मंगळ अष्टोत्तरनाम स्तोत्र

नामावली  > नवग्रह नामावली Posted at 2018-11-07 10:51:20
॥ अङ्गारक अष्टोत्तरशतनाम स्तोत्र ॥ मङ्गल बीज मन्त्र -- ॥ ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥ महीसुतो महाभागो मंगळो मंगळप्रदः । महावीरो महाशूरो महाबलपराक्रमः ॥ १॥ महारौद्रो महाभद्रो माननीयो दयाकरः । मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २॥ सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः । वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ ३॥ वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः । नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ ४॥ क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः । अक्षीणफलदः चक्षुर्गोचरष्षुभलक्षणः ॥ ५॥ वीतरागो वीतभयो विज्वरो विश्वकारणः । नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ ६॥ कमनीयो दयासारः कनत्कनकभूषणः । भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ ७॥ शत्रुहन्ता शमोपेतः शरणागतपोषकः । साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ ८॥ दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः । दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ ९॥ दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः । भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ १०॥ रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः । चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ ११॥ शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः । तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ १२॥ तप्तकाञ्चनसंकाशो रक्तकिञ्जल्कसन्निभः । गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ १३॥ असृजंगारकोऽवन्तीदेशाधीशो जनार्दनः । सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिऽग्मुखः ॥ १४॥ त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः । शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ १५॥ मेषवृश्चिकराशीशो मेधावी मितभाषणः । सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ १६॥ ॥ इति मङ्गल एवं अङ्गारकाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Search

Search here.