः । ईशानायै नमः । कर्णिकायामनुग्रहायै नमः । इति न्यसेत् । पीठमन्त्रं च तत्र न्यस्यः । एतस्योपरि वक्ष्यमाणं पीठमन्त्रंओं नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयौगपद्यपीठात्मने नमः इति मन्त्रं न्यसेत् । तदुक्तरूपे पीठे विधिवद्गुरूपदिष्टमार्गेण तत्सर्वोपनिषत्प्रसिद्धं धाम ब्रह्मचैतन्यं चिन्तयेत् । कीदृशम् ? तत्कर्णिकामध्यगं हृत्पद्मकर्णिकामध्यस्थमित्यर्थः । एतद्ध्यानोपयोगिरूपमुक्तं स्वाभाविकरूपमाह । कीदृशम् ? नित्येति अविनाशिचैतन्यं स्वतःप्रकाशस्वरूपम् । पुनः कीदृशम् ? अमृतं शुद्धस्वरूपमित्यर्थः । तत्राधारशत्त्यादयः सर्वे मन्त्राः प्रणवादिचतुर्थी नमोऽन्ताः सम्प्रदायतो बोद्धव्याः ॥ Kर्द्C_१.४२ ॥ ______________________________ पीठशक्तीर्दर्शयति विमलोत्कर्षणी ज्ञाना क्रिया योगेति शक्तयः । प्रह्वी सत्या तथेशानाऽनुग्रा नवमी तथा ॥ १.४३ ॥ विमलेति ॥ Kर्द्C_१.४३ ॥ ______________________________ पीठमन्त्रमुद्धरतितारमित्यादिना । एवं हृदयं भगवान् विष्णुः सर्वान्वितश्च भूतात्मा । ङेऽन्ताः सवासुदेवाः सर्वात्मयुतं च संयोगं ॥ १.४४ ॥ योगावधश्च पद्मं पीठात्ङेयुतो नतिश्चान्ते । पीठमहामनुर्व्यक्तः पर्याप्तोऽयं सपर्यासु ॥ १.४५ ॥ तारः प्रणवः । हृदयं नमः । भगवानिति च विष्णुरिति च सर्वान्वितः सर्वपदसहितः भूतात्मा सर्वभूतात्मेति । एते त्रयः सवासुदेवाः वासुदेवेन सह चत्वारः प्रत्येकं ङेऽन्ताश्चतुर्थ्य्अन्ताः कार्याः । सर्वात्मयुतश्च संयोगः सर्वात्मसंयोग इति स्वरूपं योगावधौ योगशब्दान्ते पद्मपद्मेति स्वरूपं ङेयुतः पीठात्मा चतुर्थ्य्अन्तः पीठात्मा एतस्यान्ते नतिर्नमःशब्दः । उपसंहरति पीठेति अयं पीठमहामनुरुक्तः कथितः । कीदृशः ? सपर्यासु पूजासु पर्याप्तः समर्थः ॥ Kर्द्C_१.४४४५ ॥ सनातनः: तारः प्रणवः । ततो हृदयं नम इति पदम् । ततश्च भगवानिति विष्णुरिति च । सर्वान्वितः सर्वशब्दयुक्तो भूतात्मा सर्वभूतात्मेति । एते त्रयः सवासुदेवा वासुदेवसहिताः प्रत्येकं ङेऽन्ताश्चतुर्थ्य्अन्ताः । ततश्च सर्वात्मना युतं संयोगं सर्वात्मसंयोगमिति नपुंसकत्वमार्षम् । ततश्च योगस्यावधौ अन्ते पद्मं योगपद्ममिति । तद्अन्ते ङेयुक्तश्चतुर्थ्य्अन्तः पीठात्मा । तद्अन्ते च नतिः नमःशब्दः । एवमों नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नम इति सिद्धम् । तथा च शारदातिलके नमो भगवते ब्रूयाद्विष्णवे च पदं वदेत् । सर्वभूतात्मने वासुदेवायेति वदेत्ततः ॥ सर्वात्मसंयोगपदाद्योगपद्मपदं पुनः । पीठात्मने हृद्अन्तोऽयं मन्त्रस्तारादिरीरितः ॥ इति । सनत्कुमारकल्पे च ओं नमः पदमाभाष्य तथा भगवतेपदम् । वासुदेवाय इत्युक्त्वा सर्वात्मेति पदं तथा ॥ संयोगयोगेत्युक्त्वा च तथा पीठात्मने पदम् । वह्निपत्नीसमायुक्तः पीठमन्त्र इतीरितः ॥ इति ॥ [ह.भ.वि. ५.१४४५] ______________________________ करशोधनं दर्शयतिकरयोरित्यादिना । करयोर्युगलं विधाय मन्त्रात्मकमभ्यानभिराम्यमानमार्गात् । सकलं विदधीत मन्त्र वर्णैः परमं ज्योतिरनुत्तमं हरेस्तत् ॥ १.४६ ॥ करयोर्युगलमभिधास्यमानमार्गात् । व्यापय्येत्यारभ्य विधिः समीरितः करे इत्यन्तं वक्ष्यमाणप्रकारेण मन्त्रवर्णैर्मन्त्रात्मकं मन्त्रस्वरूपं विधाय कृत्वा आभ्यां कराभ्यां सकलं पूर्वोक्तं वक्ष्यमाणं च न्यासपूजादिकं विदधीत कुर्यात् । मन्त्रवर्णकरणककारशोधने हेतुमाहपरममित्यादिना । यस्मात्तन्मन्त्रवर्णं हरेः कृष्णस्य परमं तेजःस्वरूपमित्यर्थः । कीदृशं ? पुनः अनुत्तमं नास्त्युत्तमं यस्मात्तथेत्यर्थः । सकलं विदधीतेति परत्रापि काकाक्षिगोलकन्यायेन योजनीयम् । तथा च तधृदयपङ्कजस्थं हरेरनुत्तमं ज्योतिस्तेजः सकलं विदधीत षड्अङ्गन्यासेन सावयवं कुर्यादिति लघुदीपिकाकारः ॥ Kर्द्C_१.४६ ॥ इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां प्रथमः पटलः ॥१॥ ************************************************************************** (२) द्वितीयपटलम् करयोर्युगलं विधायेत्यादिना सूचितं मन्त्रमुद्धर्तुमादौ गोपालमन्त्रेष्वपि मौलीभूतौ दशाक्षराष्टादशाक्षरौ प्रथमं संस्तौतिवक्ष्ये मनुमिति । वक्ष्ये मनुं त्रिभुवनप्रथितात्मभावम् अक्षीणपुण्यनिचयैर्मुनिभिर्विमृग्यम् । पक्षीन्द्रकेतुविषयं वसुधर्मकाम मोक्षप्रदं सकलकर्मणि कर्मदक्षम् ॥ २.१ ॥ मन्त्रं वक्ष्ये उद्धरिष्यामि । कीदृशं ? त्रिभुवनेति त्रिभुवने त्रैलोक्ये प्रथितः ख्यातोऽनुभावः प्रभावो यस्य तथा तम् । पुनः कीदृशं ? मुनिभिर्मुमुक्षुभिर्विमृग्यमन्वेषणीयम् । किम्भूतैर्मुनिभिः ? अक्षीणेति अक्षीणः सपूर्णः पुण्यनिचयः सुकृतसमूहो येषां तथा तैः । पुनः कीदृशम् ? पक्षीति पक्षीन्द्रो गरुडः स एव केतुः चिह्नं यस्य स पक्षीन्द्रकेतुः श्रीकृष्णः तद्विषयं तत्प्रतिपादकम् । पुनः कीदृशम् ? वस्त्विति वसु धनं तथा च पुरुषार्थचतुष्टयप्रदमित्यर्थः । पुनः कीदृशम् ? सकलेति अशेषवश्यकर्मकुशलम् ॥ Kर्द्C_२.१ ॥ ______________________________ अतिगुह्यमबोधतूलराशि ज्वलनं वाग्आधिपत्यदं नराणाम् । दुरितापहरं विषापमृत्यु ग्रहरोगादिनिवारणैकहेतुम् ॥ २.२ ॥ पुनः कीदृशम् ? अतिगुह्यम् । पुनः कीदृशम् ? अबोधेति अबोधो मिथ्याज्ञानरूपः स एव तूलप्रचयः । तत्र ज्वलनो वह्निरिव तं समस्ताज्ञाननाशकमित्यर्थः ? पुनः कीदृशम् ? नराणां साधकानां वाग्अधिपत्यदं वागैश्वर्यप्रदम् । पुनः कीदृशम् ? दुरितापहरं दुःखप्रापकानिष्टनिवारकम् । पुनः कीदृशम् ? विषं स्थावरं जङ्गमं च अपमृत्युरकालमरणं ग्रहो नवग्रहजनितानिष्टं रोगो वातपित्तादिजनितशरीरदौस्थ्यमेवमादीनामशुभादीनां निवारणे एकोऽद्वितीयो हेतुः कारणम् ॥ Kर्द्C_२.२ ॥ ______________________________ जयदं प्रधनेऽभयदं विपिने सलिलप्लवने सुखतारणदम् । नरसप्तिरथद्विपवृद्धिकरं सुतगोधरणीधनधान्यकरम् ॥ २.३ ॥ पुनः कीदृशम् ? प्रधने संग्रामे जयदम् । विपिनेऽभयदं भयहरम् । सलिलप्लवने तोयमन्तरणे सुखसन्तरणदातारं सप्तिर्हयः तथा च मनुष्याणाहयरथद्विपादीनामुपचयकरं तथा सुतादिप्रदम् ॥ Kर्द्C_२.३ ॥ ______________________________ बलवीर्यशौर्यनिचयप्रतिभा स्वरवर्णकान्तिसुभगत्वकरम् । ब्रह्माण्डकोटिमणिमादिगुणा ष्टकदं किमत्र बहुनाखिलदम् ॥ २.४ ॥ बलं शरीरसामर्थ्यं वीर्यं शुक्रं प्रभावो वा, शौर्यं पराभिभावकं तेजः, एतेषां निचयः समूहः । प्रतिभा बुद्धिः स्फूर्तिरूपा स्वरो ध्वनिः । वर्णो गौरत्वादिः । कान्तिर्दीप्तिः प्रतिभास्वरवर्णकान्तिरित्येकपदं तथा च प्रतिभास्वरवर्णकान्तिर्देदीप्यमानवर्णशोभेति कश्चित्सुभगत्वं समस्तलोकादरकत्वमेतेषां कर्तारं दातारमित्यर्थः । पुनः क्षुभिता समोहिताण्डकोटिर्ब्रह्माण्डकोटिर्येन तथा तं संसारमोहकमित्यर्थः । पुनः अणिमादिगुणाष्टकदम् अणिमलघिमगरिममहिमेशित्ववशित्वप्राकाम्यप्राप्त्य्आख्यगुणाष्टकप्रदमित्यर्थः । पुनः किं बहुना, अत्र जगति अखिलदं समस्ताभीष्टप्रदमित्यर्थः ॥ Kर्द्C_२.४ ॥ ______________________________ अथ दशाक्षरमन्त्रराजमुद्धरतिशार्ङ्गीत्यादिना । शार्ङ्गी सोऽतुरदन्तः परो रामाक्षियुक्द्वितीयार्णम् । शूली सौरिर्बालो बलानुजद्वयमथाक्षरचतुष्टयम् ॥ २.५ ॥ शूरतुरीयः सानन आवृत्तः स्यात्सुशोभोऽष्तमोऽग्निसखः । तद्दयिताक्षरयुग्मं तद्उपरिगस्त्वेवमुद्धरेन्मन्त्रम् ॥ २.६ ॥ शार्ङ्गी गकारः कीदृशोऽयं सोत्तरदन्त उत्तरदन्तपङ्क्तौ न्यस्यमानः उत्तरदन्त ओकारस्तेन सहित एतेन प्रथमाक्षरमुद्धृतः । शूरः पकारः । कीदृशोऽयं वामाक्षियुक्वामाक्षि चतुर्थस्वरः तेन सहित एतेन द्वितीयाक्षरमुद्धृतमक्षरचतुष्कं क्रमेण पुनः कथ्यते शूली जकारः बालो बकारः बलानुजद्वयं संयुक्तलकारद्वयं ल्ल इति स्वरूपमित्यक्षरचतुष्कमुद्धृतं शूरतुरीयः शूरस्य पकारस्य चतुर्थः । कीदृशोऽयं साननवृत्तः आननवृत्तेनाकारेण सह वर्तते इति साननवृत्तः अयं च सप्तमः स्याद्मन्त्रस्य सप्तमो भवतीत्यर्थः । अष्टमोऽग्निसखो वायुः यकार इति यावत् । तथा च मन्त्रस्याष्टमो वर्णो य इति बोद्धव्यः । तद्उपरिगं पूर्वोक्तवर्णानन्तर्य्विशिष्टं तद्दयिताक्षरयुगलं स्वाहेति स्वरूपमित्यक्षरद्वयमुद्धृतम् ॥ Kर्द्C_२.५६ ॥ ______________________________ प्रकाशित इति प्रकाशितो दशाक्षरो मनुस्त्वयं मधुद्विषः । विशेषतः पदारविन्दयुग्मं भक्तिवर्धनः ॥ २.७ ॥ मधुद्विषः श्रीगोपालकस्यायं दशाक्षरो मन्त्र उद्धृतः । कीदृशो विशेषतो विशेषेण पदारविन्दयुग्मभक्तिवर्धनः श्रीगोपालकृष्णचरणाब्जयुगले या भक्तिराराध्यत्वेन ज्ञानं तत्समृद्धिकारक इत्यर्थः ॥ Kर्द्C_२.७ ॥ ______________________________ मन्त्रस्य ऋष्य्आदिकं दर्शयतिनारद इति । नारदो मुनिरमुष्य कीर्तितश् छन्द उक्तमृषिभिर्विराडिति । देवतासकललोकमङ्गलो नन्दगोपतनयः समीरितह् ॥ २.८ ॥ अमुष्य पूर्वोक्तमन्त्रस्य मुनिः ऋषिर्नारदः कीर्तितः कथितः । ऋषिभिर्गौतमादिभिर्विराट्छन्द उक्तम् । देवता ननगोपतनयः श्रीगोपालकृष्ण उक्तः । कीदृशः ? सकललोकमङ्गलः सर्वजनकल्याणहेतुः । एतेन ऋष्य्आदीनां शिरसि रसनायां हृदि क्रमेण न्यासः कार्य इति सूचितं प्रपञ्चसारे । तथा विधानात्प्रयोगश्च दशाक्षरगोपालमन्त्रस्य नारदर्सये नमः शिरसि । विराट्छन्दसे नमो मुखे । श्रीगोपालकृष्णाय देवतायै नमः हृदि इत्येवम्भूतः । अस्य मन्त्रस्य नारदर्षिः । एवं छन्दोदेवतयोरपि योज्यम् इति केचित् ॥ Kर्द्C_२.८ ॥ ______________________________ अधुनास्य मन्त्रस्य पञ्चाङ्गानि दर्शयत्यङ्गानीत्यादिना अङ्गानि पञ्च हुतभुग्दयितासमेतैश् चक्रैरमुष्य मुखवृत्तविषूपपन्नैः । त्रैलोक्यरक्षणयुजाप्यसुरान्तकाख्य पूर्वेण चेह कथितानि विभक्तियुक्तैः ॥ २.९ ॥ हृदये नतिः शिरसि पावकप्रिया सवषट्शिखाहुमिति वर्मणि स्थितम् । सफड्अस्त्रमित्युदितमङ्गपञ्चकं सचतुर्थिवौषड्उदितं दृशोर्यदि ॥ २.१० ॥ अमुष्य इह शास्त्रे अङ्गानि पञ्च कथितानि । कानि तानि ? तत्राह हृदये नतिरिति । हृदये नतिर्नमःपदं शिरसि पावकप्रिया स्वाहेति सवषट्वषट्पदसहिता शिखेत्यर्थः । हुमपि वर्मणि स्थितं वर्मणि कवचे हुमपि पदं स्थितमित्यर्थः । सफडस्त्रं फट्पदसहितमस्त्रमित्यर्थः । इत्यनेन प्रकारेण सचतुर्थि यथा स्यात्तथैवमङ्गपञ्चकमुदितं कथितं चतुर्थ्या च हृदयादीनां योगः कार्यः । कैः सह चक्रैश्चक्रशब्दैः । कीदृशैः ? मुखवृत्तविसूपपन्नैर्मुखवृत्तमाकारः वि इति सु इति स्वरूपमेतैः प्रत्येकमुपपन्नैः सम्बद्धईह्त्रैलोक्यरक्षणयुजापि त्रैलोक्यरक्षणं युनक्तीति तद्युगेतादृशेन चक्रेण अपिशब्दाच्चक्रैरिति विभिद्यान्वयः कार्यः । तथा च चक्रेणेति असुरान्तकाख्यपूर्वेण चक्रेणेत्यर्थः । च समुच्चये । पुनः कीदृशैः विभक्तियुक्तैः ? चतुर्थीयुक्तैस्तस्या एव प्रकृतत्वादेतस्यापि पदस्य विभिद्यान्वयः कार्यः दृशोर्यदि इति यदि क्वचिन्मन्त्रे दृशोर्न्यासोऽस्ति तदा तत्र वौषडिति उदितं कथितम् । अत्र ज्वालाचक्रायेत्यपि योज्यमिति लघुदीपिकाकारः । प्रयोगश्चाचक्राय स्वाहा हृदयाय नमः । विचक्राय स्वाहा शिरसे स्वाहा सुचक्राय स्वाहा शिखायै वषट् । त्रैलोक्यरक्षणचक्राय स्वाहा कवचाय हुम् । ज्वालाचक्राय स्वाहा नेत्रद्वयाय वौषटसुरान्तकचक्राय स्वाहा अस्त्राय फडिति अङ्गुलीष्वङ्गमन्त्रन्यासे तु तत्तद्अङ्गमन्त्रान्ते अङ्गुष्ठाभ्यां नमः तर्जनीभ्यां स्वाहा इत्यादि योज्यम् । आगमान्तरे ह्रीमङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां स्वाहा । तत इत्यादिदर्शनात्तेनाङ्गुष्ठादिषु हृदयाय नमः इत्यादिप्रयोगाश्चिन्त्याः । असमवेतार्थकत्वाद्मानाभावाच्चेति केचित् । अन्ये तु यथाश्रुताङ्गमन्त्रस्यैव न्यासैरङ्गुलीष्वतिदेशानाहुराच्यार्याः ॥ Kर्द्C_२.९१० ॥ ______________________________ दशाङ्गानि दर्शयति मन्त्रार्णैर्दशभिरुपेतचन्द्रखण्डैर् अङ्गानां दशकमुदीरितं नमोऽन्तम् । हृद्छीर्षं तद्अनु शिखातनुत्रमन्त्रं पार्श्वद्वन्द्वसकटिपृष्ठम्मूर्धयुक्तम् ॥ २.११ ॥ मन्त्रार्णैर्मन्त्राक्षरिर्नमोऽन्तं यथा स्यादेवमङ्गानां दशकमुदीरितं कथितं कीदृशैरुपेतचन्द्रखण्डैः सानुस्वारैः स्थानान्याहुःहृदयं शीर्षं मस्तकं तत्पश्चात्शिखा प्रसिद्धा तनुत्रं कवचमस्त्रं दशदिक्षु पार्श्वयुगलकटिपृष्ठमूर्धसहितं पूर्वोक्तमित्यर्थः । कटिर्नाभेरध इति त्रिपाठिनः । प्रयोगस्तु गों हृदयाय नम इति पीं शिरसे स्वाहा इत्यादि ॥ Kर्द्C_२.११ ॥ ______________________________ अधुनास्य मन्त्रस्य बीजशक्त्य्अधिष्ठातृदेवताप्रकृतिविनियोगान् दर्शयति वक्ष्य इत्यादिना । वक्ष्ये मन्त्रस्यास्य बीजं च शक्ति चक्री शक्री वामनेत्रप्रदीप्तः । सप्रद्युम्नो बीजमेतत्प्रदिष्टं मन्त्रप्राद्युम्नो जगन्मोहनोऽयम् ॥ २.१२ ॥ अस्य मन्त्रस्य पूर्वोक्तस्य सशक्तिशक्त्य्आदिसहितं बीजं वक्ष्ये बीजमाहचक्रीति ककारः । कीदृशोऽयं शक्री शक्रो लकारः तद्युक्तः । पुनः कीदृशः ? वामनेत्रप्रदीप्तः वामनेत्रं चतुर्थस्वरस्तत्सहितः । पुनः कीदृशः ? सप्रद्युम्नः प्रद्युम्नो बिन्दुः तत्सहितः तथा चक्रीमिति सिद्धं भवति । एतदस्य बीजं प्रदिष्टं कथितम् । अयमेव प्राद्युम्नो मन्त्र इत्यर्थः । किम्भूतः ? जगन्मोहनो विश्ववश्यकरः ॥ Kर्द्C_२.१२ ॥ ______________________________ शक्तिमाहहंस इति । हंसो मेदो वक्रवृत्ताभ्युपेतः पोत्री नेत्राद्य्अन्वितोऽसौ युगार्णा । प्रोक्ता शक्तिः सर्वगीर्वाणवृन्दैर् वन्दस्याग्नेर्वल्लभा कामदेयम् ॥ २.१३ ॥ हंसः सकारः । किम्भूतः ? मेदो वकारः वक्त्रवृत्तमाकारः आभ्यामुपेतः सम्बद्धः तथा पौत्री हकारः । किम्भूतः ? नेत्रादिराकारस्तेनान्वितः । तथा च स्वाहेति सिद्धमसौ युगार्णो वर्णद्वयात्मिका शक्तिः प्रोक्ता तथेयं वह्नेर्वल्लभा किम्भूता कामदा आकाङ्क्षितप्रदा । कथम्भूतस्य वह्नेर्गीर्वाणवृन्दैर्वन्द्यस्य सर्वदेवसमूहैः पूज्यस्य ॥ Kर्द्C_२.१३ ॥ ______________________________ विनियोगमाहविनियोग इति । विन्योगस्य मन्त्रस्य पुरुषार्थचतुष्टये । कृष्णं प्रकृतिरित्युक्तो दुर्गाधिष्ठातृदेवता ॥ २.१४ ॥ अस्य मन्त्रस्य पुरुषार्थचतुष्टयसाधनाय विनियोग इत्यर्थः । प्रकृतिर्मूलकारणं मन्त्रोत्पादकः मन्त्रस्वरूप इत्यर्थः । अधिष्ठातृदेवतामाहदुर्गाधिष्ठातृदेवतेति ॥ Kर्द्C_२.१४ ॥ ______________________________ मन्त्रार्थमाहगोपायतीत्यादिना । गोपायेति सकलमिदं गोपायति परं पुमांसमिति गोपी । प्रकृतेस्तस्या जातं जन इति नदादिकं पृथिव्य्अन्तम् ॥ २.१५ ॥ इदं सकलं नामरूपाभ्यां व्याकृतं जगद्गोपायति रक्षति तत्कारणत्वात्स्वार्थे आयः । तथा परं पुमांसं नित्यशुद्धबुद्धमुक्तानन्दाद्वयात्मकं ब्रह्मस्वरूपं गोपायति गुप्गोपनकुत्सनयोः अज्ञातत्वेन विषयीकरोतीति व्युत्पत्त्या महद्आदिपृथिव्य्अन्तं महत्तत्त्वादिपृथिवीपर्यन्तं सकलं कार्यजातं जन उच्यते ॥ Kर्द्C_२.१५ ॥ ______________________________ अनयोर्गोपीजनयोः समीरणादाश्रितो व्याप्त्या । वल्लभ इत्युपदिष्टं सान्द्रानन्दं निरञ्जनं ज्योतिः ॥ २.१६ ॥ स्वाहेत्यात्मानं गमयामीत्यतेजसे तस्मै । यः कार्यकारणेशः परमात्मेत्यच्युतैकतास्य मनोः ॥ २.१७ ॥ अनयोः गोपीजनयोरविद्या तत्कार्ययोः समीरणादन्तर्यामित्वेन स्वस्य कार्ये प्रेरणाद्नियमनादि इति यावदाश्रयत्वतो अधिष्ठातृत्वेन व्याप्त्या व्यापकत्वेन वल्लभः स्वामीत्युपदिष्टं कथितम् । परं ज्योतिर्ब्रह्मचैतन्यम् । कीदृशं ज्योतिः ? सान्द्रानन्दनिरतिशयानन्दैकस्वरूपम् । पुनः कीदृशं ? निरञ्जनं मायाकालुष्यरहितं स्वाहेति तस्मै स्वतेजसे स्वप्रकाशचिद्रूपाय परमात्मने स्वात्मानं जीवैकस्वरूपं गमयामि समर्पयामि तद्आत्मकतां प्रापयामीति स्वाहाशब्दार्थः । प्रथम इतिशब्दः स्वाहाशब्दोपस्थापकः । द्वितीयस्तु प्रकारप्रदर्शकः । तस्मै कस्मै तत्राहय इति । यः कार्यकारणयोर्जनप्रकृत्योरीशः स्वामी अधिष्ठाता तथा परमात्मा निरुपाधिचैतन्यत्वाच्चेत्यनेन प्रकारेणास्योपासकस्याच्युतैकताच्युतेन सहाभिन्नता भवति ॥ Kर्द्C_२.१६१७ ॥ ______________________________ प्रकारान्तरेणार्थमाहाथवेति । अथवा गोपीजन इति समस्तजगद्वनशक्तिसमुदायः । तस्य स्वानन्यस्य स्वामी वल्लभ इति ह निर्दिष्टः ॥ २.१८ ॥ अथवा गोपीजन इति शब्देन सकलविश्वरक्षणशक्तिसमुदायः कथ्यते । तत्र गोपीपदेन शक्तिरुच्यते । जनपदेन तस्याः समूहः । तस्य शक्तिसमूहस्य स्वानन्यस्य स्वाभिन्नस्य शक्तिशक्तिमतोरभेदविवक्षया स्वामी नियन्ता आश्रयो वल्लभ इति हस्य स्फुटं निर्दिष्ट उदित इत्यर्थः । स्वाहाशब्दार्थस्तु पूर्वोक्त एव बोद्धव्यः । लघुदीपिकाकारस्त्ववनशक्तिसमुदायः अवनं स्थितिः तत्र कारणभूतानां शक्तीनां समुदायः समूहः जगत्पालिन्य्आदिगणः । उक्तं च महद्भिः जगत्पालिनीत्याद्याः प्रोक्तास्ताः स्थितये कला इति तस्य स्वामी नायक इत्यर्थः ॥ Kर्द्C_२.१८ ॥ ______________________________ प्रकारान्तरेणार्थमाहाथवेति । अथवा व्रजयुवतीनां दयिताय जुहोमि मां मदीयम् अपीत्यर्पयेत्समस्तं ब्रह्मणि सुगणे समस्तसम्पत्त्यै ॥ २.१९ ॥ गोपीजनो गोपाङ्गनाजनस्तस्य वल्लभो निरतिशयप्रेमविषयः तस्मै व्रजयुवतीनां गोपरमणीनां दयिताय हृदयानन्ददायिने स्वाहा जुहोमि । किं मां स्वात्मानं मदीयमपि आत्मीयसुहृद्आदिकमपि इत्यनेन प्रकारेण सगुणे ब्रह्मणि संसारप्रवर्तके परमेश्वरेश्वरे सर्वं समर्पयेत् । किमर्थम् ? समस्तसम्पत्त्यै सर्वैश्वर्याय ॥ Kर्द्C_२.१९ ॥ ______________________________ अष्टादशाक्षरमन्त्रोद्धाराय तद्अन्तर्भूतौ कृष्णगोविन्दशब्दौ प्रथमतो विविच्य दर्शयतिकृष्शब्द इति । कृष्शब्दः सत्तार्थो णश्चानन्दात्मकस्ततः कृष्णः । भक्ताघकर्षणादपि तद्वर्णत्वाच्च मन्त्रमयवपुषः ॥ २.२० ॥ गोशब्दवाचकत्वाज्ज्ञानं तेनोपलभ्यते गोविन्दः । वेत्तीति शब्दराशिं गोविन्दो गोविचारनादपि च ॥ २.२१ ॥ कृष्शब्दः सत्तार्थः । तत्र शक्तः । कृष्सत्तायामित्यत्र क्विब्अन्तः सत्तावाचक इति काश्चित् । कृट्णश्च णकारश्च आनन्दात्मक आनन्दवाची । नन्द आनन्द इति धातोरेकदेशग्रहणादिति कश्चित् । ततो द्वन्द्वे कृतेऽत्रादर्शमाद्यचिकृते च कृष्णः सद्आनन्द इत्यर्थः । प्रकारान्तरेण कृष्णशब्दं व्युत्पादयति भक्तेति भक्तानामघकर्षणात्पापपरिमार्जनात्कृष्ण इत्यर्थः । भक्तादिकर्षणादिति पाठे आदिशब्देनाभक्तग्रहणं भक्तस्य कर्षणं स्वस्थाननयनमभक्तस्य कर्षणं नरकनयनमित्यर्थः । प्रकारान्तरेण व्युत्पत्तिमाहतद्वर्णेति । कृष्णवर्णशरीरत्वात् कृष्णः मन्त्रमयशरीरस्य वाच्यवाचकयोरभेदेन विवक्षया । गो इत्यादि । गौर्ज्ञानं गोशब्दस्य वाचकत्वात्ज्ञानवाचकत्वात्तेन ज्ञानेनोपलभ्यते प्राप्यते ज्ञायते इति गोविन्दः । विद् लाभे इत्यस्य धातोः प्रकारान्तरमाहवेत्तीति । गोशब्दः शब्दवाची । विद्ज्ञाने धातुः । गां शब्दराशिं शब्दसमुदायं मातृकां वेत्तीति गोविन्दः । प्रकारान्तरमाहगोविचारणाद्गोशब्दविचारणाद्गोविन्दः । अथवा गाव इन्द्रियाणि तेषां विचारणाद्विशेषेषु प्रतिनियतविषयेषु प्रवर्तनाद्गोविन्दः । अथवा गावः पशुविशेषा इति । तथा च श्रुतिःपशवो दिव्पादश् चतुष्पादश्च इति । तेषां विशेषेषु पुण्यपापेषु चारणात्प्रवर्तनाद्गोविन्दः । अथवा, गावः पशुविशेषाः तेषां रक्षनाद्गोविन्दः । अपिशब्दश्चार्थे ॥ Kर्द्C_२.२०२१ ॥ ______________________________ इदानीं मन्त्रमुद्धरति एतेऽभिख्येऽनुक्रमतस्तूर्यविभक्त्या मन्त्रात्पूर्वं मन्मथबीजादथ पश्चात् । स्यातां चेदष्टादशवर्णो मनुवर्यो गुह्याद्गुह्यो वाञ्छितचिन्तामणिरेषः ॥ २.२२ ॥ एते अभिख्ये नामनी कृष्णगोविन्दाख्ये अनुक्रमेण तुर्यविभक्त्या प्रत्येकं चतुर्थीविभक्त्या सह मन्त्रात्पूर्वोक्तदशाक्षरगोपालमन्त्रादादौ मन्मथबीजात्पश्चात्कामबीजानन्तरमथ चेद्यदि स्यातां भवतः तदा एषोऽष्टादशार्णो मन्त्रश्रेष्ठो भवति । एतस्य बलादेव दशाक्षरेऽपि कामबीजसाहित्यं केचिदिच्छन्ति । कीदृशः ? गुह्याद्गुह्यः । गुह्यादपि गुह्यः । पुनः कीदृशः ? वाञ्छितस्य चिन्तामात्रेणाभीष्टप्रद इत्यर्थः ॥ Kर्द्C_२.२२ ॥ ______________________________ ऋष्य्आदिकमप्याहपूर्वेति । पूर्वप्रदिष्टे मुनिदेवतेऽस्य छन्दस्तु गायत्रमुशन्ति सन्तः । अङ्गानि मन्त्रार्णचतुष्कैर्वर्मावसानानि युगार्णमस्त्रम् ॥ २.२३ ॥ अस्य मन्त्रस्य पूर्वप्रदिष्टे प्रथममन्त्रसम्बन्धितया कथिते मुनिदेवते बोद्धव्ये । पुनः सन्तो गायत्रछन्द उशन्ति वदन्ति । अङ्गानीति मन्त्रार्णचतुश्चतुष्कैर्मन्त्रसम्बन्धिवर्णानां चतुर्भिश्चतुर्भिरक्षरैः कृत्वा षोडशाक्षरैर्वर्मावसानानि कवचान्तानि चत्वार्यङ्गानि भवन्ति । अवशिष्टं युगार्णं वर्णद्वयमस्त्राख्यमङ्गं भवति । प्रयोगश्चक्लीं कृष्णाय हृदयाय नमः गोविन्दाय शिरसे स्वाहा, गोपीजनशिखायै वषट्, वल्लभाय कवचाय हुं, स्वाहा अस्त्राय फट् ॥ Kर्द्C_२.२३ ॥ ______________________________ बीजादिकमाहबीजमिति । बीजं शक्तिः प्रकृतिर्विनियोगश्चापि पूर्ववदमुष्य । पूर्वतरस्य मनोरथं कथयामि न्यासमखिलसिद्धिकरम् ॥ २.२४ ॥ अमुष्यास्य मन्त्रस्य बीजं शक्तिः प्रकृतिर्विनियोगः पूर्वमन्त्रे यानि बीजादीनि कथितानि तान्यत्रापि ज्ञातव्यानीत्यर्थः । पूर्वतरस्येति अथानन्तरं पूर्वतरस्य मनोर्दशाक्षरगोपालमन्त्रस्याखिलसिद्धिकरं समस्तसिद्धिदायकं न्यासं कथयामीति प्रतिज्ञा ॥ Kर्द्C_२.२४ ॥ ______________________________ अधुना न्यासक्रमं दशार्णस्य कथयतिव्यापय्येति । व्यापय्यार्थो हस्तयोर्मन्त्रम् अन्तर्बाह्ये पार्श्वे ताररुद्धं बुधेन । न्यासो वर्णैस्तारयुग्मान्तरस्थैर् बिन्दूत्तंसैर्हार्दहृद्यैर्विधेयः ॥ २.२५ ॥ अथोऽनन्तरं बुधेन पण्डितेन वर्णैर्मूलमन्त्राक्षरैर्न्यासो विधेयः कार्यः । किं कृत्वा ? मूलमन्त्रं हस्तयोरन्तर्मध्ये तथा हस्तयोरेव बाह्ये पृष्ठे तथा हस्तयोरेव पार्श्वे व्यापय्य व्यापकतया विन्यस्येत्यर्थः । कीदृशं मन्त्रम् ? ताररुद्धं प्रणवपुटितम् । कीदृशैः वर्णैः तारयुग्मान्तरस्थैः प्रणवद्वयमध्यगतैः । पुनः कीदृशैः ? बिन्दूत्तंसैर्बिन्दुः शिरोऽलङ्कारो येषां ते तथा सानुस्वारैरित्यर्थः । पुनः कीदृशैः ? हार्दहृद्यैर्हार्देन नमःपदेन हृद्यैर्मनोज्ञैः सहितैरित्यर्थः । प्रयोगश्चौं गोमों नमः दक्षाङ्गुष्ठपर्वत्रये ओं पीमों नमः तर्जन्यामित्यादि । ओं ल्लमों नमो वामकनिष्ठिकायामित्यादि ॥ Kर्द्C_२.२५ ॥ ______________________________ उक्तवर्णन्यासस्थानमाहशाखास्वित्यादिना । शाखासु त्रीणि पर्वाण्यधि दशसु पृथग्दक्षिणाङ्गुष्ठपूर्वं वामाङ्गष्ठावसानं न्यसतु विमलधीः सृष्टिरुक्ता करस्था । अङ्गुष्ठद्वन्द्वपूर्वा स्थितिरुभयकरे संहृतिर्वामपूर्वा दक्षाङ्गुष्ठान्तिकैतत्त्रयमपि सृजति स्थित्य्उपेतं च कार्यम् ॥ २.२६ ॥ दशसु शाखासु अङ्गुलीषु पृथक्कृत्वैकं त्रीणि पर्वाणि अधि पर्वत्रयं व्याप्य, त्रिपाठिनस्तु त्रीणि पर्वाणि इति पर्वत्रये अधीति उपरि अङ्गुल्य्अग्रे च पृथगेकैकशः । तथा च प्रथमपर्वणि ओं द्वितीये ओं तृतीये ओमङ्गुल्य्अग्रे नमः इति एवमन्यत्रापीत्याहुः । दक्षिणाङ्गुष्ठपूर्वं प्रथमन्यासादौ यथा स्यात्तथा वामाङ्गष्ठावसानं वामाङ्गष्ठोऽवसाने न्यासान्ते यथा स्यादेवं विशदधीर्विमलबुद्धीर्न्यसतु । एवं च करस्था सृष्टिरुक्ता करे सृष्टिन्यासप्रकार उक्त इत्यर्थः । अङ्गुष्ठद्वन्द्वपूर्वा स्थितिरुभयकरे हस्तद्वये दक्षिणकरे ऽङ्गुष्ठादिकनिष्ठासु विन्यस्य वामकरेऽप्यङ्गुष्ठादिकनिष्ठास्वङ्गुलिषु न्यसेदयं स्थितिन्यास उक्तः । संहृतिर्वामपूर्वा दक्षेति संहृतिः संहारः वामाङ्गुष्ठपूर्वा दक्षिणाङ्गुष्ठावसाना अयं च संहारन्यास उक्तः । एतत्त्रयमपि सृष्टिस्थितिसंहारात्मकं त्रयमपि सृजति स्थित्य्उपेतं कार्यं च सृष्ट्य्आदिन्यासपञ्चकं कार्यमित्यर्थः ॥ Kर्द्C_२.२६ ॥ ______________________________ तत इति । ततः स्थितिक्रमाद्बुधो दशाङ्गकानि विन्यसेत् । तद्अङ्गपञ्चकं तथा विधिः समीरितः करे ॥ २.२७ ॥ ततस्तद्अनन्तरं स्थितिक्रमात्स्थितिन्यासक्रमेण दशस्वङ्गुलीषु बुधः पण्डितः दशाङ्गकानि पूर्वोक्तमन्त्रदशाङ्गानि विन्यसेत् । तद्अङ्गपञ्चकं तथेति तथा तेन प्रकारेण स्थितिक्रमेण तद्अङ्गपञ्चकं पुर्वोक्तपञ्चकं पूर्वोक्ताङ्गपञ्चकं दशसु अङ्गुलीषु विन्यसेत् । करन्यासजातमुपसंहरति विधिरिति । एवं चायं विधिः प्रकारः करे हस्तद्वये समीरितः कथित इत्यर्थः ॥ Kर्द्C_२.२७ ॥ ______________________________ मातृकान्यासविशेषं दर्शयन् तत्त्वन्यासं च क्रमेणाहपुटितैरिति । पुटितैर्मनुनाथ मातृआर्णैर् अभिविन्यस्य सबिन्दुभिः पुरोवत् । अणुसंहृतिसृष्टिमार्गभेदाद् दशतत्त्व्वानि च मन्त्रवर्णभाञ्जि ॥ २.२८ ॥ अथान्तरमनुना दशार्णेन पुटितैर्मातृकाक्षरैः सबिन्दुभिः सानुस्वारैः पुरोवत्पूर्ववद्यथा पूर्वं ललाटादिषु न्यास एवमभिविन्यस्य अनु पश्चान्मातृकान्यासविशेषकरणानन्तरं वक्ष्यमाणानि दशतत्त्वानि विन्यसेत् । कीदृशानि मन्त्रवर्णभाञ्जि मन्त्राक्षरयुक्तानि । कथं दशतत्त्वानि विन्यसेत्? तत्राहसंहृतिसृष्टिमार्गभेदात्प्रथमं संहारक्रमेण तद्अनन्तरं सृष्टिक्रमेणेत्यर्थः ॥ Kर्द्C_२.२८ ॥ ______________________________ संहारसृष्टिप्रकारं दर्शयतिसंहृताविति । संहृतावनगतो मनुवर्यः सृष्टिवर्त्मनि भवेत्प्रतियातः । उद्धृतिः खलु पुरोक्तवदेषां न्यासकर्म कथयाम्यधुनाहम् ॥ २.२९ ॥ असौ मनुवर्यः मनुश्रेष्ठः संहृतौ संहारन्यासे अनुगतो यथैवास्ति तथैव सृष्टिमार्गे सृष्टिकरन्यासे प्रतियातो भवेत्तद्विपरीतो भवेत् । उद्धारप्रकारमाहोद्धृतिरिति । एषां तत्त्वानां खलु निश्चयेन उद्धृतिरुद्धारः पूर्वोक्तवद्यथा पूर्वमुक्ततत्त्वन्यासे । नत्य्उपेतं भूयः पराय च तद्आह्वयमात्मने च नत्य्अन्तमुद्धरतु तत्त्वमनून् क्रमेण इति प्रकारेणेत्यर्थः । अधुना न्यासं कथयामीति साम्प्रतं न्याससम्बन्धितत्त्वनामकथनं तत्स्थानकथनं च करोमीत्यर्थः ॥ Kर्द्C_२.२९ ॥ ______________________________ तत्त्वनामान्याहमहीति । महीसलिलपावकानिलवियन्ति गर्वो महान् पुनः प्रकृतिपुरुषौ पर इमानि तत्त्वान्यथ । पदान्धुहृदयास्यकान्यधि तु पञ्च मध्ये द्वयं त्रयं सकलगं ततो न्यसतु तद्विपर्यासतः ॥ २.३० ॥ मही पृथिवी । सलिलं जलम् । पावकः तेजः । अनिलो वायुः । वियद्आकाशः । गर्वोऽहङ्कारः । महान्महत्तत्त्वम् । प्रकृतिः पुरुषः । परश्च इमानि पृथिव्य्आदीनि तत्त्वानि तत्त्वपदवाच्यानि । न्यासस्थानमाहाथेति । अथानन्तरं पञ्च तत्त्वानि पृथिव्य्आदीनि न्यसतु । कुत्र पदान्धुहृदयास्यकान्यधि पादयोः । अन्धौ लिङ्गे । हृदये । आस्ये मुखे । के शिरसि । अधि सप्तम्य्अर्थे मध्ये हृदये तत्त्वद्वयं त्रयं सकलगं सकलाङ्गव्यापकं ततस्तद्अनन्तरं तद्विपर्यासतः उक्तसंहारविपरीतरीत्या न्यसतु । प्रयोगश्चौं गों नमः पराय पृथिव्य्आत्मने नमः इति पादद्वये इत्यारभ्य ओं हां नमः पराय परमात्मने नमः इत्यन्तः संहारः ओं हां नमः पराय परमात्मने नमः इत्यारभ्य ओं गों नमः पराय पृथिव्य्आत्मने नमः पादद्वये इति सृष्टिन्यासः । सृष्टिन्यासे त्रयं सर्वशरीरे, महद्अहङ्कारौ हृदि आकाशः शिरसि । वाय्व्अग्निसलिलमह्यः मुखहृदयलिङ्गपादद्वयेषु, ज्ञेयाः । केचित्तु तत्त्वपदान्तर्भावेन न्यासमिच्छन्ति तच्चिन्त्यम् ॥ Kर्द्C_२.३० ॥ ______________________________ गुप्ततमोऽयमिति । गुप्ततमोऽयं न्यासः सम्प्रोक्तस्तत्त्वदशकपरिक्प्तः । कार्योऽन्य्ष्वपि सद्भिर्गोपालमनुषु झटिति फलसिद्ध्यै ॥ २.३१ ॥ अयं प्रोक्तः कथितो न्यासः सद्भिः पण्डितैः अन्येष्वपि गोपालमन्त्रेषु उद्धृतदशाक्षरव्यतिरिक्तेष्वपि कार्यः । कीदृशः ? गुह्यतमः अतिशयेन गुप्तः । पुनः कीदृशः ? तत्त्वदशकपरिक्प्तः तत्त्वानां दशकं तत्त्वदशकं तेन परिक्प्त उद्घाटित इत्यर्थः । किमर्थम् ? झटिति फलसिद्ध्यै शीघ्रफलप्राप्त्यै ॥ Kर्द्C_२.३१ ॥ ______________________________ न्यासान्तरमाहाकेशादिति । आकेशादापादं दोर्भ्यां ध्रुवपुटितमथ मनुवरं न्यसेद्वपुषि । त्रिशो मूर्धन्यक्ष्णोः श्रुत्योर्घ्राणे मुखहृदयजठरशिवजानुपत्सु तथाक्षराणि ॥ २.३२ ॥ अथानन्तरं दोर्भ्यां हस्ताभ्यां ध्रुवपुटितं प्रणवपुटितं मनुवरं मन्त्रश्रेष्ठं दशाक्षरं गोपालमन्त्रमाकेशादापादं केशादिपादपर्यन्तं त्रिशः स्वदेहे विन्यसेदिति विद्याधराचार्यत्रिपाठिप्रभृतयः । एतेषां मत आकेशादापाददिति पाठः । अधुना सृष्टिस्थितिसंहारक्रमेण मन्त्राक्षरन्यासमाहमूर्धनीत्यादि । तथा दशाक्षराणि प्रणवपुटितानि मूर्धादिवक्ष्यमाणस्थानेषु विन्यसेत् । स्थानान्याहमूर्धनीति । मूर्ध्नि चक्षुषोरुभयनेत्रे एकमेवाक्षरं श्रुतयोः कर्णयोः अत्राप्य्एकमेव घ्राणे नासायुग्मे तत्राप्येकमेव मुखं हृदयं जठरं शिवं लिङ्गं जानुद्वये एकं, पादद्वये एकमेतेषु दशसु स्थानेषु दशाक्षराणि विन्यसेदित्यर्थः ॥ Kर्द्C_२.३२ ॥ ______________________________ उक्ता सृष्टिः शिष्टैरेषा स्थितिरपि मुनिभिरभिहिता हृदादिमुखान्तिका । संहारोऽङ्घ्र्य्आदिमूर्धान्तस्त्रितयमिति विरचयेच्च सृष्टिमनु स्थितिम् ॥ २.३३ ॥ शिष्टैरागमज्ञैरेषा सृष्टिरुक्तेत्यर्थः । स्थितिरपि स्थितिन्यासोऽपि मुनिभिर्नारदादिभिर्हृदयादिमुखान्तिका अभिहिता हृदयमारभ्य मुखपर्यन्तं कथिता । तत्र क्रमः हृदयजठरलिङ्गजानुपादमूर्धाक्षिश्रवणघ्राणमुखानीति संहारोऽङ्घ्र्य्आदिमूर्धान्तः कार्यः । तत्र मन्त्राक्षराणि प्रतिलोमेन देयानीतीदं त्रितयं विरचयतु अनु पश्चादेतत्त्रितयकरणानन्तरं पुनः सृष्टिं स्थितिं च विरचयतु । तथा च पञ्च न्यासाः कार्या इत्यर्थः । प्रयोगस्तु गों नमः पीं नमः इत्यादि ॥३३॥ ______________________________ येषामाश्रमिणां यद्अन्तो न्यासस्तद्दर्शयति न्यास इति । न्यासः संहारान्तो मस्करिवैखानसेषु विहितोऽयम् । स्थित्य्अन्तो गृहमेधिषु सृष्ट्य्अन्तो वर्णिनामिति प्राहुः ॥ २.३४ ॥ अयं न्यासः मस्करिवैखानसेषु संहारान्तो विहितः मस्करी सन्न्यासी वैखानसो वानप्रस्थः, तथा ताभ्यां न्यासत्रयं कार्यमित्यर्थः । गृहमेधिषु गृहस्थेषु अयं न्यासः स्थित्य्अन्तो विहितः । तथा गृहस्थैः पञ्च न्यासाः कार्या इत्यर्थः । वर्णिनां ब्रह्मचारिणामयं न्यासः सृष्ट्य्अन्तो विहितः । तथा च ब्रह्मचारिभिर्न्यासचतुष्टयं कार्यमित्यर्थः । इति पूर्वोक्तमर्थजातं प्राहुः प्राचीना आगमज्ञा इति शेषः ॥ Kर्द्C_२.३४ ॥ ______________________________ वैराग्येति । वैराग्ययुजि गृहस्थे संहारं केचिदाहुराचार्याः । सहजानौ वनवासिनि स्थितिं च विद्यार्थिनां सृष्टिम् ॥ २.३५ ॥ केचिदाचार्याः वैराग्ययुक्तगृहस्थे संहारान्तं न्यासमाहुः । किं च सहजानौ वनवासिनि सपत्नीके स्थितिं स्थित्य्अन्तं न्यासमाहुः । तथा ब्रह्मचारिभिन्नानां विद्यार्थिनामपि सृष्टिं सृष्ट्य्अन्तं न्यासमाहुरित्यर्थः ॥ Kर्द्C_२.३५ ॥ ______________________________ उक्ताक्षरन्यासाङ्गुलिनियमं दर्शयतिशिरसीत्यादिना । शिरसि विहिता मध्या सैवाक्ष्णि तर्जनिकान्विता श्रवसि रहिताङ्गुष्ठा ज्येष्ठान्वितोषकनिष्ठका । नसि च वदने सर्वाः सज्यायसी हृदि तर्जनी प्रथमजयुता मध्या नाभौ श्रवोविहिता शिवे ॥ २.३६ ॥ ता एवाङ्गुलयो जान्वोः साङ्गुष्ठास्तु पदद्वये । स्थानार्णयोर्विनिमयो भवेन्नास्त्यङ्गुलिस्थानयोः ॥ २.३७ ॥ मध्या मध्याङ्गुलिः शिरसि मूर्ध्नि विहिता न्यासकरणत्वेन तथा मध्याङ्गुल्या न्यासः शिरसि कार्य इत्यर्थः । सैव मध्या तर्जनिकान्विताक्ष्णि नयनयुगले विहिता । तथा च मध्यमातर्जनीभ्यामक्ष्णोर्न्यासः कार्यः । श्रवसि श्रोत्रयुगले रहिताङ्गुष्ठा अङ्गुष्ठरहिता सर्वाङ्गुलयो विहिताः । नसि नासायुगले ज्येष्ठान्विता अङ्गुष्ठयुक्ता उपकनिष्ठका अनामिका विहिता । वदने सर्वाङ्गुलयो विहिताः । हृदि सज्यायसी ज्येष्ठासहिता साङ्गुष्ठतर्जनी विहिता । नाभौ जठरे नाभिपदेन जठरमुपलक्षितमिति विद्याधरः । नाभिपदस्य मुख्य एवार्थ इति लघुदीपिकाप्रभृतयः । प्रथमजयुता अङ्गुष्ठयुक्ता मध्यमा विहिता । शिवे लिङ्गे तथा विहिता यथा जठरे साङ्गुष्ठा मध्या तथेत्यर्थ इति केचित् । श्रवो विहिता शिव इति पाठे श्रोत्रयुगले या अङ्गुष्ठरहितास्ताः शिवे विहिता इत्यर्थः । जान्वोस्ता एवाङ्गुलयः अङ्गुष्ठेन रहिताः सर्वाङ्गुलय इत्यर्थः । पदद्वये साङ्गुष्ठाः सर्वाङ्गुलयो विहिताः । स्थानार्णयोरित्यादिना स्थानआक्षरअयोर्विनिमयो विपर्ययो भवति । यथागों सृष्टौ मूर्ध्नि । स्थितौ हृदये । संहृतौ पादयोर्न्यास इति । एवमङ्गुलीस्थानयोर्विपर्ययो नास्ति । किन्तु सृष्टौ स्थितौ संहृतौ वा यत्र स्थाने याङ्गुलिर्विहिता तयैवाङ्गुल्या तत्र स्ताने न्यासः कार्य इत्यर्थः । ॥ Kर्द्C_२.३६३७ ॥ ______________________________ इदानीं विभूतिपञ्जरन्यासमाहवच्मीति । वच्म्यपरं न्यासवरं भूत्य्अभिधं भूतिकरम् । मन्त्रदशावृत्तिमयं गुप्ततमं मन्त्रिवरैः ॥ २.३८ ॥ अपरं भूत्य्अभिधं भूतिरिति नाम यस्य तद्भूतिनामकं वच्मि कथयामि । कीदृशम् ? न्यासवरं न्यासश्रेष्ठमित्यर्थः । पुनः भूतिकरमैश्वर्यकरम् । पुनः मन्त्रदशावृत्तिमयं मन्त्रस्य दशावरणघटितम् । पुनः साधकश्रेष्ठैर्गुप्ततममतिगुह्यम् ॥ Kर्द्C_२.३८ ॥ ______________________________ न्यासस्थानमाहाधारेत्यादिना । आधारध्वजनाभिहृद्गलमुखांसोरुद्वये कन्धरा नाभ्योः कुक्षिहृदोरुरोजयुगले पार्श्वापरश्रोणिषु । कास्याक्षिश्रुतिनः कपोलकरपत्सन्ध्य्अग्रशाखासु के तत्प्राच्यादिदिशासु मूर्ध्नि सकले दोष्णोश्च सक्थ्नोस्तथा ॥ २.३९ ॥ शिरोऽक्ष्यास्यकण्ठाख्यहृत्तुन्दकन्दा न्धुजानुप्रपत्स्वित्थमर्णान्मनूत्थान् । न्यसेच्छ्रोत्रगण्डांसवक्षोजपार्श्व स्फिग्ऊरुस्थलीजानुजङ्घाङ्घ्रियुक्षु ॥ २.४० ॥ आधारो वृषणस्याधस्त्रिकोणं मूलाधारस्थानम् । ध्वजो लिङ्गम् । नाभिः हृधयं गलः मुखमंसोरुद्वयम् । एतेष्वेकावृत्तिः । कन्धरा घाटा कन्धरा कण्ठ इति लघुदीपिकाकारः । नाभिकुक्षिहृदयमुरोजयुगलं स्तनद्वयम् । पार्श्वेति पार्श्वयुगम् । अपरं पृष्ठदेशः । श्रोणिर्जघनदेशः । श्रोणिः कटिः । अपरं श्रोण्याः अपरभागः इति त्रिपाठिनः । एतेषु द्वितीयावृत्तिः । कं शिरः । आस्यं मुखम् । अक्षिणी नेत्रयुगलम् । श्रुती श्रवणद्वयम् । न इति नासिकाद्वयं कपोलद्वयम् एतेषु तृतीया वृत्तिः । करपदेति करपदयोः प्रत्येकं सन्धिचतुष्टयं सन्धिष्वङ्गुल्य्अग्रेषु अङ्गुलीषु च । अत्र दक्षिणकरे चतुर्था वृत्तिः । एवं वामकरे पञ्चमा वृत्तिः । इति पक्षद्वयं च विद्याधरस्तु करयोरेका वृत्तिः, पादयोरेका वृत्तिरित्याह । तच्चिन्त्यम् । मूलग्रन्थात्तथाप्रतीतेः । पादयोः सन्धिष्वङ्गुल्य्अग्रेष्वङ्गुलीषु च । अत्रापि दक्षिणपादे षष्ठा वृत्तिः । वामपादे सप्तमा वृत्तिः । अत एव हस्तपादयोर्न्यासचतुष्टयमिति त्रिपाठिनः । के मस्तकमध्ये तत्प्राच्यादिदिशासु मस्तकपूर्वादिचतुर्दिक्षु सकले मूर्ध्नि सकले मस्तके प्रादक्षिण्येन व्यापकतया दोष्णोश्च बाहुयुगे तथा सक्थ्नोरूरुमूलस्याधिष्ठानयोर्मध्यप्रदेशयोरेतेष्वष्टमा वृत्तिः । मस्तकस्य पूर्वादिदिशास्वेका वृत्तिः । एका वृत्तिर्मूर्धादिष्विति विद्याधराचार्याः । तच्चिन्त्यम् । तथा पदस्वरसात्शिरःप्रभृतिष्वेकावृत्तिप्रतीतेः । शिरो मस्तकम् । अक्षीति नेत्रयुगलम् । आस्यं मुखम् । कण्ठम् । हृदयम् । तुन्दमुदरम् । कन्दो मूलाधारः । स्वाधिष्ठानमिति त्रिपाठिनः । अन्धुं लिङ्गम् । जानु । प्रपदिति पादयुगलं तेषु, एतेषु नवमावृत्तिः । श्रोत्रयुगले गण्डयुगले । अंसयुगले । स्तनयुगले । पार्श्वयुगले । स्फिग्युगले नितम्बयुगले । एवमुरुजानुजङ्घाङ्घ्रियुगले । एतेषु दशमावृत्तिः । इत्थमनेन प्रकारेण मनूत्थान्मन्त्रसम्बन्धिनो वर्णान्न्यसेत् । प्रयोगश्च गों नमो मूलाधारे, पीं नमः लिङ्गे, जं नमः नाभौ इत्यादि ॥ Kर्द्C_२.३९४० ॥ ______________________________ न्यासफलमाहेतीति । इति कथितं विभूतिपञ्जरं सकलसुखार्थधर्ममोक्षदम् । नरतरुणीमनोऽनुरञ्जनं हरिचरणाब्जभक्तिवर्धनम् ॥ २.४१ ॥ अनेन प्रकारेण विभूतिपञ्जरं कथितम् । कीदृशम् ? सकलसुखार्थधर्ममोक्षदं पुरुषार्थचतुष्टयप्रदम् । पुनर्नरतरुणीमनोरञ्जनं पुरुषनारीचित्ताह्लादकं न केवलं सर्वानुरञ्जनम् । अपि तु हरिचरणाब्जे भक्तिवर्धनम् ॥ Kर्द्C_२.४१ ॥ ______________________________ मूर्तिपञ्जरन्यासमाहस्फूर्तय इति । स्फूर्तयेऽथास्य मन्त्रस्य कीर्त्यते मूर्तिपञ्जरम् । आर्तिग्रहविषारिघ्नं कीर्तिश्रीकान्तिपुष्टिदम् ॥ २.४२ ॥ अथानन्तरमस्य दशाक्षरमन्त्रस्य स्फूर्तये उद्दीपनाय मूर्तिपञ्जरं कीर्त्यते । किम्भूतम् ? आर्तिः पीडा । ग्रहो ग्रहजनितमशुभं विषं स्थावरं जङ्गमं च । अरिः शत्रुः । तान् हन्तीत्यर्थः । पुनः कीदृशम् ? कीर्त्य्आदिदम् । कीर्तिः प्रख्यातिः । श्रीसम्पत्तिः सौन्दर्यं पुष्टिर्बलं प्रददातीति तथा ॥ Kर्द्C_२.४२ ॥ ______________________________ अधुना न्यासमुद्धरतिकेशवादीति । केशवादियुगषट्कमूर्तिभिर् धातृपूर्वमिहिरान्नमोऽन्तकान् । द्वादशाक्षरभवाक्षरैः स्वरैः क्लीबवर्णरहितैः क्रमान्न्यसेत् ॥ २.४३ ॥ केशवादिभिः पूर्वोक्तयुगषट्कमूर्तिभिः सह धातृपूर्वमिहिरास्तान् क्रमेण न्यसतु । कीदृशान् ? नमोऽन्तकान्नमःपदान्तान् । पुनः कैः सह ? द्वादशाक्षरभवाक्षरैर्वक्ष्यमाणद्वादशाक्षरमन्त्रसम्बन्धिभिर्द्वादशाक्षरैः सह । एतदुक्तं भवत्यादौ स्वराः । ततो नमःपदमिति । प्रयोगस्तु ओममों केशवधातृभ्यां नमः । ओममों केशवधात्रे नम इति त्रिपाठिनः ॥ Kर्द्C_२.४३ ॥ ______________________________ अथ मूर्तिपञ्जरन्यासे न्यासस्थानमाहभालोदरेति । भालोदरहृद्गलकूपतले वामेतरपार्श्वभुजान्तगले । वामत्रयपृष्ठककुत्सु तथा मूर्धन्यनु षड्युगवर्णमनुम् ॥ २.४४ ॥ भाले ललाटे । उदरे । हृदये । गलकूपतले कण्ठे । वामेतरे वामादितरद्दक्षिणं दक्षिणपार्श्वे भुजान्ते गले चेति । वामत्रये वामपार्श्वे वामभुजान्ते गले च । पृष्ठे ककुदि । अथानन्तरमन्विति पाठेऽप्ययमेव बोद्धव्यः । तथा तेन प्रकारेण मूर्ध्न्य्षड्युगवर्णमनुं द्वादशाक्षरमन्त्रं न्यसेदित्यर्थः ॥ Kर्द्C_२.४४ ॥ ______________________________ मस्तके सम्पूर्णमन्त्रन्यासस्य प्रयोजनमाहचैतन्येति । चैतन्यामृतवपुरर्ककोटितेजा मूर्धस्थो वपुरखिलं स वासुदेवः । औधस्यं सुविमलपायसीव सिक्तं व्याप्नोति प्रकटितमन्त्रवर्णकीर्णम् ॥ २.४५ ॥ स प्रसिद्धो वासुदेवो मूर्धस्थो मस्तकस्थः सन् वपुरखिलं समस्तं वपुः शरीरं व्याप्नोति स्वतेजसेत्यर्थः । किम्भूतो वासुदेवः ? चैतन्यामृतं तदेव वपुर्यस्य स तथा । यद्वा चैतन्यं स्वप्रकाशममृतं मोक्षस्तदेव वपुर्यस्य स तथा । पुनः कीदृशः ? अर्ककोटिरिव तेजो यस्य स तथा । वपुर्कीदृशम् ? प्रकटितमन्त्रवर्णकीर्णं प्रकटिता ये मन्त्रवर्णा द्वादशाक्षरोद्गतास्तैराकीर्णं व्याप्तम् । किमिव ? सुविमलपायसि सुनिर्मले जले सिक्तं निक्षिप्तमौधस्यं दुग्धमिव ॥ Kर्द्C_२.४५ ॥ ______________________________ शरीरन्यासजातमुपसंहरतिसृष्टिस्थितीति । सृष्टिस्थिती दशपञ्चाङ्गयुग्मं मुन्य्आदिकत्रितयं कास्यहृत्सु । विन्यस्यतु ग्रथयित्वा च मुद्रा भूयो दिशां दशकं बन्धनीयम् ॥ २.४६ ॥ मूर्तिपञ्जरस्य पूर्वकृत्यं दर्शयति सृष्टिस्थितीत्यादि इति रुद्रधरः । तच्चिन्त्यम् । तत्र प्रमाणाभावात् । मूर्धन्यक्ष्णोरित्यादिना पूर्वमुक्ते सृष्टिस्थिती पुनः स्वदेहे विन्यस्य तथा दशपञ्चाङ्गयुग्मं दशाङ्गं पञ्चाङ्गं च विन्यस्य । ऋष्य्आदित्रितयं कास्यहृत्स्य विन्यसेदित्यर्थः । वक्ष्यमाणमुद्रां ग्रथयित्वा बद्ध्वा भूयः पुनरपि दिशां दशकं बन्धनीयम् । ओं सुदर्शनायास्त्राय फटित्यनेन वक्ष्यमाणेन मन्त्रेणेत्यर्थः ॥ Kर्द्C_२.४६ ॥ ______________________________ द्वादशाक्षरमन्त्रोद्धारमाहतारमित्यादिना । तारं हार्दं विश्वमूर्तिश्च शार्ङ्गी मांसान्तस्ते वायमध्ये सुदेवाः । षड्द्वन्द्वार्णो मन्त्रवर्यः स उक्तः साक्षाद्द्वारं मोक्षपुर्याः सुगम्यम् ॥ २.४७ ॥ तारं प्रणवम् । हार्दं हृदयं नमः इति यावत् । विश्वमूर्तिर्भकारः । शार्ङ्गी गकारः । मांसान्ते मांसो लकारः । तस्यान्तो वकार इति । ते इति स्वरूपम् । वा इति स्वरूपम् । य इति स्वरूपम् । तयोर्वाययोर्मध्ये सुदेवाः सुदेवेत्य्अक्षरत्रयम् । तथा च ओं नमो भगवते वासुदेवायेति प्रसिद्धः षड्द्वन्द्वार्णो मन्त्रवर्यो द्वादशाक्षरो मन्त्रश्रेष्ठ उक्तः कथितः । कीदृशः ? मोक्षपुर्याः साक्षादव्यवधानेन सुगम्यं द्वारं सुगम उपाय इत्यर्थः ॥ Kर्द्C_२.४७ ॥ ______________________________ द्वादशाक्षरादित्यान् दर्शयतिधात्र्अर्यमेत्यादिना । धात्र्अर्यममित्राख्या वरुणांशुभगा विवस्वद्इन्द्रयुताः । पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ॥ २.४८ ॥ धाता अर्यमा मित्रः वरुणः अंशुः भगः विवस्वानिन्द्रः पूषाः पर्जन्यः त्वष्टा विष्णुरेते द्वादश भानवः कथिताः ॥ Kर्द्C_२.४८ ॥ ______________________________ अधुनाष्टादशाक्षरमन्त्रन्यासमाहाथ तु युगेत्यादि । अथ तु युगरन्ध्रार्णस्याहं मनोर्न्यसनं ब्रुवे रचयतु करद्वन्द्वे पञ्चाङ्गमङ्गुलिपञ्चके । तनुमनु मनुं व्यापय्याथ त्रिशः प्रणवं सकृन् मनुजलिपयो न्यास्या भूयः पदानि च सादरम् ॥ २.४९ ॥ अनन्तरं पुनर्युगरन्ध्रार्णस्य युगरन्ध्रे राजदन्तत्वाद्रन्ध्रशब्दस्य परनिपातः । युगरन्ध्रमक्षराणां यत्र स युगरन्ध्रार्णः तस्य । रन्ध्रं नव । तथा चाष्टादशाक्षरस्य मनोर्मन्त्रस्याहं न्यसनं न्यासं ब्रुवे कथयामीति प्रतिज्ञा । करद्वये अङ्गुलिपञ्चके पञ्चाङ्गं पूर्वोक्तं मन्त्राक्षरैः परिक्प्तं करन्यासं कुर्यात् । कनिष्ठायामस्त्रन्यासो द्रष्टव्यः । अथानन्तरं तनुमनु लक्ष्यीकृत्य त्रिशः त्रिवारं मन्त्रं व्यापय्य व्यापकतया विन्यस्य पुनः प्रणवं सकृदेकवारं विन्यस्य अनन्तरं मनुजलिपयो न्यास्या मन्त्राक्षराणि न्यसतु । भूयोऽनन्तरं सादरं यथा स्यादेवं पदानि पञ्च पदानि न्यास्यानि ॥ Kर्द्C_२.४९ ॥ ______________________________ मन्त्राक्षरन्यासस्थानमाहकचभुवीति । कचभुवि ललाटे भ्रूयुग्मान्तरे श्रवणाक्षिणोर् युगलवदनग्रीवाहृन्नाभिकट्य्उभयान्धुषु । न्यसतु शितधीर्जान्वङ्घ्र्योरक्षरान् शिरसि ध्रुवं नयनमुखहृद्गुह्याङ्घ्रिष्वर्पयेत्पदपञ्चकम् ॥ २.५० ॥ कचस्य केशस्य भूर्उत्पत्तिस्थानं शिरः तत्र । ललाटे भ्रूयुग्मान्तरे भ्रूमध्ये श्रवणाक्ष्णोर्युगले नो नासिकायुगले च । वदने ग्रीवायां हृदि नाभौ कट्य्उभये वामकटिर्दक्षिणकटिश्च । अन्धौ लिङ्गे । एतेषु तथा जाव्य्अङ्घ्र्योश्च शितधिर्निर्मलमतिः अक्षराणि मन्त्रसम्बन्धीनि न्यसतु । अत्र जान्वोरेकमक्षरं न्यसेत् । अङ्घ्र्योरेकमक्षरं न्यसेत् । तथा शिरसि मस्तके ध्रुवं न्यसेत् । पदपञ्चकन्यासस्थानान्याहनयनेति । नयनयुगलं मुखं हृदयं गुह्यमङ्घ्रिश्च एतेषु मन्त्रसम्बन्धि पदपञ्चकं क्लीमित्येकम्, अन्यानि स्पष्टानि अर्पयेन्न्यसेत् ॥ Kर्द्C_२.५० ॥ ______________________________ पञ्चाङ्गानीति । पञ्चाङ्गानि न्यसेद्भूयो मुन्य्आदीनप्यन्यत्सर्वम् । तुल्यं पूर्वेणाथो वक्ष्ये मुद्रा बन्ध्या मन्वोर्याः स्युः ॥ २.५१ ॥ पञ्चाङ्गानि भूयः पुनरपि शरीरे न्यसेत् । तथा मुन्य्आदीनृष्य्आदीन् । अन्यत्सर्वं केशवादिजातं पूर्वेण तुल्यं समानमेव । अत्र दशतत्त्वादिन्यासेषु मन्त्रस्य द्विरावृत्तिविशेष इति लघुदीपिकाकारः । अथोऽनन्तरं मन्वोर्दशाक्षराष्टादशाक्षरयोर्या मुद्रा बन्ध्या बन्धनीयाः स्युर्भवेयुस्ता मुद्रा वक्ष्ये कथयामि ॥ Kर्द्C_२.५१ ॥ ______________________________ हृदयाद्य्अङ्गन्यासमुद्राः प्रदर्शयत्यनङ्गुष्ठा इत्यादि । अनङ्गुष्ठा ऋजवो हस्तशाखा भवेन्मुद्रा हृदये शीर्षके च । अधोऽङ्गुष्ठा खलु मुष्टिः शिखायां करद्वन्द्वाङ्गुलयो वर्मणि स्युः ॥ २.५२ ॥ नाराचमुष्ट्य्उद्धतबाहुयुग्म काङ्गुष्ठतर्जन्य्उदितो ध्वनिस्तु । विष्वग्विषक्तः कथितास्त्रमुद्रा यत्राक्षिणी तर्जनीमध्यमे तु ॥ २.५३ ॥ अनङ्गुष्ठा अङ्गुष्ठरहिता ऋजवोऽवक्रा हस्तशाखा हस्ताङ्गुलयो हृदये मुद्रा भवेत् । शीर्षके च शिरसि ता एव मुद्रा ज्ञेयाः । खलु निश्चये । अधोऽङ्गुष्ठा मुष्टिः अधोऽङ्गुष्ठो यस्यां मुष्टौ एवं कृता मुष्टिः शिखायां मुद्रा भवेत् । वर्मणि कवचे करद्वन्द्वाङ्गुलयः स्युः मुद्रापदवाच्या भवन्ति । ध्वनिः शब्दोऽस्त्रमुद्रा कथिता । किम्भूतो ध्वनिः ? नाराचवद्बाणवद्मुष्ट्योद्धतो यो बाहुस्तस्य युग्मकं द्वयं तस्याङ्गुष्ठतर्जनीभ्यां करणाभ्यामुदितः । पुनः कीदृशः ? विष्वग् दशदिक्षु विषक्तः विस्तीर्णः यत्र मन्त्रेऽक्षिणी भवतः नेत्राङ्गमस्ति तत्र तर्जनीमध्यमे मिलिते मुद्रा ॥ Kर्द्C_२.५३ ॥ ______________________________ वेणुमुद्रामाहौष्ठ इति । ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका । दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ॥ २.५४ ॥ तर्जनीमध्यमानामाः किञ्चित्संकुच्य चालिताः । वेणुमुद्रेह कथिता सुगुप्ता प्रेयसी हरेः ॥ २.५५ ॥ वामहस्ताङ्गुष्ठोऽधरे लग्न इति सम्बन्धः कार्यः । तस्य वामहस्तस्य या कनिष्ठिका पञ्चमी अङ्गुली सा दक्षिणाङ्गुष्ठसंयुक्ता दक्षिणहस्ताङ्गुष्ठे सम्बद्धा कार्या । तत्कनिष्ठिका दक्षिणहस्त कनिष्ठिका प्रसारिता अकुटिला कार्या । उभयहस्ततर्जनीमध्यमानामिकाः किञ्चित्संकुच्य चालिताश्चालनीया । इत्थमिह शास्त्रे वेणुमुद्रा कथिता सुगुप्ता ग्रन्थान्तरेऽत्यन्तगुप्ता । यतो हरेः परमेश्वरस्य श्रीकृष्णस्य प्रेयसी वल्लभा ॥ Kर्द्C_२.५४५५ ॥ ______________________________ नोच्यन्त इति । नोच्यन्तेऽत्र प्रसिद्धत्वान्मालाश्रीवत्सकौस्तुभाः । उच्यतेऽच्युतमुद्राणां मुद्रा बिल्वफलाकृतिः ॥ २.५६ ॥ मालाश्रीवत्सकौस्तुभमुद्राः प्रसिद्धत्वान्नोच्यन्ते मया ग्रन्थकर्त्राप्रसिद्धमिह प्रकाश्यत इति शेषः । अत एव गले वनमालाभिनयनं वनमालामुद्रा । उत्तानितवामतर्जनीकनिष्ठोपरि अधोमुखदक्षिणकरकनिष्ठिकातर्जनीके संयोज्य दक्षिणकराणामिकामध्यमाङ्गुलीद्वयं वामकराङ्गुष्ठोपरि कृत्वा वामकरमध्यमोपकनिष्ठिके दक्षिणहस्ताङ्गुष्ठस्याधः कुर्यादेषा श्रीवत्समुद्रा । वामकनिष्ठिकया दक्षिणकनिष्ठिकां निष्पीड्य वामानामिकया दक्षिणतर्जनीं निष्पीड्य शिष्टवामाङ्गुलीत्रयम् उपरि कृत्वा वामतर्जनीसहितदक्षिणहस्ताङ्गुलित्रयमुखमेकत्र योजयेदेषा कौस्तुभमुद्रा ॥ Kर्द्C_२.५६ ॥ ______________________________ बिल्वमुद्रामाहाङ्गुष्ठमिति । अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्टकेनाथ बद्ध्वा तस्याग्रं पीडयित्वाङ्गुलिभिरपि तथा वामहस्ताङ्गुलिभिः । बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारबीजं बिल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोपनीया विधिज्ञैः ॥ २.५७ ॥ वामाङ्गुष्ठमुद्दण्डितं दण्डाकारमूर्ध्वं कृत्वाधः कर्तव्यं तथानन्तरमितरकराङ्गुष्टेन बद्ध्वा तस्य च पीठे दक्षिणकराङ्गुष्ठस्तिरङ्कार्य इत्यर्थः । तस्याग्रं दक्षिणकराङ्गुष्ठाग्रमङ्गुलिभिः पीडयित्वा धृत्वा ता अपि दक्षिणकराङ्गुलयोऽपि वामहस्ताङ्गुलीभिर्गाढं यथा स्यादेवं बद्ध्वा विमलधीः शुद्धबुद्धिः हृदि हृदये स्थापयेत् । मारबीजं कामबीजं व्याहरनुच्चारयन् । इत्थं बिल्वाख्या एषा स्फुटं व्यक्तं यथा स्यादेवमिहशास्त्रे कथिता विधिज्ञैः प्रकारज्ञैर्गोपनीया ॥ Kर्द्C_२.५७ ॥ ______________________________ एतस्याः फलमाहमन इति । मनोवाणीदेहैर्यदिह च पुरा वापि विहितं त्वमत्या मत्या वा तदखिलमसौ दुष्कृतिचयम् । इमां मुद्रां जानन् क्षपयति नरस्तं सुरगणा नमन्त्यस्याधीना भवति सततं सर्वजनता ॥ २.५८ ॥ असौ नरो मनुष्यः इमां मुद्रां जानन् तदखिलं सम्पूर्णं दुष्कृतिचयं पापराशिं क्षपयति दूरीकरोति यन्मनसा वाचा देहेनामत्याज्ञानेन मत्या ज्ञानेन वा दिवारात्रिविहितं दिवसे रात्रौ वा कृतम् । यदिह च पुरा वापि विहितमिति पाठे इह जन्मनि जन्मान्तरे वा विहितमित्यर्थः । न केवलं पापं दूरीकरोति अपि तु सुरगणा देवा नमन्ति । तथास्य मुद्राकर्तुः सततं सर्वदा सर्वजनसमूहो वश्यो भवतीत्यर्थः ॥ Kर्द्C_२. ५८ ॥ सनातनः (हरिभक्तिविलासे ६.४२) : असौ नर इमां बिल्वाख्यां मुद्रां जानन् तत्तद्दुष्कृतनिचयं पापसमूहमखिलं निःशेषं क्षपयति विनाशयति । कम् ? यं मनोवाक्कायैः इह अस्मिन् पुरा पूर्वजन्मनि च अमत्या अज्ञानेन मत्या वा ज्ञानेन विहितम् । दिवारात्रिविहितमिति पाठे दिने रात्रौ च कृतम् । यत्तदो नपुंसकत्वं महाकविस्वातन्त्र्यादव्ययत्वाद्वा । यद्वा, यत्यस्मात्क्षपयति तत्तस्मान्नमन्तीत्यन्वयः । मुद्रालक्षणानि च गुह्यत्वान्न लिखितानि । तथा चोक्तम् गुरुं प्रकाशयेद्विद्वान्मन्त्रं नैव प्रकाशयेत् । अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ॥ इति । अत्र च तद्विज्ञानार्थमुद्दिश्यन्ते । तथा चागमे सम्यक्सम्पुटितैः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः । आवाहनी समाख्याता मुद्रा देशिकसत्तमैः ॥ अधोमुखीकृतैः सर्वैः स्थापनीति निगद्यते । आश्लिष्टमुष्टियुगला प्रोन्नताङ्गुष्ठयुग्मका । सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्रवेदिभिः । अङ्गुष्ठगर्भिणी सैव संनिरोधे समीरिता ॥ अङ्गैरेवाङ्गविन्यासः सकलीकरणी मता । सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी ॥ अवगुण्ठनमुद्रेयमभितोभ्रामिता यदि । अन्योन्याभिमुखाः सर्वाः कनिष्ठानामिकाः पुनः ॥ तथा तर्जनीमध्याश्च धेनुमुद्रा प्रकीर्तिता । अन्योन्यग्रथिताङ्गुष्ठा प्रसारितकराङ्गुलिः । महामुद्रेयमुदिता परमीकरणे बुधैः ॥ वामाङ्गुष्ठं विधृत्यैवं मुष्टिना दक्षिणेन तु । तन्मुष्टैः पृष्ठतो देशे योजयेच्चतुरङ्गुलीः ॥ कथिता शङ्खमुद्रेयं वैष्णवार्चनकर्मणि । अन्योन्याभिमुखाङ्गुष्ठकनिष्ठयुगले यदि ॥ विस्तृताश्चेतराङ्गुल्यस्तदासौ दर्शिनी मता । अन्योन्यग्रथिताङ्गुल्य उन्नतौ मध्यमौ यदि । संलग्नौ च तदा मुद्रा गदेयं परिकीर्तिता ॥ पद्माकारावाभिमुख्येन पाणी मध्य्ऽङ्गुष्ठौ शायितौ कर्णिकावत् । पद्माख्येयं सौव संलग्नमध्या स्पृष्टाङ्गुष्ठा बिल्वसंज्ञैव मुद्रा ॥ अग्रे तु वाममुष्टेश्च इतरा तु यदा मता । तदेयं कृतिभिर्मुद्रा ज्ञेया मुषलसंज्ञिता ॥ वामस्थतर्जनीप्रान्तं मध्यमान्ते नियोजयेत् । प्रसार्य तु करं वामं दक्षिणं करमेव च ॥ नियोज्य दक्षिणस्कन्धे बाणप्रेरणवत्ततः । तर्जन्य्अङ्गुष्ठकाभ्यां च कुर्यादेषा प्रकीर्तिता ॥ शार्ङ्गमुद्रेति मुनिभिर्दर्शयेत्कृष्णपूजने । कनिष्ठानामिके द्वे तु दक्षाङ्गुष्ठनिपीडिते । शेषे प्रसारिते कृत्वा खड्गमुद्रा प्रकीर्तिता ॥ पाशाकारां नियोज्यैव वामाङ्गुष्ठाङ्गतर्जनीम् । दक्षिणे मुष्टिमादाय तर्जनीं च प्रसारयेत् ॥ तेनैव संस्पृशेन्मन्त्री वामाङ्गुष्ठस्य मूलकम् । पाशमुद्रेयमुद्दिष्टा केशवार्चनकर्मणि ॥ तर्जनीमीषदाकुञ्च्य शेषेणापि निपीडयेत् । अङ्कुशं दर्शयेत्तद्वद्गृहीत्वा दक्षमुष्टिना ॥ अन्योन्यपृष्ठे संयोज्य कनिष्ठे च परम्परम् । तर्जन्य्अग्रं समं कृत्वा कनिष्ठाग्रं तथैव च ॥ ईषदालम्बितं कृत्वा इतरौ पक्षवत्ततः । प्रसार्य गारुडी मुद्रा कृष्णपूजाविधौ स्मृता ॥ अन्योन्यसम्मुखे तत्र कनिष्ठातर्जनीयुगे । मध्यमानामिके तद्वदङ्गुष्ठेन निपीडयेत् ॥ दर्शयेद्धृदये मुद्रां यत्नाच्छ्रीवत्ससंज्ञिताम् । अन्योन्याभिमुखे तद्वत्कनिष्ठे संनियोजयेत् । तर्जन्य्अनामिके तद्वत्करौ त्वन्योन्यपृष्ठगौ ॥ उत्सिक्तान्योन्यसंलग्नौ वक्षःस्थितकराङ्गुलीः । विधाय मध्यदेशे तु वाममध्यमतर्जनी । संयोज्य मणिबन्धे तु दक्षिणे योजयेत्ततः ॥ वामाङ्गुष्ठे तु मुद्रेयं प्रसिद्धा कौस्तुभाह्वया । क्वचिच्च अनामा पृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका । कनिष्ठ्यान्यया बद्धा तर्जन्या दक्षया तथा ॥ वामानां च बध्नीयाद्दक्षाङ्गुष्ठस्य मूलके । अङ्गुष्ठमध्यमे वामे संयोज्य सरलाः पराः ॥ चतस्रोऽन्योन्यसंलग्ना मुद्रा कौस्तुभसंज्ञिता ॥ ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठका । दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता । तर्जनीमध्यमानामाः किंचित्सङ्कुच्य चालिताः ॥ वेणुमुद्रेयमुद्दिष्टा सुगुप्ता प्रेयसी हरेः । अङ्गं प्रसारितं कृत्वा स्पृष्टशाखं वरानने । प्राङ्मुखं तु ततः कृत्वा अभयं परिकीर्तितम् ॥ दक्षं भुजं प्रसारित्वा जानूपरि निवेशयेत् । प्रसृतं दर्शयेद्देवि वरः सर्वार्थसाधकः ॥ उत्तानतर्जनीभ्यां तु ऊर्ध्वाधः प्रक्रमेण तु । मालावत्क्रमविस्तारा वनमाला प्रकीर्तिता ॥ क्रमदीपिकायां (२.५७) अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्टकेनाथ वध्वा तसाग्रं पीडयित्वाङ्गुलिभिरपि तथा वामहस्ताङ्गुलिभिः । बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारबीजं बिल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोपनीया विधिज्ञैः ॥ अगस्त्यसंहितायां च आवाहिनीं स्थापनीं सन्निधीकरणीं तथा । सुसंनिरोधिनीं मुद्रां सम्मुखीकरणीं तथा ॥ सकलीकरणीं चैव महामुद्रान् तथैव च । शङ्खचक्रगदापद्मधेनुकोस्तु भगारुडाः ॥ श्रीवत्सं वनमालां च योनिमुद्रां च दर्शयेत् ॥ मूलाधाराद्द्वादशान्तमानीतः कुसुमाञ्जलिः । त्रिस्थानगततेजोभिर्विनीतः प्रतिमादिषु ॥ आवाहनीया मुद्रा स्यादेषार्चनविधौ मुने । एषैवाधोमुखी मुद्रा स्थापने शय्यते पुनः ॥ उन्नताङ्गुष्ठयोगेन मुष्टीकृतकरद्वयम् । सन्निधीकरणं नाम मुद्रा देवार्चने विधौ ॥ अङ्गुष्ठगर्भिणी सैव मुद्रा स्यात्संनिरोधिनी । उत्तानमुष्टियुगला सम्मुखीकरणी मता ॥ अङ्गैरेवाङ्गविन्यासः सकलीकरणी तथा । अन्योन्याङ्गुष्टसंलग्ना विस्तारितकरद्वयी ॥ महामुद्रेयमाख्याता न्यूनाधिकसमापनी । कनिष्ठानामिकामध्यान्तःस्थाङ्गुष्ठान्तरेऽग्रतः ॥ गोपिताङ्गुलिमध्ये समन्तान्मुकुलीकृता । करद्वयेन मुद्रा स्याच्छङ्काख्येयं सुरार्चने ॥ अन्योन्याभिमुखस्पर्शव्यत्ययेन तु वेष्टयेत् । अङ्गुलीभिः प्रयत्नेन मण्डलीकरणं मुने ॥ चक्रमुद्रेयमाख्याता गदामुद्रा ततः परम् । अन्योन्याभिमुखाश्लिष्टाङ्गुलिः प्रोन्नतमध्यमा ॥ अथाङ्गुष्ठद्वयं मध्ये दत्त्वापि परितः करौ । मण्डलीकरणं सम्यग्अङ्गुलीनां तपोधन ॥ पद्ममुद्रा भवेदेषा धेनुमुद्रा ततः परम् । अनामिकाकनिष्ठाभ्यां तर्जनीभ्यां च मध्यमे । अन्योन्याभिमुखाश्लिष्टे ततः कौस्तुभसंज्ञितः ॥ कनिष्ठान्योन्यसंलग्नेऽभिमुखेऽपि परस्परम् । वामस्य तर्जनीमध्ये मध्यानामिकयोरपि ॥ वामानामिकसंस्पृष्टा तर्जनीमध्यशोभिता । पर्यायेण नताङ्गुष्ठद्वयी कौस्तुभलक्षणा ॥ कनिष्ठान्योन्यसंलग्ना विपरीतं वियोजिता । अधस्तात्स्थापिताङ्गुष्ठा मुद्रा गरुडसंज्ञिता ॥ तर्जन्य्अङ्गुष्ठमध्यस्था मध्य्मानामिकाद्वयी । कनिष्ठानामिकामध्या तर्जन्य्अग्रे करद्वयी ॥ मुने श्रीवत्समुद्रेयं वनमाला भवेत्ततः । कनिष्ठानामिकामध्या मुष्टिरुन्नीततर्जनी ॥ परिभ्रान्ता शिरस्युच्चैस्तर्जनीभ्यां दिवौकसः । मुद्रा योनिः समाख्याता सङ्कोचितकरद्वयी ॥ तर्जन्य्अङ्गुष्ठमध्यान्तःस्थितानामिकयुग्मका । मध्यमूलस्थिताङ्गुष्ठा ज्ञेया शस्तार्चने मुने ॥ इति । ______________________________ अस्त्रमन्त्रमाहप्रणवेति । प्रणवहृदोरवसाने सचतुर्थि सुदर्शनं तथास्त्रपदं च । उक्त्वा फड्अन्तममुना कलयेन् मनुनास्त्रमुद्रया दशहरितः ॥ २.५९ ॥ प्रणव ओंकारः । हृत्नमः । एतयोरवसानेऽन्ते सचतुर्थिसुदर्शनं चतुर्थीविभक्तिसहितं सुदर्शनमिति पदमेतस्यान्ते तथास्त्रपदं चतुर्थ्य्अन्तमस्त्रपदम् । पुनः कीदृक्? फड्अन्तं फट्शब्दान्तमुक्त्वा अमुना मनुना अनेन मन्त्रेण अस्त्रमुद्रया दशहरितः कल्पयेत्दशदिग्बन्धनं कुर्यादित्यर्थः ॥ Kर्द्C_२.५९ ॥ ______________________________ प्राक्कृतं न्यासजातमुपसंहरनग्निमपटले वक्ष्यमाणं ध्यानं सूचयतीतीति । इति विधाय समस्तविधिं जगज् जनिविनाशविधानविशारदम् । श्रुतिविमृग्यमजं मनुविग्रहं स्मरतु गोपवधूजनवल्लभम् ॥ २.६० ॥ इत्यनेन प्रकारेण समस्तविधिं पूर्वोक्तमखिलन्यासादिकं विधाय निर्वर्त्य गोपवधूजनवल्लभं कृष्णं स्मरतु चिन्तयतु । कीदृशं कृष्णम् ? जगद्उत्पत्तिस्थिति विनाशकरणदक्षम् । पुनः कीदृशम् ? श्रुतिविमृग्यमुपनिषद्गम्यम् । पुनः कीदृशम् ? अजमुत्पत्तिरहितम् । पुनः कीदृशम् ? मनुविग्रहं मनुशरीरमित्यर्थः ॥ Kर्द्C_२.६० ॥ इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां द्वितीयः पटलः । ॥२॥ ************************************************************************** (३) तृतीयपटलः इदानीं मन्त्रद्वयसाधारणं देवताध्यानमाह अथ प्रकटसौरभोद्गलितमाध्वीकोत्फुल्लसत् प्रसूननवपल्लवप्रकरनम्रशाखैर्द्रुमैः । प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितैः स्मरेच्छिशिरितं शिवं सितमतिस्तु वृन्दावनम् ॥ ३.१ ॥ अथानन्तरं सितमतिः निर्मलमतिः वृन्दावनं स्मरेच्चिन्तयेत् । किम्भूतम् ? द्रुमैः वृक्षैः शिशिरितं शीतलीकृतम् । द्रुमैः कीदृशैः ? प्रकटेति उद्भटसौरभम् । अथ च उद्गलितो माध्वीको मधु यस्मिन् तत् । अथ च उत्फुल्लं प्रफुल्लम् । अथ च सद्देदीप्यमानमेतादृशं प्रसूनं पुष्पं तथा नवपल्लवः अनयोर्यः प्रकरः समूहः । तेन नम्राः शाखा येषां ते तथा तैः । प्रकटसौरभाकुलितमत्तभृङ्गोल्लसत्प्रसूनेति पाठे प्रकटसौरभेणाकुलितं सर्वतो व्याप्तम् । अथ च मत्तभृङ्गोल्लसन्मत्तभ्रमरेण शोभमानमेतादृशं यत्प्रसूनमित्यर्थः । पुनः कीदृशैः ? प्रफुल्ला विकसिता या नवमञ्जरी तया ललिता मनोहरा या वल्लरी लताग्रशाखा तस्याश्चेष्टितं चलनं येषु तैः । पुनः कीदृशं ? शिवं कल्याणप्रदम् ॥ Kर्द्C_३.१ ॥ सनातनः: इतःप्रभृति ये ३६श्लोकाः प्राप्यन्ते ते श्रीहरिभक्तिविलासे उद्दृताः श्रीसनातनगोस्वामिप्रभुपादानां व्याख्याताश्च । तेषां व्याख्यायास्तु अत्रत्याया नातिविसादृश्यत्वात्सात्र नोद्ध्रियते । तत्रैव ते द्रष्टव्याः । ______________________________ पुनः कीदृशम् ? विकाशिसुमनोरसास्वादनमञ्जुलैः सञ्चरच् छिलीमुखोद्गतैर्मुखरितान्तरं झङ्कृतैः । कपोतशुकशारिकापरभृतादिभिः पत्रिभिर् विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् ॥ ३.२ ॥ वृन्दावनं झङ्कृतैः शब्दविशेषैर्मुखरितान्तरं शब्दायमानाभ्यन्तरम् । कीदृशैः ? झङ्कृतैः विकाशिन्याः प्रफुल्लायाः सुमनसः पुष्पस्य यो रसः मधु तस्य यद्आस्वादनमवलेहनं तेन मञ्जुलैर्मनोहरैः । पुनः कीदृशैः ? सञ्चरेति सञ्चरन्तो भ्रमन्तो ये शिलीमुखोद्गतैर्भ्रमरास्तेषां मुखेभ्य उद्गतैः समुत्थितैः । पुनः कीदृशम् ? वृन्दावनं कपोतेति पारावतशुकशारिकाकोकिलप्रभृतिभिः पक्षिभिरितस्ततो विराणितं शब्दायितम् । पुनः कीदृशम् ? भुजगशत्रुर्मयूरस्तस्य नृत्येनाकुलं व्याप्तम् ॥२॥ ______________________________ पुनः कीदृशम् ? कलिन्ददुहितुश्चलल्लहरिविप्रुषां वाहिभिर् विनिद्रसरसीरुहोदररजश्चयोद्धूसरैः । प्रदीपितमनोभवव्रजविलासिनीवाससां विलोलनपरैर्निषेवितमनारतं मारुतैः ॥ ३.३ ॥ मारुतैर्वायुभिः अनारतं सर्वदा निषेवितम् । कीदृशैर्मारुतैः ? कलिन्देति कलिन्ददुहितुर्यमुनायाश्चलन्त्यो या लहर्यः तासां या विप्रुषो जलबिन्दवः तासां वाहिभिः । एतेन वायोः शैत्यमुक्तम् । पुनः कीदृशैः ? विनिद्रेति विनिद्रं प्रफुल्लं यत्सरसीरुहं पद्मं तस्य यदुदरमभ्यन्तरं तत्र यो रजश्चयो धूलीसमूहः तेन उद्धूसरैः, एतेन सौरभ्यमुक्तम् । पुनः कीदृशैः ? प्रदीपितेति प्रदीपितोऽतिशयितो मनोभवः कामो यासां व्रजविलासिनीनां गोपसुन्दरीणां तासां यानि वासांसि वस्त्राणि तेषां विलोलनपरैः चालनाशक्तैः । एतेन मान्यमुक्तम् ॥ Kर्द्C_३.३ ॥ ______________________________ पुनः कीदृशम् ? प्रवालनवपल्लवं मरकतच्छदं वज्रमौ क्तिकप्रकरकोरकं कमलरागनानाफलम् । स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं तद्अन्तरमपि कल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत् ॥ ३.४ ॥ तद्अन्तरपि वृन्दावनमध्ये कल्पकाङ्घ्रिपमपि चिन्तयेत् । कीदृशम् ? उदञ्चितमुच्छ्रितम् । पुनः कीदृशम् ? स्थविष्ठं स्थूलतरम् । पुनः कीदृशम् ? प्रवालो विद्रुमः स एव नवपल्लवः किसलयं यस्य तम् । पुनः कीदृशम् ? मरकतो यो मणिविशेषः स एव छदं पत्रं यस्य तम् । पुनः कीदृशम् ? वज्रं हीरकं मौक्तिकं मुक्ताः । अनयोर्यः प्रकरः समूहः स एव कोरकः पुष्पकलिका यत्र तम् । पुनः कीदृशम् ? कमलरागः पद्मरागमणिः स एव नानाविधं फलं यत्र तम् । पुनः कीदृशम् ? अखिलैरृतुभिः षड्भिरपि ऋतुभिः सततं सेवितं सदा परिगृहीतम् । एतेन सर्वपुष्पान्वितत्वं दर्शितम् । पुनः कीदृशम् ? कामदमाकाङ्क्षितप्रदम् ॥ Kर्द्C_३.४ ॥ ______________________________ सुहेमशिखरावलेरुदितभानुवद्भास्वराम् अधोऽस्य कनकस्थलीममृतशीकरासारिणः । प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत्पुनरतन्द्रितो विगतषट्तनङ्गां बुधः ॥ ३.५ ॥ बुधः पण्डितः अतन्द्रितः निरालस्यः आलस्यरहितः सनस्य कल्पवृक्षस्याधस्तात् । कनकस्थलीं सुवर्णमयीं भूमिम् । पुनः स्मरेत्चिन्तयेत् । किम्भूतां सुहेमेति । शोभमाना सुवर्णशृङ्गपङ्क्तिर्यस्य । तथा तस्मादुदयाचलादुदितभानुवत्प्रकटितसूर्यवत्प्रकटितसूर्यवत्भास्वरां देदीप्यमानां सुहेमशिखराचलेऽप्युदितेति पाठे शोभनं हेमशृङ्गं यत्र अचले पर्वते तस्मिनपिशब्दो भिन्नक्रमः कनकस्थलीमित्यस्यानन्तरं द्रष्टव्यम् । अस्य कीदृशस्य अमृतेति ? अमृतस्य यः शीकरः कणस्तस्यासारो यः समूहः पतनं तच्छालिं यथा स्यात्तथा तस्यामृतकणसमूहसंवर्षिणः । कीदृशीम् ? प्रदीप्तैः पीप्यमानमणिभिः पद्मरागादिभिः बद्धभूमिम् । पुनः कीदृशीम् ? कुसुमेति कुसुमरेणुपुञ्जैरुज्ज्वलाम् । पुनः कीदृशीम् ? विगतेति विगता दूरीभूता षट्तरङ्गाः कामक्रोधादयः अशनायापि पासाशोकमोहजरामृत्यवो वा यस्यास्ताम् ॥ Kर्द्C_३.५ ॥ ______________________________ तद्रत्नकुट्टिमनिविष्टमहिष्ठयोग पीठेऽष्टपत्रमरुणं कमलं विचिन्त्य । उद्यद्विरोचनसरोचिरमुष्य मध्ये सञ्चिन्तयेत्सुखनिविष्ठमथो मुकुन्दम् ॥ ३.६ ॥ तस्याः कनकस्थल्याः यद्रत्नकुट्टिमं रत्नबद्धभूभागः । तत्र निविष्टं स्थितं महिष्ठं महद्योगपीठं तत्राष्टपत्रमष्टौ पत्राणि यत्र तत्तथारुणं लोहितम् । अत एवोद्यतादित्यसन्निभम् । एवम्भूतं पद्मं विचिन्त्य । अथानन्तरममुष्यारुणवर्णाष्टदलकमलस्य मध्ये मुकुन्दम्ं कृष्णं चिन्तयेत् । कीदृशम् ? सुखनिविष्ठं सुखासीनमादिकुलकमत आरभ्य ॥ Kर्द्C_३.६ ॥ ______________________________ पुनः कीदृशम् ? सूत्रामरत्नदलिताञ्जनमेघपुञ्ज प्रत्यग्रनीलजलजन्मसमानभासम् । सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥ ३.७ ॥ सूत्रामरत्नमिन्द्रनीलमणिः दलिताञ्जनं भिन्नाञ्जनं घृष्टकज्जलमिति मेघपुञ्जो मेघसमूहः प्रत्यग्रनीलजलजन्म नवीननीलपद्ममेषां समाना भा दीप्तिर्यस्य तम् । पुनः कीदृशम् ? सुस्निग्धेति सुस्निग्धाः सुचिक्कणा नीलाः श्यामा घना निविडाः कुञ्चिताः कुटिलाः ये केशास्तेषां जालं समूहो यत्र तम् । पुनः कीदृशम् ? राजन्निति । राजत्शोभमानं मनोज्ञं मनोहरं यच्छितिकण्ठशिखण्डं मयूरपिच्छं तदेव चूडायां यस्य तम् ॥ Kर्द्C_३.७ ॥ ______________________________ पुनः कीदृशम् ? रोलम्बलालितसुरद्रुमसूनुकल्पि तोत्तंसमुत्कचनवोत्पलकर्णपूरम् । लोलालकस्फुरितभालतलप्रदीप्त गोरोचनातिलकमुच्चलचिल्लिमालम् ॥ ३.८ ॥ रोलम्बो भ्रमरस्तेन लालितं प्रीत्या सेवितं यत्सुरद्रुमप्रसूनं पारिजातपुष्पं तेन कल्पितः रचित उत्तंसः शिरोभूषणं येन स तथा तम् । पुनः कीदृशम् ? उत्कचं विकसितं यन्नवोत्पलकर्णपूरम् । तदेव कर्णाभरणं यस्य स तथा तम् । पुनः कीदृशम् ? लोलाश्चञ्चला अलकाः केशविशेषास्तैः स्फुरितं शोभमानं यद्भालतलं ललाटतलं तत्र प्रदीप्तं गोरोचनातिलकं यस्य स तथा तम् । पुनः कीदृशम् ? उच्चल चिल्लिमालं चञ्चलभ्रूलताकम् ॥ Kर्द्C_३.८ ॥ ______________________________ पुनः कीदृशम् ? आपूर्णशारदगताङ्कशशाङ्कबिम्ब कान्ताननं कमलपत्रविशालनेत्रम् । रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त गण्डस्थलीमुकुरमुन्नतचारुनासम् ॥ ३.९ ॥ आपूर्णः सम्पूर्णः शारदः शरत्सम्बन्धी गताङ्कः शशाङ्कबिम्बश्चन्द्रमण्डलस्तद्वत्कान्तं मनोहरमाननं मुखं यस्य तथा तम् । पुनः कीदृशम् ? कमलपत्रवद्विशाले विस्तीर्णे नेत्रे यस्य स तथा तम् । पुनः कीदृशम् ? रत्नेति रत्नैः स्फुरन्च्छोभमानं यन्मकरकुण्डलं मकराकारकुण्डलं तस्य ये रश्मयः तैः प्रदीप्ता शोभमाना गण्डस्थली स एव मुकुरो दर्पणो यस्य तथा तम् । पुनः कीदृशम् ? उन्नतेति उन्नता मनोहरा नासा यस्य स तथा तम् ॥ Kर्द्C_३.९ ॥ ______________________________ पुनः कीदृशम् ? सिन्दूरसुन्दरतराधरमिन्दुकुन्द मन्दारमन्दहसितद्युतिदीपिताङ्गम् । वन्यप्रवालकुसुमप्रचयावक्प्त ग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ॥ ३.१० ॥ सिन्दूरवन्मनोहरो अधरो यस्य स तथा तम् । पुनः कीदृशम् ? इन्दुकुन्देति इन्दुश्च कुन्दं कुन्दपुष्पं मन्दारः शुक्लमन्दारः अर्कपुष्पं वा तद्वन्मन्दहसितमीषद्धास्यं तस्य द्युतिर्दीप्तिः तथा दीपिता शोभिता आशा दिशो येन स तथा तम् । पुनः कीदृशम् ? वन्येति वन्यं वन्योद्भवं यत्प्रवालकुसुमं नवपल्लवपुष्पं तस्य यः समूहस्तेनावक्प्तं सम्पादितं यद्ग्रैवेयकं कण्ठाभरणं तेनोज्ज्वलो देदीप्यमानो मनोहरः कम्बुकण्ठः त्रिरेखाङ्कितः कण्ठो यस्य स तथा तम् ॥ Kर्द्C_३.१० ॥ ______________________________ पुनः कीदृशम् ? मत्तभ्रमरजुष्टविलम्बमान सन्तानकप्रसवदामपरिष्कृतांसम् । हारावलीभगणराजितपीवरोरो व्योमस्थलीलसितकौस्तुभभानुमन्तम् ॥ ३.११ ॥ मत्ताः कृतमधुपाना भ्रमन्तश्चरन्तौ ये भ्रमरास्तैर्जुष्टं सेवितम् । अथ च विलम्बमानमेवम्भूतं यत्सन्तानकप्रसवदाम कल्पवृक्षपुष्पदाम तेन दाम्ना परिष्कृतः स्वलङ्कृतो अंसो यस्य स तथा तम् । पुनः कीदृशम् ? हारावल्येव भगणो नक्षत्रसमूहः । तेन राजितं शोभितं पीवरं मांसलं यद्उरो हृदयं तदेव व्योमस्थल आकाशभूमिः तया लसितः शोभितः कौस्तुभ एव भानुः सूर्यस्तेन युक्तम् । अत्र रूपकालङ्कार एव नोपमालङ्कारः नक्षत्रगणसूर्ययोरसम्बन्धत्वात् । एवं च सत्येककाले द्वयोः शोभा लभ्यत इति भावः ॥ Kर्द्C_३.११ ॥ ______________________________ पुनः कीदृशम् ? श्रीवत्सलक्षणसुलक्षितमुन्नतांसम् आजानुपीनपरिवृत्तसुजातबाहुम् । आबन्धुरोदरमुदारगम्भीरनाभिं भृङ्गाङ्गनानिकरमञ्जुलरोमराजिम् ॥ ३.१२ ॥ श्रीवत्सलक्षणसुलक्षितमुन्नतांसमाजानुपीनपरिवृत्तसुजातबाहुमाबन्धुरोदरमुदारगम्भीरनाभिं भृङ्गाङ्गनानिकरमञ्जुलरोमराजिम् ॥ Kर्द्C_३.१२ ॥ ______________________________ पुनः कीदृशम् ? नानामणिप्रघटिताङ्गदकङ्कणोर्मि ग्रैवेयसारसननूपुरतुन्दबन्धम् । द्व्याङ्गरागपरिपञ्जरिताङ्गयष्टिम् आपीतवस्त्रपरिवीतनितम्बबिम्बम् ॥ ३.१३ ॥ नानामणिभिरिन्द्रनीलादिभिर्घटिताः सम्बद्धाः । अङ्गदा बाहुवलयास्तथा कङ्कणा ऊर्मिर्मुद्रिका ग्रैवेयं ग्रीवालङ्कारः रसनया क्षुद्रघण्टिकया सह आसमन्तात्वर्तते यौ नूपुरौ तुन्दबन्धः उदरबन्धनार्थं सुवर्णडोरकमेते अलङ्कारा यस्य स तथा तम् । पुनः कीदृशम् ? दिव्यः परमोत्कृष्टो योऽनुरागः सुगन्धिचूर्णं तेन पिञ्जरिता नानावर्णा अङ्गयष्टिरङ्गलता यस्य स तथा तम् । पुनः कीदृशम् ? आपीतमतिशयेन पीतं यद्वस्त्रं तेन परितो वीतो वेष्टितो नितम्बबिम्बो येन स तथा तम् । यद्यपि स्त्रीकट्यां नितम्बपदप्रयोगः कोशे दृश्यते तथापि तद्वन्मनोहरतया पुंस्कट्याम् अपि प्रयोगो न विरुद्धः ॥ Kर्द्C_३.१३ ॥ ______________________________ पुनः कीदृशम् ? चारूरुजानुमनुवृत्तमनोज्ञजङ्घ कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् । माणिक्यदर्पणलसन्नखराजिराजद् रक्ताङ्गुलिच्छदन्सुन्दरपादपद्मम् ॥ ३.१४ ॥ कान्तौ कमनीयौ उन्नतौ उच्चौ यौ प्रपदौ पादाग्रौ ताभ्यां निन्दिता तिरस्कृता कूर्मस्य कच्छपस्य कान्तिः दीप्तिर्येन स तथा तम् । पुनः कीदृशम् ? माणिक्यघटितो यो दर्पणस्तद्वल्लसन्ती शोभमाना नखपङ्क्तिः तथा राजन्त्यः शोभमाना या रक्ताङ्गुलयस्ता एव च्छदनानि पत्राणि तैः सुन्दरं पादपद्मं यस्य स तथा तम् ॥ Kर्द्C_३.१४ ॥ ______________________________ पुनः कीदृशम् ? मत्स्याङ्कुशारदरकेतुयवाब्जवज्र संलक्षितारुणकराङ्घ्रितलाभिरामम् । लावण्यसारसमुदायविनिर्मिताङ्ग सौन्दर्यनिर्जितमनोभवदेहकान्तिम् ॥ ३.१५ ॥ मत्स्यो मीनः अङ्कुशो अस्त्रविशेषः अरिश्चक्रो दरः शङ्खः केतुर्ध्वजः यवः प्रसिद्धः अब्जं पद्मं वज्रः कुलिशाकारस्त्रिकोणः एतैः सुलक्षितं सम्यक्विहितं यदरुणतराङ्घ्रितलं लोहिततरचरणतलं तेनाभिरामः सर्वजनप्रियस्तम् । पुनः कीदृशम् ? लावण्यस्य सौन्दर्यस्य यः सारसमुदाय उत्कृष्टभागसमुदायः तेन विनिर्मितं घटितं यदङ्गसौन्दर्यं तेन निन्दिता तिरस्कृता मनोभवस्य कामदेवस्य कान्तिः शरीरशोभा येन स तथोक्तम् ॥ Kर्द्C_३.१५ ॥ ______________________________ पुनः कीदृशम् ? आस्यारविन्दपरिपूरितवेणुरन्ध्र लोलत्कराङ्गुलिसमीरितदिव्यरागैः । शश्वद्द्रवीकृतविकृष्टसमस्तजन्तु सन्तानसन्ततिमनन्तसुखाम्बुराशिम् ॥ ३.१६ ॥ शश्वन्नित्यं द्रवीकृतानयतीकृता विकृष्टा आकृष्टा समस्तजन्तोः प्राणिनः सन्तानसन्ततिः सन्तानपरम्परा येन स तथा तम् । कैः ? आस्यमेवारविन्दं पद्मं तेन परिपूरितं यद्वेणुरन्ध्रं वंशीरन्ध्रमत्र लोलन्ती चञ्चला या कराङ्गुलिस्तया समीरिताः समुत्पादिता ये दिव्या उत्कृष्टा रागा ध्वनयः स्वरास्तैरित्यर्थः । पुनः कीदृशम् ? अनन्तेति । अपरिमितानन्दसमुद्रम् ॥ Kर्द्C_३.१६ ॥ ______________________________ पुनः कीदृशम् ? गोभिर्मुखाम्बुजविलीनविलोचनाभि रूधोभरस्खलितमन्थरमन्दगाभिः । दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिर् आलम्बिवालधिलताभिरथाभिवीतम् ॥ ३.१७ ॥ अथानन्तरं गोभिरभिवीतं सर्वतोवेष्टितम् । किम्भूताभिः ? मुखाम्बुजे परमेश्वरमुखपद्मे विलीने सम्बद्दे लोचने यासां तास्तथा ताभिः । पुनः कीदृशाभिः ? ऊधोभरेति स्तनगौरवस्खलनसालसाल्पगमनशीलाभिः । पुनः कीदृशाभिः ? दन्ताग्रेण दष्टः परिशिष्टतृणाङ्कुरो भक्षणावशिष्टतृणाङ्कुरो याभिस्तास्तथा ताभिः । पुनः कीदृशाभिः ? आलम्बीति आलम्बिनी लम्बमाना वालधिलता यासां तास्तथा ताभिः ॥ Kर्द्C_३.१७ ॥ ______________________________ पुनः कीदृशम् ? सप्रस्रवस्तनविचूषणपूर्णनिश्च लास्यावटक्षरितफेनिलदुग्धमुग्धैः । वेणुप्रवर्तितमनोहरमन्द्रगीत दत्तोच्चकर्णयुगलैरपि तर्णकैश्च ॥ ३.१८ ॥ तर्णकैश्चैकवार्षिकैश्चाभिवीतमिति पूर्वेणान्वयः । कीदृशैः ? प्रस्रवेण क्षरद्दुग्धेन सह वर्तते यत्स्तनविचूषणं दन्तोष्ठेन स्तनाकर्षणं तेन परिपूर्णो निश्चलः स्थिरश्च य आस्यावटः मुखविवरं ततः क्षरितं गलितं यत्फेनिलं सफेनं दुग्धं तेन मुग्धैर्मनोहरैः । पुनः कीदृशैः ? वेण्विति । वेणुर्वंशी तेन प्रवर्तिता चालिता मनोहरा आह्लादकारिणी मन्द्रानल्पा या गीतिर्गानं तत्र दत्तमुच्चं कर्णयुगलं यैस्तथा तैः ॥ Kर्द्C_३.१८ ॥ ______________________________ पुनः कीदृशम् ? प्रत्यग्रशृङ्गमृदुमस्तकसम्प्रहार संरम्भवल्गनविलोलखुराग्रपातैः । आमेदुरैर्बहुलसास्नगलैरुदग्र पुच्छैश्च वत्सतरवत्सतरीनिकायैः ॥ ३.१९ ॥ वत्सतरः त्रैवार्षिको बलीवर्दः । वत्सतरी त्रैवर्षिकी गौः । एतयोर्निकायैः समूहैः प्रत्यग्रं नवीनं शृङ्गं यस्मिन्नेवम्भूतं यत्मृदु मस्तकं तत्र यः सम्प्रहारः अभिघातः अन्यवत्सतरस्य युध्यतः तेन यः संरम्भः क्रोधातिशयस्तेन यद्वल्गनमितस्ततो विचलनं तेन विलोलः अनवस्थितः खुराग्रपातो येषां ते तथा तैः । पुनः कीदृशैः ? आमेदुरैः सुस्निग्धैः पुष्टैरिति वा । पुनः कीदृशैः ? बहुलातिशयिता सास्ना यत्र स एवम्भूतो गलो येषां ते तथा तैः । सास्ना च गलकम्बलः । पुनः कीदृशैः ? उदग्रपुच्छैः ॥ Kर्द्C_३.१९ ॥ ______________________________ पुनः कीदृशम् ? हम्बारवक्षुभितदिग्वलयैर्महद्भि रप्युक्षभिः पृथुककुद्भरभारखिन्नैः । उत्तम्भितश्रुतिपुटीपरिपीतवंश ध्वानामृतोद्धृतविकाशिविशालघोणैः ॥ ३.२० ॥ महद्भिरुक्षभिर्बलीवर्दैरप्यभिवीतम् । कीदृशैः ? हम्बारवेण स्वरविशेषेण क्षुभितः क्षोभं प्रापितो दिग्वलयो दिक्समूहो यैस्ते तथा तैः । पुनः कीदृशैः ? पृथुरतिशयितो यः ककुद्भरः अपरगलभरः स एव भारस्तेन खिन्नैः अलसैः । पुनः कीदृशैः ? उत्तम्भितेति ऊर्ध्वं स्तम्भिता उत्थापिता या श्रुतिपुटी तया परिपीतमतिशयेन श्रुतं यद्वंशस्य ध्वानामृतं शब्दरूपामृतं तेनोद्वृत्ता ऊर्ध्वं प्रापिता विकाशिनी प्रस्फुटा विशाला दीर्घा घोणा नासा येषां ते तथा तैः ॥ Kर्द्C_३.२० ॥ ______________________________ पुनः कीदृशम् ? गोपैः समानगुणशीलवयोविलास वेशैश्च मूर्च्छितकलस्वनवेणुवीणैः । मन्द्रोच्चतारपटगानपरैर्विलोल दोर्वल्लरीललितलास्यविधानदक्षैः ॥ ३.२१ ॥ गोपैश्चाभिवीतम् । कीदृशैः ? समानेति गुण उदयादिः शीलं धैर्यादि वयो बाल्यादि विलासः क्रीडनं वेशः संस्थानविशेषः समानाः तुल्याः गुणशीलादयो येषां ते तथा तैः । पुनः कीदृशैः ? मूर्च्छां प्रापितः कलोऽव्यक्तमधुरः स्वरो रागो यत्र वेणुश्च वीना च । वेणुवीणैर्मूर्च्छितकलस्वरे वेणुवीणे येषां तैः तथा । तदुक्तम् स्वरः सम्मूर्छितो यत्र रागतां प्रतिपद्यते । मूर्छनामिति तां प्राहुः कवयो ग्रामसम्भवाम् । सप्तस्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः ॥ पुनः कीदृशैः ? मन्द्रोच्चेति मन्द्रं नीचैः उच्चमतिशायितं तारो यतिविशेषस्तेन पटु स्पष्टं यद्गानं तत्परैस्तद्आसक्तैः । पुनः कीदृशैः ? विलोलेति विलोला या दोर्वल्लरी बाहुलता तया यल्ललितं मनोहरं लास्यं नृत्यं तस्य विधानं करणं तत्र दक्षैः कुशलैः ॥ Kर्द्C_३.२१ ॥ ______________________________ पुनः कीदृशम् ? जङ्घान्तपीवरकटीरतटीनिबद्ध व्यालोलकिङ्किणिघटारटितैरटद्भिः । मुग्धैस्तरक्षुनखकल्पितकण्ठभूषैर् अव्यक्तमञ्जुवचनैः पृथुकैः परीतम् ॥ ३.२२ ॥ पृथुकैर्बालकैः परीतं वेष्टितम् । कीदृशैः ? जङ्घासमीपे पीवरा मांसला या कटीरतटी कटीस्थली तस्यां निबद्धा व्यालोला चञ्चला या किङ्किणिघटा काञ्चीसमूहः, तस्य रटितैः शब्दैरटद्भिः । पुनः कीदृशैः ? मुग्धैर्मनोहरैः । पुनः किम्भूतैः ? तरक्षुनखेन व्याघ्रनखेन कल्पिता सम्पादिता कण्ठभूषा कण्ठालङ्कारो यैस्ते तथा तैः । बालकानां रक्षार्थं कण्ठे व्याघ्रनखबन्धनं क्रियते यतः । पुनः कीदृशैः ? अव्यक्तमस्पष्टमथ च मञ्जुलं मनोहरमेवम्भूतं वचनं येषां ते तथा तैः ॥ Kर्द्C_३.२२ ॥ ______________________________ पुनः कीदृशम् ? अथ सुललितगोपसुन्दरीणां पृथुनिविरीषनितम्बमन्थराणाम् । गुरुकुचभरभङ्गुरावलग्न त्रिवलिविजृम्भितरोमराजिभाजाम् ॥ ३.२३ ॥ अथानन्तरं मनोहरगोपस्त्रीणामालीभिः पङ्क्तिभिः समन्तात्सर्वतः सततं नित्यसेवितमित्यष्टमश्लोकेनान्वयः । किम्भूतानाम् ? पृथु बृहन्निविरीषो निविडो यो नितम्बः कटिपश्चाद्भागः, तेन मन्थराणां गमनाशक्तानाम् । पुनः किम्भूतानाम् ? गुरुरतिशयितो यः कुचभरः स्तनगौरवं तेन भङ्गुरमीषन्नां यदवलग्नं मध्यप्रदेशः तत्र यद्बलित्रयं तत्र विजृम्भिता वितता रोमपङ्क्तिर्यासां तासाम् ॥ Kर्द्C_३.२३ ॥ ______________________________ पुनः कीदृशीनाम् ? तद्अतिमधुरचारुवेणुवाद्या मृतरसपल्लविताङ्गजाङ्घ्रिपानाम् । मुकुलविसररम्यरूढरोमोद् गमसमलङ्कृतगात्रवल्लरीणाम् ॥ ३.२४ ॥ तस्य श्रीकस्यातिमधुरमतिप्रीतिदायकं चारु मनोहरं यद्वेणुवाद्यां वंशीरवः स एवामृतरसः अमृतरूपजलं तेन पल्लवितो वृद्ध्य्उन्मुखः अङ्गजाङ्घ्रिपः कामवृक्षो यासां तास्तथा तासाम् । अङ्गजाङ्घ्रिपस्येति पाठः । पुनः किम्भूतानाम् ? मुकुलविसरः कलिकासमूहः तद्वद्रम्यो मनोहरो यो रूढ उपचितो रोमोद्गमो रोमोत्थानं तेन समलङ्कृता गात्रवल्लरी देहलता यासां तास्तथा तासाम् ॥ Kर्द्C_३.२४ ॥ ______________________________ पुनः किम्भूतानाम् ? तद्अतिरुचिरमन्दहासचन्द्रा तपपरिजृम्भितरागवारिणाशेः । तरलतरतरङ्गभङ्गविप्रुट् प्रकरसमश्रमबिन्दुसन्ततानाम् ॥ ३.२५ ॥ तस्य कृष्णस्यातिमनोहरो य ईषद्धासः स एव चन्द्ररश्मिस्तेन परिजृम्भित उच्छलितो यो रागसमुद्रस्तस्यातिचञ्चलो यस्तरङ्गः कल्लोलः तदीया ये जलकणाः तेषां यः समूहस्तेन समस्तुल्यो यः श्रमबिन्दुर्घर्मजलबिन्दुः तेन सन्ततानां व्याप्तानाम् ॥ Kर्द्C_३.२५ ॥ ______________________________ पुनः किम्भूतानाम् ? तद्अतिललितमन्दचिल्लिचाप च्युतनिशितेक्षणमारवाणवृष्ट्या । दलितसकलमर्मविह्वलाङ्ग प्रविसृतदुःसहवेपथुव्यथानाम् ॥ ३.२६ ॥ तस्य श्रीकृष्णस्यातिमनोहरो मन्दः अनतिदीर्घो यश्चिल्लिचापो भ्रूलता सैव धनुस्तस्मादुद्गतं तीक्ष्णं कटाक्षः स एव कामबाणस्तस्य वृष्ट्यात्यन्तपातेन दलितं चूर्णितं यत्सकलं मर्म तेनानायत्तं यदङ्गं तत्र प्रसृता व्याप्ता दुःसहा कम्पवेदना यासां तास्तथा तासाम् ॥ Kर्द्C_३.२६ ॥ ______________________________ पुनः किम्भूतानाम् ? तद्अतिरुचिरकर्मरूपशोभा मृतरसपानविधानलालसाभ्याम् । प्रणयसलिलपूरवाहिनीनाम् अलसविलोलविलोचनाम्बुजाभ्याम् ॥ ३.२७ ॥ प्रणयेनैव प्रेम्णैव यो जलप्रवाहस्तं वहन्ति यास्तथा तासाम् । काभ्याम् ? लज्जादिनार्धनिमीलितपद्मलोचनाभ्यां सविलासचञ्चलितनेत्रपद्माभ्यामित्यपि पाठः । किम्भूतानाम् ? तस्य परमेश्वरस्यातिरुचिरं यत्कर्म शृङ्गारचेष्टाविशेषः रूपशोभा कामिनीमनोरञ्जिका कान्तिः ते एवामृतरसौ तयोर्यत्पानमत्यन्तचक्षुर्व्यापारस्तत्करणे साकाङ्क्षाभ्याम् । सुभगकम्रेति पाठान्तरम् । सुभगः सुन्दरः कम्रः कमनीयः सुभगकमनीययोरेकपर्याययोर्ग्रहणमद्भुतत्वाद्रूपस्येति त्रिपाठिनः ॥ Kर्द्C_३.२७ ॥ ______________________________ पुनः किम्भूतानाम् ? विश्रंसत्कवरीकलापविगलत्फुल्लप्रसूनश्रवन् माध्वीलम्पटचञ्चरीकघटया संसेवितानां मुहुः । मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्य्उछ्वसन् नीवीविश्लथमानचीनसिचयान्ताविर्नितम्बत्विषाम् ॥ ३.२८ ॥ विश्रंसन् स्खलन् यः केशपाशस्तस्मात्प्रभ्रंश्यद्यद्विकसितं पुष्पं तस्माद्गलन्ती या माध्वी पुष्परसः तत्रात्यन्तासक्तो यश्चञ्चरीको भ्रमरस्तस्य समूहेन मुहुर्वारं वारं संसेवितानाम् । पुनः किम्भूतानां मारेति । कामकृतोन्मादेन या मत्तता तया स्खलन्ती अस्पष्टा मृद्वी कोमला मनोहरा गीर्वाणी यासां तास्तथा तासामुन्मादमदौ शृङ्गारविशेषौ । तदुक्तं शृङ्गारतिलके श्वासप्ररोदनोत्कम्पैर्बहुधालोकनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ एवं मदस्यापि लक्षणं बोद्धव्यमिति केचित् । पुनः कीदृशीनाम् ? आलोला चञ्चला या काञ्चीरसना तथा उच्छ्वसन्ती दृढा भवन्ती या नीवी वस्त्रग्रन्थिः । नीवी स्त्रीवसनग्रन्थाविति कोषात् । तया विश्लथमानं चीनसिचयं चीनदेशोत्पन्नं सूक्ष्मवस्त्रं तस्यान्ते मध्ये आविः प्रकटा नितम्बत्विट्नितम्बकान्तिर्यासां तास्तथा तासाम् ॥ Kर्द्C_३.२८ ॥ ______________________________ पुनः किम्भूतानाम् ? स्खलितललितपादाम्भोजमन्दाभिघात क्वणितमणितुलाकोट्याकुलाशामुखानाम् । चलद्अधरदलानां कुड्मलत्पक्ष्मलाक्षि द्वयसरसिरुहणामुल्लसत्कुण्डलानाम् ॥ ३.२९ ॥ स्खलितमनायत्तं ललितं मनोहरं यत्पादपद्मं तस्य यो मन्द ईषदभिघातः आभिघातक्वणितमणितुलाकोट्याकुलाशामुखानां चलद्अधरदलानां कुड्मलत्पक्ष्मलाक्षिद्वयसरसिरुहणामुल्लसत्कुण्डलानाम् ॥ Kर्द्C_३.२९ ॥ ______________________________ पुनः किम्भूतानाम् ? द्राघिष्ठश्वसनसमीरणाभिताप प्रम्लानीभवद्अरुणोष्ठपल्लवानाम् । नानोपायनविलसत्कराम्बुजानाम् आलीभिः सततनिषेवितं समन्तात् ॥ ३.३० ॥ दीर्घो यः श्वासवायुस्तेन योऽभितापः तेन प्रम्लानीभवन् रक्तौष्ठपल्लवो यासां तास्तथा तासाम् । पुनः किम्भूतानाम् ? विविधोपायनेन शोभमानानि हस्तकमलानि यासां तास्तथा तासाम् ॥ Kर्द्C_३.३० ॥ ______________________________ पुनः कीदृशम् ? तासामायतलोलनीलनयनव्याकोशनीलाम्बुज स्रग्भिः सम्परिपूजिताखिलतनुं नानाविलासास्पदम् । तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादनीं बिभ्राणं प्रणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम् ॥ ३.३१ ॥ मुकुन्दं तासां गोपसुन्दरीणामायतं दीर्घं लोलं चञ्चलं नीलं श्यामं यन्नयनं तदेव व्याकोशं नीलोत्पलं प्रफुल्लं नीलाम्बुजं तेषां स्रग्भिर्मालाभिः सम्परिपूजिता अधिकतरमर्चिता सकला तनुर्यस्य स तथा तम् । पुनः कीदृशम् ? विविधविलासस्थानम् । पुनः कीदृशम् ? तन्मुग्धाननेति तासां यन्मनोहरं मुखं तदेव पद्मसमूहस्तस्मात्विगलन् स्रवन् यो माध्वीरसो मकरन्दः तमास्वादयितुं शीलं यस्याः तां प्रणयेन प्रीत्या उद्गतमदं यदक्षियुगलं सैव भ्रमरमाला पङ्क्तिस्तां मनोहारिणीं बिभ्राणम् ॥ Kर्द्C_३.३१ ॥ ______________________________ अधुना परमेश्वरध्यानानन्तरमुपासकामरप्रभृतीनां ध्यानमाह गोपीगोपपशूनां बहिः स्मरेदग्रतोऽस्य गीर्वाणघटाम् । वित्तार्थिनीं विरिञ्चित्रिनयन शतमन्युपूर्विकां स्तोत्रपराम् ॥ ३.३२ ॥ अस्य परमेश्वरस्याग्रतो गोपीगोपशूनां बहिर्गीर्वाणघटदेवसमूहं स्मरेत्यद्यपि बहिःशब्दयोगे पञ्चमी ज्ञापिता तथापि ज्ञापकसिद्धं न सर्वत्रेति षष्ठीप्रयोगेऽपि न दोषः । किम्भूताम् ? वित्तार्थिनीं ज्ञानार्थिनीं वा धनार्थिनीं यद्वा परमेश्वरचित्तापहरणपरां यद्वा धर्मकाममोक्षार्थिनीम् । पुनः किम्भूताम् ? विरञ्चिर्ब्रह्मा ईशः शक्रः तत्प्रमुखाम् । पुनः किम्भूताम् ? स्तवनपराम् ॥ Kर्द्C_३.३२ ॥ ______________________________ तद्दक्षिणतो मुनिनिकरं दृढधर्मवाञ्छमाम्नायपरम् । योगीन्द्रानथ पृष्ठे मुमुक्ष माणान् समाधिना सनकाद्यान् ॥ ३.३३ ॥ तस्य परमेश्वरतो दक्षिणतो दक्षिणविभागे तद्वदिति पाठे तेनैव प्रकारेण मुनिनिकरं मुनिसमूहं स्मरेत् । कीदृशम् ? आम्नायपरं वेदाध्ययनपरम् । पुनः कीदृशम् ? निश्चला धर्मवाञ्छा यस्य तं यत्तु मननात्मुनिरित्यभिधानातेषां धर्मवाञ्छा न युक्ता तेन मुनिशब्दोऽत्र ऋष्य्उपलक्षक इति तन्न, धर्मशब्देनात्रात्मज्ञानाभिधानात् । तदुक्तं याज्ञवल्क्येनायं तु परमो धर्मओ यद्योगेनात्मदर्शनमिति । अथानन्तरं परमेश्वरस्य पश्चाद्भागे सनकाद्यान् योगेश्वरान् स्मरेत् । किम्भूतान् ? मोक्षैकपरान् । पुनः किम्भूतान् ? समाधिनोपविष्टान् ॥ Kर्द्C_३.३३ ॥ ______________________________ सव्ये सकान्तानथ यक्षसिद्ध गन्धर्वविद्याधरचारणांश्च । सकिन्नरानप्सरसश्च मुख्याः कामार्थिनो नर्तनगीतवाद्यैः ॥ ३.३४ ॥ अथानन्तरं देववामभागे सस्त्रीकान् यक्षादीन् स्मरेत् । किम्भूतान् ? किन्नरसहितान् । पुनः किम्भूतान् ? सर्वनर्तनगीतवाद्यैः करणभूतैर्वाञ्छितार्थिनः । तथा प्रधानभूता अप्सरसः उर्वशीमुख्याः स्मरेत् ॥ Kर्द्C_३.३४ ॥ ______________________________ शङ्खेन्दुकुन्दधवलं सकलागमज्ञं सौदामनीततिपिशङ्गजटाकलापम् । तत्पादपङ्कजगतामचलाञ्च भक्तिं वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥ ३.३५ ॥ नभसि आकाशे धातृसुतं ब्रह्मपुत्रं स्मरेत् । कथम्भूतम् ? शङ्खादिवत्श्वेतं निर्मलम् । पुनः कीदृशम् ? सम्पूर्णागमवेत्तारम् । पुनः कीदृशम् ? सौदामनी विद्युत्तस्यास्ततिः दीप्तिस्तद्वत्पिशङ्गा कपिला या जटा तस्याः कलापः समुदायो यत्र तम् । पुनः कीदृशम् ? भक्तिमिच्छन्तम् । किम्भूताम् ? स्थिराम् । पुनः कीदृशम् ? अत्यन्तपरित्यक्तपरमेश्वरभिन्नसकलसम्बन्धम् ॥ Kर्द्C_३.३५ ॥ ______________________________ पुनः कीदृशम् ? नानाविधश्रुतिगणान्वितसप्तराग ग्रामत्रयीगतमनोहरमूर्छनाभिः । संप्रीणयन्तमुदिताभिरमुं महत्या सञ्चिन्तयेन्नभसि धातृसुतं मुनीन्द्रम् ॥ ३.३६ ॥ अमुं नानाप्रकारः षट्त्रिंशद्भेदात्मको यः श्रुतिगणः नादसमूहस्तेनान्विता ये सप्त रागाः निषादर्षभगान्धारषड्जमध्यमधैवतपञ्चमाख्याः स्वराः तत्र त्रयाणां ग्रामाणां समाहारो ग्रामत्रयी तत्र ग्रामत्रय्यां गताः प्राप्ताः या मूर्छना मनोहरा एकत्रिंशतिप्रकारास्ताभिः संप्रीणयन्तम् । सप्तस्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः । संमूर्छितः स्वरो यत्र रागतां प्रतिपद्यते । मूर्छनामिति तां प्राहुः कवयो ग्रामसम्भवाम् ॥ किम्भूताभिः ? महत्या सप्ततन्त्रीयुक्तया नारदवीणया उदिताभिरुद्गताभिः ॥ Kर्द्C_३.३६ ॥ ______________________________ अधुना प्रकृतमुपसंहरनात्मपूजाक्रममाह इति ध्यात्वात्मानं पटुविशदधीर्नन्दतनयं पुरो बुद्ध्यैवार्घ्यप्रभृतिभिरनिन्द्योपहृतिभिः । यजेद्भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैर् विधानं तद्ब्रूमो वयमतुलसान्निध्यकृदथ ॥ ३.३७ ॥ इति पूर्वोक्तध्यानप्रकारेण पटुविशदधीः समर्था विचारक्षमा अथ च निर्मला एवम्भूता बुद्धिर्यस्य स तथा आत्मानं नन्दतनयं गोपालकृष्णरूपं ध्यात्वा आत्मनन्दतनययोरभेदं चिन्तयित्वा पुरः प्रथमतो बुद्ध्यैव मनसैवार्घ्यप्रभृतिभिरनिन्द्योपहृतिभिः अर्घ्यपाद्यादिभिरुपहृतिभिरनिन्दितोपचारैः यथोपदेशं पूजयेत् । त्रिपाठिनस्तु अभिनन्द्येति पाठे धृत्वा पूजयेदित्यर्थमाहुः । भूयः पुनरपि स्वशरीरे साक्षाद्बाह्योपचारैरर्घ्यादिभिः पूजयेत् । अथानन्तरं तद्विधानं बहिष्ठविभवार्चनप्रकारं वयं ब्रुमः । कीदृशम् ? परमेश्वरात्यन्तसान्निध्यदातारम् ॥ Kर्द्C_३.३७ ॥ ______________________________ शङ्खपूरणविधिं दर्शयति आरचय्य भुवि गोमयाम्भसा स्थण्डिलं निजममुत्र विष्टरम् । न्यस्य तत्र विहितास्पदोऽम्भसा शङ्खमस्त्रमनुना विशोधयेत् ॥ ३.३८ ॥ भुवि पृथिव्यां स्थण्डिलं पूजास्थलं गोमयसहितेन जलेनारचय्य उपलिप्य अमुत्र स्थण्डिले निजं स्वीयं विष्टरमासनं वस्त्रकम्बलादिकं न्यस्य संस्थाप्य तत्र विष्टरे विहितास्पदः कृतासनो जलेन शङ्खमस्त्रमनुना मूलमन्त्रास्त्रमन्त्रेण अस्त्राय फडिति मन्त्रेण वा प्रलेपयेत् ॥ Kर्द्C_३.३८ ॥ ______________________________ तत्र गन्धसुमनोक्षतानथो निक्षिपेद्धृदयमन्त्रमुच्चरन् । पूरयेद्विमलपाथसा सुधीर् अक्षरैः प्रतिगतैः शिरोऽन्तकैः ॥ ३.३९ ॥ वामभागकृतवह्निमण्डलाधारके शङ्खे सुधीः सुबुद्धिसाधकः हृदयमन्त्रं मूलमन्त्रमेव हृदयमन्त्रं केवलं हृदयाय नम इति वा उच्चार्य गन्धपुष्पयवतण्डुलान्निक्षिपेत् । तथा विमलपाथसा निर्मलजलेन पूरयेत् । मन्त्रमाहप्रतिगतैरिति । प्रतिलोमगतैः प्रतिलोमपठितैर्मातृकाक्षरैः क्षकाराद्यैरकारान्तैः शिरोऽन्तकैः सबिन्दुकैः । बिन्द्व्अन्तकैरिति लघुदीपिकाकारः । स्वाहान्तैरिति विद्याधराचार्यः विक्राय स्वाहेय्तन्तैरिति त्रिपाठिनः ॥ Kर्द्C_३.३९ ॥ ______________________________ पीठेति पीठशङ्खसलिलेषु मन्त्रविद् वह्निवासरनिशाकृतां क्रमात् । मण्डलानि विषकश्रवोक्षरैर् अर्चयेद्वदनपूर्वदीपितैः ॥ ३.४० ॥ पीठे शङ्खे सलिले च यथाक्रमं वह्निसूर्यचन्द्राणां मण्डलानि विषं मकारः कं शिरस्तत्र न्यस्यमानोऽकारः श्रवः श्रोत्रं तत्र न्यस्यमानोकार एभिरक्षरैर्मन्त्रविदुपासकः क्रमेण पूजयेत् । कीदृशैः ? वदनपूर्वदीपितैः वदनपूर्वे शिरसि न्यस्यमानमं बिन्दुरिति यावत्तेन दीपितैः सानुस्वारैरित्यर्थः । प्रयोगस्तुमं वह्निमण्डलाय दशकलात्मने नमः । अमर्कमण्डलाय द्वादशकलात्मने नमः । उं सोममण्डलाय षोडशकलात्मने नमः ॥ Kर्द्C_३.४० ॥ ______________________________ तत्र तीर्थमनुनभिवाहयेत् तीर्थमुष्णरुचिमण्डलात्ततः । स्वीयहृत्कमलतो हरिं तथा गालिनीं च शिखया प्रदर्शयेत् ॥ ३.४१ ॥ तत्र शङ्खजले वक्ष्यमाणतीर्थमन्त्रेण सूर्यमण्डलतीर्थमावाहयेत्तथा ततः स्वीयहृत्पद्मात्कृष्णमावाहयेत् । अनन्तरं शिखामन्त्रेण वक्ष्यमाणां गालिनीं मुद्रां प्रदर्शयेत्चकारात्धेनुमुद्रां च । वामहस्ततले दक्षिणतर्जन्या ताडनं प्रबोधनम् ॥ Kर्द्C_३.४१ ॥ ______________________________ तज्जलं नयनमन्त्रवीक्षितं वर्मणा समवगुण्ठ्य दोर्युजा । मूलमन्त्रसकलीकृतं न्यसेद् अङ्गकैश्च कलयोद्दिशोऽस्त्रतः ॥ ३.४२ ॥ तज्जलं शङ्खजलं वौषडिति नयनमन्त्रेण वीक्षितं यत्र नयनमन्त्रः सम्भवति तत्रैव नयनमन्त्रेण वीक्षणमिति त्रिपाठिनः । वर्मणा हुमिति कवचमन्त्रेणागुण्ठ्य मूलमन्त्रसकलीकृतं मूलमन्त्राङ्गसम्बन्धम् । एतस्यैव विवरणं न्यसेदिति । देवताङ्गे षड्अङ्गानां न्यासः स्यात्सकलीकृतिरिति रुद्रधरः । यद्वा, मूलमन्त्रध्यानेन सदैवतमिति त्रिपाठिनः । अङ्गकैश्च न्यसेदिति मूलमन्त्रस्य षड्अङ्गन्यासं कुर्यादित्यर्थः । अनन्तरं शङ्खस्य दश दिशः अस्त्रमन्त्रेण छोटिकया बध्नीयात् ॥ Kर्द्C_३.४२ ॥ ______________________________ अक्षतादियुतमच्युतीकृतं संस्पृशन् जपतु मन्त्रमष्टशः । किं च निक्षिपतु वर्धनीजले प्रोक्षयेन्निजतनुं ततोऽम्बुना ॥ ३.४३ ॥ तज्जलमभग्नतण्डुलचन्दन्पुष्पसहितं विष्णुस्वरूपतां नीतं स्पृशन्मूलमन्त्रमष्टकृत्वो जपेत् । अनन्तरमर्धजलस्य किञ्चित्स्वदक्षिणभागस्थापितवर्धनीजले प्रोक्षणीयपात्रजले निक्षिपेत् । तदुक्तम् दक्षिणे प्रोक्षणीपात्रमादायाद्भिः प्रपूजयेत् । किञ्चिदर्घ्याम्बु सङ्गृह्य प्रोक्षण्यम्भसि योजयेत् ॥ इति । तद्अनन्तरमर्ग्धपात्रजलेन वारत्रयं निजशरीरं प्रोक्षयेत् । वर्धनीघटजलेनेति विद्याधराचार्याः ॥ Kर्द्C_३.४३ ॥ ______________________________ त्रिः करेण मनुनाखिलं तथा साधनं कुसुमचन्दनादिकम् । शङ्खपूरणविधिः समीरितो गुप्त एष यजनाग्रणीरिह ॥ ३.४४ ॥ तथा मूलमन्त्रेण दक्षहस्तेन पुष्पचन्दनादिकं पूजोपकरणद्रव्यं वारत्रयं प्रोक्षयेत् । उपसंहरति शङ्खेति । एष शङ्खपूरणप्रकारः समीरितः उक्तः । कीदृशः ? इह आगमशास्त्रे यजनाग्रणीः प्रथमविधाने यः श्रेष्ठतरः ॥ Kर्द्C_३.४४ ॥ ______________________________ अधुना तीर्थमन्त्रं दर्शयति गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ ३.४५ ॥ एष तीर्थमनुप्रोक्तो दुरितौघनिवारणः । कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ॥ ३.४६ ॥ तर्जनीमध्यमानामाः संहता भुग्नसंजिताः । मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ ३.४७ ॥ एष तीर्थावाहनमन्त्रः कथितः दुरितेति पापसमूहविनाशकः । अधुना गालिनी मुद्राया लक्षणमाहकनिष्ठेत्यादिना । हस्तयोरन्योन्यकनिष्ठाङ्गुष्ठकौ सम्बन्धौ तथा तर्जनीमध्यमानामिकाः संहताः कृत्वा भुग्नाः किञ्चिदाकुञ्चिताः परस्परसंसक्ताः कार्या इत्यर्थः । एवं च सति एषा गालिनी मुद्रा प्रोक्ता । शङ्खस्योपरि चालिता सती देवताप्रीतिं सम्पादयतीत्यर्थः ॥ Kर्द्C_३.४५४७ ॥ ______________________________ अधुना स्वदेहे पीठपूजाक्रममाह अथ मूर्धनि मूलचक्रमध्ये निजनाथान् गणनायकं समर्च्य । न्यसनक्रमतश्च पीठमन्त्रैर् जलगन्धाक्षतपुष्पधूपदीपैः ॥ ३.४८ ॥ अथानन्तरं मूर्धनि स्वकीयशिरसि मूलचक्रमध्ये मूलाधारचक्रे यथाक्रमं स्वनाथान् स्वगुरून् गणपतिं च पूजयित्वा पूर्वोक्तन्यासक्रमेण पीठमन्त्रैराधारशक्तिमारभ्य पीठमन्त्रान्तं तत्तन्मन्त्रैर्जलगन्धाक्षतपुष्पधूपदीपैः स्वशरीरे पीठपूजनं कुर्यात् ॥ Kर्द्C_३.४८ ॥ ______________________________ प्रयजेदथ मूलमन्त्रतेजो निजमूले हृदये भ्रुवोश्च मध्ये । त्रितयं स्मरतः स्मरेत्तद्एकी कृतमानन्दघनं तडिल्लताभम् ॥ ३.४९ ॥ अथानन्तरं तन्मूलाधारहृदयभ्रूमध्यगततेजस्त्रितयं मूलमन्त्रात्मकं परं ज्योतिः स्मरतः कामबीजेन क्लीमित्यनेनैकीभूतं चिन्तयेत् । कीदृशं ? आनन्दघनं चिद्आनन्दम् । पुनः कीदृशं ? विद्युत्प्रभम् ॥ Kर्द्C_३.४९ ॥ ______________________________ तत्तेजोऽङ्गैः सावयवीकृत्य विभूत्याद्य् अङ्गान्तं विन्यस्य यजेदासनपूर्वैः । भूषान्तैर्भूयो जलगन्धादिभिरर्चां कुर्याद्भूत्य्आद्य्अङ्गविधानावधि मन्त्री ॥ ३.५० ॥ तदेकीकृतं तेजः पञ्चाङ्गैः सावयवीकृत्य शरीरयुक्तं सम्पाद्य तत्र विभूत्याद्य्अङ्गान्तं विभूतिपञ्जरमारभ्याङ्गन्यासपर्यन्तं स्वशरीरे विन्यस्य आसनादिभूषान्तैरुपचारैर्देवं पूजयेत् । भूयः पुनरपि जलगन्धादिभिर्विभूतिपञ्जरमूर्तिपञ्जरकरस्थसृष्टिस्थितिदशपञ्चाङ्गन्यासस्थानेषु न्यासक्रमेणैव तन्मन्त्रैरेव पूजयेत् ॥ Kर्द्C_३.५० ॥ ______________________________ भूयो वेणुं वदनस्थं वक्षोदेशे वनमालाम् । वक्षोजोऽर्धं प्रयजेच्च श्रीवत्सं कौस्तुभरत्नम् ॥ ३.५१ ॥ भूयः पुनरपि मुखस्थं वेणुं पूजयेथृदये च वनमालां कण्ठमारभ्य पादद्वयमवलम्बिनीं पत्रपुष्पमयीं मालाम् । तदुक्तम् कण्ठमारभ्य या तिष्ठेत्पादद्वयविलम्बिनी । पत्रपुष्पमयी माला वनमाला प्रकीर्तितेति । स्तनस्योपरि श्रीवत्सं कौस्तुभं च प्रपूजयेत् ॥ Kर्द्C_३.५१ ॥ ______________________________ श्रीखण्डनिःस्यन्दविचर्चिताङ्गो मूलेन भालादिषु चित्रकाणि । लिख्यादथो पञ्जरमूर्तिमन्त्र रनामया दीपशिखाकृतीनि ॥ ३.५२ ॥ अथानन्तरं मूलमन्त्रेण चन्दनपङ्कलिप्ताङ्गः पूजक एव ललाटादिषु मूर्तिपञ्जरन्यासस्थानेषु चित्रकाणि तिलकानि दीपशिखाकाराणि अनामिकया मूर्तिपञ्जरमन्त्रैः अमों केशवधातृभ्यां नम इत्यादिना द्वादशमूर्तिभिर्लिख्यात्कुर्यादित्यर्थः ॥ Kर्द्C_३.५२ ॥ ______________________________ अधुना पुष्पाञ्जलिविधिं दर्शयति पुष्पाञ्जलिं वितनुयादथ पञ्चकृत्वो मूलेन पादयुगले तुलसीद्वयेन । मध्ये हयारियुगलेन च मूर्ध्नि पद्म द्वन्द्वेन षड्भिरपि सर्वतनौ च सर्वैः ॥ ३.५३ ॥ अथानन्तरं पञ्चकृत्वः पञ्चवारान्मूलमन्त्रेण पुष्पाञ्जलिं वितनुयात् । तुलसीद्वयेन श्वेतकृष्णतुलसीद्वयेन पादयुगले क्रमेण दक्षिणवामपादयोरित्यञ्जलिद्वयं मध्ये हृदि हयारियुगलेन श्वेतरक्तकरवीराभ्यामित्येकोऽञ्जलिः मूर्ध्नि पद्मद्वयेन श्वेतरक्तपद्माभ्यामित्यपरोऽञ्जलिः सर्वतनौ सर्वैश्च षड्भिरपि तुलसीद्वयकरवीरद्वयपद्मद्वयैश्चाञ्जलिं तनुयादिति पञ्चमोऽञ्जलिः ॥ Kर्द्C_३.५३ ॥ ______________________________ अधुना श्वेतकृष्णतुलस्य्आदीनां प्रदानविभागं दर्शयति श्वेतानि दक्षभागे सितचन्दनपङ्किलानि कुसुमानि । रक्तानि वामभागेऽरुणचन्दनपङ्कसिक्तानि ॥ ३.५४ ॥ श्वेतानि तुलस्य्आदीनि पुष्पाणि श्वेतचन्दनपङ्कयुक्तानि दक्षिणविभागे देयानि रक्तानि तुलस्य्आदीनि रक्तचन्दनपङ्कयुक्तानि वामविभागे देयानि ॥ Kर्द्C_३.५४ ॥ ______________________________ उपचारं दर्शयति तद्वच्च धूपदीपौ समर्प्य धिनुयात्सुधारसैः कृष्णम् । मुखवासाद्यं दत्त्वा समर्चयेत्साधुगन्धाद्यैः ॥ ३.५५ ॥ धूपदीपौ समर्प्य सुधारसैर्ब्रह्मरन्ध्रस्थितशशाङ्कबिम्बगलितामृतद्रवैर्धिनुयात्प्रीणयेत् । सुधारसैर्मन्त्रकृतजलैरिति रुद्रधरः । श्रीकृष्णं प्रीणयेत् । अनन्तरं मुखवासाद्यं गन्धवटिकां दत्त्वा गन्धपुष्पैः पूजयेत् ॥ Kर्द्C_३.५५ ॥ ______________________________ ताम्बूलगीतनर्तनवाद्यैः सन्तोष्य चुलुकसलिलेन । ब्रह्मार्पणाख्यमनुना कुर्यात्स्वात्मार्पणं मन्त्री ॥ ३.५६ ॥ ततस्तद्अनन्तरं मन्त्री साधकः उपासकः ताम्बूलगीतादिभिः श्रीकृष्णं परितोष्य चुलुकोदकेन ब्रह्मार्पणमन्त्रेण वक्ष्यमाणस्वात्मसमर्पणं कुर्यादित्यर्थः ॥ Kर्द्C_३.५६ ॥ विमर्शः : ब्रह्मार्पणमन्त्रो, यथा ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥ इति ॥ ______________________________ अथाशक्तं प्रत्याह अथवा सङ्कुचितधियामयं विधिर्मूर्तिपञ्जरारब्धः । यद्यष्टादशलिपिना सार्णपदाङ्गैश्च वेणुपूर्वैः प्रोक्तः ॥ ३.५७ ॥ अथवा मन्दमतीनां पूजकानां पूजाप्रकारो मूर्तिपञ्जरादिभिरुक्त इयं दशाक्षरेण पूजा अष्टादशाक्षरपूजामाह । यद्यष्टादशाक्षरमन्त्रेण पूजा तदा कचभुवि ललाटादिस्थानेषु मन्त्राक्षरन्यासपदपञ्चाङ्गन्यासैर्वेण्व्आदिभिश्च प्रोक्तः ॥ Kर्द्C_३.५७ ॥ ______________________________ जपविधिं दर्शयति सुप्रसन्नमथ नन्दतनूजं भावयन् जपतु मन्त्रमनन्यः । सार्थसंस्मृतियथाविधिसङ्ख्या पूरणेऽसुयमनं विधधीत ॥ ३.५८ ॥ अथानन्तरं मन्त्रार्थस्मरणपूर्वकं मूलमन्त्रं जपतु । किं कुर्वन् ? सुप्रसन्नं पूर्वोक्तरूपमात्मभिन्नं कृष्णं हृदि भावयन् । पुनः किम्भूतः ? अनन्यस्तत्परः यथोक्तजपसङ्ख्यापूरणे सति असुयमनं प्राणायामं कुर्यात्जपारम्भे चात्र विद्याधराचार्यः बाह्यपूजाशक्तौ आत्मपूजानन्तरं जपं कुर्यात्शक्तौ तु पूजानन्तरमित्याह ॥ Kर्द्C_३.५८ ॥ ______________________________ प्रयोगपूर्वकृत्यमाह प्रणवपुटितं बीजं जप्त्वा शतं सहिताष्टकं निजगुरुमुखादात्तान् योगान् युनक्तु महामतिः । सद्अमृतचिद्आनन्दात्माथो जपं च समापयेद् इति जपविधिः सम्यक्प्रोक्तो मनुद्वितयाश्रितः ॥ ३.५९ ॥ कामबीजं प्रणवपुटितं सहिताष्टकं शतमष्टोत्तरशतं जप्त्वा निजगुरुमुखात्प्राप्तान् योगानात्मपरदेवतासमावेशलक्षणानष्टमपटले वक्ष्यमाणान्महामतिर्युनक्तु करोतु । प्रकृतमुपसंहरत्यनन्तरं सद्अमृतचिद्आनन्दात्मामुं जपं समापयेतित्यनेन प्रकारेण मनुद्वितीयाश्रितः दशाक्षराष्टादशाक्षराश्रितः पूजाप्रकारः सम्यक्प्रकारेणोक्तः ॥ Kर्द्C_३.५९ ॥ ______________________________ य इमं भजते विधिं नरो भवितासौ दयितः शरीरिणाम् । अपि वाक्कमलैकमन्दिरं परमं ते समुपैति तन्महः ॥ ३.६० ॥ यो नरो मनुष्य इमं पूजाप्रकारं सेवतेऽसौ शरीरिणां वल्लभो भविष्यति । तदा सरस्वतीलक्ष्म्योरावासो भविता अन्ते देहपातानन्तरं तेजः समुपैति तद्रूपो भवतीत्यर्थः ॥ Kर्द्C_३.६० ॥ सनातनः : विधिं विधानं पुरश्चरणलक्षणम् । अचिरात्शीघ्रं कमलायाः सर्वसम्पत्तेरेकं मुख्यं मन्दिरं च भाजनं भवति । अपि वाक्कमलैकमन्दिरमिति पाठान्तरे वाचः सरस्वत्याः कमलायाश्चैकमन्दिरमपि भवति ॥ Kर्द्C_३.६० ॥ (ह्ब्व्१७.१५) इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां चतुर्थपटलः ॥३॥ ************************************************************************** (४) चतुर्थपटलम् अथ मन्त्रजपादौ दीक्षितस्यैवाधिकारः तद्उक्तमागमान्तरे द्विजानामनुपेतानां स्वकर्माध्ययनादिषु । यथाधिकारो नास्तीह स्याच्चोपनयनादनु ॥ तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु । नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्तुतम् ॥ इति । अतो मन्त्रजपप्रधानाङ्गभूतां दीक्षां कथयामीत्याह कथ्यते सपदि मन्त्रवर्ययोः साधनं सकलसिद्धिसाधनम् । यद्विधाय मुनयो महीयसां सिद्धिमीयुरिह नारदादयः ॥ ४.१ ॥ सपदि साम्प्रतं मनुवर्ययोः दशाक्षराष्टाक्षरयोः साध्यते वाञ्छितमनेनेति । साधनं दीक्षणं कथ्यते । कीदृशम् ? सकलफलसाधनं यत्कृत्वा नारदादयो मुनयः महतीं सिद्धिमिह जगति प्राप्तवन्तः ॥ Kर्द्C_४.१ ॥ ओ)O(ओ दीक्षाया गुरुसाध्यत्वादौ गुरुलक्षणमाह विप्रं प्रध्वस्तकामप्रभृतिरिपुघटं निर्मलाङ्गं गरिष्ठां भक्तिं कृष्णाङ्घ्रिपङ्केरुहयुगलरजोरागिणीमुद्वहन्तम् । वेत्तारं वेदशास्तागमविमलपथां सम्मतं सत्सु दान्तं विद्यां यः संविवित्सुः प्रवणतनुमना देशिकं संश्रयेत ॥ ४.२ ॥ यो विद्यां संविवितुर्मन्त्रं सम्यक्ज्ञातुमिच्छति स एतादृशं देशिकं गुरुं संश्रयेत्सेवेत । कीदृशम् ? विप्रं ब्राह्मणजातमुपदेशे क्षत्रियादेरनधिकारात् । पुनः कीदृशम् ? प्रकर्षेण दूरीभूता कामाद्य्अरिषड्वर्गघटा तया पूतं शरीरं यस्य तथा तं कामक्रोधौ लोभमोहौ मदमत्सरौ एते रिपवः कामादयः लोभाद्य्उपहतचित्तस्य निरन्तरं प्रत्यवायोत्पत्त्या सेव्यत्वाभावात् । पुनः कीदृशम् ? श्रीकृष्णचरणकमलयुगले यद्रजस् तत्र रागयुक्तामतिशायितां भक्तिं धारयन्तमभ्यक्तस्य पुरुषार्थानवाप्तेः । पुनः कीदृशम् ? वेदशास्त्रागमसम्बन्धिविमलमार्गाणां ज्ञातारमन्यथा आगमशास्त्रविचारानुपपत्तेः । पुनः कीदृशम् ? सत्सु जनेषु मध्ये सम्मतं सज्जनत्वेन प्रसिद्धमन्यथा खलत्वात्शुश्रूषानर्हत्वात्सच्छब्दार्थ एव न स्यात् । पुनः किम्भूतम् ? दान्तं वशीकृतेन्द्रियमवशीकृतेन्द्रियस्य देवतापराङ्मुखत्वात् । कीदृशः ? प्रणतानम्रा विनीतातनुः कायो मनो हृदयं च यस्य स तथा अत्राधिकं मत्कृतशारदतिलकेऽवगन्तव्यम् ॥ Kर्द्C_४.२ ॥ सनातनः (ह्ब्व्१.३४) निर्मलाङ्गं व्याधिरहितं, वेदशास्त्रागमानां ये विमलाः पन्थानो मार्गास्तेषां वेत्तारम् । सत्सु सतां मतं सम्मतम् । विद्यां संसारदुःखतरणाद्य्उपायं मन्त्रम् । प्रवणा नम्रा विनीता देशिकैकपरा वा तनुर्मनश्च यस्य तथाभूतः सन् । देशिकं गुरुम् । एवं प्रवणतनुमनस्त्वादि श्रुत्य्उक्तसमित्पाणित्वादि च गुरूपसत्तेराद्यप्रकारो ज्ञेयः ॥ Kर्द्C_४.२ ॥ ओ)O(ओ गुरुसेवाप्रकारमाह सन्तोषयेदकुटिलाद्रेतरान्तरात्मा तं स्वैर्धनैश्च वपुषाप्यनुकूलवाण्या । अब्दत्रयङ्कमलनाभधियाऽतिधीरस् तुष्टे विवक्षतु गुरावथ मन्त्रदीक्षाम् ॥ ४.३ ॥ अथानन्तरमुक्तलक्षणं गुरुं वत्सरत्रयं पद्मनाभबुद्ध्या सन्तोषयेत् । कैः ? स्वीयद्रव्यैः तथा शरीरेण तथा प्रियवचनेन । कीदृशः ? सुधीरः पण्डितः । पुनः कीदृशः ? अवक्रोऽतिस्निग्धो अन्तरात्मा अन्तःकरणं यस्य स तथा अथानन्तरं तुष्टे गुरौ मन्त्रदीक्षां विवक्षतु वक्तुमिच्छतु शिष्य एव यत्त्वन्यत्रोक्तम् एकाब्देन भवेद्विप्रो भवेदब्दद्वयान्नृपः । भवेदब्दत्रयैर्वैश्यः शूद्रो वर्षचतुष्टयैः ॥ इति । अन्यथा तु त्रिषु वर्षेषु विप्रस्य षड्वर्षेषु नृपस्य च । विशो नवसु वर्षेषु परीक्षेतेति शस्यते । समास्वपि द्वादशसु तेषां ये वृषलादयः ॥ इति बोद्धव्यम् । विहितनक्षत्रादिकं मत्कृतशारदातिलकोद्योते बोद्धव्यम् ॥ Kर्द्C_४.३ ॥ ओ)O(ओ कलावत्य्आदिभेदेन दीक्षाया बहुविधत्वात्मया पुनरत्र प्रपञ्चसारोक्ता क्रियावती दीक्षैव सङ्क्षेपेण प्रदर्श्यते इत्याह प्रपञ्चसारप्रथिता तु दीक्षा संस्मार्यते सम्प्रतिसर्वसिद्ध्यै । ऋते यया सन्ततजापिनोऽपि सिद्धिं न वै दास्यति मन्त्रपूगः ॥ ४.४ ॥ सम्प्रति दीक्षा क्रियावती संस्मार्यते तस्याः स्मरणमात्रं क्रियते न तु सम्यगभिधीयते । अत्र हेतुः यतः प्रपञ्चसारे विविच्योक्ता । किमर्थमभिधीयते ? सर्वेषां फलानां प्राप्त्यै यया दीक्षया विना सर्वदा जपकर्तुः पुरुषस्य मन्त्रसमूहः फलं यस्मान्न ददाति । यदाहुः मन्त्रवर्गानुसारेण साक्षात्कृत्येष्टदेवताम् । गुरुश्चेद्बोधयेच्छिष्यं मन्त्रदीक्षेति सोच्यते ॥ इति । ओ)O(ओ अथ शोधितशालादिस्थाने मण्डपपूर्वकृत्यं वास्तुबलिमाह अथ पुरो विदधीत भुवः स्थलीम् अधि यथाविधि वास्तुबलिं बुधः । अचलदोर्मितमत्र तु मण्डपं मसृणवेदिकमारचयेत्ततः ॥ ४.५ ॥ अथानन्तरं प्रथमं भुवः स्थलीमधि पृथिव्यामुपरि यथाविधि यथोक्तप्रकारेण वास्तुबलिं बुधो पुरो दद्यात् । अत्र बलिदानादिविधिश्च मत्कृतशारदतिलकोद्द्योते बोद्धव्यः । ततस्तद्अनन्तरमत्र संस्कृतभूमौ मण्डपं कुर्यात् । कीदृशम् ? अचलदोर्मितं सप्तहस्तपरिमितम् । तुशब्दो अनुक्तसमुच्चयार्थः । तेन पञ्चहस्तपरिमितं नवहस्तमितं चेति बोद्धव्यम् । पुनः कीदृशं ? मसृणवेदिकं चिक्कणवेदिकमुक्तृष्टवेदिकमित्यर्थः ॥ Kर्द्C_४.५ ॥ ______________________________ त्रिगुणतन्तुयुजा कुशमालया परिवृतं प्रकृतिध्वजभूषितम् । मुखचतुष्कपयस्तरुतोरणं सितवितानविराजितमुज्ज्वलम् ॥ ४.६ ॥ पुनः कीदृशं ? कुशमालया वेष्टितम् । किम्भूतया ? श्वेतरक्तश्यामवर्णतन्तुयुक्तया यद्वा त्रिगुणीकृतसूत्रयुक्तया । पुनः कीदृशं ? अष्टभिर्ध्वजैर्शोभितं प्रकृतिरष्टसङ्ख्यया । पुनः कीदृशं ? मुखचतुष्के द्वारचतुष्टये पयस्तरुभिर्क्षीरवृक्षैः तोरणं बहिर्द्वारं यत्र तादृशम् । क्षीरवृक्षास्तु अश्वत्थोदुम्बरप्लक्षन्यग्रोधाख्याः । पुनः कीदृशं ? शुभ्रचन्द्रातपेन शोभितम् । पुनः कीदृशं ? उज्ज्वलं निर्मलम् ॥ Kर्द्C_४.६ ॥ ______________________________ कुण्डविधिमाह वसुत्रिगुणिताङ्गुलप्रमितखाततारायातं वसोर्वसुपतेरथो ककुभिधिष्ण्यमस्मिन् बुधः । करोतु वसुमेखलं वसुगणार्धकोणं प्रतीच्य् अवस्थितगजाधरप्रतिमयोनिसंलक्षितम् ॥ ४.७ ॥ अथानन्तरमस्मिन्मण्डपे बुधः वसोर्वह्नेर्धिष्ण्यं कुण्डं करोतु । कीदृशं ? वसुरष्टसङ्ख्या अष्टौ वसवः इति प्रसिद्धेः । तेषां वसूनां त्रिगुणानि चतुर्विंशाङ्गुलानि, तैः प्रमितं तत्प्रमाणं खातस्य गर्तस्य उच्चत्वं विस्तारश्च यत्र तादृशम् । कुत्र ? वसुपतेः कुबेरस्य ककुभि दिशि उत्तरस्याम् । पुनः कीदृशं ? वसुमेखलम् । अत्र वसुशब्देन अग्निरुच्यते । स च गार्हपत्याहवनीयेत्यादि त्रिविधः । पुनः कीदृशं ? वसुगणार्धकोणं चतुष्कोणम् । पुनः कीदृशं ? पश्चिमदिश्यवस्थितं गजोऽष्तसदृशद्वादशाङ्गुलायामा या योनिस्तया भूषितम् । तदुक्तम्द्वादशाङ्गुलिरूपत्वाद्योनिः स्याद्द्वादशाङ्गुलिः इति । अपरोऽत्र विशेषः शारदातिलकतोऽवगन्तव्यः ॥ Kर्द्C_४.७ ॥ ______________________________ अधुना राशिमण्डलविधिं ततो मण्डपे गव्यगन्धाम्बुसिक्ते लिखेन्मण्डलं सम्यगष्टच्छदाब्जम् । सवृत्तत्रयं राशिपीठाङ्घ्रिवीथि चतुर्धारशोभोपशोभास्रयुक्तम् ॥ ४.८ ॥ ततो मण्डपानन्तरमस्मिन्मण्डपे सम्यक्यथोक्तप्रकारेण मण्डलं लिखेत् । कीदृशे ? गव्यैः पञ्चगव्यैः शारदातिलकोक्तवैष्णवगन्धाष्टकजलेन प्रोक्षिते । कीदृशं ? अष्टदलपद्मसहितम् । पुनः कीदृशं ? वृत्तत्रयसहितम् । पुनः राशयो मेषादयः पीठं कलसस्थापनस्थानं तस्याङ्घ्रिपीठपात्रचतुष्टयं चतस्रो वीथयः चत्वारिद्वाराणि शोभा उपशोभा अस्रं कोणमेतैर्युक्तम् । अयमर्थःसार्धहस्तद्वयप्रमाणेन समं चतुर्अस्रं भूभागं परिष्कृत्य तत्र पूर्वापरायतानि सप्तदशसूत्राणि पालयेत् । एवं सति षट्पञ्चआशद् उत्तरं द्विशतं कोष्ठानां भवति । तत्र कोष्ठविभागो मध्ये षोडशभिः कोष्ठैर्वृत्तत्रयान्वितं पद्मं लिखेत् । (तत्र च पद्मोपरिशिष्टे पीठं तद्अङ्गं च लिखेत् । तद्बहिरष्टाधिकचत्वारिंशताद्वादशराशीन् लिखेत् । तद्बहिः षट्त्रिंशतापीठं पीठाङ्गं च लिखेत् । (तद्बहिरशीतिभिः पदैर्लिखेत् ।) अत्रेदं बोद्धव्यं पद्मस्य दलाग्रस्थं वृत्तं पीठशक्तिश्च एतयोर्मध्ये पूर्वदक्षिणपश्चिमोत्तरं सूत्रचतुष्टयं दद्यात् । अनन्तरं द्वादशाधिकैः शतपदैर्द्वारशोभोपशोभाकोणानि विलिखेत् । तत्र सर्वस्यां दिशि द्वारं षट्पदम् । तत्र प्रकारः बाह्यपङ्क्तिगतमध्यकोष्ठद्वयं तद्अन्तर्गतपङ्क्तिगतमध्यकोष्ठद्वयमिति द्वारस्यैकस्मिन् भागे कोष्ठचतुष्टयेनैका शोभा भवति । तत्र बाह्यपङ्क्तिगतमेककोष्ठं तद्अन्तर्गतपङ्क्तिगतं कोष्ठत्रयमिति । एवं कोष्ठचतुष्टयेनैकोपशोभा भवति । अत्र बाह्यपङ्क्तिगतकोष्ठत्रयतद्अन्तर्गतपङ्क्तिगतमेकं कोष्ठमिति तथा कोष्ठषट्केन कोणमिति । एवमपरस्मिन् भागेऽपि शोभोपशोभाकोणानि बोद्धव्यानि । एवं दिक्चतुष्टये ऽपि मिलित्वा द्वादशाधिकं शतं भवतीति । अत्रानुक्तं शारदातिलके बोध्यम् ॥ Kर्द्C_४.८ ॥ ______________________________ ततो देशिकः स्नानपूर्वं विधानं विधायात्मपूजावसानं विधिज्ञः । स्ववामाग्रतः शङ्खमप्यर्घ्यपाद्या चमाद्यानि पात्राणि सम्पूरितानि ॥ ४.९ ॥ विधायान्यतः पुष्पगन्धाक्षताद्यं करक्षालनं पृष्ठतश्चापि पात्रम् । प्रदीपावलीदीपिते सर्वमन्यत् स्वदृग्गोचरे साधनं चाददीत ॥ ४.१० ॥ तद्अनन्तरं विधिज्ञः आगमोक्तप्रकारज्ञः देशिको गुरुः स्नानपूर्वकं विधानं स्वगृह्योक्तादिस्नानविधिमात्मपूजापर्यन्तं समाप्य स्ववामाग्रे शङ्खार्घ्यपाद्याचमानीयपात्राणि जलादिस्वच्छद्रव्यैः सम्पूरितानि । कृत्वा यथोत्तरं स्थापयित्वान्यतो दक्षिणभागे पुष्पाणि पूजाद्रव्याणि निधाय करप्रक्षालणपात्रमेकं पृष्ठदेशे निधाय सर्वमन्यत्साधनमुपकरणं स्वदृग्गोचरे चक्षुर्गोचरे प्रदीपश्रेणिविराजिते स्थापयेत् । अत्रापरो विशेषः श्रीपरमानन्दभट्टाचार्यकृते प्रपञ्चसारविवरणे द्रष्टव्यः ॥ Kर्द्C_४.९१० ॥ ______________________________ वायव्याशादीशपर्यन्तमर्च्य पीठस्योदग्गौरवी पङ्क्तिरादौ । पूज्योऽन्यत्राप्याम्बिकेयः कराब्जैः पाशं दन्तं शृण्यभीती दधानः ॥ ४.११ ॥ पीठस्य राशिपीठस्य उदकुत्तरभागे वायव्यकोणादीशानकोणपर्यन्तं गुरुसम्बन्धिनी पङ्क्तिरादौ प्रथमतः पूज्या । प्रयोगस्तु ओं गुरुभ्यो नमः इति । अन्यत्र दक्षिणभागे आम्बिकेयो गणपतिः पूज्यः । कीदृशं ? हस्तपद्मैः स्वदन्तं शृणिमङ्कुशमभयं दधानः ॥ Kर्द्C_४.११ ॥ ______________________________ अधुना कलशस्थापनप्रकारं दर्शयति यतो देशिक इत्यादिना आराध्याधारशक्त्य्आद्य्अमरचरणपावध्यथो मध्यभागे धर्मादीन् वह्निरक्षःपवनशिवगतान् दिक्ष्वधर्मादिकांश्च । मध्ये शेषाब्जबिम्बत्रितयगुणगणात्मादिकं केशराणां वह्नेर्मध्ये च शक्तीर्नवसमभियजेत्पीठमन्त्रेण भूयः ॥ ४.१२ ॥ अथानन्तरं मण्डलमध्यभागे आधारशक्तिमारभ्य कल्पवृक्षपर्यन्तमाराध्य पूजयित्वा पीठन्यासक्रमेण वह्नीति अग्न्य्आदिकोणगतान् धर्मादीन् पूर्वादिचतुर्दिक्षु अधर्मादीन् तथा मध्ये शेषं पद्मं तथा सूर्यसोमवह्नीनां बिम्बत्रयं द्व्¸अदशषोडशदशकलाव्याप्तं मण्डलत्रयं तथात्मादिचतुष्टयं पूजयेत् । अथ केशराणां मध्ये कर्णिकायां च्च विमलाद्या नवशक्तीः पूर्वादिक्रमेण पूजयेत् । भूयः पुनरपि पूर्वोक्तेन पीठमन्त्रेण पीठं पूजयेदित्यर्थः ॥ Kर्द्C_४.१२ ॥ ______________________________ ततः शालीन्मध्येकमलममलांस्तण्डुलवरान् अपि न्यस्येद्दर्भांस्तदुपरि च कूर्चाक्षतयुतान् । न्यसेत्प्रादक्षिण्यात्तद्उपरि कृशानोर्दश कला यकाराद्य्अर्णाद्या यजतु च सुगन्धादिभिरिमाः ॥ ४.१३ ॥ तद्अनन्तरं मध्येकमलं कमलमध्ये शालीनाढकपरिमितान् तथा शुभ्रान् शाल्य्अष्टभागपरिमितान् तण्डुलान् श्रेष्ठान्न्यस्येत्स्थापयेत् । यदुक्तं शालीन् वै कर्णिकायां च निक्षिप्याढकसंमितान् । तण्डुलांश्च तद्अष्टांशान् दर्भैः कूर्चैः प्रविन्यसेत् ॥ इति । तद्उपरि तण्डुलोपरि कूर्चाक्षतयुक्तान् दर्भान् विन्यसेत् । कुशत्रयघटितो ब्रह्मग्रन्थिः कूर्चशब्देनोच्यते कूर्चः कुशमुष्टिरिति त्रिपाठिनः । तद्उपरि कूर्चोपरि कृशानोर्वह्नेर्दश कला यकारादयो दशवर्णा आद्याः प्रथमा यासां ताः प्रादक्षिण्येन न्यसेत्तद्अनन्तरमिमा दश कला गन्धादिभिः पूजयेत् । ताश्च धूम्रार्चिर्ऊष्माज्वलिनीज्वालिनीविस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यवहा कव्यवहा ॥ इति । प्रयोगस्तु धूम्रार्चिषे नम इति ॥ Kर्द्C_४.१३ ॥ ______________________________ न्यसेत्कुम्भं तत्र त्रिगुणितलसत्तन्तुकलितं जपंस्तारं धूपैः सुपरिमलितं जोङ्कटमयैः । कभाद्यैः कुम्भेऽस्मिन् ठडवसितिभिर्वर्णयुगलैः तथान्यस्याभ्यर्च्यास्तद्अनु खमणेर्द्वादश कलाः ॥ ४.१४ ॥ तत्र दशकलामये कूर्चे त्¸अरमोङ्कारमुच्चरन् कुम्भं न्यसेत् । कुम्भस्तु सुवर्णादिनिर्मितः । तदुक्तम् सौवर्णं राजतं वापि मृण्मयं वा यथोदितम् । क्षाणयेदस्त्रमन्त्रेण कुम्भं सम्यक्सुरेश्वरि ॥ इति । कीदृशम् ? ग्रीवायां त्रिगुणिता लसन्तः शोभमाना ये तन्तवः कन्याकर्तितकार्पाससूत्राणि तैः कलितमस्त्रमन्त्रेण वेष्टितम् । पुनः कीदृशम् ? जोङ्कटमयैः कृष्णागुरुप्रधानैर्धूपैः सुधूपितं तद्अनन्तरं खमणेः सूर्यस्य द्वादशकला अस्मिन् कुम्भे न्यस्य अनन्तरं पूज्याः । कैः ? वर्णयुगलैः । कीदृशैः ? कभाद्यैः ककारभकाराद्यैः । पुनः कीदृशैः ? ठडवसितिभिः ठकारडकारावसानैः । अयमर्थःअनुलोमपठितककाराद्य्एकैकमक्षरं प्रतिलोमपठितभकाराद्य्एकैकमक्षरेण सहितं तपिन्य्आदिषु द्वादशकलासु संयोज्य न्यासादिकं कार्यम् । ताश्च तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ इति । प्रयोगस्तुकं भं तपिन्यै नमः । खं वं ताइन्यै नमः इत्यादि कार्यम् ॥१४॥ ______________________________ एवं सङ्कल्प्याग्निमाधाररूपं भानुं तद्वत्कुम्भरूपं विधिज्ञैः । न्यस्येत्तस्मिन्नक्षताद्यैः समेतं कूर्चं स्वर्णै रत्नवर्यैः प्रदीप्तम् ॥ ४.१५ ॥ एवमनेन प्रकारेणाधाररूपमग्निं सङ्कल्प्य तद्वत्कुम्भरूपं भानुं विचिन्त्य तस्मिन् कुम्भे विधिज्ञ आगमोक्तप्रकाराभिज्ञः मूलमन्त्रेणाक्षताद्यैः सहितं कूर्चं पूर्वोक्तलक्षणैः सुवर्णरत्नवर्यैर्नवरत्नैः शोभितं न्यसेत् । तदुक्तं भैरवेण एतान्नयित्वा तन्मध्ये शुक्लपुष्पं सिताक्षतम् । नवरत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ इति ॥ Kर्द्C_४.१५ ॥ ______________________________ अथ क्वाथतोयैः क्षकारादिवर्णैर् अकारावसानैः समापूरयेत्तम् । स्वमन्त्रत्रिजापावसानं पयोभिर् गवां पञ्चगव्यैर्जलैः केवलैर्वा ॥ ४.१६ ॥ अथानन्तरं पीठकुम्भयोरैक्यं विचिन्त्य पञ्चाशद्वर्णैरोषधितोयैः पलाशत्वग्जलैः क्षीरद्रुमत्वक्क्वाथजलैर्वा सर्वौषधिजलैर्वा गवां पयोभिर्वा पञ्चगव्यैर्वा केवलजलैः कर्पूरादिजलैर्वा तीर्थजलैर्वा क्षकारादिवर्णैरकारावसानैर्विलोममातृकाभिः स्वमन्त्रत्रिजपावसानं मूलमन्त्रवारत्रयजप्¸अन्तं यथा स्यादेवं पूरयेत् ॥ Kर्द्C_४.१६ ॥ ______________________________ कलशजलेऽस्मिन् वसुयुगसङ्ख्याः स्वरगणपूर्वा न्यसतु तथैव । उडुपकलास्ताः सलिलसुगन्धा क्षतसुमनोभिस्तद्अनु यजेत ॥ ४.१७ ॥ तस्मिन् कलशजले उडुपकलाश्चन्द्रकलाः वसुयुगसङ्ख्याः षोडशसङ्ख्याः स्वरगणपूर्वा अकारादिवर्णपूर्वा न्यसतु । तद्अनु तद्अनन्तरं ताश्चन्द्रकलास्तथैव तेनैव क्रमेण पुष्पाञ्जलिभिः पूजयेत् । ताश्चोक्ताः अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूर्णा पूर्णामृता च ॥ इति । ______________________________ अधुना वैष्णवगन्धाष्टकमाह उदीच्यकुष्टकुङ्कुमाम्बुलोहसज्जटामुरैः । सशीतमित्युदीरितं हरेः प्रियाष्टगन्धकम् ॥ ४.१८ ॥ उदीच्यमुशीरं कुष्टं कुङ्कुममम्बुबाला नेत्रबाला लोहः कृष्णागुरुर्जटया सह मुरा जटा मांसी च एतैः सह शीतं चन्दनमिति हरेः प्रियकारिगन्धाष्टकमुक्तम् ॥ Kर्द्C_४.१८ ॥ ______________________________ शङ्खपूरणमाह क्वाथतोयपरिपूरितोदरे संविलोड्य विधिनाष्टगन्धकम् । सोमसूर्यशिखिनां पृथक्कलाः सेचकर्म विनियोजयेत्क्रमात् ॥ ४.१९ ॥ उदरे शङ्खे विधिनागमोक्तप्रकारेण मूलमन्तेण पूर्वोक्तक्वाथजलेन परिपूरिते गन्ध्¸अष्टकं नमोमन्त्रेण सविलोड्य दत्त्वा सोमसूर्यवह्नीनां कलाः पृथक्समावाह्य सेचकर्म प्राणप्रतिष्ठाकर्म क्रमेण विनियोजयेत्कुर्यात् ॥ Kर्द्C_४.१९ ॥ ______________________________ तद्वदाक्षरभवास्तु कादिभिष् टादिभिः पुनरुकारजाः कलाः । पादिभिर्मलिपिजास्तु बिन्दुजाः षादिभिः स्वरगणेन नादजाः ॥ ४.२० ॥ पूर्वोक्तप्रकारेण आक्षरभवा अकाराक्षरभवा दश कलाः कादिभिः ककारादिभिर्दशभिरक्षरैः सहिताः पुनरुकारजा उकाराक्षरभवा दश कलाः टादिभिर्दशभिरक्षरैः सहितास्तथा मलिपिजा मकाराक्षरभवा दश कलाः पादिभिर्दशभिरक्षरैः सहितास्तथा बिन्दुजा बिन्दुप्रभवाः चतस्रः कलाः षादिभिश्चतुर्अक्षरैः सहिताः तथा नादजा नादप्रभवाः षोडश्च कलाः स्वरसमूहेन षोडशभिः स्वरैः सहिताः शङ्खसलिले न्यस्याः । ताश्च सृष्टिरृद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृइत्ः स्थिरा । स्थितिः सिद्धिरकारोत्थाः कला दश समीरितः ॥ जरा च पालिनी शान्तिरैश्वरी रतिकामिके । वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः ॥ तीक्ष्णा रौद्रा भया निद्रा तन्तीर्क्षुत्क्रोधनी क्रिया । उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । इन्धिका दीपिका चैव रेचिका मोचिका परा ॥ सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्यायनी तथा । व्यापिनी व्योमरूपा च अनन्ता नादसम्भवाः ॥ इति । प्रयोगश्च कं सृष्ट्यै नम इत्यादि ॥ Kर्द्C_४.२० ॥ ______________________________ समावाहनान्तेऽसुसंस्थापनात्प्राक् ऋचस्तत्र तत्राभिजप्या बुधेन । समभ्यर्च्य तास्ताः पृथक्तच्च पाथो ऽर्पयेन्मूलमन्त्रेण कुम्भे यथावत् ॥ ४.२१ ॥ समावाहनस्यान्तेऽसुसंस्थापनात्प्राक्प्राणप्रतिष्ठायाः पूर्वं तत्र तत्र स्थाने पण्डितेन धार्याश्चाभिजप्याः पठनीयाः । अयमर्थःशङ्खजलेऽकारप्रभवककारादिकलावाहनानन्तरं प्राणप्रतिष्ठायाः पूर्वं हंसः शुचिषदिति ऋचं पठेत् । उकारप्रभवटदिकलावाहनानन्तरं प्रतद्विष्णुः इति ऋचं पठेत् । मकारादिप्रभवपकारादिकलावाहनानन्तरं तत्सवितुरित्यादि ऋचं पठेत् । नादप्रभवतकारादिकलावाहनानन्तरं विष्णोर्योनिरित्यादि ऋचं पठेत् । अनन्तरं मूलमन्त्रं शङ्खजले विलोमेन जपेत् । तास्ताः कलाः पृथगेकैकशः यथावत्यथाविधि सम्पूज्य तच्च प्¸अथः तच्छङ्खोदकं मूलमन्त्रं पठित्वा कुम्भे विनिक्षिपेत् ॥ Kर्द्C_४.२१ ॥ ______________________________ सहकारबोधिपनसस्तवकैः शतमन्युवल्लिक्कलितैः कलशम् । पिदधातु पुष्पफलतण्डुलकैर् अभिपूर्णयापि शुभचक्रिकया ॥ ४.२२ ॥ सहकार आम्रः । बोधिरश्वत्थः । पनसः कण्टकिफलवृक्षः । एतेषां स्तवकैः पल्लवैः शतमन्युवल्लिकलितैरिन्दवल्लीबद्धैः कलशं कलशमुखं सुरद्रुमधिया पिदधातु समाच्छादयतु तथा पुष्पादिभिः परिपूर्णया शुभचक्रिकया शोभमानशरावेण तद्उपरि पिदधात् ॥ Kर्द्C_४.२२ ॥ ______________________________ अभिवेष्टयेत्तद्अनु कुम्भमुखं नवनिर्मलांशुकयुगेन बुधः । समलङ्कृतेऽत्र कुसुमादिभिरप्य् अभिवाहयेत्परतरं च महः ॥ ४.२३ ॥ तदनु तद्अनन्तरं नूतनमलरहितवस्त्रद्वयेन परित्ः कुम्भमुखमभिवेष्टयेत् । अनन्तरं कुम्भे पुष्पादिभिरलङ्कृते परमोत्कृष्टं महस्तेजः पूज्यदेवतास्वरूपमावाहयेतावाहनादिकं कुर्यात् । यथा श्रीकृष्णेहागच्छेह तिष्ठ इह संनिधेहि ॥ Kर्द्C_४.२३ ॥ ______________________________ सकलीविधाय कलशस्थममुं हरिमर्णतत्त्वमनुविन्यसनैः । परिपूजयेद्गुरुरथावहितः परिवारयुक्तमुपचारगणैः ॥ ४.२४ ॥ अमुं कलशस्थं हरिं सकलीकृत्य देवताङ्गे षड्अङ्गानां न्यासः स्यात्सकलीकृतिरिति । उत्तमाङ्गं विधाय वर्णतत्त्वमन्विति अक्षरमयतत्त्वमन्त्रन्यासैः सहेति रुद्रधरः । अर्ण इति सृष्टिसंहारभेदेन अङ्गुल्यारोपणभेदेन च मन्त्रवर्णविन्यासोऽर्णन्यासो मनुन्यासः मनुपुटितमातृकान्यास इत्यर्थः । इत्यादिन्यासैस्तत्तेजोरूपधरं सकलं सगुणं शरीरं कुर्यादिति भैरवत्रिपाठिनः । विद्याधरोऽप्येवमाहपीट्ःन्यासकरन्यासौ विनापि प्रथमद्वितीयपटलप्रोक्तन्यासादिजातैरिति । केचितष्टादशाक्षरे पक्षे तत्त्वन्यासस्थाने मन्त्राक्षरन्यासो द्रष्टव्यः । अथानन्तरमवहितः सावधानो गुरुः सपरिवारमावरणसमेतमुपचारगणैः षोडशपञ्चोपचारान्यतमोपचारेण पूजयेत् ॥ Kर्द्C_४.२४ ॥ ______________________________ पूजाक्रममाह दत्त्वासनं स्वागतमित्युदीयः तथाध्यपाद्याचमनीयकानि । देयानि पूर्वं मधुपर्कयूञ्जि नन्दात्मजायाचमनान्तकानि ॥ ४.२५ ॥ स्थानं च वासश्च विभूषणानि साङ्गाय तस्मै विनियोज्य मन्त्री । गात्रे पवित्रैरथ गन्धपुष्पैः पूर्वं यजेन्न्यासविधानतोऽस्य ॥ ४.२६ ॥ तस्मै साङ्गाय नन्दात्मजाय कृष्णाय आसनं पद्मादिकुसुमरूपं दत्त्वा स्वागतमित्युदीर्य स्वागतमिति शब्दमुच्चार्य अनन्तरं पूर्वं प्रथमतोऽर्घ्यपाद्याचमनीयकानि मधुपर्कसहितानि देयानि आचमनान्तकानि मधुपर्कं दत्त्वा पुनराचमनीयं देयं स्नानं गन्धजलादिभिः कार्यं वासो वस्त्रयुगलं शरीरे देयं विभूषणानि कुण्डलादीनि यथास्थानं विनियोज्यानि । अथानन्तरमस्य परमेश्वरस्य गात्रे शरीरे पूर्वं प्रथमतः पवित्रैः शुद्धैर्गन्धपुष्पैर्न्यासप्रकारेण यजेत्पूजयेत् ॥ Kर्द्C_४.२५२६ ॥ ______________________________ पूजाप्रकारमेवाह सृष्टिस्थिती स्वाङ्गयुगं च वेणुं मालामभिज्ञानवराश्ममुख्यौ । मूलेन चात्मार्चनवत्प्रपूज्य समर्चयेदावरणानि भूयः ॥ ४.२७ ॥ वर्णन्यासमन्त्रैर्यथाक्रमं पूजयेत् । ओं गोमों नमः इत्यादि । सृष्टिस्थिती पूर्वोक्तं स्वाङ्गयुगं पञ्चाङ्गदशाङ्गन्यासौ वेणुं मालां वनमालामभिज्ञानवरं श्रीवत्सलाञ्छनमिति अश्ममुख्यः कौस्तुभः । एतानि सम्पूज्य मूलेन चात्मार्चनवत्यथात्मनि परमेश्वरपूजा मूलमन्त्रेण पञ्चकृत्वः तुलस्यादिपुष्पाञ्जलिभिः पदद्वयादिषु कृता तथा कुम्भस्थमपि सम्पूज्य भूयः पुनरपि आवरणानि वक्ष्यमाणानि पूजयेत् । अष्टादशार्णपक्षे सृष्ट्य्आदिस्थानेषु वर्णन्यासपदन्यासानां पूजा कार्येति बोद्धव्यम् ॥ Kर्द्C_४.२७ ॥ ______________________________ आवरणपूजाक्रममाह दिक्ष्वथ दामसुदामौ वसुदामः किङ्किणी च सम्पूज्याः । तेजोरूपास्तद्बहिरङ्गानि च केशरेषु समभियजेत् ॥ ४.२८ ॥ अथानन्तरं कर्णिकायां देवस्य पूर्वादिचतुर्दिक्षु दामादयश्चत्वारः पूज्याः । कीदृशाः ? तेजोरूपा देदीप्यमानाः । प्रयोगस्त्वों दामाय नम इत्यादि । द्वितीयावरणमाह तद्बहिरिति । कर्णिकाकोणेषु अङ्गानि समभियजेत् ॥ Kर्द्C_४.२८ ॥ ______________________________ पूजाविधानमाह हुतवहनिरृतिसमीरशिवदिक्षु हृदादिवर्मपर्यन्तम् । पूर्वादिदिक्ष्वथास्त्रं क्रमेण गन्धादिभिः सुशुद्धमनाः ॥ ४.२९ ॥ अग्न्य्आदिकोणचतुष्टयेषु हृदयादिकवचान्तानि चत्वार्यङ्गानि अथानन्तरं पूर्वादिचतुर्दिक्षु अस्त्रमङ्गं पूजयेत् ॥ Kर्द्C_४.२९ ॥ ______________________________ अङ्गदेवताध्यानमाह मुक्तेन्दुकान्तकुवलय हरिनीलहुताशसभाः प्रमदाः । अभयवरस्फुरितकराः प्रसन्नमुख्योऽङ्गदेवताः स्मर्याः ॥ ४.३० ॥ अङ्गदेवता ध्येयाः । किम्भूताः ? प्रमदाः स्त्रीस्वभावाः । पुनः किम्भूताः ? मुक्ताः इन्दुकान्तश्चन्द्रकान्तमणिः कुवलयं नीलपद्मं हरिनीलः इन्द्रनीलमणिः हुताशो वह्निश्च एतेषां समानाभा प्रभा वर्णो यासान्तास्तथा । किम्भूताः ? अभयेन वरेण च शोभिताः करा यासां ताः । किम्भूताः ? प्रसन्नवदनाः ॥ Kर्द्C_४.३० ॥ ______________________________ तृतीयमावरणमाह रुक्मिण्य्आद्या महिषीर् अष्टौ सम्पूजयेद्दलेषु ततः । दक्षिणकरधृतकमला वसुभरितसुपात्रमुद्रितान्यकराः ॥ ४.३१ ॥ ततस्तद्अनन्तरं दलेषु पूर्वादिपत्रेषु रुक्मिण्य्आद्याः अष्टौ महिषीर्मुख्या महादेवीः सम्पूजयेत् । किम्भूताः ? दक्षिणकरैर्धृतानि कमलानि याभिस्तास्तथा । पुनः किम्भूताः ? वसुपूरितपात्रैर्मुद्रिताः पूरिता अन्ये वामकरा यासां तास्तथा ॥ Kर्द्C_४.३१ ॥ ______________________________ अष्टौ वर्णयति रुक्मिण्य्आख्या सत्या सनाग्निजित्य्आह्वया सुनन्दा च । भूयश्च मित्रविन्दा सुलक्ष्मणा ऋक्षजा सुशीला च ॥ ४.३२ ॥ ऋक्षजा जाम्बवती ॥ Kर्द्C_४.३२ ॥ ______________________________ तासां रूपाणि दर्शयति तपनीयमरकताभाः सुसित विचित्राम्बरा द्विशस्त्वेताः । पृथुकुचभरालसाङ्ग्या विविध मणिप्रकरविलसिताभरणाः ॥ ४.३३ ॥ एता रुक्मिण्य्आद्या द्विशः युग्मशः क्रमेण काञ्चनमरकतयोरिवाभा दीप्तिर्यासां तास्तथा । पुनः किम्भूताः ? शोभमानानि शुक्लानि नानाप्रकाराणि वस्त्राणि यासां तास्तथा । पुनः किम्भूताः ? अचला ये कुचास्तेषां गौरवेण अलसानि निष्क्रियाणि अङ्गानि यासां तास्तथा । पुनः किम्भूताः ? नानाप्रकारो मणिप्रकर इन्द्रनीलादिसमूहस्तेषु विशेषेण शोभितानि आभरणानि यासाम् ॥ Kर्द्C_४.३३ ॥ ______________________________ चतुर्थावरणमाह ततो यजेद्दलाग्रेषु वसुदेवं च देवकीम् । नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम् । गोपान् गोपीश्च गोविन्दविलीनमतिलोचनान् ॥ ४.३४ ॥ ततस्तद्अनन्तरं दलाग्रेषु पूर्वादिक्रमेण वसुदेवादीन् सम्पूजयेत् । कीदृशाः ? गोविन्दे विलीना सम्बद्धा मतिर्लोचनं येषां ते तथा ॥ Kर्द्C_४.३४ ॥ ______________________________ एतेषामायुधा निदर्शयति ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डरौ । दिव्यमाल्याम्बरालेपभूषणे मातरौ पुनः ॥ ४.३५ ॥ ज्ञानमुद्रा अभयं च करेषु ययोस्तौ पितरौ वसुदेवनन्दगोपौ । कीदृशौ ? हरिद्राभश्वेतौ मातरौ देवकीयशोदे । कीदृश्यौ ? दिव्यानि देवार्हाणि माल्याम्बरभूषणानि ययोस्तादृश्यौ ॥ Kर्द्C_४.३५ ॥ ______________________________ धारयन्त्यौ च वरदं पायसापूर्णपात्रकम् । अरुणाश्यामले हारमणिकुण्डलमण्डिते ॥ ४.३६ ॥ वरदं वरदानं मुद्राविशेषं पायसापूर्णपात्रं च धारयन्त्यौ । पुनः किम्भूते ? अरुणाश्यामले । पुनः कीदृश्यौ ? हारकुण्डलाभ्यां शोभिते ॥ Kर्द्C_४.३६ ॥ ______________________________ बलः शङ्खेन्दुधवलो मुसलं लाङ्गलं दधत् । हालालोलो नीलवासा हेलावानेककुण्डलः ॥ ४.३७ ॥ बलो बलभद्रः शङ्खेन्दुधवलः श्वेतः लाङ्गलं मुसलं बिभ्राणः । पुनः कीदृशः ? हाला माध्वी तस्याः पाने लोलः चञ्चलः अमृष्यकारी । पुनः कीदृशः ? नीलवासाः । पुनः कीदृशः ? हेलावान् लीलावान् । पुनः कीदृशः ? एककुण्डलधारी ॥ Kर्द्C_४.३७ ॥ ______________________________ कलायश्यामला भद्रा सुभद्रा भद्रभूषणा । वराभययुता पीतवसना रूढयौवना ॥ ४.३८ ॥ सुभद्रा कलायश्यामला भद्रा समीचीना भद्रभूषणा शोभमानाभरणा । पुनः किम्भूता ? वराभययुता । पुनः किम्भूता ? पीतवसना । पुनः किम्भूता ? प्रौढयौवना ॥ Kर्द्C_४.३८ ॥ ______________________________ वेणुवीणावेत्रयष्टिशङ्खशृङ्गादिपाणयः । गोपा गोप्यश्च विविधप्रभृतात्तकराम्बुजाः । मन्दारादींश्च तद्बाह्ये पूजयेत्कल्पपादपान् ॥ ४.३९ ॥ वेणुर्वंशी । वीना तन्त्री । वेत्रं यष्टिः शङ्खः शृङ्गादि नानावस्तु पाणौ करे येषामेवं विशिष्टा गोपाः गोप्यः पुनर्नानाप्रकारं यत्प्राभृतमुपढौकनं तेनात्तमायत्तं वशीकृतं कराब्जं यासां ताः । पञ्चमावरणमाहमन्दारादीनिति । तद्बाह्ये तद्अनन्तरं मन्दारादीनग्रे वक्ष्यमाणान् कल्पवृक्षान् पूजयेत् ॥ Kर्द्C_४.३९ ॥ ______________________________ मन्दारसन्तानकपारिजात कल्पद्रुमाख्यान् करिचन्दनं च । मध्ये चतुर्दिक्ष्वपि वाञ्छितार्थ दानैकदक्षान् फलनम्रशाखान् ॥ ४.४० ॥ तानेवाह मन्दारेति । कुत्र कः पूजनीयः तत्राह मध्ये इति । मध्ये कर्णिकायां प्रथमपरित्यागे मानाभावात्प्रथमनिर्दिष्टवत्पूजा चतुर्दिक्षु पूर्वादिचतुर्दिक्षु एतादृशान् वाञ्छिता आकाङ्क्षिता ये अर्थास्तेषां दाने एकमद्वितीया दक्षाः तान् तथा फलैः नम्राः शाखा येषु तान् । यद्वा, आकाङ्क्षितदाने अद्वितीयसमर्थान् तथा फलैः नम्राः शाखा येषु तान् ॥ Kर्द्C_४.४० ॥ ______________________________ षष्ठावरणमाह हरिहव्यवाट्तरणिजक्षपाचराप्य् अतिवायुसोमशिवशेषपद्मजान् । प्रयजेत्स्वदिक्ष्वमलधीः स्वजात्यधी श्वरहेतिपत्रपरिवारसंयुतान् ॥ ४.४१ ॥ हरिरिन्द्रः हव्यवाड्अग्निः तरणिजो यमः क्षपाचरो निशाचरो निरृतिः अप्पतिर्वरुणः वायुः सोमः ईशः शेषोऽनन्तः पद्मजो ब्रह्मा एतान् स्वदिक्षु पूर्वादिदिक्षु निर्मलमतिः पूजयेत् । अत्र निरृतिवरुणयोर्मध्येऽनन्तं सोमेशानयोर्मध्ये ब्रह्माणं स्वादिक्ष्वतिकथनातन्यत्र कल्पितपूर्वादिदिक्षु पूजावगम्यते । तदुक्तमागमान्तरे देवाग्रे स्वस्य वाप्यग्रे प्राची प्रोक्ता च देशिकैः । प्राची प्राच्येव विज्ञेया मुक्तये देवतार्चनम् ॥ इति । कीदृशान् ? स्वजातिः इन्द्रत्वादिः । अधीश्वरोऽधिपतिः हेतिः शस्त्रं पत्रं वाहनं परिवारो गणः एतैः संयुक्तानेतेषां च बीजानि उच्चारयितव्यानि । प्रयोगस्तु लमिन्द्राय सर्वसुराधिपतये सायुधाय सवाहनाय सपरिवाराय नम एवमन्यत्राप्यूहनीयः ॥ Kर्द्C_४.४१ ॥ ______________________________ इदानीं वर्णमाह कपिशकपिलनीलश्यामलश्वेतधूम्रा मलसितशुचिरक्ता वर्णतो वासवाद्याः । करकमलविराजत्स्वायुधा दिव्यवेशा विविधमणिगणोऽस्रप्रस्फुरद्भूषणाढ्याः ॥ ४.४२ ॥ कपिशः कनकवर्णः कपिलस्ताम्रवर्णाभः श्यामलः कृष्णः श्वेतः शुक्लः धूम्रोऽसितभेदः अमलसितः श्वेतः शुचिरपि श्वेत एव रक्तो लोहित एते वासवाद्याः वर्णतो वर्णेन यथाक्रमं पूर्वोक्तक्रमतः । पुनः कीदृशः ? हस्तपद्मे शोभमानानि आयुधानि येषां ते । पुनः उत्कृष्टवेशा नानाप्रकारमणिसमूहानां पद्मरागादीनामुस्रेण किरणेन प्रस्फुरद्देदीप्यमानं यद्भूषणं तेनाढ्या उपचिताः शोभमाना इत्यर्थः ॥ Kर्द्C_४.४२ ॥ ______________________________ सप्तमावरणमाह दम्भोलिशक्त्य्अभिधदण्डकृपाणपाश चण्डाङ्कुशाह्वयगदात्रिशिखारिपद्माः । अर्च्या बहिर्निजसुलक्षितमौलियुक्ताः स्वस्वायुधभयसमुद्यतपाणिपद्मः ॥ ४.४३ ॥ दम्भोलिर्वज्रं शक्त्य्अभिधं शक्तिनामकमस्त्रं दण्डः कृपाणः खड्गः चण्डाङ्कुशाह्वयः उग्राङ्कुशाख्यः गदा त्रिशिखं त्रिशूलमरि चक्रं पद्म्ं च एतानि वह्निवासवादितो बहिः सम्पूज्यानि । दम्भोलिप्रभृतयः कीदृशाः ? निज सुलक्षितमौलियुक्ताः वज्रादिलाञ्छितमुकुटाः । पुनः स्वस्वायुधैरस्त्रैरभयेन च समुद्यतं सुलक्षितं हस्तपद्मं येषां ते तथा ॥ Kर्द्C_४.४३ ॥ ______________________________ वज्रादीनां वर्णमाह कनकरजततोयदाभ्रचम्पा रुणहिमनीलजवाप्रवालभासः क्रमतः । क्रमत इति रुचा तु वज्रपूर्वा रुचिरविलेपनवस्त्रमाल्यभूषाः ॥ ४.४४ ॥ वज्रपूर्वाः वज्राद्याः रुचा वर्णेन क्रमतोऽनुक्रमेणैवंरूपा ज्ञेयाः । पुनः कीदृशाः ? काञ्चनं रौप्यं तोयदो मेघः अभ्रं चम्पकपुष्पमरुणो रक्तः हिमं श्वेतः नीलः श्यामलः जवा औण्ड्रपुष्पं प्रवालो नवपल्लवः एवम्भूता दीप्तिर्येषां ते तथा । पुनः कीदृशाः ? रुचिरं मनोहरं विलेपनं चन्दनादि वस्त्रं माल्यं भूषणं च येषां ते तथा ॥ Kर्द्C_४.४४ ॥ ______________________________ पूर्वोक्तमुपसंहरति कथितमावृतिसप्तकमच्युता र्चनविधाविति सर्वसुखावहम् । प्रयतादथवाङ्गपुरन्दरा शनिमुखैस्त्रितयावरणं त्विदम् ॥ ४.४५ ॥ इति पूर्वोक्तप्रकारेण विष्णुपूजाविधौ आवरणसप्तकं कथितम् । कीदृशं ? सकलसुखार्थदायकम् । अशक्तं प्रत्याह प्रयजतादिति । पूर्वोक्ताशक्तः त्रितयावरणमावरणत्रयसहितं प्रयजेत् । कैः ? अङ्गमिन्द्रवज्रमेतन्मुखैरेतत्प्रधानैरित्यर्थः ॥ Kर्द्C_४.४५ ॥ ______________________________ प्रकृतमुपसंहरन् पूजान्तरमाह इत्यर्चयित्वा जलगन्धपुष्पैः कृष्णाष्टकेनाप्यथ कृष्णपूजाम् । कुर्याद्बुधस्तानि समाह्वयानि वक्ष्यामि तादादिनमोऽन्तिकानि ॥ ४.४६ ॥ इति पूर्वोक्तप्रकारेण जलगन्धपुष्पैः पूजयित्वा अथानन्तरं कृष्णाष्टकेन वक्ष्यमाणेन बुधः पण्डितः कृष्णपूजां कुर्यात्तानि । समाह्वयानि नामानि प्रणवादिनमोऽन्तिकानि वक्ष्यमाणानि ओं कृष्णाय नम इत्यादीनि ॥ Kर्द्C_४.४६ ॥ ______________________________ तान्येव दर्शयति श्रीकृष्णो वासुदेवश्च नारायणसमाह्वयः । देवकीनन्दनो यदुश्रेष्ठो वार्ष्णेय इत्यपि ॥ ४.४७ ॥ असुरान्तकशब्दान्ते भारहारीति सप्तमः । धर्मसंस्थापकश्चाष्टौ चतुर्थ्य्अन्ताः क्रमादिमे ॥ ४.४८ ॥ असुरान्तकशब्दान्ते भारहारीत्यर्थः । इमे कृष्णादयः शब्दाः क्रमादेकैकशः प्रणवाद्याश्चतुर्थ्य्अन्ता नमोऽन्तकाश्च विज्ञेयाः ॥ Kर्द्C_४.४७४८ ॥ ______________________________ अत्यन्ताशक्तं प्रत्याह एभिरेवाथवा पूजा कर्तव्या कंसवैरिणः । संसारसागरोत्तीर्त्यै सर्वकामाप्तये बुधैः ॥ ४.४९ ॥ अथवा एभिरेव कृष्णादिभिः शब्दैः कंसवैरिणः श्रीकृष्णस्य पूजा बुधैः । पण्डितैः कर्तव्या । किमर्थम् ? संसार एव सागरः तस्य उत्तीर्त्यै उत्तरणाय । पुनः किमर्थम् ? सकलमनोरथप्राप्त्य्अर्थम् ॥ Kर्द्C_४.४९ ॥ ______________________________ धूपदानविधिं दर्शयति साराङ्गारे घृतविलुलितैर्जर्जरै संविकीर्णैर् गुग्गुल्वाद्यैर्घनपरिमलैर्धूपमापाद्य मन्त्री । दद्यान्नीचैर्दनुजमथनायापरेणाथ दोष्णा घण्टां गन्धाक्षतकुसुमकैरर्चितां वादयानः ॥ ४.५० ॥ साराङ्गारे दृढकाष्ठाङ्गारे । खादिराङ्गारे इति त्रिपाठिनः । संविकीर्णैः क्षिप्तैः गुग्गुल्व्आद्यैः गुग्गुलुशर्करामधुचन्दनागुरुशीरैः घृतविलुलितैर्धृतप्लुतैः जर्जरैः कुट्टनेन चूर्णितैर्घनपरिमलैर्निविडसौरभशालिभिः धूपमापाद्य कृत्वा मन्त्री उपासकः नीचैर्नाभिप्रदेशे दनुजमथनाय गोपालकृष्णाय दद्यात् । किं कुर्वन् ? अथानन्तरमपरेण वामेन दोष्णा हस्तेन गजध्वनिमन्त्रमातः स्वाहेति घण्टां वादयन् । किम्भूताम् ? गन्धाक्षतपुष्पैः पूजिताम् ॥ Kर्द्C_४.५० ॥ ______________________________ दीपदाने विधिं दर्शयति तद्वद्दीपं सुरभिघृतसंसिक्तकर्पूरवर्त्या दीप्तं दृष्ट्याद्य्अतिविशदधीः पद्मपर्यन्तमुच्चैः । दत्त्वा पुष्पाञ्जलिमपि च विधायार्पयित्वा च पाद्यं साचामं कल्पयतु विपुलस्वर्णपात्रे निवेद्य ॥ ४.५१ ॥ तद्वदापाद्य दीपं कुर्यात् । कया ? सुरभि सुगन्धि यद्घृतं तेन सिक्ता उक्षिता कर्पूरसहिता वर्तिस्तया । कीदृशम् ? दृष्ट्या दीप्तम् । दृष्टिमनोहरमिति रुद्रधरः । पद्मपर्यन्तं मस्तकपर्यन्तमुच्चैरुपरि दत्त्वा दृष्ट्यादीति दक्षिणावर्तेन पद्मपर्यन्तम् । चरणकमलपर्यन्तमिति त्रिपाठिनः । पादपर्यन्तमिति क्वचित्पाठः । अनन्तरं पुष्पाञ्जलिमपि शिरसि दत्त्वा पाद्याचमनीये च दत्त्वा विपुलस्वर्णपात्रे बृहत्कनकभाजने नैवेद्यं कल्पयतु सम्पादयतु । साचाममाचमनसहितं प्रथमं वदनेत्यादिभिराचमनं दत्त्वा अनन्तरं नैवेद्यं ददात्वित्यर्थः ॥ Kर्द्C_४.५१ ॥ ______________________________ नैवेद्यस्वरूपं दर्शयति सुरभितरेण दुग्धहविषा सुशृतेन सिता समुपदेशकै रुचिरहृद्य्अविचित्ररसैः । दधिनवनीतनूतनसितोपलपूपपुलि घृतगुडनारिकेलकदलीफलपुष्परसैः ॥ ४.५२ ॥ अतिसुरभिणा दुग्धान्नेन सुशृतेन सुपक्वेन सितासमुपदेशकैः शर्कराव्यञ्जनैः सह । शर्करया सह उपदंशकैर्व्यञ्जनैरिति त्रिपाठिनः । अस्मिन् पक्षे शुचितेन सितासमुपदंशकैरिति पाठः । रुचिर इच्छ्¸अकरः हृद्यः सुस्वादः विचित्रो मधुरादिरसो येषु तैः नूतनं श्रेष्ठं सितोपलं खण्डादिप्रसिद्धं पुष्परसो मधु एतैर्द्रव्यैर्नैवेद्यं कल्पयतु ॥ Kर्द्C_४.५२ ॥ ______________________________ किं विशिष्टं नैवेद्यं कल्पयतु, तत्राह अस्त्रोक्षितं तद्अरिमुद्रिकयाभिरक्ष्य वायव्यतीयपरिशोषितमग्निदोष्णा । सन्दह्य वामकरसौधरसाभिपूर्णं मन्त्रामृतीकृतमथाभिमृषन् प्रजप्यात् ॥ ४.५३ ॥ मनुमष्टशः सुरभिमुद्रिकया परिपूर्णमर्चयतु गन्धमुखैः । हरिमर्चयेदथ कृतप्रसवाञ्जलिर् आस्यतोऽस्य प्रसरेच्च महः ॥ ४.५४ ॥ मूलमन्त्रास्त्रमन्त्रेणास्त्राय फड्इत्यनेन वा उक्षितं सिक्तं चक्रमुद्रयाभिरक्ष्य वायव्येति वायुबीजजप्तोदकप्रोक्षणपरिशोषितदोषमग्निदोष्णा सन्दह्येति रमिति वह्निबीजाभिजप्तदक्षिणकरेण स्पृष्ट्वा दोषान् दग्ध्वा वामकरसौधरसाभिपूरणमिति वामहस्तेन पिधाय बंबीजजपेनामृतरसाभिपूर्णं विचिन्त्य मूलमन्त्रेणामृतरूपं विचिन्त्याथानन्तरं तदेतादृशं नैवेद्यमभिमृशन् स्पृष्ट्वा मनुं मन्त्रमष्टशः अष्टवारं प्रजपतु सुरभिमुद्रिकया धेनुमुद्रिकया परिपूर्णं नैवेद्यं विचिन्त्य गन्धमुखैः चन्दनाद्यैः पूजयतु । दानप्रकारं दर्शयतिहरिमित्यादिना । कृतप्रसवाञ्जलिर्हरिं प्रत्यर्चयेत्नैवेद्यग्रहणायास्यतस्तेजो निःसरत्विति प्रार्थयेत् । अथानन्तरमस्य हरेरास्यतो मुखतस्तेजो निःसरेत्प्रसरत्विति चिन्तयेत् । नैवेद्ये संयोजयेदिति त्रिपाठिनः ॥ Kर्द्C_४.५३५४ ॥ ______________________________ वीतिहोत्रदयितान्तमुच्चरन् मूलमन्त्रमथ निक्षिपेज्जलम् । अर्पयेत्तदमृतात्मकं हविर् दोर्युजा सुकुसुमं समुद्धरन् ॥ ४.५५ ॥ अथानन्तरं वीतिहोत्रदयितान्तं स्वाहाकारान्तं मूलमन्त्रमुच्चरन् किंचिज्जलं तद्उपरि क्षिपेत्प्रोक्षयेत् । अत्र स्वाहान्तेऽपि मन्त्रे पुनः स्वाहापदप्रयोगः कार्यः एतद्बलादेव अनन्तरदोर्युजा हस्तद्वयेन सकुसुमं सपुष्पं समुद्धरनुत्तोलयन् तद्अमृतात्मकं हविः समर्पयेत् ॥ Kर्द्C_४.५५ ॥ ______________________________ नैवेद्यार्पणमन्त्रमाह निवेदयामि भगवते जुषाणेदं हविर्हरे । निवेद्यार्पणमन्त्रोऽयं सर्वार्चासु निजाख्यया ॥ ४.५६ ॥ अयं मन्त्रः सर्वासु देवानां पूजासु निजाख्ययेति हरे इत्यस्मिन् स्थाने यस्मै देवाय दीयते तन्नामग्रहणंकर्तव्यमिति निजाख्याशब्दार्थः । निवेद्याख्ययेति केचित् ॥ Kर्द्C_४.५६ ॥ ______________________________ भोजनोपयोगिमुद्राविशेषं दर्शयति ग्रासमुद्रां वामदोष्णा विकचोत्पलसन्निभाम् । प्रदर्शयेद्दक्षिणेन प्राणादीनां च दर्शयेत् ॥ ४.५७ ॥ वामदोष्णा ग्रासमुद्रां दर्शयेत् । किम्भूताम् ? प्रफुल्लोत्पलसदृशीम् । अनन्तरं दक्षिणहस्तेन प्राणादीनां वक्ष्यमाणां मुद्रां दर्शयेदिति ॥ Kर्द्C_४.५७ ॥ ______________________________ स्पृशेत्कनिष्ठोपकनिष्ठे द्वे अङ्गुष्ठमूर्ध्ना प्रथमेह मुद्रा । तथापरा तर्जनीमध्यमे स्याद् अनामिकमध्यमिके च मध्या ॥ ४.५८ ॥ अनामिकतर्जनीमध्यमाः स्यात् तद्वच्चतुर्थीसकनिष्ठिकास्तः । स्यात्पञ्चमी तद्वदिति प्रदिष्टा प्राणादिमुद्रा निजमन्त्रयुक्ताः ॥ ४.५९ ॥ कनिष्ठोपकनिष्ठे कनिष्ठानामिके द्वे स्वाङ्गुष्ठमूर्ध्ना स्पृशेत् । इह मुद्रा प्रथमा तथा तर्जनीमध्यमे स्वाङ्गुष्ठमूर्ध्ना स्पृशेतनामिकमध्यमिके च तेन स्पृशेदेवं व्यानमुद्रा अनामातर्जनीमध्यमास्तेन स्पृशेत् । चतुर्थी उदानस्य तास्तिस्रः कनिष्ठासहिताः । तद्वत्स्वाङ्गुष्ठमूर्ध्ना यदि स्पृशेत्तदा समानमुद्रा इत्यनेन प्रकारेण प्राणादिमुद्राः प्रदिष्टाः कथिताः । किम्भूताः ? यथायोग्यस्वमन्त्रसहिताः मन्त्रसाहित्येन तासां मुद्रात्वं भवति बिल्वमुद्रावदित्यर्थः ॥ Kर्द्C_४.५८५९ ॥ ______________________________ के ते मन्त्रा इत्याकाङ्क्षायां प्राणादीनां मन्त्रानाह प्राणापानव्यानोदानसमानाः क्रमाच्चतुर्थ्य्अन्ताः । ताराधारा वध्वा चेद्धाः कृष्णाध्वनस्त्विमे मनवः ॥ ४.६० ॥ प्राणादयः पञ्च क्रमाच्चतुर्थीविभक्तिसहिताः तथा ताराधाराः ओंकाराधाराः प्रणवाद्या इत्यर्थः । तथा कृष्णाध्वनोऽग्नेर्वध्वा प्रियया इद्धा उद्दीप्ताः सम्बद्धाः स्वाहाकारान्ता इत्यर्थः । एवं च सति ओं प्राणाय स्वाहा इत्याद्याः पञ्च मन्त्रा भवतीत्यर्थः ॥ Kर्द्C_४.६० ॥ ______________________________ निवेद्यमुद्रां प्रदर्शयन्मन्त्रं च दर्शयति ततो निवेद्य मुद्रिकां प्रधानया करद्वये । स्पृशन्ननामिकां निजं मनुं जपन् प्रदर्शयेत् ॥ ४.६१ ॥ ततस्तद्अनन्तरं निवेद्यमुद्रां प्रदर्शयेत् । किं कुर्वन् ? करद्वये करयोरनामिकां प्रधानयाङ्गुष्ठेन स्पृशन् । पुनः किं कुर्वन् ? निजं स्वीयं मनुं मन्त्रं प्रजपन् ॥ Kर्द्C_४.६१ ॥ ______________________________ मन्त्रमुद्धरति नन्दजोऽम्बुमनुबिन्दुयुङ्नतिः पार्श्वरामरुद्अवात्मने नि च । रुद्धङेयुतनिवेद्यमात्मभूर् मासपार्श्वमनिलस्तथाऽमियुक् ॥ ४.६२ ॥ नन्दजः ठकारः अम्बुः वकारः मनुः औकारः बिन्दुः एतैर्युक्ता नतिर्नमः पार्श्वः पकारः रा इति स्वरूपं मरुत्यकारः अवात्मने इति अनि स्वरूपं रुद्धमिति स्वरूपं ङे चतुर्थी अनिरुद्धशब्दश्चतुर्थीयुक्त इत्यर्थः । निवेद्यमिति त्रयः आत्मभूः ककारः मांसो लकारः पार्श्वः पकारः लकारयकाराभ्यां युक्तोऽनिलो यकारः अमीति स्वरूपं तथा ठ्वौं नमः पर्यावात्मने अनिरुद्धाय नैवेद्यं कल्पयामि इति मन्त्रः ॥ Kर्द्C_४.६२ ॥ ______________________________ मण्डलमभितो मन्त्री बीजाङ्कुरभाजनानि विन्यस्य । पिष्टमयानपि दीपान् घृतपूर्णान् विन्यसेत्सुदीप्तशिखान् ॥ ४.६३ ॥ मण्डलपरितो बीजाङ्कुरपात्राणि संस्थाप्य तथैव पिष्टकृतान् घृतपरिपूर्णान् प्रज्वलितशिखान् प्रदीपान् स्थापयेत् ॥ Kर्द्C_४.६३ ॥ ______________________________ दीक्षाङ्गहोमविधिं दर्शयति अथ संस्कृते हुतवहेऽमलधीर् अभिवाह्य सम्यगभिपूज्य हरिम् । जुहुयात्सिताघृतयुतेन पयः परिसाधितेन सितदीधितिना ॥ ४.६४ ॥ अष्टोत्तरं सहस्रं समाप्य होमं पुनर्बलिं दद्यात् । राशिष्वधिनाथेभ्यो नक्षत्रेभ्यस्ततश्च करणेभ्यः ॥ ४.६५ ॥ अथानन्तरं शास्त्रोक्तसंस्कारैः संस्कृते वह्नौ निर्मलबुद्धिः यथोक्तरूपं हरिमावाह्य गन्धादिभिश्च यथाविधि सम्पूज्याष्टोत्तरसहस्रं जुहुयात् । केन सितदीधितिना भक्तेन कीदृशेन पयःपरिसाधितेन दुग्धपरिपाचितेन परमान्नेनेत्यर्थः । पुनः कीदृशेन ? सिताघृतयुतेन शर्कराघृतसहितेन अनन्तरं यथोक्तहोमं समाप्यावशिष्टपरमान्नेन राशिषु मेषादिषु अधिनाथेभ्यो राशिदेवताभ्यो मङ्गलादिभ्यः नक्षत्रेभ्योऽश्विन्यादिभ्यः करणेभ्यो ववादिभ्यो बलिं दद्यात् । प्रयोगस्तु मेषवृश्चिकाधिपतये मङ्गलाय एष बलिर्नमः एवं वृषतुलाधिपतये शुक्राय मिथुनकन्याधिपतये बुधाय कर्कटाधिपतये चन्द्राय सिंहाधिपतये सूर्याय दनुर्मीनाधिपतये गुरवे मकरकुम्भाधिपतये शनये एव बलिर्नमः । एवमश्वनीभरणीकृत्तिकापादीयमेषराशये एष बलिर्नम इत्यादि । एवं वववालकीलवतैतिलगरवणिजविष्टिभ्यः एष बलिर्नमः ॥ Kर्द्C_४.६४६५ ॥ ______________________________ पूजानन्तरं प्रकारमाह सम्पाद्य पानीयसुधां समर्प्य दत्त्वाम्भ उदास्य मुखार्चिरास्ये नैवेद्यमुद्धृत्य निवेद्य विष्वक् सेनाय पृथ्वीमुपलिप्य भूयः ॥ ४.६६ ॥ पानीयमेव धेनुमुद्रया सुधां कृत्वा पानार्थं कृष्णाय समर्प्याम्भो दत्त्वा जलमाचमनार्थं दत्त्वा मुखार्चिर्देवमुखान्नैवेद्येऽवतारितं तेज आस्ये देवमुखे उद्वास्य निवेश्य नैवेद्यमुत्तोल्य विश्वक्सेनाय देवगणाय नैवेद्यं समर्प्य पृथिवीमुपलिप्य ॥ Kर्द्C_४.६६ ॥ ______________________________ गण्डूषदन्तधवनाचमनास्यहस्त मृज्यानुलेपमुखवासकमाल्यभूषाः । ताम्बूलमप्यभिसमर्प्य सुवाद्यनृत्य गीतैः सुतृप्तमभिपूजयतात्पुनरेव ॥ ४.६७ ॥ भूयः पुनरपि गण्डूषं चुलूकोदकं दन्तधवनं दन्तकाष्ठम् । दन्तधवनं दन्तधावनमिति त्रिपाठिनः । आचमनं शेषाचमने द्विर्आचमनमास्यहस्तयोर्मृज्यं मुखहस्तयोः प्रोञ्छनवस्त्रमनुलेपश्चन्दनादिः मुखं वास्यते सुरभि क्रियते अनेनेति मुखवासं कर्पूरादि माल्यं पुष्पं भूषालङ्करणं ताम्बूलमपि समुच्चये एतानि समर्प्य पुनरेव यथापूर्वं पूजा कृता एवं सुवाद्यनृत्यगीतैः सुतृप्तं हरिं नत्वा भिपूजयेत् ॥ Kर्द्C_४.६७ ॥ ______________________________ गन्धादिभिः सपरिवारमथार्घमस्मै दत्त्वा विधाय कुसुमाञ्जलिमादरेण । स्तुत्वा प्रणम्य शिरसा चुलुकोदकेन स्वात्मानमर्पयतु तच्चरणाब्जमूले ॥ ४.६८ ॥ कैः ? गन्धादिभिः सपरिवारं पूर्वोक्तावरणसहितमथानन्तरमस्मै हरये अर्घ्यं दत्त्वा आदरेण पुष्पाञ्जलिं दत्त्वा स्तुत्वा शिरसा प्रणम्य सच्चरणारविन्दमूले स्वात्मानं चुलुकेन अर्घशेषजलेन समर्पयतु ॥ Kर्द्C_४.६८ ॥ ______________________________ आत्मनः समर्पणमन्त्रमाह इत इत्यादिना स्वात्मसमर्पणे इत्यन्तेन ग्रन्थेन इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्य्अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये सम्यगर्पये ओं तत्सदिति च प्रोक्तमन्त्रः स्वात्मसमर्पणे ॥ ______________________________ एतच्च मन्त्रत्रयं स्पष्टत्वान्न लिख्यते अनुस्मरन् कलशगमच्युतं जपेत् सहस्रकं मनुमथ साष्टकं बुधः । वपुष्यथो दितिजाजितः समावृतीर् विलाप्य तास्तदपि नयेत्सुधात्मताम् ॥ ४.६९ ॥ अथानन्तरं बुधः पण्डितः कलशगं कुम्भादिनिष्ठं हरिं चिन्तयन् साष्टकमष्टसहितं सहस्रं मनुं मन्त्रं जपेत् । अथानन्तरं दितिजजितः श्रीकृष्णस्य वपुषि शरीरे ताः पूर्वोक्ताः समावृतीः आवरणदेवता विलाप्य्विलीना इति विचिन्त्य तदपि देववपुः सुधात्मताममृततां नयेत् ॥ Kर्द्C_४.६९ ॥ ______________________________ ध्वजतोरणदिक्कलशादिगताम् अपि मण्डपमण्डलकुण्डगताम् । अभियोज्य चितिं कलशे कुसुमैः परिपूज्य जपेत्पुनरष्टशतम् ॥ ४.७० ॥ कलशे चितिं मन्त्रदेवतां चैतन्यरूपमभियोज्य कुसुमैः पुष्पैः सम्पूज्य पुनरष्टसहितं शतं जपेत् । किम्भूताम् ? चितिं ध्वजतोरणदिक्कलशादिगतां न केवलं ध्वजादिगतामपि तु मण्डले मण्डपे कुण्डगताम् ॥ Kर्द्C_४.७० ॥ ______________________________ अथ शिष्य उपोषितः प्रभाते कृतनैत्यः सुसिताम्बरः सुवेशः । धरणीधनधान्यगोकुलैर् धिनुयाद्विप्रवरान् हरेः प्रसत्त्यैः ॥ ४.७१ ॥ अथानन्तरमुपोषितः कृतोपवासः शिष्यः प्रभाते प्रातःकाले कृतनित्यकृत्यः शुक्लवस्त्रधरः सुवेशः शोभनभूषणः धरणी पृथिवी धनं सुवर्णादि धान्यं व्रीह्य्आदि गौर्दोग्ध्री दुकूलं पट्टवस्त्रमेतैर्यथायोग्यं विप्रवरान् ब्राह्मणश्रेष्ठान् धिनुयात्प्रीणयेत् । किम्अर्थम् ? हरेः श्रीकृष्णस्य प्रसादार्थम् ॥ Kर्द्C_४.७१ ॥ ______________________________ भूयः प्रतर्प्य प्रणिपत्य देशिकं तस्मै परस्मै पुरुषाय देहिने । तां वित्तशाठ्यं परिहृत्य दक्षिणां दत्त्वा तनुं स्वां च समर्पयेत्सुधीः ॥ ४.७२ ॥ भूयः पुनरपि प्रतर्प्य ब्राह्मणान् सन्तोष्य पुनः कथनमत्यन्ततर्पणार्थं परीत्येति पाठे प्रदक्षिणीकृत्येत्यर्थः । देशिकं गुरुं प्रणिपत्य नमस्कृत्य तस्मै गुरवे देहिने देहधारिणे परस्मै पुरुषाय श्रीकृष्णाय धनशाठ्यं परिहृत्य वैभवानुसारेण तां प्रसिद्धां वित्तार्धं चतुर्थांशं वा दत्त्वा न तु दक्षिणामिव मन्त्रादानानन्तरमेव तत्प्रसङ्गात्स्वां स्वीयां तनुं सुबुद्धिः समर्पयेत् ॥ Kर्द्C_४.७२ ॥ ______________________________ अथाभिषेकमण्डपे सुखोपविष्टमासने । गुरुर्विशोधयेदमुं पुरेव शोषणादिभिः ॥ ४.७३ ॥ अथानन्तरं गुरुरमुं शिष्यं पुरेव पूर्ववदेव शोषणादिभिर्भूतशुद्ध्य्आदिभिर्विशोधयेत् । कीदृशम् ? अभिषेकमण्डपे आसने सुखोपविष्टम् ॥ Kर्द्C_४.७३ ॥ ______________________________ पीठन्यासावसानं वपुषि विमलधीर्न्यस्य तस्यासिकाया मन्त्रेणाभ्यर्च्य दूर्वाक्षतकुसुमयुतां रोचनां के निधाय । आशीर्वादैर्द्विजानां विशदपटुरवैर्गीतवादित्रघोषैर् माङ्गल्यैरानयत्तं कलशमभिवृतस्तत्समीपं प्रतीतः ॥ ४.७४ ॥ तस्य शिष्यस्य वपुषि शरीरे पीठन्यासावसानं पीठन्यासपर्यन्तं सकलं न्यासं विन्यस्य आसिकाया आसनस्य मन्त्रेणासनं पूजयित्वा रोचनां मस्तके निधाय तिलकं कारयित्वा । कीदृशीं रोचनाम् ? दूर्वाक्षतपुष्पसहिताम् । अनन्तरं द्विजानामाशीर्वादैर्गीतिमङ्गलादिशब्दैः । कीदृशैरेतैः ? विशदपटुरवैः स्पष्टोत्तमशब्दैः तथा अन्यैरपि माङ्गल्यैर्मङ्गलस्योपयुक्तैः सहितं तं कलशमभिवृत आचार्यत्वेन वृतः तत्समीपं शिष्यसमीपमानयेत् । कीदृशः ? शिष्यात्मीयतया प्रतीतो विश्वासान्वितो यः कश्चिदित्यर्थः ॥ Kर्द्C_४.७४ ॥ ______________________________ तेनाभिलीनमणिमन्त्रमहौषधेन धाम्ना पेरण परमामृतरूपभाजा । सम्पूरयन् वपुरमुष्य ततो वितन्वन् तत्सामरस्यमभिषेचयताद्यथावत् ॥ ४.७५ ॥ कुम्भस्य पल्वलान् शिष्यशिरसि निधाय तेन कलसेनेत्यर्थाद्यथावत्यथायुक्तप्रकारेणाभिषेचयेतभिषेचनं कुर्यात् । तदुक्तम् विधिवत्कुम्भमुद्धृत्य तन्मुखस्थान् सुरद्रुमान् । शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥ इति । किम्भूतेन ? अभिलीनः संलीनः मणिर्नवरत्नानि मन्त्रः ऋक्महौषधं दिव्यपिप्पलीप्रभृति यत्र तेन । कीदृशेन ? परेण धाम्ना परतेजःस्वरूपेण । पुनः कीदृशेन ? परमामृतरूपभाजा परमामृतरूपमयेन । किं कुर्वन् ? अमुष्य शिशोर्वपुः शरीरं पूरयन् । किं कुर्वन् ? ततस्तद्अनन्तरं तत्सामरस्यं तेन तेन तेजोरूपेण कलशैक्यं वितन्वन् ॥ Kर्द्C_४.७५ ॥ ______________________________ अभिषेकमाह क्षाद्यैरान्तैर्वर्णैरभिपूर्णतनुस्त्रिरुक्तमन्त्रान्तैः । परिहितसिततरवमनद्वितीयो वाचंयमः समाचान्तः ॥ ४.७६ ॥ क्षादिर्येषां तैः आन्तैः अकारान्तो येषां तैर्वर्णैर्मातृकाक्षरैर्मूलमन्त्रत्रिजपावसानैरभिषिक्तशरीरः शिष्यः धृतनवीनातिशुक्लवसनयुगलः मौनी कृतद्विर्आचमनः ॥ Kर्द्C_४.७६ ॥ ______________________________ बहुशः प्रणम्य देशिकनामानं हरिमथोपसङ्गम्य । तद्दक्षिणत उपास्तामभिमुखमेकाग्रमानसः शिष्यः ॥ ४.७७ ॥ बहुवारं देशिकनामानं गुरुरूपं हरिं नत्वा अथानन्तरमुपसङ्गृह्य गुरुचरणौ व्यत्यस्तहस्तद्वयं कृत्वा तद्दक्षिणतो गुरुदक्षिणे अभिमुखं गुरुसंमुखमेकाग्रमानसः एकचित्तस्तिष्ठेतुपविशेत् ॥ Kर्द्C_४.७७ ॥ ______________________________ न्यासैर्यथाविधि तमच्युतसाद्विधाय गद्न्हाक्षतादिभिरलङ्कृतवर्ष्मणोऽस्य । ऋष्य्आदियुक्तमथ मन्त्रवरं यथावद् ब्रूयात्त्रिशो गुरुरनर्घ्यमवामकरेण ॥ ४.७८ ॥ अथानन्तरं यथाविधि यथोक्तप्रकारेण न्यासैः पञ्चाङ्गन्यासादिभिः ते शिष्यमच्युतसाद्विधाय श्रीकृष्णरूपं कृत्वा गन्धाक्षतपुष्पैः विभूषितशरीरस्यास्य अवामकर्णे दक्षिणकर्णे ऋषिच्छन्दोदेवतासहितमनर्घ्यममूल्यं मन्त्रवरं मन्त्रश्रेष्ठं त्रिशः त्रिवारं ब्रूयात्यथावत्यथोक्तप्रकारेण स च प्रकारः प्रथमं दक्षिणहस्ते गुरुर्जलं ददाति अमुकमन्त्रं ददामीति अनेन शिष्योऽपि ददस्व इति ब्रूयात्ततो मन्त्रं दद्यादिति अत्रावश्यं वारत्रयं गुरुणा मन्त्रः पठनीयः दत्ते यावच्छिष्यस्य मन्त्रः स्वायत्तो भवति तावत्पठनीय इति ॥ Kर्द्C_४.७८ ॥ ______________________________ मन्त्रग्रहणानन्तरं शिष्यकृत्यं दर्शयति गुरुणा विधिवत्प्रसादितं मनुमष्टोर्ध्वशतं प्रजप्य भूयः । अभिवाद्य ततः शृणोतु सम्यक् समयान् भक्तिभरेण नम्रमूर्तिः ॥ ४.७९ ॥ यथाविधि गुरुणा हेतुना प्राप्तं मन्त्रं प्रसाधितमनुग्रहेण दत्तमिति त्रिपाठिनः । अष्टौ ऊर्ध्वं यस्य तस्य तदष्टाधिकशतं प्रजप्य भूयः पुनरपि गुरुमभिवाद्यं नमस्कृत्य दण्डवत्प्रणम्य ततो गुरुतः समयानाचारान् सम्यक्कृत्वा शृणोतु यत्तु विद्यामष्टकृत्वो जपेदिति तत्तन्न्यूनसङ्ख्याकलजपनिषेधपरम् । कीदृशः ? भक्त्यातिशयेन नम्रशरीरः ॥ Kर्द्C_४.७९ ॥ ______________________________ मन्त्रदानानन्तरं गुरुकृत्यमाह दत्त्वा शिष्याय मनुं न्यस्याथ गुरुः कृतात्मयजनविधिः । अष्टोत्तरं सहस्रं स्वशक्तिहान्यनवाप्तये जप्यात् ॥ ४.८० ॥ अथानन्तरं गुरुः शिष्याय मन्त्रं दत्त्वा न्यस्य न्यासादिकं कृत्वा कृतात्मयजनविधिः कृताभ्यन्तरयागः अष्टाधिकं सहस्रं स्वसामर्थ्यहान्य्अनवाप्तये स्वसामर्थ्यरक्षार्थं दत्तमन्त्रं जपेत् ॥ Kर्द्C_४.८० ॥ ______________________________ शिष्यकृत्यमाह कुम्भादिकं च सकलं गुरवे समर्प्य सम्भोजयेद्द्विजवरानपि भोज्यजातैः । कुर्वन्त्य्हनेन विधिना य इहाभिषेकं ते सम्पदां निलयनं हि त एव धन्याः ॥ ४.८१ ॥ कुम्भादिकं सकलं मण्डलसहितं मण्डपावस्थितद्रव्यं गुरवे समर्प्य दत्त्वा भोज्यसमूहैर्द्विजश्रेष्ठान् सन्तोषयेतेतत्करणस्य फलमाहेह जगति अनेन विधिना अनया परिपाट्या ये अभिषेकं कुर्वन्ति ते सम्पदां सर्वसमृद्धीनां निलयनं स्थानं त एव धन्याः पुरुषार्थभागिनः ॥ Kर्द्C_४.८१ ॥ ______________________________ उक्तमर्थमुपसंहरति सङ्क्षिप्य किंचिदुदिता दीक्षा संस्मरणाय हि विशदधियाम् । एतां प्रविश्य मन्त्री सर्वान् जपेज्जुहोतु यजेच्च मनून् ॥ ४.८२ ॥ किंचित्सङ्क्षिप्य दीक्षा उक्ता कथिता विशदधियां निर्मलबुद्धीनां संस्मरणाय एतां दीक्षां प्रविश्य प्राप्य मन्त्री साधकः सर्वान्मन्त्रान् जपेत्यजेज्जुहोतु ॥ Kर्द्C_४.८२ ॥ इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां दीक्षापूजानाम चतुर्थपटलः ॥४॥ ************************************************************************** (५) पञ्चमः पटलः अधुना दीक्षितस्य मन्त्रविधिं दर्शयति चैत्रे कृत्वैतन्मासि कर्माच्छपक्षे पुण्यर्क्षे भूयो देशिकात्प्राप्य दीक्षाम् । तेनानुज्ञातः पूर्वसेवां द्वितीये मासि द्वादश्यामारभेतामलायाम् ॥ ५.१ ॥ चैत्रे मासि पुण्यर्क्षे शुभनक्षत्रे अच्छपक्षे शुक्लपक्षे एतत्कर्म मन्त्रदीक्षात्मकं कर्म कृत्वा भूयः पुनरपि देशिकात्गुरोर्दीक्षां मन्त्रोपदेशं प्राप्यानन्तरं तेन गुरुणानुज्ञातः द्वितीये मासि वैशाखे द्वादश्यां तिथौ पूर्वसेवां पुरश्चरणमारभेत् । चैत्रे दुःखाय दीक्षा स्यातिति वचनं गोपालमन्त्रभिन्नदीक्षविषयम् ॥ Kर्द्C_५.१ ॥ ______________________________ कृत्वा स्नानाद्यं कर्म देहार्चनान्तं वर्त्माश्रित्य प्रागीरितं मन्त्रिमुख्यः । शुद्धो मौनी सन् ब्रह्मचारी निशाशी जप्याच्छान्तात्मा शुद्धपद्माक्षदाम्ना ॥ ५.२ ॥ कृत्वेति । मन्त्रिमुख्यः साधकः स्नानमारभ्यात्मयोगान्तं कर्म कृत्वा प्रागीरितं वर्त्माश्रित्य पूर्वोक्तपूजाप्रकारमाश्रित्य शुद्धो गायत्रीजपेन निष्पापो ब्राह्मणाद्य्उक्तबाह्यान्तरशौचयुक्तो मौनी वाग्यतो ब्रह्मचारी अष्टविधमैथुनत्यागी निशाशी रात्रिभोजी शान्तात्मा अनुद्धतचित्तः शुक्लपद्मबीजमालया जप्यात् । अत्रैवमागमान्तरोक्तं बोद्धव्यम् । शुभे दिने क्रोशं क्रोशद्वयं वा क्षेत्रं विहारार्थं परिकल्प्य क्षीरद्रुमभववितस्तिपरिमिताष्टकीलकाः प्रत्येकमेकदैव वा दशकृत्वः शतकृत्वो वा जपित्वा अष्टदिग्देवताः सम्पूज्य मध्ये क्षेत्रे क्षेत्रपालबलिं दत्त्वा पूजां कृत्वा पूर्वाद्य्अष्टदिक्षु तान्निखन्यात्तत्र तत्र तत्तन्नाम्ना दिक्पतिबलिं च दत्त्वा दीपकं च दत्त्वा जपपूर्वदिवसे एकभोजनमुपवासो वा गुरुं ब्राह्मणांश्च तर्पयेत् । तथा च सनत्कुमारकल्पे विप्रांश्च भोजयेदन्नभोजनाच्छादनादिभिः । बहुभिर्वस्त्रभूषाभिः सम्पूज्य गुरुमात्मनः । आरभेत जपं पश्चात्तद्अनुज्ञापुरःसरम् ॥ इति । ततोऽग्रिमदिने स्नानादिकं कृत्वा सङ्कल्पं कुर्यातोमद्यों नम इत्याद्युच्चार्यामुकमन्त्रस्य सिद्धिकाम इयत्सङ्ख्याकजपतद्दशांशामुकद्रव्यहोमतद्दशांशामुकद्रव्यतर्पणतद्दशांशामुकाभिषेकतद्दशांशब्राह्मणसम्प्रदानकभोज्यदानात्मकपुरश्चरणकर्म करिष्ये इति सङ्कल्पं कुर्यात् । ततो मन्त्रर्षिछन्दोदेवतानां कामस्थाने पुरश्चरणजपे विनियोग इति । जपे चायं नियमः नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् । शयनं दर्भशय्यायां शुचिः प्रयतमानसः । दिवसातिक्रमे दोषः सिद्धिबाधः प्रजायते ॥ नारदीये शनैः शनैरविस्पष्टं न द्रुतं न विलम्बितम् । न न्यूनं नाधिकं वापि जपं कुर्याद्दिने दिने ॥ तथान्यत्र अनन्यमानसः प्रातः कालान्मध्यन्दिनावधि । नारदीये तथैव च न वदन्न स्वपन् गच्छन्नान्यत्किमपि संस्मरन् । न क्षुज्जृम्भणहिक्कादिविकलीकृतमानसः ॥ मन्त्रसिद्धिमवाप्नोति तस्माद्यत्नपरो भवेत् । उष्णीषो कञ्चुकी नग्नो मुक्तकेशः तथैव च ॥ प्रसारितपाणिपादो नोच्चपादासनो भवेत् ॥ तथा वैशम्पायनसंहितायाम् स्नानं त्रिसवनं प्रोक्तमशक्तौ द्विः सकृत्तथा । अस्नातस्य फलं नास्ति न वा तर्पयतः पितॄन् ॥ नासत्यमभिभाषेत नेन्द्रियाणि प्रलोभयेत् । शयनं दर्भशय्यायां शुचिः प्रयतमानसः ॥ तद्वासः क्षालयेन्नित्यमन्यथा विघ्नमावहेत् । नैकवासा जपेन्मन्त्रं बहुवस्त्री कदाचन ॥ उपर्य्अधो बहिर्वस्त्रे पुरश्चरणकृद्भजेत् ॥ तथा नारदीये स्त्रीशूद्राभ्यां न सम्भाषेद्रात्रौ जपपरो न च । जपेन्न सन्ध्याकालेषु प्रदोषे नोभयेषु च । ब्राह्मणानीतवस्त्रशुद्धजलेन कर्मकृद्भवेत् ॥ इति ॥ Kर्द्C_५.२ ॥ ______________________________ अपि तु कृत्यमाह तन्वन् शुश्रूषां गोषु ताभ्यः प्रयच्छन् ग्रासं भूतेषु प्रोद्वहश्चानुकम्पाम् । मन्त्राधिष्ठात्रिं देवतां वन्दमानो दुर्गां दुबोधध्वान्तभानुं गुरुं च ॥ ५.३ ॥ गोषु शुश्रूषां गोपरिचर्यां धूमकण्डूयनादिरूपां सेवां विस्तारयन् । किं कुर्वन् ? ताभ्यो गोभ्यो ग्रास ं प्रयच्छन् गोपालमन्त्र एव ग्रासादिकमत्रोपादानादन्यत्रानुक्तेश्च । भूतेषु प्राणिषु करुणां धारयन्मन्त्राधिष्ठातृदेवतां दुर्गामज्ञानान्धकारसूर्यं गुरुं च वन्दमानः ॥ Kर्द्C_५.३ ॥ ______________________________ कुर्वन्नात्मीयं कर्म वर्णाश्रमस्थं मन्त्रं जप्त्वा त्रिः स्नानकालेऽभिषिञ्चेत् । आचामन् पाथस्तत्त्वसङ्ख्याप्रजप्तं भुञ्जानश्चान्नं सप्तजप्ताञ्चनादि ॥ ५.४ ॥ स्वीयं वर्णाश्रमोक्तं कर्म कुर्वनात्मीयमात्मनो यो वर्णो ब्राह्मणादिर्यो वाश्रमो ब्रह्मचर्यादिस्तत्र तत्रस्थं कर्म विहितं तत्तत्कुर्वन्नित्यर्थः । मन्त्रजप्तजलेन काले वारत्रयं स्वात्मानमभिषिञ्चेत्तत्त्वसङ्ख्याप्रजप्तं द्वात्रिंशत्सङ्ख्याप्रजप्तं पञ्चविंशतिप्रजप्तं वा तथा जलमाचामनित्थमेवान्नं भुञ्जानः । पुनः कीदृशः ? सप्तजप्तमञ्जनादिकज्जलादि यस्य स तथा आदिशब्देन गन्धमाल्यादीनां परिग्रहः । अञ्जनाद्य इति क्वचित्पाठः ॥ Kर्द्C_५.४ ॥ ______________________________ जपस्थानमाह अद्रेः शृङ्गे नद्यास्तटे बिल्वमूले तोये हृदघ्ने गोकुलविष्णुगेहे । अश्वत्थाधस्तादम्बुधेश्चापि तीरे स्थानेष्वेतेष्वासीन एकैकशस्तु ॥ ५.५ ॥ प्रजपेदयुतचतुष्कं दशाक्षरं मनुवरं पृथक्क्रमशः । अष्टादशाक्षरं चेदयुतद्वयमित्युदीरिता सङ्ख्या ॥ ५.६ ॥ पर्वतशृङ्गे नदीतीरे बिल्ववृक्षसमीपदेशे हृदयप्रमाणजले गोष्ठे विष्णुप्रतिमाधिष्ठितगेहे पिप्पलवृक्षसमीपदेशे समुद्रस्य तीरे अष्टसु स्थानेषु आसीन उपविष्टः एकैकशः एकैकस्मिन् स्थाने स्थानेषु क्रमशः क्रमेण पृथकयुतचतुष्कं कृत्वा दशाक्षरमन्त्रं जपेत्यदाष्टादशाक्षरमन्त्रः तदायुतद्वयं कृत्वा इति जपसङ्ख्योदीरिता अत्र न प्रतिस्थानमयुतचतुष्कायुतद्वयजपः किन्तु यथा जप्तव्यं येन सर्वत्र जपेन तावत्येव सङ्ख्या भवति अन्यथाष्टसु स्थानेषु जपेनाष्टादशाक्सरे षोडशायुतजपः स्यात् । प्रपञ्चसारेऽप्ययुतद्वितयावधिजपः स्यादिति । यद्यप्यष्टादशाक्षरे इयं सङ्ख्या तथापि तुल्यन्यायाद्दशाक्षरेऽपि इयमेव व्यवस्थेति रुद्रधरः ॥ Kर्द्C_५.५६ ॥ ______________________________ उक्तेषु स्थानेषूउय्क्रमेणाहारनियममाह शाकं मूलं फलं गोस्तनभवदधिनी भैक्षमन्नं च सक्तुं दुग्धान्नं चेत्यदानः क्षितिधरशिखरादौ क्रमात्स्थानभेदे । एकं चैषामशक्तौ गदितमिह मया पूर्वासेवाविधानं निर्वृत्तेऽस्मिन् पुनश्च प्रजपतु विधिवत्सिद्धये साधकेशः ॥ ५.७ ॥ क्षितिधरशिखरादौ पूर्वोक्तपर्वतशृङ्गादौ स्थानविशेषे क्रमादेकैकं क्रमेण विहितं शाकं वास्तुकादि मूलं शूरणादि फलमाम्रादि गोस्तनभवं दुग्धं दधि च द्वन्द्वः भैक्षं भिक्षात उपलब्धमन्नं च प्रशस्तं हैमतिकं सितास्विन्नं सक्तुं भृष्टयवचूर्णं दुग्धान्नं पायसमदानो भक्षमाणो जपं कुर्यात्मितोदनम् । शस्तान्नं च समश्नीयान्मन्त्रसिद्धिसमीहया । तस्मान्नित्यं प्रयत्नेन शस्तान्नाशी भवेन्नरः ॥ इति । अशक्तं प्रत्याहैकमिति । अशक्तौ चैषामद्रिशृङ्गाद्य्अष्टस्थानानां मध्ये एकं स्थानं समाश्रित्य शाकाद्य्अष्टविधेष्वेकं भोजनमाश्रित्य जपं कुर्यात् । तदुक्तं नारदीये मृदु कोष्णं सुपक्वं च कुर्याद्वै लघुभोजनम् । नेन्द्रियाणां यथा वृद्धिस्तथा भुञ्जीत साधकः ॥ यद्वा तद्वा परित्याज्यं दुष्टानां सङ्गमं तथा ॥ इह ग्रन्थे पूर्वसेवाविधानं मया गदितं कथितमस्मिन्न्निवृत्ते सम्पूर्णे पुरश्चरणजपे पुनश्च प्रजपतु सिद्धये विशिष्टफलसिद्धये विधिवत्यथोक्तप्रकारेण अत्र केचिदस्मिन् पूर्वसेवारम्भे कर्मणि निर्वृत्ते समाप्ते पुनः पुरश्चरणजपं करोत्वित्याहुः ॥ Kर्द्C_५.७ ॥ ______________________________ देहार्चनान्ते दिनशो दिनादौ दीक्षोक्तमार्गान्यतरं विधानम् । आश्रित्य कृष्णं प्रयजेद्विविक्ते गेहे निषण्णो हुतशिष्टभोजी ॥ ५.८ ॥ देहार्चनान्ते देहपूजावसाने दिनशः प्रतिदिनं दिनादौ प्रातर्दीक्षोक्तमार्गेषु षोडशपञ्चोपचारादिषु अन्यतरमेकं वर्त्माश्रित्य कृष्णं प्रयजेत्पूजयतु आवरणभेदाद्वर्त्मभेदः । कीदृशः ? विविक्त एकान्ते गृहे निषण्ण उपविष्टः । पुनः कीदृशः ? हुतशिष्टभोजी प्रात्यहिकजपदशांशहोमावशिष्टभोजी ॥ Kर्द्C_५.८ ॥ ______________________________ प्रकारान्तरमपि महते फलाय पुरश्चरणमाहदशलक्षमिति रुद्रधरः । वयं तु पश्यामः । प्रकृतयथोक्तपुरश्चरणमाह दशलक्षमक्षयफलप्रदं मनुं प्रतिजप्य शिक्षितमतिर्दशाक्षरम् । जुहुयाद्गुडाज्यमधुसम्प्लुतैर्नवैर् अरुणाम्बुजैर्हुतवहे दशायुतम् ॥ ५.९ ॥ शुद्धमतिः साधकः अक्षयफलदं मोक्षफलं दशाक्षरं मनुं दशलक्षं प्रतिजप्य हुतवहे संस्कृताग्नौ अरुणाम्बुजैररुणकमलैर्दशायुतं लक्षमेकं जुहुयात् । कीदृशैः ? गुडाज्यमधुसम्प्लुतैः गुडघृतमधुसंयुक्तैः ॥ Kर्द्C_५.९ ॥ ______________________________ शुषिरयुगलवर्णं चेन्मनुं पञ्चलक्षं प्रजपतु जुहुयाच्च प्रोक्तक्प्त्यार्धलक्षम् । अमलमतिरलाभे पायसैरम्बुजानां सहितघृतसितैरेवारभेद्धोमकर्म ॥ ५.१० ॥ शुषिरयुगलवर्णं शुषिरं छिद्रं नवसङ्ख्यात्मकं तस्य युगलं द्वन्द्वमष्टादशाक्षरं जपेत्तदा पञ्चलक्षं प्रजपतु प्रोक्तक्प्त्या पूर्वोक्तपरिपाट्या चार्धलक्षं जुहुयात्यथोक्तहोमद्रव्यालाभे द्रव्यान्तरमाह अमलमतिरिति शुद्धमतिः अम्बुजानां पद्मानामलाभेऽप्राप्तौ पायसैः परमान्नैर्होममारभेत । कीदृशैः ? सहिते घृतसिते येषु तैः घृतशर्करासहितैरित्यर्थः । स्वाहान्तेन होमपूजेति सर्वत्र बोद्धव्यं होमादेश्चानुष्ठानप्रकारो मत्कृतहोमानुष्ठानपद्धतेरवगन्तव्यः । नारदीये, यथा जपस्य तु दशांशेन होमः कार्यो दिने दिने । अथवा लक्षपर्यन्तं होमः कार्यो विपश्चिता ॥ इति ॥ Kर्द्C_५.१० ॥ ______________________________ होमाशक्तं प्रत्याह असक्तानां होमे निगमरसनागेन्द्रगुणितो जपः कार्यश्चेति दिव्जनृपविशामाहुरपरे । सहोमश्चेदेषां सम इह जपो होमरहितो य उक्तो वर्णानां स खलु विहितस्तच्चलदृशाम् ॥ ५.११ ॥ तावद्द्रव्याद्य्असम्पत्त्या होमकर्मणि असमर्थानां ब्राह्मणक्षत्रियवैश्यानां यथासाङ्ख्यं निगमा वेदाश्चत्वारः रसाः षट्नागेन्द्रा अष्टौ एतैर्गुणितैर्जप्योऽनुष्ठेय इत्यपरे आचार्या आहुः । तत्र कृत एव जपः एतैर्गुणित इति रुद्रधरः । वस्तुतस्तु होमाशक्तौ जपं कुर्याद्धोमसङ्ख्याचतुर्गुणम् । षड्गुणं चाष्टगुणितं यथासङ्ख्यं द्विजातयः ॥ इति पुरश्चरणचन्द्रिकोक्तमेव युक्तं पश्यामः । होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः । इतरेषां तु वर्णानां त्रिगुणो हि विधीयते ॥ इति । एतेषां मतापेक्षया अपर इत्युक्तम् । एतेषां च मते तर्पणादिव्यतिरेकेण मूलभूतजपद्विगुणजपेनैव पुरश्चरणसिद्धिर्भवति तथैव ग्रन्थान्तरेऽभिधानात् । एषां ब्राह्मणादीनां होमसहितश्चेज्जपः तदा त्रयाणामपि अयुतचतुष्टयादिसमानमेव वर्णानां ब्राह्मणादीनां होमरहितो य उक्तो जपः । अत्र होमरहितो यश्चतुर्गुणो जप इति भैरवत्रिपाठिनः । स एव तच्चलदृशां तत्पत्नीनां विहितः ॥ Kर्द्C_५.११ ॥ सनातनः : होमे असमर्थानां विप्रक्षत्रियवैश्यानां यथासङ्ख्यं निगमादेवाश्चत्वारः, रसाः षट्नागेन्द्रा अष्टौ, एतैर्गुणितो जपः कार्यः । त्व्अर्थे वाशब्दः । अपर इतिहोमकर्मण्यसुगममेवेति ॥ (ह्ब्व्१७.२०५ टीका) ______________________________ शूद्रं प्रत्याह यं वर्णमाश्रितो यः शूद्रः स च तन्नतभ्रुवाम् । विदधीत जपं विधिवच्छ्रद्धावान् भक्तिभरावनम्रतनुः ॥ ५.१२ ॥ ब्राह्मणादीनां मध्ये यं वर्णं शूद्रः समाश्रितः स तन्नतभ्रुवां तेषामेव द्विजात्य्आदीनां स्त्रीणां विहितं जपं विधिवत्कथितप्रकारेण विहितं कुर्यात् । कीदृशः ? श्रद्धायुतः । पुनः कीदृशः ? भक्तिभरेण भक्त्य्अतिशयेन नम्रो तनुः शरीरं यस्य स तथा । जपश्चायं होमरहित इति रुद्रधरः ॥ Kर्द्C_५.१२ ॥ ______________________________ पुरश्चरणोत्त्तरकृत्यमाह पुनरभिषिक्तो गुरुणा विधिवद्विश्राण्य दक्षिणां तस्मै । अभ्यवहार्य च विप्रान् विभवैः सम्प्रीणयेच्च भक्तियुतः ॥ ५.१३ ॥ गुरुणा पुनरपि विधिवत्यथोक्तविधिना अभिषिक्तः कृताभिषेकः तस्मै गुरवे दक्षिणां विश्राण्य दत्त्वा विप्रानभ्यवहार्य भोजयित्वा भक्तियुतः सन् सम्प्रीणयेत्धनधान्यादिभिः प्रीतिं कुर्यात् ॥ Kर्द्C_५.१३ ॥ ______________________________ सिद्धमन्त्रस्य कृत्यमाह इति मन्त्रवरद्वितयान्यतरं परिसाध्य जपादिभिरच्युतधीः । प्रजपेत्सवनत्रितये दिनशो विधिनाथ मुकुन्दममन्दमतिः ॥ ५.१४ ॥ इत्यनेन प्रकारेण मन्त्रद्वितयान्यतरं मन्त्रद्वितययोर्मध्ये एकं जपादिभिर्जपपूजाहोमतर्पणादिभिः परिसाध्य साधयित्वा अच्युतधीरच्युते श्रीकृष्णे धीर्बुद्धिर्यस्य स तथा । यद्वा, अच्युता न क्षरिता विष्णौ बुद्धिर्यस्य स तथा सवनत्रितये सन्ध्यादित्रये दिनशः प्रतिदिनं विधिना उक्तप्रकारेण मुकुन्दं कृष्णं प्रयजेत्पूजयतु अमन्दमतिः शुद्धमतिः ॥ Kर्द्C_५.१४ ॥ ______________________________ पूजायां प्रातःकालिकध्यानमाह अथ श्रीमद्उद्यानसंवीतहैम स्थलोद्भासिरत्नस्फुरन्मण्डपान्तः । लसत्कल्पवृक्षाध उद्दीप्तरत्न स्थलीधिष्ठिताम्भोजपीठाधिरूढम् ॥ ५.१५ ॥ सप्तश्लोकान्तं कुलकम् । अथानन्तरं भक्तिनम्रः भक्त्य्अतिशयेन नम्रदेहः प्रगे प्रातःकाले कथितरूपं कृष्णमनुस्मृत्य ध्यात्वा तद्अङ्गेन्द्रवज्रादिभिः तस्य कृष्णस्याङ्गानि पूर्वोक्तानि हृदयादीनि इन्द्रादयो दश दिक्पालाः वज्रादयस्तद्आयुधानि च तैः सह पूजयित्वा तं कृष्णं सिता शर्करा मोचा कदलीविशेषः हैयङ्गवीनं सद्योजातघृतम् । एभिस्तथा दध्ना विमिश्रेण दधिसंयुक्तेन दोग्धेन पायसेन च मन्त्री सम्प्रीणयेत् । कीदृशं ? श्रीमत्शोभायुक्तं यदुद्यानं क्रीडावनं तेन संवीतं वेष्टितं यद्धैमस्थलं लसत्काञ्चनभूमिस्तत्रोद्भासीनि उद्गतकिरणानि यानि यानि रत्नानि तैः स्फुरत्देदीप्यमानो यो मण्डपस्तस्यान्तर्मध्ये देदीप्यमानो यः कल्पवृक्षस्तस्याधश्छायायामुद्गता दीप्तिर्यस्य तादृशं रत्नमयं यत्स्थानं तद्अधिष्ठितं तत्रावस्थितं यदम्भोजं पद्यं तदेव पीठं तत्राधिरूढमुपविष्टम् ॥ Kर्द्C_५.१५ ॥ ______________________________ महानीलनीलाभमत्यन्तबालं गुडस्निग्धवक्त्रान्तविस्रस्तकेशम् । अलिव्रातपर्याकुलोत्फुल्लपद्म प्रमुग्धाननं श्रीमदिन्दीवराक्षम् ॥ ५.१६ ॥ पुनः कीदृशं ? महानील इन्द्रनीलः । तद्वन्नीलाभं श्यामम् । पुनरत्यन्तबालं पञ्चवार्षिकम् । पुनः, गुडाः कुटिलाः स्निग्धाः चिक्कणाः कर्णान्ते कपोले विस्रस्ताः पर्याकुलाः । वक्त्रान्तेति पाठे विस्रस्ता मुखावलम्बिताः केशा यस्य तम् । अलिव्रातेन भ्रमरसमूहेन पर्याकुलं चञ्चलं व्याप्तं वा यत्फुल्लं विकसितं पद्मं तद्वत्प्रमुग्धं मनोहरमाननं मुखं यस्य तम् । पुनः कीदृशं ? श्रीमत्दोषरहितं यदिन्दीवरं नीलपद्मं तत्सदृशे अक्षिणी यस्य तम् ॥ Kर्द्C_५.१६ ॥ ______________________________ पुनः कीदृशं ? चलत्कुण्डलोल्लासिसम्फुल्लगण्डं सुघोणं सुशोणाधरं सुस्मितास्यम् । अनेकाश्मरश्म्य्उल्लसत्कण्ठभूषा लसन्तं वहन्तं नखं पौण्डरीकम् ॥ ५.१७ ॥ चञ्चले ये कुण्डले ताभ्यामुन्नतौ उल्लसितौ शोभमानौ सम्फुल्लौ विकाशितौ गण्डौ यस्य तम् । पुनः शोभमाना घोणा नासा यस्य तम् । पुनः सुशोणो लोहितोऽधरो यस्य तम् । पुनः शोभनं यत्स्मितमीषद्धासस्तद्युक्तमास्यं यस्य तम् । पुनः अनेकानि यान्यश्मानि इन्द्रनीलप्रभृतीनि रत्नानि तेषां ये रश्मयः किरणाः तैरुल्लसन्ती या कण्ठभूषा तया लसन्तं शोभमानम् । पुनः पौण्डरीकं व्याघ्रसम्बन्धिनखं वहन्तं धारयन्तम् ॥ Kर्द्C_५.१७ ॥ ______________________________ पुनः कीदृशं ? समुद्धूसरोरःस्थलं धेनुधूल्याः सुपुष्टाङ्गमष्टापदाकल्पदीप्तम् । कटीरस्थले चारुजङ्घान्तयुग्मे पिनद्धं क्वणत्किङ्किणीजालदाम्ना ॥ ५.१८ ॥ धेनुधूल्या गोरजसा समुद्धूसरं धूसरितमुरःस्थलं यस्य तं गवामनुगमनात्सुष्ठु पुष्टमङ्गं यस्य तम् । कीदृशं ? अष्टापदाकल्पदीप्तं सुवर्णघटितालङ्कारेण शोभमानम् । पुनः कीदृशं ? क्वणत्किङ्किणीजालदाम्ना शब्दायमानक्षुद्रघण्टिकासमूहमालया कटिस्थले श्रोणितटे चारुजङ्घान्तयुग्मे मनोहरगुल्फद्वयोर्ध्वप्रदेशे पिनद्धं बद्धम् ॥ Kर्द्C_५.१८ ॥ ______________________________ पुनः कीदृशं ? हसन्तं हसद्बन्धुजीवप्रसून प्रभां पाणिपादाम्बुजोदारकान्त्या । करे दक्षिणे पायसं वामहस्ते दधानं नवं शुद्धहैयङ्गवीनम् ॥ ५.१९ ॥ पाणिपादाम्बुजोदारकान्त्या हस्तचरणपद्मविपुलशोभया हसद्बन्धुजीवपुष्पकान्तिं हसन्तमुपहसन्तम् । पुनः कीदृशं ? दक्षिणे करे हस्ते पायसं सव्यहस्ते वामकरे नवं नूतनं शुद्धं निष्कलुषं हैयङ्गवीनं नवनीतं ह्यो गोदोहनोद्भवं घृतं दधानं धारयन्तम् ॥ Kर्द्C_५.१९ ॥ ______________________________ पुनः कीदृशं ? महीभारभूतामरारातियूथान् अनःपूतनादीन्निहन्तुं प्रवृत्तम् । प्रभुं गोपिकागोपगोवृन्दवीतं सुरेन्द्रादिभिर्वन्दितं देववृन्दैः ॥ ५.२० ॥ महीभारभूतामरारातियूथान् पृथिवीभाररूपदैत्यसमूहाननःपूतनादीन् शकटासुरप्रभृतीन्निहन्तुं प्रवृत्तम् । पुनः कीदृशं ? प्रभुं समर्थमीश्वरम् । पुनः कीदृशं ? गोपिका गोपस्त्री, गोपः गौः एतेषां समूहेन वीतं वेष्टितम् । पुनः कीदृशं ? इन्द्रादिभिर्देवसमूहैर्नमस्कृतम् ॥ Kर्द्C_५.२० ॥ ______________________________ प्रगे पूजयित्वेत्त्यनुस्मृत्य कृष्णं तद्अङ्गेन्द्रवज्रादिकैर्भक्तिनम्रः । सितामोचहैयङ्गवीनैश्च दध्ना विमिश्रेण दौग्धेन सम्प्रीणयेत्तम् ॥ ५.२१ ॥ पूर्वश्लोके व्याख्यातमपि क्रमानुरोधेन व्याख्याते प्रगे प्रातःकाले उक्तप्रकारेण कृष्णमनुस्मृत्य ध्यात्वा उपचारैः सम्पूज्य अङ्गाद्य्आवरणैः सह सम्पूज्य नैवेद्यं दद्यात् । नैवेद्यद्रव्यमाहसितेति । सिता शर्करा मोचा कदली हैयङ्गवीनं दौग्धेन पायसेन ॥ Kर्द्C_५.२१ ॥ ______________________________ प्रातः सवनपूजाफलमाह इति प्रातरेवार्चयेदच्युतं यो नरः प्रत्यहं शश्वदास्तिक्ययुक्तः । लभेताचिरेणैव लक्ष्मीं समग्राम् इह प्रेत्य शुद्धं परं धाम भूयात् ॥ ५.२२ ॥ इत्यनेन प्रकारेण प्रत्यहं शश्वत्सर्वदा आस्तिक्ययुक्तः सन् यो नरः प्रातःकाले अच्युतमर्चयेत्तमेवावश्यं पूजयति स इह लोके अचिरेणैवाल्पकालेनैव समग्रां सम्पूर्णां लक्ष्मीं सम्पदं लभते प्राप्नोति प्रेत्य देहं परित्यज्य परं शुद्धं ब्रह्माख्यं महः भूयात्प्राप्नोति तत्सरूपो भवतीत्यर्थः ॥ Kर्द्C_५.२२ ॥ ______________________________ प्रातः पूजायामेव नैवेद्यं तर्पणं च दर्शयति अहोमुखेऽनुदिनमित्यभिपूज्य शौरिं दध्नाथ वा गुडयुतेन निवेद्य तोयैः । श्रीमन्मुखे समनुतर्प्य च तद्धिया तं जप्यात्सहस्रमथ साष्टकमादरेण ॥ ५.२३ ॥ अथवा शब्दः पादपूरणे इति पूर्वोक्तप्रकारेण अह्नोमुखे प्रातःकाले अनुदिनं प्रत्यहं शौरिं कृष्णमभिपूज्य गुडसहितेन दध्ना नैवेद्यं दत्त्वा जलैस्तद्धिया गुडसहितबुद्ध्या श्रीमतः कृष्णस्य मुखे समनुतर्प्य अथानन्तरं तं मन्त्रमादरेण साष्टकं सहस्रमष्टोत्तरसहस्रं जपेत् ॥ Kर्द्C_५.२३ ॥ ______________________________ मध्यन्दिनसवनध्यानमाह मध्यंदिने जपविधानविशिष्टरूपं वन्द्यं सुरर्षियतिखेचरमुख्यवृन्दैः । गोगोपगोपवनितानिकरैः परीतं सान्द्राम्बुदच्छविसुजातमनोहराङ्गम् ॥ ५.२४ ॥ चतुर्थश्लोकस्थक्रियया योजना एवमनेन प्रकारेण मध्यन्दिने मध्याह्ने नन्दजं कृष्णं ध्यात्वा इन्दिरा श्रीस्तस्या आप्त्य्अर्थमर्चयतु । कीदृशं ? जपविधानेन विशिष्टं रूपं यस्य तं जपार्थं यत्ध्यानम् । अथ प्रकटसौरभेत्यादि तृतीयपटलोक्तध्यानं तदेवात्रापीति त्रिपाठिनः । पुनः कीदृशं ? वन्द्यं श्रेष्ठम् । पुनः कीदृशं ? सुरा इन्द्रादय ऋषयो नारदादयः यतयः सनकादयः खेचराः स्वर्गवासिनः एतेषां मुख्याः श्रेष्ठाः तेषां वृन्दैः समूहैः तथा गौः गोपः गोपस्त्री च एतेषां निकरैः समूहैः परीतं वेष्टितं सान्द्रो निविडो यो अम्बुदो मेघस्तद्वच्छविर्यस्य तत् । अथ च सुजातं दोषरहितम् । अथ च मनोहरं नेत्रोत्सवकारकमङ्गं यस्य ॥ Kर्द्C_५.२४ ॥ ______________________________ पुनः कीदृशं ? मयूरपत्रपरिक्प्तवतंसरम्य धम्मिल्लमुल्लसितचिल्लिकमम्बुजाक्षम् । पूर्णेन्दुबिन्दुवदनं मणिकुण्डलश्री गण्डं सुनासमतिसुन्दरमन्दहासम् ॥ ५.२५ ॥ मयूरस्येदं मायूरं पत्रं पक्षः मायूरं च तत्पत्रं चेति मायूरपत्रं तेन परिक्प्तो यो वतंसः शिरोभूषणम् । वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः इत्यकारलोपः । तेन रम्यो धम्मिल्लः केशपाशः यस्य तम् । पुनः कीदृशं ? अम्बुजवत्पद्मवतक्षिणी यस्य स तथा तम् । पुनः कीदृशं ? सम्पूर्णो य इन्दुबिम्बश्चन्द्रमण्डलं तद्वद्वदनं मुखं यस्य स तथा तम् । पुनः कीदृशं ? मणिमयं यत्कुण्डलं तेन श्रीयुक्तौ शोभासहितौ गण्डौ यस्य तम् । पुनः कीदृशं ? शोभना नासा यस्य तम् । पुनः कीदृशं ? मनोहरेषद्हास्ययुक्तम् ॥ Kर्द्C_५.२५ ॥ ______________________________ पुनः कीदृशं ? पीताम्बरं रुचिरनूपुरहारकाञ्ची केयूरकोमिकटकादिभिरुज्ज्वलाङ्गम् । दिव्यानुलेपनपिशङ्गितमसराजद् अम्लानचित्रवनमालमनङ्गदीप्तम् ॥ ५.२६ ॥ पीताम्बरं वस्त्रं यस्य तम् । पुनः कीदृशं ? मनोहरनूपुरादिभिः शोभितमङ्गं यस्य तं हारो मुक्तावली काञ्ची क्षुद्रघण्टिका केयूरमङ्गदमूर्मिर्मुद्रिका कटकः कङ्कण आदिपदेन किरीटादीनां परिग्रहः । पुनः कीदृशं ? देवसम्बन्धिनानुलेपनेन कुङ्कुमादिना पिशाङ्गितं पिञ्जरितमंसे स्कन्धे राजन्ती शोभमाना अम्लाना अक्लिष्टा चित्रा नानाप्रकारिका वनमाला पत्र्पुष्पमयी आपादलम्बिनी माला यस्य तम् । पुनः कीदृशं ? अनङ्गवत्कामवत्दीप्तम् ॥ Kर्द्C_५.२६ ॥ ______________________________ पुनः कीदृशं ? वेणुं धमन्तमथवा स्वकरे दधानं सव्येतरे पशुपयष्टिमुदारवेषम् । दक्षे मणिप्रवरमीप्सितदानदक्षं ध्यात्वैवमर्चयतु नन्दजमिन्दिराप्त्यै ॥ ५.२७ ॥ वेणुं धमन्तं वादयन्तम् । अथवा पक्षान्तरे स्वकरे सव्येतरे वामे गोरक्षणदण्डं दधानं तथा दक्षे दक्षिणे ईप्सितदानदक्षं मणिं दधानम् । पुनः कीदृशं ? उदारवेषम् । उद्भटवेषमिति रुद्रधरः । वस्तुतस्तु वेणुं वादयन्तं तदेव दर्शयति अथेति वामकरे सव्यं दक्षिणवामयोरित्यभिधानात्द्वयोरेवात्रतन्त्रेण सङ्ग्रहः तत्र सव्ये द्वितीयवामहस्ते पशुपयष्टिं परशुरकार्थं यष्टिं दण्डं तथा सव्ये दक्षिणे हस्ते मणिप्रवरं मणिश्रेष्ठं चिन्तामणिं दधानम् । कीदृशं ? मणिप्रवरमीप्सितदानदक्षं वाञ्छितार्थदानक्षममित्यर्थः ॥ Kर्द्C_५.२७ ॥ ______________________________ आवरणनैवेद्यदानप्रकारमाह दामादिकाङ्गदयितासुहृदङ्घ्रिपेन्द्र वज्रादिभिः समभिपूज्य यथाविधानम् । दीक्षाविधिप्रकथितं च निवेद्यजातं हैमे निवेदयतु पात्रवरे यथावत् ॥ ५.२८ ॥ दाम आदिर्यस्य । आदिपदेन सुदामादीनां परिग्रहः । अङ्गानि पूर्वोक्तानि पञ्च दयिता रुक्मिण्य्आद्याः सुहृदो वसुदेवाद्याः अङ्घ्रिपा मन्दराद्याः पूर्वोक्ता इन्द्रादयो दश दिक्पालाः वज्रादीनि च तेषामायुधानि पूर्वोक्तानि । एतैर्यथाविधानं यथोक्तप्रकारेण कृष्णं सम्पूज्य दीक्षाविधाने कथितं नैवेद्यसमूहं हैमं सुवर्णमये पात्रश्रेष्ठे यथावत्निवेदयतु ॥ Kर्द्C_५.२८ ॥ ______________________________ होमादिकमाह अष्टोत्तरं शतमथो जुहुयात्पयोऽन्नैः सर्पिःप्लुतैः सुसितशर्करया विमिश्रैः । दद्याद्बलिं च निजदिक्षु सुरर्षियोगि वर्गोपदैवतगणेभ्य उदग्रचेताः ॥ ५.२९ ॥ अनन्तरं पयोऽन्नैः पायसैः सर्पिःप्लुतैः सुसितशर्करया विमिश्रैः अतिशुभ्रशर्करया मिलितैः अष्टाधिकं शतं जुहुयाथोमं कुर्यात् । साहचर्यात्कल्पनालाघवाच्च होमोक्तद्रव्येणैव निजदिक्षु स्वस्वदिक्षु सुरर्षियोगि वर्गोपदैवतगणेभ्यो बलिं दद्यात् । तत्र सुरा विरञ्चिप्रभृतयः पूर्वदिक्स्थाः ऋषयो नारदादयो दक्षिणदिक्स्थाः योगिवर्गः सनकादिः पश्चिमदिक्स्थाः उपदेवगणाः यक्षसिद्धगन्धर्वविद्याधराद्याः उत्तरदिक्स्था इति त्रिपाठिनः । उपदेवगणाः दशदिक्पाला इति रुद्रधरः । उदग्रचेता उद्भटचित्तः सोत्साह इत्यर्थः ॥ Kर्द्C_५.२९ ॥ ______________________________ नवनीतमिलितपायसधियार्चनान्ते जलैर्मुखे तस्य । सन्तर्प्य जपतु मन्त्री सहस्रमष्टोत्तरशतं वापि ॥ ५.३० ॥ अर्चनान्ते पूजावसाने तस्य देवस्य मुखे नवनीतेन मिलितं सम्बद्धं यत्पायसं तद्बुद्ध्या जलैः सन्तर्प्य तर्पणं कृत्वा मन्त्री साधकः अष्टाधिकं सहस्रं शतं वा जपतु ॥ Kर्द्C_५.३० ॥ ______________________________ एतत्फलमाह अह्नो मध्ये वल्लवीवल्लभं तं नित्यं भक्त्याभ्यर्चयेत्यो नराग्र्यः । देवाः सर्वे तं नमस्यन्ति शश्वत् वर्तेरन् वै तद्वशे सर्वलोकाः ॥ ५.३१ ॥ यो नराग्र्यो नरश्रेष्ठः अह्नो मध्ये मध्याह्ने तं वल्लवीवल्लभं गोपीप्रियं नित्यं सर्वदा भक्त्या सात्त्विकेन भावेनार्चयेत् । तं नरश्रेष्ठं सर्वे देवाः नमस्यन्ति । तथा शश्वत्सर्वदा सर्वे जना एव तद्वशे वर्तेरन् तद्वश्याः स्युरित्यर्थः ॥ Kर्द्C_५.३१ ॥ ______________________________ मेधायुःश्रीकान्तिसौभाग्ययुक्तः पुत्रैर्मित्रैर्गोमहीरत्नधान्यैः । भोगैश्चान्यैर्भूरिभिः सन्निहाढ्यो भूयान् भूयो धाम तच्चाच्युताख्यम् ॥ ५.३२ ॥ तथा इह लोके मेधा धारणावती बुद्धिः आयुः जीवनं, श्रीः लक्ष्मीः । कान्तिः शरीरशोभा, सौभाग्यं सर्वजनप्रियता । एतैः युक्तः सम्बद्धः तथा पुत्रैरौरसैः मित्रैः सुहृद्भिर्गौः प्र्थिवी रत्नं धान्यं व्रीह्यादिः । एतैश्चतथान्यैर्भूरिभिः प्रचूरैः सुखैराढ्यः उपचितः सन् पुनः देहावसाने अच्युताख्यं कृष्णनामकं तेजो महो भूयान् तद्रूपो भवतीत्यर्थः ॥ Kर्द्C_५.३२ ॥ ______________________________ तृतीयकालपूजाव्यवस्थामाह तृतीयकालपूजायामस्ति कालविकल्पना । सायाह्ने निशि वेत्यत्र वदन्त्येके विपश्चितः ॥ ५.३३ ॥ तृतीयकालपूजायां कालस्य वेलायां विकल्पना विकल्पोऽस्ति तमेवाहसायाह्ने सन्ध्यायां निशि रात्रौ वेति अत्र एके विपश्चितो वदन्ति ॥ Kर्द्C_५.३३ ॥ ______________________________ किं तत्राह दशाक्षरेण चेद्रात्रौ सायाह्नेऽष्टादशार्णतः । उभयीमुभयेनैव कुर्यादित्यपरे जगुः ॥ ५.३४ ॥ चेद्यदि दशाक्षरेण मन्त्रेण पूजादिकं तदा रात्रौ यदष्टादशार्णतो अष्टादशाक्षरेण मन्त्रेण तदा सायाह्ने इत्येकेषां मतम् । अपरे च पुनः उभयीमुभयपूजामुभयेनैव दशाक्षरेणाष्टादशाक्षरेण च तत्कुर्यादिति जगुः कथयन्ति । तथा चैच्छिको विकल्प इति भावः ॥ Kर्द्C_५.३४ ॥ ______________________________ सायाह्न इत्यादि । अत्र नवश्लोकान्तं कुलकम् । सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते । द्व्यष्टसाहस्रसङ्ख्यातैर्भवनैरभिसंवृते ॥ ५.३५ ॥ हंससारससङ्कीर्णैः कमलोत्पलशालिभिः । सरोभिरमलाम्भोभिः परीते भवनोत्तमे ॥ ५.३६ ॥ उद्यत्प्रद्योतनद्योतसद्युतौ मणिमण्डपे । मृद्वास्तरे सुखासीनं हेमाम्भोजासने हरिम् ॥ ५.३७ ॥ नारदाद्यैः परिवृतमात्मतत्त्वविनिर्णये । तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परमक्षरम् ॥ ५.३८ ॥ सायाह्ने एवमेतादृशवेषधारिणं हरिं ध्यात्वार्चयेत् । कीदृशं ? मृद्वास्तरकोमलासनरूपे हेमाम्भोजासने कनकपद्मासने समासीनमुपविष्टं कुत्रावस्थितं मणिमण्डपे । किं विशिष्टे ? उद्गच्छन् यः प्रद्योतनः सूर्यः तस्य द्योतस्य समाना द्युतिर्यस्य तस्मिन् । कुत्र ? भवनोत्तमे गृहश्रेष्ठे । किं विशिष्टे ? चित्रोद्यानोपशोभिते बहुधोपवनसेविते । पुनः किं विशिष्टे ? द्वारवत्यां विद्यमाने । पुनः किं विशिष्टे ? भवनैर्गृहैरभिसंवृते । कीदृशैः ? द्व्यष्टसाहस्रसङ्ख्यातैः । पुनः किं विशिष्टे ? सरोभिः सरोवरैः परीते । कीदृशैः ? अमलाम्भोभिर्निर्मलजलैः । पुनः कीदृशैः ? हंससारससङ्कीर्णैः हंसादिपक्षिगणैर्व्याप्तैः । पुनः कीदृशैः ? कमलोत्पलशालिभिः पद्मोत्पलसहितैः । हरिं कीदृशं ? नारदाद्यैर्मुनिभिः परिवृतं वेष्टितम् । किम्अर्थम् ? आत्मतत्त्वविनिर्णये आत्मतत्त्वनिश्चये निमित्ते । पुनः कीदृशं ? तेभ्यो नारदादिभ्यः स्वं धाम ज्ञानस्वरूपमात्मानं कथयन्तम् । पुनः कीदृशं ? परमविद्यातत्कार्यरहितम् । पुनः कीदृशं ? अक्षरमविनाशि ॥ Kर्द्C_५.३५३८ ॥ ______________________________ पुनः कीदृशं ? इन्दीवरनिभं सौम्यं पद्मपत्रोरुणेक्षणम् । स्निग्धकुन्तलसम्भिन्नकिरीटमुकुटोज्ज्वलम् ॥ ५.३९ ॥ इन्दीवरनिभं नीलाम्भोजसदृशं सौम्यमुग्रतारहितम् । पुनः कीदृशं ? पद्मपत्रवदायते दीर्घे ईक्षणे यस्य तम् । पुनः स्निग्धाः चिक्कणा ये कुन्तलाः केशास्तैः सम्भिन्ने मिलिते किरीटमुकुटे ताभ्यामुज्ज्वलं देदीप्यमानम् । तत्र किरीटशब्देन ललाटाश्रितः त्रिशृङ्गोऽलङ्कारविशेषः कथ्यते । मुकुटशब्देन च मूर्ध्नि मध्यभागाश्रितं तच्च दीपशिखाकारोऽलङ्कारविशेषः कथ्यते ॥ Kर्द्C_५.३९ ॥ ______________________________ पुनः कीदृशं ? चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् । श्रीवत्सवक्षसं भ्राजकौस्तुभं वनमालिनम् ॥ ५.४० ॥ चारु मनोहरं प्रसन्नं फलदायि वदनं यस्य तम् । पुनः स्फुरती देदीप्यमाने मकराकृती कुण्डले यस्य तम् । पुनः श्रीवत्सो विप्रपादप्रहारकृतचिह्नविशेषो वक्षसि यस्य तम् । पुनः भ्राजन् देदीप्यमानः कौस्तुभो मणिविशेषो यस्य तम् । पुनः वनमालाधारिणम् ॥ Kर्द्C_५.४० ॥ ______________________________ काश्मीरकपिशोरस्कं पीतकौशेयवाससम् । हारकेयूरकटकरसनाद्यैः परिष्कृतम् ॥ ५.४१ ॥ काश्मीरेण कुङ्कुमवर्णमुरो यस्य तम् । पुनः पीतवस्त्रधारिणम् । पुनः हारः मुक्ताहारः केयूरमङ्गदं बाह्व्अलङ्कारः । कटकः कङ्कणः । रसना क्षुद्रघण्टिका आदिशब्देनाङ्गुलीयकादेः परिग्रहः एतैः परिष्कृतं शोभितम् ॥ Kर्द्C_५.४१ ॥ ______________________________ पुनः कीदृशं ? हृतविश्वम्भराभूरिभारं मुदितमानसम् । शङ्खचक्रगदापद्मराजद्भुजचतुष्टयम् ॥ ५.४२ ॥ हृतोऽपनीतो विश्वम्भरायाः पृथ्व्या भूरिभारो बृहद्भारोऽसुरादिलक्षणो येन तम् । पुनः मुदितं हृष्टं मानसं यस्य तम् । पुनः शङ्खचक्रगदापद्मैः शोभितं बाहुचतुष्टयं यस्य तम् ॥ Kर्द्C_५.४२ ॥ ______________________________ एवं ध्यात्वार्चयेन्मन्त्री तद्अङ्गैः प्रथमावृतिम् । द्वितीयां महिषीभिस्तु तृतीयायां समर्चयेत् ॥ ५.४३ ॥ नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् । विश्वक्सेनं च सैनेयं दिक्ष्वग्रे विनतासुतम् ॥ ५.४४ ॥ अत्र पूजायामङ्गैः पूर्वोक्तैः पञ्चाङ्गैः प्रथमावरणं भवति । द्वितीयावरणं महिषीभिः रुक्मिण्य्आदिभिः । तृतीयायामावृतौ दिक्षु प्रवादिदिक्षु वक्ष्यमाणान्नारदादीनग्रे च विनतासुतं गरुडं पूजयेत् । पर्वतनामा मुनिविशेषः । जिष्णुरर्जुनः । निशठो यादवविशेषः । उद्धवोऽपि तथा । दारुकः कृष्णसारथिः । विश्वक्सेनः भाण्डागारिकः सैनेयः सात्यकिः ॥ Kर्द्C_५.४३४४ ॥ ______________________________ लोकेशैस्तत्प्रहरणैः पुनरावरणद्वयम् । इति सम्पूज्य विधिवत्पायसेन निवेदयेत् ॥ ५.४५ ॥ लोकेशैरिन्द्रादिभिरेकमावरणम् । तत्प्रहरणैस्तद्आयुधैर्वज्रादिभिरपरावरणम् । एवं क्रमेणावरणद्वयमित्यनेन प्रकारेण पञ्चावरणकेन सम्पूज्य विधिवद्दीक्षाकथितं पायसं दद्यात् ॥ Kर्द्C_५.४५ ॥ ______________________________ तर्पणप्रकारं जपसङ्ख्यां च दर्शयति तर्पयित्वा खण्डमिश्रैर्दुग्धबुद्ध्या जलैर्हरिम् । जपेदष्टशतं मन्त्री भावयन् पुरुषोत्तमम् ॥ ५.४६ ॥ खण्डेन शर्करया विमिश्रं मिलितं यद्दुग्धं तद्बुद्ध्या जलैः कृष्णं तर्पयित्वा पुरुषोत्तमं भावयन् ध्यायन्मन्त्री साधकः अष्टाधिकशतं जपेत् । यद्यपि तर्पणस्य क्त्वाप्रत्ययेन पूर्वकालता प्रतीयते तथापि प्रथमं जपः तदनु तर्पणं कार्यं तथैवानुक्रमात्सम्प्रदायाच्चेति रुद्रधरः ॥ Kर्द्C_५.४६ ॥ ______________________________ पूजासु होमं सर्वासु कुर्यान्मध्यन्दिनेऽथवा । आसनादर्घ्यपर्यन्तं कृत्वा स्तुत्वा नमेत्सुधीः ॥ ५.४७ ॥ सर्वासु तिसृष्वपि पूजासु होमं कुर्यात् । पक्षान्तरमाहाथवेति । मध्यन्दिने मध्याह्न्पूजायां वा होमं कुर्यादित्यर्थः । आसनादिति । आसनमन्त्रादारभ्यार्घ्यपर्यन्तं कृत्वा स्तुत्वा स्तवनं कृत्वा नमेत्दण्डवत्प्रणमेत् । अवसानार्घ्यमवशेषयित्वा मध्ये होमं कृत्वा ततः पूजाशेषार्घ्यमवसानार्घ्यसंज्ञकं पराङ्मुखार्घ्यापरपर्यायं दद्यादित्यर्थः ॥ Kर्द्C_५.४७ ॥ ______________________________ समर्प्यात्मानमुद्वास्य तत्स्वे हृत्सरसीरुहे । विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् ॥ ५.४८ ॥ आत्मसमर्पणमन्त्रेण स्वात्मानं परमेश्वरे समर्प्य तत्परमेश्वरतेजः पूजास्थानादुद्वास्य उद्वृत्त्य स्वकीयहृदयपद्मे विन्यस्य तन्मयो भूत्वा पुनरात्मानं पूजयेत् ॥ Kर्द्C_५.४८ ॥ ______________________________ सायाह्नपूजाफलमाह सायाह्ने वासुदेवं यो नित्यमेव यजेन्नरः । सर्वान् कामानवाप्यान्ते स याति परमां गतिम् ॥ ५.४९ ॥ यो नरः सायाह्ने वासुदेवं नित्यं सर्वदा एवं कथितप्रकारेण यजेत्पूजातर्पणहोमादिभिः परितोषयेत्सर्वान् कामान् वाञ्छितानर्थानवाप्य देहावसाने परां गतिं विष्णुसायुज्यं प्राप्नोति ॥ Kर्द्C_५.४९ ॥ ______________________________ रात्रौ चेन्मन्मथाक्रान्तमानसं देवकीसुतम् । यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम् ॥ ५.५० ॥ चेद्यदि रात्रौ पूजा क्रियते तदा रासः क्रीडाविशेषस्तेन परिश्रान्तं देवकीनन्दनं यजेत्मन्मथेन आक्रान्तं मानसं हृदयं यस्य तम् । पुनः गोपीनां मण्डलं गोष्ठीविशेषः तस्य मध्ये स्थितम् ॥ Kर्द्C_५.५० ॥ ______________________________ रासक्रीडां दर्शयति पृथुं सुवृत्तं मसृणं वितस्ति मात्रोन्नतं कौ विनिखन्य शङ्कुम् । आक्रम्य पद्भ्यामितरेतरात्त हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ॥ ५.५१ ॥ इतरेतरात्तहस्तैः परस्परगृहीतहस्तैः अयं भ्रमो भ्रमणं रासगोष्ठी । किं कृत्वा ? कौ पृथिव्यां पृथुं स्थूलं सुवृत्तं वर्तुलाकारं मसृणं स्निग्धं वितस्तिमात्रोत्थितं द्वादशाङ्गुलप्रमाणेनोर्ध्वं स्थितं शङ्कु काष्ठखण्डं विनिखन्य । पुनः किं कृत्वा ? पद्भ्यां शङ्कुमाक्रम्य नियन्त्र्य ॥ Kर्द्C_५.५१ ॥ ______________________________ ध्यानमाह स्थलनीरजसूनपरागभृता लहरीकणजालभरेण सता । मरुता परितापहृताध्युषिते विपुले यमुनापुलिने विमले ॥ ५.५२ ॥ द्वादशश्लोकान्तं कुलकम् । कल्याणमयस्वरूपमजं विचिन्त्य प्रथमोदितपीठवरे पूर्वोक्तदीक्षासम्बन्धिपूजापीठश्रेष्ठे विधिवत्यथाविधि प्रयत्नेन पूजयेत् । कीदृशं ? यमुनापुलिने यमुनातटे इतरेतरबद्धकरप्रमदागणकल्पितरासविहारविधौ अन्योन्यबद्धहस्तस्त्रीसमूहपरिकल्पितक्रीडाविशेषविधौ मणिशङ्कुगं मणिमयशङ्कुमध्यगतम् । कीदृशे ? पुलिने वायुनाधुयुषिते आक्रान्ते । कीदृशेन ? स्थलनीरजं स्थलकमलं तं पुष्पपरागभृता तत्केशरसंनिकृष्टपुष्परजोयुक्तेन अनेन सौगन्ध्यं वर्णितं पुनः लहरीतरङ्गस्तस्य कणजालं बिन्दुसमूहः तस्य भरेण प्रकर्षेण सताम् । उत्कृष्टेन युक्तेनेति त्रिपाठिनः । अनेन शैत्यमुक्तम् । पुनः परितापहृता खेदविनाशकेन अनेन मान्द्यमुक्तम् । पुनः कीदृशे पुलिने ? विपुले विस्तीर्णे पुनः विमले शुद्धे ॥ Kर्द्C_५.५२ ॥ ______________________________ पुनः कीदृशं ? अशरीरनिशातशरोन्मथित प्रमदाशतकोटिभिराकुलिते । उडुनाथकरैर्विशदीकृतदिक् प्रसरे विचरद्भ्रमरीनिकरे ॥ ५.५३ ॥ अशरीरः कामः तस्य यो निशातशरस्तीक्ष्णबाणस्तेन उन्मथिता व्यग्रीकृता याः प्रमदास्तासां शतकोटिभिराकुलितीकृते इतस्ततोऽव्याप्तेः । पुनः कीदृशे ? उडुनाथश्चन्द्रस्तस्य करैः किरणैर्विशदीकृतः प्रकाशितो दिक् प्रसरो दिग्अवकाशो यत्र तस्मिन् । पुनः कीदृशे ? विचरन्ती भ्रमन्ती या भ्रमरी तस्या निकरः समूहो यत्र तस्मिन् ॥ Kर्द्C_५.५३ ॥ ______________________________ पुनः कीदृशं ? विद्याधरकिन्नरसिद्धसुरैः गन्धर्वभुजङ्गमचारणकैः । दारोपहितैः सुविमानगतैः स्वस्थैरभिवृष्टसुपुष्पचयैः ॥ ५.५४ ॥ विद्याधरप्रभृतयो यथा प्रसिद्धाः तथा भुजङ्गमः हस्तपादादिशरीरान्वितो नागलोकस्थः सर्पः एतैर्दारोपहितैः सस्त्रीकैः शोभनविमानगतैः आकाशनिष्ठैः कृतपुष्पवृष्टिसमूहैः आकुलिते ॥ Kर्द्C_५.५४ ॥ ______________________________ पुनः कीदृशं कृष्णम् ? इतरेतरबद्धकरप्रमदा गणकल्पितरासविहारविधौ । मणिशङ्कुगमप्यमुनावपुषा बहुधा विहितस्वकदिव्यतनुम् ॥ ५.५५ ॥ अमुना वपुषा अनेन मणिशङ्कुगअतेन शरीरेण नानाप्रकारकृतस्वीयदिव्यशरीरम् ॥ Kर्द्C_५.५५ ॥ ______________________________ पुनः कीदृशं ? सुदृशामुभयोः पृथग्अन्तरगं दयितागणबद्धभुजद्वितयम् । निजसङ्गविजृम्भद्अनङ्गशिखि ज्वलिताङ्गलसत्पुलकालियुजाम् ॥ ५.५६ ॥ सुदृशां कामिनीनामुभयोर्द्वयोः पृथक्द्वयद्वयक्रमेण अन्तरगं मध्यगतम् । पुनः कीदृशं ? दयितागणेन नारीसमूहेन बद्धं स्वहस्तेनान्योऽन्यं ग्रथितं भुजद्वितयं यस्य तमेतेनैतदुक्तं भवति कामिन्योर्मध्ये कामिनीनामेव हस्तेन गृहीतहस्तः परमेश्वर इति अपि समुच्चयेन केवलं शङ्कुगं कामिनीनामपि अन्तरेण युक्तमिति भावः । कीदृशाम् ? निजसङ्गेन गोपालकृष्णसङ्गेन विजृम्भमाणः प्रज्वलितो यो अनङ्गशिखी कामाग्निस्तेन ज्वलितं प्रदीप्तं यदाङ्गं तत्र लसन्ती शोभमाना या पुलकाली रोमाञ्चपङ्क्तिस्तया युज्यन्ते इति तद्युजस्तासाम् ॥ Kर्द्C_५.५६ ॥ ______________________________ पुनः कीदृशं ? विविधश्रुतिभिन्नमनोज्ञतर स्वरसप्तकमूर्च्छनतालगणैः । भ्रममाणममूभिरुदारमणि स्फुटमण्डनशिञ्जितचारुतरम् ॥ ५.५७ ॥ अमूभिर्गोपीभिः सह भ्रममाणं भ्रमीकुर्वाणम् । कैः ? विविधो नानाप्रकारः श्रुतिर्नामस्वरारम्भकावयवः शब्दविशेषः तेन भिन्नं सङ्गतं मनोज्ञतरमतिहृदयग्राहि यत्स्वरसप्तकं निषादेत्यादि तस्य या मूर्च्छना एकविंशतिप्रकारिका भागतालाश्वतालपरितालादयः ऊनपञ्चाशतेतेषां गणैः समूहैः । पुनः कीदृशं ? उदार उदूढो यो मणिस्तस्य स्फुटं प्रव्यक्तमतितेजस्वितया यन्मण्डनं तस्य शिञ्जितं शब्दितं तेन चारुतरं हृदयङ्गमम् ॥५७॥ ______________________________ पुनः कीदृशं ? इति भिन्नतनुं मणिभिर्मिलितं तपनीयमयिरिव भारकतम् । मणिनिर्मितमध्यगशङ्कुलसद् विपुलारुणपङ्कजमध्यगतम् ॥ ५.५८ ॥ इति भिन्नतनुम् । अनेन प्रकारेण गोपीभिर्मिलितदेहं गोपालकृष्णं कमिव तपनीयमयैः सुवर्णमयैः मणिभिर्मिलितं ग्रथितं मरकतमणिमिव । पुनः कीदृशं ? मणिनिर्मितो मध्यगतो यः शङ्कुः तल्लग्नं लसद्देदीप्यमानं यद्विपुलं बृहद्अरुणपङ्कजं तस्य मध्यगतम् ॥ Kर्द्C_५.५८ ॥ ______________________________ पुनः कीदृशं ? अतसीकुसुमाभतनुं तरुणं तरुणारुणपद्मपलाशदृशम् । नवपल्लवचित्रसुगुच्छलसच् छिखिपिच्छपिनद्धकचप्रचयम् ॥ ५.५९ ॥ अतसीप्रसिद्धा तस्याः कुसुमानीवाभा दीप्तिर्यस्यास्तनोस्तादृशी तनुर्यस्य तम् । पुनः कीदृशं ? तरुणेति नूतनारुणपद्मपत्रसदृशनेत्रम् । पुनः कीदृशं ? नवेति नूतनपल्लवनानाविधस्तवकशोभमानमयूरपुच्छसम्बद्धकेशसमूहम् ॥ Kर्द्C_५.५९ ॥ ______________________________ पुनः कीदृशं ? चटुलभ्रुवमिन्दुसमानमुखं मणिकुण्डलमण्डितगण्डयुगम् । शशरक्तसदृक्दशनच्छदनं मणिराजद्अनेकविधाभरणम् ॥ ५.६० ॥ चटुलभ्रुवं चलद्भ्रूलताकम् । पुनः कीदृशं ? शुक्लपक्षीयपूर्णचन्द्रसदृशाननम् । पुनः कीदृशं ? मणिमयकुण्डलशोभितगण्डद्वयम् । पुअन्ः कीदृशं ? शशशोणिततुल्याधरम् । पुनः कीदृशं ? मणिना शोभमाननानाप्रकाराभरणम् ॥ Kर्द्C_५.६० ॥ ______________________________ पुनः कीदृशं ? असनप्रसवच्छदनोज्ज्वलसद् वसनं सुविलासनिवासभुवम् । नवविद्रुमभद्रकराङ्घ्रितलं भ्रमराकुलदामविराजितनुम् ॥ ५.६१ ॥ असनो वृक्षविशेषः तस्य प्रसवः पुष्पं तस्य छेदनं पत्रं च तद्वदुज्ज्वलं शोभमानं मनोहरं वस्त्रं यस्य तम् । पुनः कीदृशं ? शोभनक्रीडाविचित्रस्थानम् । पुनः कीदृशं ? नवो नूतनो यो विद्रुमः प्रवालस्तद्वत्भद्रं मनोहरं कराङ्घ्रितलं यस्य तम् । पुनः कीदृशं ? भ्रमरैराकुलं व्याप्तं यत्पुष्पदाममाला तेन विराजितं भुजद्वयं यस्य तं यद्वा मालया विराजिता तनुर्यस्य तम् ॥ Kर्द्C_५.६१ ॥ ______________________________ पुनः कीदृशं ? तरुणीकुचयुक्परिरम्भमिलद् घुसृणारुणवक्षसमुक्षगतिम् । शिववेणुसमीरितगानपरं स्मरविह्वलितं भुवनैकगुरुम् ॥ ५.६२ ॥ युवतीनां स्तनद्वयालिङ्गनसम्बद्धकुङ्कुमारुणितमुरःस्थलं यस्य तम् । पुनः कीदृशं ? उक्षगतिं वृषभगतिम् । पुनः कीदृशं ? शिवः कल्याणप्रदो यो वेणुर्वंशस्तेन समीरितं सम्पादितं यद्गानं गीतं तत्परं तद्आसक्तम् । पुनः कीदृशं ? स्मरेण कामेन विह्वलितमनायत्तम् । पुनः कीदृशं ? भुवनत्रयस्य एकमद्वितीयं गुरुम् ॥ Kर्द्C_५.६२ ॥ ______________________________ प्रथमोदितपीठवरे विधिवत् प्रयजेदिति रूपमरूपमजम् । प्रथमं परिपूज्य तद्अङ्गवृत्तिं मिथुनानि यजेद्रसगानि ततः ॥ ५.६३ ॥ इति रूपमजं प्रथमोदिते पीठवरे पूर्वकथितदेवताकॢप्तपीठे यजेतरूपं निर्गुणम् । आवरणानि दर्शयतिप्रथममिति । तद्अङ्गवृत्तिं पूर्वोक्ताङ्गावरणं प्रथमं परिपूज्य ततस्तद्अनन्तरं मिथुनानि केशवकीर्त्यादीनि रासगानि रासक्रीडागतानि ॥ Kर्द्C_५.६३ ॥ ______________________________ दलषोडशके स्वरमूतिगणं सहशक्तिकमुत्तमरासगतम् । सरमामदनं स्वकलासहित मिथुनाह्वमथेन्द्रपविप्रमुखान् ॥ ५.६४ ॥ दलषोडशके षोडशपत्रे पूजयेत्मिथुनमेव कथयति स्वरमूर्तिगणमिति स्वरभवा अकारादिवर्णभवाः केशवादिषोडशमूर्तयः । स्वरमूर्तिगणं कीदृशं ? सहशाक्तिकं कीर्त्यादिशक्तिसहितम् । पुनः कीदृशं ? उत्तमो यो रासः तत्र गतम् । क्वचिदुत्तररासगतमिति पाठः । तत्र मध्यरासे परमेश्वरपूजा उत्तरादिरासे केशवादिकं पूजयेत् । पुनः कीदृशं ? रमा श्रीबीजं मदनः कामबीजमेताभ्यां सहितम् । पुनः कीदृशं ? स्वकीया याः कलाः षोडशस्वराः तैः सहितम् । प्रयोगश्चश्रीं क्लीमं केशवकीर्तिभ्यां नमः इत्यादि । पुनः कीदृशं ? मिथुनाह्वं मिथुनसंज्ञकम् । अथानन्तरमिन्द्रपविप्रमुखानिन्द्रादीन् वज्रादींश्च पूजयेदित्यर्थः ॥ Kर्द्C_५.६४ ॥ ______________________________ पूर्वोक्तावृतिसङ्ख्यापूर्वकं नैवेद्यं कथयति इति सम्यगमुं परिपूज्य हरिं चतुरावृतिसंवृतमार्द्रमतिः । रजतारचिते चषके ससितं सुशृतं सुपयोऽस्य निवेदयतु ॥ ५.६५ ॥ अनेन प्रकारेण चतुरावरणवेष्टितममुं हरिं सम्यक्यथाविधि सम्पूज्य श्रद्धावान् रजतारचिते रूप्यनिर्मिते चषके पात्रे अस्य हरेः ससितं सशर्करं सघृतं घृतसहितं पाठान्तरम् । सुशृतमावर्तितं पयो दुग्धं निवेदयतु ॥ Kर्द्C_५.६५ ॥ ______________________________ विभवे सति कांस्यमयेषु पृथक् चषकेषु तु षोडशसु क्रमशः । मिथुनेषु निवेद्य पयः ससितं विदधीत पुरोवदथो सकलम् ॥ ५.६६ ॥ विभवे सति यदि तादृशमैश्वर्यं भवति तदा कांस्यघटितेषु पृथकेकैकं षोडशसचषकेषु क्रमेण मिथुनगणेषु ससितं पयो निवेद्य अथानन्तरं पुरोवत्निवेदयामि भगवते इत्याद्य्उक्तप्रकारेण सकलं पूजाविशेषं समापयेत् ॥ Kर्द्C_५.६६ ॥ ______________________________ रासपूजाफलमाह सकलभुवनमोह्नं विधिं यो नियतममुं निशि निश्युदारचेताः । भजति स खलु सर्वलोकपूज्यः श्रियमतुलां समवाप्य यात्यनन्तम् ॥ ५.६७ ॥ अमुं विधिं रासपूजाप्रकारं सकलभुवनमोह्नं सकलभुवनवश्यकरं नियतमबाधेन यो निशि निशि प्रतिरजनि उदारचेताः प्रसन्नमनाः सन् सम्यक्भजति कुर्यात्स सर्वलोकपूज्यः सनतुलामतिशयितां श्रियं समृद्धिं समवाप्य अनन्तं विष्णुं याति प्राप्नोति ॥ Kर्द्C_५.६७ ॥ ______________________________ निशि वा दिनान्तसमये प्रपूजयेन्नित्यशोऽच्युतं भक्त्या । समफलमुभयं हि ततः संसाराब्धिं समुत्तितीर्षति यः ॥ ५.६८ ॥ यः पुमान् संसारसागरं तरितुमिच्छति सोऽच्युतं भक्त्या निशि वा दिनान्तसमये वा सन्ध्यायां पूजयेन्नित्यशः प्रत्यहं हि यतः उभयनिशासन्ध्यापूजनद्वयं समफलं ततस्तस्माद्धेतोः निशि वा दिनान्ते वा पूजयेदित्यर्थः ॥ Kर्द्C_५.६८ ॥ ______________________________ उक्तमुपसंहरति इत्येवं मनुविग्रहं मधुरिपुं यो वा त्रिकालं यजेत् तस्यैवाखिलजन्तुजातदयितस्याम्भोधिजावेश्मनः । हस्ते धर्मसुखार्थमोक्षतरवः सद्वर्गसम्प्रार्थिताः सान्द्रानन्दमहारसद्रवमुचो येषां फलश्रेणयः ॥ ५.६९ ॥ इत्यमुना प्रकारेण यः पुमान्मन्त्रशरीरं मधुसूदनं त्रिकालं वा पूजयेत्तस्य नानाविधप्राणिसमूहवल्लभस्य अम्भोधिजावेश्मनो लक्ष्मीनिवासस्य धर्मादिपुरुषार्थचतुष्टयवृक्षा हस्ते भवन्तीति शेषः । कीदृशाः ? सतां वर्गः समूहः तेन प्रार्थिताः । संसर्गीति पाठे ससर्गिभिर्निकटस्थैर्यद्यपि मोक्षस्य फलं नास्ति तथापि मोक्षपदेन तद्धेतुभूतं तत्त्वज्ञानमुक्तं येषां वृक्षाणां फलपङ्क्तयः नित्यानन्दब्रह्म स्वरूपमहारसद्रवदाः ॥ Kर्द्C_५.६९ ॥ ______________________________ अथोच्यते पूर्वसमीरितानां पूजावसाने परमस्य पुंसः । कल्पस्तु काम्येष्वपि तर्पणानां विनापि पूजां खलु यैः फलं तत् ॥ ५.७० ॥ अथानन्तरं परमस्य पुंसः श्रीगोपालकृष्णस्य पूजावसाने पूजानन्तरं पूर्वसमीरितानां शीमन्मुखेत्य्आदिकथितानां नित्यतर्पणानां कल्पः प्रकारः काम्येष्वपि तर्पणेषु प्रकार उच्यते यैस्तर्पणैः पूजां विनापि तत्फलं पूजाफलं प्राप्नोति यथापूजा तथैव तर्पणम् ॥ Kर्द्C_५.७० ॥ ______________________________ सन्तर्प्य पीठमन्त्रैः सकृत्प्रथममच्युतं तत्र । आवाह्य पूजयेत्तं तोयैरेवाखिलैः समुपहारैः ॥ ५.७१ ॥ प्रथमं पीठमन्त्रैराधारशक्त्यादिमन्त्रैः पीठाङ्गभूतदेवतां सकृत्सकृदेकैकवारं सन्तर्प्य अनन्तरं तत्र तोयमये पीठे अच्युतमावाह्य जलैरेव गन्धादिसकलोपचारात्मकैः पूजयेत् ॥ Kर्द्C_५.७१ ॥ ______________________________ बद्ध्वाथ धेनुमुद्रां तोयैः सम्पाद्य तर्पणद्रवम् । तद्बुद्ध्याञ्जलिना तं सुवर्णचषकीकृतेन तर्पयतु ॥ ५.७२ ॥ ततो धेनुमुद्रां बद्ध्वा तोयैस्तर्पणाढ्यं सम्पाद्य तद्द्रव्यरूपतया तोयं भावयित्वा तद्बुद्ध्या तत्कथितद्रव्यतर्पणद्रव्यबुद्ध्या तं कृष्णं तर्पयतु केनाञ्जलिना कीदृशेन सुवर्णचषकतया विचिन्तितेनेत्यर्थः ॥ Kर्द्C_५.७२ ॥ ______________________________ विंशतिरष्टोपेता कालत्रयतर्पणेषु सङ्ख्योक्ता । भूयः स्वकालविहितान् सकऋत्तर्पयेच्च परिवारान् ॥ ५.७३ ॥ कालत्रयतर्पणेषु त्रिकालतर्पणेषु एकस्मिन् कालेऽष्तोपेता अष्टाविंशतिः तर्पणस्य सङ्ख्योक्ता पुनः स्वकालविहितान् स्वस्मिन् प्रातर्मध्याह्नादौ ये ये विहिताः परिवारा आवरणदेवतास्तान् सकृदेकैकवारं सन्तर्पयेत् ॥ Kर्द्C_५.७३ ॥ ______________________________ कालत्रयस्य तर्पणद्रव्यमाह प्रातर्दधिगुडमिश्रं मध्याह्ने पायसं सनवनीतम् । क्षीरं तृतीयकाले ससितोपलमित्युदीरितं द्रव्यम् ॥ ५.७४ ॥ गुडसहितं दधि प्रातःकाले नवनीतसहितं पायसं मध्याह्ने ससितोपलं शर्कराविकारसहितं क्षीरं तृतीयकाले इत्यमुना प्रकारेण द्रव्यं तर्पणद्रव्यं कथितम् ॥ Kर्द्C_५.७४ ॥ ______________________________ तर्पणमन्त्रमाह तर्पयामिपदं योज्यं मन्त्रान्ते स्वेषु नामसु । द्वितीयान्तेषु तु ततः पूजाशेषं समापयेत् ॥ ५.७५ ॥ मन्त्रान्ते मूलमन्त्रावसाने स्वकीयानि तर्पणीयदेवतानां नामानि तेषु तत्समीपेषु द्वितीयान्तेषु अमुकदेवतामित्यादिरूपेषु तर्पयामीतिपदं योज्यमनन्तरं पूजाशेषं समापयेत् ॥ Kर्द्C_५.७५ ॥ ______________________________ उत्तरकृत्यमाह अभ्युक्ष्य तत्प्रसादाद्भिरात्मानं प्रतिवेदपः । तज्जप्त्वा तमथोद्वास्य तन्मयः प्रजपेन्मनुम् ॥ ५.७६ ॥ तत्प्रसादाद्भिः परमेश्वरप्रसादतत्तर्पणजलैः आत्मानं शरीरं सिक्त्वा तज्जप्त्वा मन्त्रं जप्त्वा अपः प्रपिबेत् । अथानन्तरं तं देवमुद्वास्य स्वहृदये संयोज्य तन्मयः सन्मन्त्रं जपेत् ॥ Kर्द्C_५.७६ ॥ ______________________________ सप्रकारं सद्रव्यं काम्यं तर्पणमाह अथ द्रव्याणि काम्येषु वक्ष्यन्ते तर्पणेषु तु । तानि प्रोक्तविधानानामाश्रित्यान्यतरं भजेत् ॥ ५.७७ ॥ अथानन्तरं काम्येषु तर्पणेषु यानि नारदादिभिः कथितानि द्रव्याणि तानि वक्ष्यन्ते प्रोक्तविधानानां त्रिकालोक्तविधानानामनन्तरमेकं विधानमाश्रित्य काम्यतर्पणकर्म भजेत् ॥ Kर्द्C_५.७७ ॥ ______________________________ द्रव्यैः षोडशभिरमुं प्रतर्पयेदेकशश्चतुर्वारम् । स चतुःक्षीराद्य्अन्तैः सकृज्जलाद्य्अन्तमच्युतं भक्त्या ॥ ५.७८ ॥ षोडशभिर्द्रव्यैरमुं श्रीकृष्णमेकशश्चतुर्वारं तद्द्रव्यबुद्ध्या जलैरेव तर्पयेत् । कीदृशैः ? चत्वारि क्षीराणि आद्यं येषां तैह् । षोडशद्रव्याणामादौ दुग्धाञ्जलिचतुष्टयमन्ते च चतुष्टयमित्यर्थः । सकृज्जलाद्य्अन्तमिति क्रियाविशेषणम् । तथा च प्रथममेकवारं जलेन ततश्चतुर्वारं ततः चतुर्वारं क्षीरैः ततः सकृज्जलेन इति पर्यवसन्नम् ॥ Kर्द्C_५.७८ ॥ ______________________________ षोडशद्रव्याण्याहपायसमिति । पायसदाधिककृसरं गौडान्नपयोदधीनि नवनीतम् । आज्यं कदलीमोचारजस्वलाचोचमोदकापूपम् ॥ ५.७९ ॥ पृथुकं लाजोपेतं द्रव्याणां कथितमिह षोडशकम् । लाजान्तेऽन्त्यक्षीरात्प्राक्समर्प्य सितोपलापुञ्जैः ॥ ५.८० ॥ पायसं परमान्नम् । दाधिकं दध्ना परिष्कृतमन्नम् । कृसरं मुद्गौदनं गौडान्नं गुडोदकपक्वमन्नम् । पयो दुग्धं दधि प्रसिद्धं नवनीतमाज्यं घृतं कदली चम्पाकदली मोचा स्वर्णकदली रजस्वला कदलीविशेषः । चोचोऽपि कदलीविशेषः । मोदको लड्डुकः । अपूपं पूलिका पृथक्चिपिटकं लाजसमेतं लाजसहितमिति द्रव्याणां षोडशकं कथितमिह ग्रन्थेति लाजेति । लाजतर्पणानन्तरमन्त्यचतुःक्षीरतर्पणात्पूर्वं सितोपलापुञ्जैः श्वेतशर्करासमूहैः भावनया तोयभावापन्नैः सकृत्सन्तर्पयेत् ॥ Kर्द्C_५.७९८० ॥ ______________________________ उक्तकाम्यतर्पणस्य फलमाह प्रगे चतुःसप्ततिवारमित्यमुं प्रतर्पयेद्योऽनुदिनं नरो हरिम् । अनन्यधीस्तस्य समस्तसम्पदः करे स्थिता मण्डलतोऽभिवाञ्छिताः ॥ ५.८१ ॥ इत्यनेन प्रकारेण प्रगे प्रातःकाले चतुःसप्ततिवारममुं हरिं कृष्णं यो नरोऽनुदिनं प्रत्यहमनन्यधीः एकाग्रचित्तः सन् सन्तर्पयेत्तस्य पुंसः मण्डलतः एकोनपञ्चाशद्दिवसातर्वागिति त्रिपाठिनः अष्टचत्वारिंशद्दिवसाभ्यन्तर इति लघुदीपिकाकारः । पञ्चत्रिंशद्दिवसाभ्यन्तर इति रुद्रधरः । अभिवाञ्छिता आकाङ्क्षिताः सकलसिद्धिसमृद्धयः हस्तस्थिता भवन्ति अत्र सितोपलापुञ्जस्य गणना न कार्या ॥ Kर्द्C_५.८१ ॥ ______________________________ काम्यतर्पणानन्तरमाह धारोष्णपक्वपयसीदधिनवनीते घृतं च दौग्धान्नम् । मत्स्यण्डीमध्व्अमृतं द्वादशशः तर्पयेन्नवभिरेभिः ॥ ५.८२ ॥ धारोष्णं पयः तदानीन्तनमेव निष्पादितं दुग्धं तथा पक्वं पयः साधितं दुग्धं धारोष्णपक्वे च पयसी च अमू धारोष्णपक्वपयसी । दधि प्रसिद्धं नवनीतं घृतं दौग्धान्नं पायसं मत्स्यण्डी शर्कराविशेषः सशर्करं विनष्टदुग्धमिति त्रिपाठिनः । मधु प्रसिद्धममृतमेतैर्नवभिर्द्रव्यैर्द्वादशशवारं तर्पयेत् ॥ Kर्द्C_५.८२ ॥ ______________________________ एतस्य फलमाह तर्पणविधिरयमपरः पूर्वोदितसमफलोऽष्तशसङ्ख्यः । कार्मणकर्मणि कीर्तौ जनसंवनने विशेषतो विहितः ॥ ५.८३ ॥ अयं तर्पणप्रकारः पूर्वोक्ततर्पणप्रकाराद्भिन्नः । कीदृशः ? पूर्वकथिततर्पणफलसमफलः । पुनः कीदृशः ? अष्टोत्तरशतप्रमाणकः ततो नवभिर्द्रव्यैर्द्वादशकृत्वा तर्पणेनाष्टोत्तरसङ्ख्या भवति । पुनः कीदृशः ? कार्मणकर्मणि वश्यकरणकर्मणि तथा कीर्तौ सत्कथायां जनसंवनने लोकवशीकरणे लोकप्रियत्वेन वा विशेषेण विहितः ॥ Kर्द्C_५.८३ ॥ ______________________________ तर्पणानन्तरमाह सखण्डधारोष्णधियामुकुन्दं व्रजन् पुरग्राममपि प्रतर्प्य । लभेत भोज्यं सरसं सभृत्यैर् वासांसि धान्यानि धनानि मन्त्री ॥ ५.८४ ॥ सखण्डधारोष्णधियामुकुन्दं व्रजन् पुरग्राममपि प्रतर्प्य लभेत भोज्यं सरसं सभृत्यैर्वासांसि धान्यानि धनानि मन्त्री ॥ Kर्द्C_५.८४ ॥ ______________________________ तर्पणस्याशेषफलदातृतां तर्पणोत्तरकृत्यं च दर्शयति यावत्सन्तर्पयेन्मन्त्री तावत्सङ्ख्यं जपेन्मनुम् । तर्पणेनैव कार्याणि साधयेदखिलान्यपि ॥ ५.८५ ॥ अखिलानि समस्तानि कार्याणि वाञ्छितानि तर्पणेनैव विनापि पूजाहोमं साधयेत् । अत्र यावत्सङ्ख्यं तर्पणं करोति तावत्सङ्ख्यं मन्त्रं जपेत् ॥ Kर्द्C_५.८५ ॥ ______________________________ प्रयोगान्तरमाह द्विजोभिक्षावृत्तिर्य इह दिनशो नन्दतनयः स्वयं भूत्वा भिक्षामटति विहरन् गोपसुदृशाम् । अमा चेतोभिः स्व्वैर्ललितललितैर्नर्मविधिभिर् दधिक्सीराज्याढ्यां प्रचुरतरभिक्षां स लभते ॥ ५.८६ ॥ भिक्षावृत्तिर्जीवनोपायो यस्य स द्विजो त्रैवर्णिको दिनशः प्रतिदिनं स्वयं नन्दतनयो भूत्वा तद्रूपेणात्मानं विचिन्त्य इह भिक्षामटति याचते । किं कुर्वन् ? स्वकीयैर्ललितललितैः अतिमनोहरैः नर्मविधिभिः क्रीडाकर्मभिर्गोपसुदृशां गोपस्त्रीणां चेतोभिः सार्धं विहरनमाशब्दः सहार्थे सदधिदुग्धघृतप्रचुरां बहुभिक्षां प्राप्नोति ॥ Kर्द्C_५.८६ ॥ ______________________________ मध्ये कोणेषु षट्स्वप्यनलपुटस्यालिखेत्कर्णिकायां कन्दर्पं साध्ययुक्तं विवरगतषड्अर्णं द्विशः केशरेषु शक्तिश्रीपूर्वकानि द्विनवलिपिमनोरक्षराणि च्छदानां मध्ये वर्णान् दशानां दशलिपिमनुवर्यस्य चैकेकशोऽब्जम् ॥ ५.८७ ॥ दशदलपद्मं विलिख्य कर्णिकायां षट्कोणं वह्निगृहं विलिख्य वह्निगृहयुग्मस्य मध्ये षट्कोणेषु विलिखेत् । लेखनप्रकारमाहकर्णिकायां मध्ये साध्यनामसहितममुकस्यामुकं सिध्यत्वित्यनेन सहितं कन्दर्पं कामबीजं विलिखेत् । तथा विवरगतं षड्अर्णं षट्कोणगतवक्ष्यमाणषड्अक्षरं विलिखेत्तथा केशरेषु दशदलमूलेषु द्विशः द्वौ द्वौ कृत्वा द्विनवलिपिमनोरष्टादशाक्षरमन्त्रस्य शक्तिश्रीपूर्वकानि भुवनेश्वरीबीजश्रीबीजाद्यान्यक्षराणि विलिखेत् । तथा दशानां पात्राणां मध्ये दशलिपिमनुवर्यस्य दशाक्षरमन्त्रश्रेष्ठस्य वर्णानेकैकशो विलिखेत्ततोऽब्जं पद्मम् ॥ Kर्द्C_५.८७ ॥ भूसद्मनाभिवृतमस्रगमन्मथेन गोरोचनाभिलिखितं तपनीयसूच्या । पट्टे हिरण्यरचिते गुलिकीकृतं तद् गोपालयन्त्रमखिलार्थदमेतदुक्तम् ॥ ५.८८ ॥ भूबिम्बेन चतुर्अस्रेण वेष्टितं कुर्यात् । कीदृशेन ? भूसद्मना अस्रगमन्मथेन कोणगतकामबीजेन एतदखिलार्थदं गोपालयन्त्रमुक्तं कीदृशम् ? सुवर्णशलाकया गोरोचनादिना सुवर्णरचिते पट्टे लिखितम् । अनन्तरं वर्तुलीकृतम् ॥ Kर्द्C_५.८८ ॥ ______________________________ सम्पातसिक्तमभिजप्तमिदं महद्भिर् धार्यं जगत्त्रयवशीकरणैकदक्षम् । रक्षायशःसुतमहीधनधान्यलक्ष्मी सौभाग्यलिप्सुभिरजस्रमनर्घ्यवीर्यम् ॥ ५.८९ ॥ इदं मन्त्रं सम्पातसिक्तमाहूतिदानशेषपुरःस्थितघृतसिक्तं तथा मन्त्रेणाभिमन्त्रितं रक्षाभयनिवारणं यशः सत्कथाप्रकाशः सुतः पुत्रः मही पृथिवी धनं सुवर्णादि लक्ष्मीः सर्वसम्पत्तिः सौभाग्यं सर्वजनप्रियत्वमेतत्प्राप्तुमिच्छद्भिर्महद्भिः शौचयुक्तैः सततं धारणीयम् । अयमर्थःयथोक्तं यन्त्रं सम्पाद्य प्राणप्रतिष्ठां कृत्वा पञ्चामृतादिभिः अभिषिच्य अष्टोत्तरशतं सहस्रं वा सम्पातघृतसिक्तं कृत्वा यथोक्तसङ्ख्यं जप्त्वा धारयेदिति कीदृशं ? जगत्त्रयवशीकरणैककुशलम् । पुनः अनर्घ्यवीर्यं महाप्रभावम् ॥ Kर्द्C_५.८९ ॥ ______________________________ यन्त्रस्य दर्शयति धारणादन्यत्राप्युपयोगम् भूतोन्मादापस्मृतिविषमूर्च्छाविभ्रमज्वरार्तानाम् । ध्यायन् शिरसि प्रजपेन्मन्त्रमिमं झटिति शमयितुं विकृतिम् ॥ ५.९० ॥ भूतः शम्शानदेशवर्ती अदृश्यरूपोऽनिष्टकारी उन्मादश्चित्तविभ्रमः अपस्मृतिरपस्मारणयोगः विषं मूर्छाकारिस्थावरं जङ्गमं च मूर्च्छा अचेष्टा विभ्रमः प्रसादः ज्वरो रोगविशेषः एतैरार्तानां पीडितानां शिरसि मस्तकोपरि इदं यन्त्ररूपं ध्यायनिमं गोपालमन्त्रं जपेत्किं कर्तुम् ? विकृतिं झटिति शीघ्रं शमयितुं नाशयितुम् ॥ Kर्द्C_५.९० ॥ ______________________________ यन्त्रे षड्अक्षरमन्त्रमुद्धरति स्मरत्रिविक्रमाक्रान्तश्चक्रीष्णायहृदित्यसौ । षड्अक्षरोऽयं सम्प्रोक्तः सर्वसिद्धिकरो मनुः ॥ ५.९१ ॥ स्मरः कामबीजं त्रिविक्रमः ऋकारः तेन क्रान्तः सम्बद्धः चक्री ककारः तथा कृ इति ष्णायेति स्वरूपं हृन्नमः इत्यनेन प्रकारेणासौ षड्अक्षरोऽयं मन्त्रः सम्प्रोक्तः सर्वसिद्धिकरः अखिलकामदः ॥ Kर्द्C_५.९१ ॥ ______________________________ शक्तिबीजमुद्धरति क्रोडोऽग्निदीप्तो मायावीलवलाञ्छितमस्तकः । सैषा शक्तिः परा सूक्ष्मा नित्या संवित्स्वरूपिणी ॥ ५.९२ ॥ क्रोडो हकारः । कीदृशः ? अग्निना रेफेण दीप्तः । पुनः मायावी दीर्घेकारः तद्युक्तः । पुनः लवेन बिन्दुना लाञ्छितं मस्तकं यस्य सः । तथा सानुस्वार इत्यर्थः । एषा शक्तिः परा उत्कृष्टा सूक्ष्मा मृणालतन्तुसदृशी नित्या जन्मनाशरहिता संवित्स्वरूपिणी स्वप्रकाशस्वरूपिणी ॥ Kर्द्C_५.९२ ॥ ______________________________ श्रीबीजमुद्धरति अस्थ्य्अग्निगोविन्दलवैर्लक्ष्मीबीजं समीरितम् । आभ्यामष्टादशलिपिः स्याद्विंशत्यक्षरो मनुः ॥ ५.९३ ॥ अस्थि शकारः अग्निः रेफः गोविन्दो दीर्घेकारः लवो बिन्दुः एतैः संयुक्तैः श्रीबीजं समीरितं कथितम् । आभ्यां शक्तिश्रीबीजाभ्यां सहितः पूर्वोक्ताष्टादशाक्षरमन्त्रः विंशत्यक्षरो भवति ॥ Kर्द्C_५.९३ ॥ ______________________________ परमेश्वरपूजास्थाननियतिं दर्शयति शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च । नित्यं पूजा हरेः कार्या न तु केवलभूतले ॥ ५.९४ ॥ शालग्रामे प्रसिद्धे मणौ गोमेदपद्मरागादौ यन्त्रेऽस्मिन्नेव गोपालयन्त्रे मण्डले सर्वतोभद्रादौ सोमसूर्याग्निमण्डले वेति रुद्रधरः । प्रतिमासु सुवर्णादिगोपालप्रतिमायाम् । अत्र हरेर्नित्यं सर्वदा पूजा कार्या न तु केवलायां भूमौ ॥ Kर्द्C_५.९४ ॥ ______________________________ कथितप्रकाराणां फलं दर्शयति इति जपहुतपूजातर्पणाद्यैर्मुकुन्दं य इह भजति मवोरेकमाश्रित्य नित्यम् । स तु सुचिरमयत्नात्प्राप्य भोगान् विशेषान् पुनरमलतरन्तद्धाम विष्णोः प्रयाति ॥ ५.९५ ॥ इति श्रीकेशवभट्टाचार्यविरचितायां क्रमदीपिकायां पञ्चमः पटलः । इति कथितप्रकारैर्जपहोमपूजातर्पणैः आदिपदादभिषेकादिना यो मुकुन्दं नित्यं सेवते । किं कृत्वा ? मन्वोर्दशाष्टादशाक्षरयोरेकं गृहीत्वा इह लोके अयत्नात्सुचिरं सर्वकालं सर्वान् भोगान् प्राप्य पुनरन्ते प्रसिद्धं निर्मलं तेजः प्राप्नोति तद्धामाभवतीत्यर्थः ॥ Kर्द्C_५.९५ ॥ इति श्रीविद्याविनोदगोविन्दभट्टाचार्यविरचिते क्रमदीपिकाया विवरणे पञ्चमः पटलः ॥५॥ **************************************************************************  

Search

Search here.