पञ्च सायकः - ज्योतिरीश्वरेण

ग्रंथालय  > ज्योतिष Posted at 2016-03-13 12:36:10
कविशेखरेतिबिरुदवता  ज्योतिरीश्वरेण  विरचितः पञ्चसायकः । प्रथमः सायकः । मङ्गलाचरणम्‌ । रतिपरिमलसिन्धुः कामिनीकेलिबन्धु- र्विहितभुवनमोदः सेव्यमानप्रमोदः । जयति मकरकेतुर्मोहनस्यैकहेतु- र्विरचितबहुसेवः कामिभिः कामदेवः ॥ १ ॥ ग्रन्थकर्तुरात्मपरिचयप्रदर्शनम्‌ । अस्ति प्रत्यहमर्थितापहरणप्रीत्यैकदीक्षागुरुः श्रीकण्ठार्चनतत्परो भुवि चतुःषष्टेः कलानां निधिः । सङ्गीतागमसत्प्रमेयरचनाचातुर्यचिन्तामणिः प्रख्यातः कविशेखराङ्कितपदः श्रीज्योतिरीशः कृती ॥ २ ॥ दृष्ट्वा मन्मथतन्त्रमीश्वरकृतं वात्स्यायनीयं मतं गोणीपुत्रकमूलदेवरचितं बाभ्रव्यवाक्यामृतम्‌ । श्रीनन्दीश्वररन्तिदेवभणितं क्षेमेन्द्रविद्यागमं तेनाकल्प्यत पञ्चसायक इति प्रीतिप्रदः कामिनाम्‌ ॥ ३ ॥ नायकलक्षणम्‌ । साचारः करुणामयः कृतमतिर्दाताऽवदाताशयः काम्यः कामकलानिधिः सुवचनः स्त्रीणां मतः सुन्दरः । आढ्यो नीतिपटुः क्षमी च कुतुकी शूरः कुलीनो युवा सङ्क्षेपादिह नायको निगदितः सङ्गीतशिक्षान्वितः ॥ ४ ॥ पीठमर्दलक्षणम्‌ । आचारे विनये नये च सुकृतौ तौर्यत्रिकेऽकृत्रिमः शास्त्रे कौतुकशिल्पनाटकविधौ नानाकलाकौशले । ऊहापोहसमस्तनर्मघटने भावेङ्गितज्ञः पटु- र्मन्त्रज्ञः स्थिरसौहृदः सुवचनः स्यात्पीठमर्दः सदा ॥ ५ ॥ पद्मिनीलक्षणम्‌ । सम्पूर्णेन्दुमुखी विलोलनयना पीनस्तनी दक्षिणा मृद्वङ्गी विकचारविन्दसुरभिः श्यामाऽथ गौरद्युतिः । अल्पाहाररता विलासकुशला हंसस्वना मानिनी लज्जालुर्गुरुदेवपूजनरता सा नायिका पद्मिनी ॥। ६ ॥ चित्रिणीलक्षणम्‌ । श्यामा पद्ममुखी कुरङ्गनयना क्षामोदरी वत्सला सङ्गीतागमवेदिनी वरतनुस्तुङ्गस्तनी शिल्पिनी । विद्यालापरता मतङ्गजगतिर्माद्यन्मयूरस्वना विज्ञेया कविशेखरप्रणयिनी चित्रस्वना चित्रिणी ॥ ७ ॥ शङ्खिनीलक्षणम्‌ । तन्वङ्गी कुटीलेक्षणा लघुकुचाभोगा मदावेशिनी प्रायो दीर्घकचा स्वभावपिशुना कष्टोपभोग्या रते । पिङ्गा लोलगतिश्च घर्घररवा रक्ताम्बाराह्लादिनी नानास्थाननखप्रदानरसिका सेयं मता शङ्खिनी ॥ ८ ॥ हस्तिनीलक्षणम्‌ । पीनस्वल्पतनुर्भृशं मृदुगतिः क्रूरा नमत्कन्धरा स्तोकापिङ्गलकुन्तला पृथुकुचा लज्जाविहीनानना । बिम्बोष्ठी बहुभोज्यभोजनरुचिः कष्टैकसाध्या रते गौराङ्गी करिदानगन्धिमदनस्रावा मता हस्तिनी ॥ ९ ॥ पद्मिन्यादीनां रतौ सुखकरास्थितयः । ब्रह्मास्येन्दुशराक्षिसङ्ख्यतिथयः ख्याता नलिन्या रते पौलस्त्यास्यरसाष्टभास्करतिथौ प्रीता भवेच्चित्रिणी । रुद्रानगतुरङ्गशम्भुतिथिषु स्याच्छङ्खिनी मोदिता शेषाः स्युः सुरतोत्सवेषु करिणीजातेः स्त्रियाः प्रीतये ॥ १० ॥ इति जातिसमुद्देशः । चन्द्रकलानिरूपणम्‌ । अङ्गुष्ठे चरणे नितम्बनिलये जानुद्वये जङ्घयो- र्नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे । नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवा- मूर्ध्वाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः ॥ ११ ॥ सीमन्ते नयनेऽधरे च गलके कक्षातटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटोरुद्वये । गुल्फे पादतले तदङ्गुलितलेऽङ्गुष्ठे च तिष्ठत्यसौ वृद्धिक्षीणतया समं शशिकला लीलाकरी योषिताम्‌ ॥ १२ ॥ चन्द्रकलायाः प्रदीपनविधिः । मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयो- र्दन्तेनाधरपीडनं हृदि हतिर्मुष्ट्या च नाभौ शनैः । कक्षाकण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः सीमन्ते लिखनं नखैरुरसिजौ गृह्णीत गाढं ततः ॥ १३ ॥ कुर्वीताविरतं मनोभवगृहे मातङ्गलीलायितं जान्वङ्गुष्ठपदोरुगुल्फकलनं ह्यन्योन्यतः कामिनोः । इत्येवं कथितं प्रदेशकलनादिन्दोः कलादीपनं कर्तव्यं च नरैर्न विस्तरभयादुक्तः प्रपञ्चोऽखिलः ॥ १४ ॥ पद्मिनीचन्द्रकलाप्रदीपनम्‌ । गाढालिङ्गनपूर्वकं कररुहैरालिख्य जङ्घास्थलीं दत्त्वा सूक्ष्मनखान्नितम्बफलके पार्श्वे च पृष्ठोदरे । सीत्कारध्वनिजागरूकपुलकामाद्ये दिने पद्मिनी- मित्थं चन्द्रकलाविदः स्ववशतां कामं नयेयुः स्त्रियम्‌ ॥ १५ ॥ आचुम्ब्याधरपल्लवं स्तनमुखे नेत्रालिके पार्श्वयो- र्मूर्धान्ते जघनस्थलोरुफलके कृत्वा नखालेखनम्‌ । मर्षन्तो नखरैः पदाम्बुजयुगं सम्यक्कुरङ्गीदृशं संसेव्याविरतं प्रबुद्धमदनां कुर्युर्द्वितीयादिने ॥ १६ ॥ श्लिष्ट्वा गाढतरं निपीड्य च कुचौ पीत्वा च दन्तच्छदं वामोरौ करजक्षतं भुजलतामूले विशेषात्‌ पुनः । मायूराङ्घ्रिकमर्धचन्द्रछुरितप्रायान्नखानादरा- द्दद्युर्बाह्यरतोपचारचतुराः प्रायश्चतुर्थ्यां तिथौ ॥ १७ ॥ बिम्बोष्ठं परिचुम्ब्य दक्षिणकरेणाकृष्य केशोच्चयं स्वच्छन्देन विमृद्य चूचुकयुगं चुम्बन्प्रियां भावयेत्‌ । आमृश्यात्करजैः सखेलपुलकं भूयो नितम्बस्थलीं पञ्चम्यां द्रवतां नयेत्कमलिनीमित्याह वात्स्यायनः ॥ १८ ॥ चित्रिण्याश्चन्द्रकलाप्रबोधनविधिः । चुम्बित्वाऽलि(ल)कमुन्मदः कररुहैरालिख्य वक्षोजकं श्रोणीपृष्ठभुजाङ्घ्रिकर्णजघनस्थानोरुयुग्मस्थलीम्‌ । पाणिभ्यामुपगूहयन्‌ स्वरमणीं कान्तो दशम्यां तिथौ कन्दर्पं प्रतिबोध्य चन्द्रकलया कुर्यान्निजां चित्रिणीम्‌ ॥ १९ ॥ श्लिष्ट्वा कन्धरकन्दलीं भुजलतापाशेन गाढं पुनः पायं पायमजस्रमुत्पलदृशां वक्त्रारविन्दसावम्‌ । नाभीकण्ठनितम्बबिम्बनखरव्यापारपारङ्गमैः षष्ठ्यां चन्द्रकलाकलापनिपुणैर्देया नखाः सर्वतः ॥ २० ॥ ग्रीवायां परिरभ्य गाढमसकृन्नाभिं नखैरालिखन्‌ दन्तौष्ठेन निपीडयन्कुचतटीं कण्ठे मनाक्‌ ताडयेत्‌ । सानन्दं स्मरमन्दिरे करिकरक्रीडायितं कुर्वता नेतव्या तरुणी स्वकीयवशतां चण्डीतिथौ चित्रिणी ॥ २१ ॥ आलिङ्ग्य प्रसभं कपोलनयनश्रोणीश्रुतीश्चुम्बय- न्स्थानेष्वेषु नखप्रदानकुशलो दत्त्वा नखान्निर्दयम्‌ । संदश्याधरपल्लवं क्रमवशादाकृष्य केशान्‌ वशे चित्रां संविदधीत सीत्कृतवतीं भानोस्तिथौ नायकः ॥ २२ ॥ शङ्खिन्याश्चन्द्रकलाप्रदीपनविधिः । कक्षामुल्लसितैर्विलिख्य करजैरालिङ्ग्य दोर्भ्यां मुहु- र्गाढं चोरजिसौ निपीड्य सुतरां विष्णोस्तिथौ चन्द्रवित्‌ । आचुम्बेच्च कपोलकण्ठगलकं मृद्गन्नुरोजद्वयं कन्दर्पस्य तिथौ नखक्षतिवशाद्द्राक्‌ शङ्खिनीं द्रावयेत्‌ ॥ २३ ॥ व्यादष्टौष्ठपुटः कपोलनयनश्रोत्रं नखैरालिखन्‌ सान्द्रानन्दनिगूढकण्ठवलयां भानोस्तिथौ भामिनीम्‌ ॥ २४ ॥ आघातं नखरैश्च नाभिचरणग्रीवाकुचोरःस्थले कृत्वाऽऽलिख्य च भूतनाथदिवसे कुर्यात्सुधीर्विह्वलाम्‌ ॥ २५ ॥ हस्तिन्याश्चन्द्रकलाप्रबोधनविधिः । आकण्ठं परिरभ्य दोर्लतिकया निष्पीय वक्त्राम्बुजं कक्षान्तःस्तनमण्डलोदरतटीं चञ्चन्नखैरामृशन्‌ । क्षोणीभृत्तनयातिथावथ मुहुः कामालयं संस्पृश- न्सन्दश्याधरपल्लवं ग्रहतिथौ कुर्याद्द्रुतां हस्तिनीम्‌ ॥ २६ ॥ सम्पूर्णेन्दुतिथौ परिक्षयदिने तस्यैव तुल्या तिथि- स्तस्यामेव वशीकृता शशिकलासम्बोधनैः कामिनी । कामागारचुचूलिकासु करजैर्दन्तैश्च दन्तच्छदै- राश्लेषैः परिचुम्बनैश्च विविधैरित्याह नन्दीश्वरः ॥ २७ ॥ पद्मिन्यादीनां रतिकालनिरूपणम्‌ । यामिन्याः कथितश्चतुर्थचरणः कालो नलिन्या रते प्रारम्भप्रहरे प्रयाति सुखतां चित्रप्रिया चित्रिणी । शङ्खिन्याः समुदीरितः कविवरैर्यामस्तृतीयो रतौ मातङ्गी द्रवतामुपैति नितरां नक्तंदिनस्यार्धयोः ॥ २८ ॥ सुखयति न पुमांसं पद्मिनी क्वापि रात्रौ निधुवनमिति तस्यां नैव किञ्चित्प्रयोज्यम्‌ । शिशुरपि यदि कान्तां वासरे तामुपेया- द्विकसति रवियोगात्सा हठात्पद्मिनीव ॥ २९ ॥ नारीणां सत्त्वसमुद्देशः । त्रिवलिवलितमध्या कम्बुकण्ठी विदग्धा कमलसुरभिदेहा केतकीगर्भभव्या । शुचिचरितपवित्रा शीलसन्तोषयुक्ता सुललितपिकवाणी स्यादियं देवसत्त्वा ॥ ३० ॥ बहुलचपलदृष्टिर्नृत्यगीतादिदक्षा मधुरबहलसुगन्धा पुष्पमालानुरक्ता । शिशिरसुरभिमासक्रीडनप्रेमपात्री भवति रुचिरमूर्तिः सैव गन्धर्वसत्त्वा ॥ ३१ ॥ गुरुकुचयुगभारा गौरदेहा नताङ्गी तरुणहरिणनेत्रा कोपना वीतलज्जा । विविधमधुरवाक्या मत्स्यमांसानुरक्ता मुनिभिरियमनर्घा यक्षसत्त्वा प्रदिष्टा ॥ ३२ ॥ गिरिविहरणविज्ञा रात्रिसञ्चारवीरा मलिनपिशुनचित्ता कुत्सिताहारचेष्टा । विकृतवदनचन्द्रा कृष्णवर्णाऽतिखर्वा मलिनवसनरक्ता कीर्तिता प्रेतसत्त्वा ॥ ३३ ॥ इति कविशेखरश्रीज्योतिरीश्वरकविरचिते पञ्चसायके जात्यादिसमुद्देशो नाम प्रथमः सायकः । अथ द्वितीयः सायकः । रतभेदाः । आयामैः परिणाहकैश्च पुरुषाः लिङ्गैर्वराङ्गैः स्त्रियो ज्ञातव्याश्च रसगृहारुणसमाख्याताङ्गुलैः सर्वतः । जात्या तेऽपि शशा वृषाश्च तुरगाः प्राज्ञैः स्मृतास्ता पुन- र्मृग्यश्चा करिणीति विस्तरभयात्सङ्क्षिप्य निष्कृष्यते ॥ १ ॥ शशकहरिणपत्न्योर्गोतुरङ्ग्योस्तथैव हयगजपतिनार्योरेकरूपं रतं स्यात्‌ । इह भवति नितान्तं प्रीतिरन्योन्ययोगा- दनुमरणशक्यं स्त्री कथं स्वीकरोति ॥ २ ॥ मृगीवृषं चेद्वृषभीतुरङ्गमत्युच्चमेतद्द्वितयं वदन्ति । अश्वाशशं गोकरिणीसमुत्थं नीचद्वयं तुष्टिकरं न यूनोः ॥ ३ ॥ मृगीहयं हस्तिवधूशशं चेतत्युच्चनीचं सुरतं वदन्ति । प्रमाणभेदेऽपि न द्रवन्ति तस्मिन्न तृप्यन्ति नितम्बवत्यः ॥ ४ ॥ प्रोक्तरतानामुत्तममध्यमाधमत्वम्‌ । स्त्रीपुंसयोस्तुल्यरतं प्रशस्तं मध्यद्वयं मध्यममामनन्ति । अत्युच्चकं चाप्यतिनीचकं च निन्द्यं रतज्ञैः सुरतं प्रदिष्टम्‌ ॥ ५ ॥ प्रीतिः समा स्यात्सुरते समाख्ये नीचद्वये योषित एव तुष्टिः । अत्युच्चके वाऽप्यतिनीचके वा तुष्टिर्न पुंसां न च सुन्दरीणाम्‌ ॥ ६ ॥ वेगभेदात्सुरतभेदाः । प्रचण्डवेगोऽप्यथ मध्यवेगस्तथाऽपरः स्याल्लघुनामधेयः । पुंसस्तरुण्या उभयोरपीह त्रिधा कवीन्द्राः सुरतं वदन्ति ॥ ७ ॥ इदानीं शशादीनां स्वरूपं निरूप्यते । दीर्घाक्षाः स्थूलदेहा लघुसमदशना लम्बकर्णा सुवाचो ग्रीवायां जानुदेशे करकमलतले कालिमानं वहन्तः । अल्पाहाराल्पशौचा दिनमधिशयिनः कान्तिमन्तो बलाढ्याः क्रीडावन्तो विनीता लघुतरसुरताः पुण्यभाजः शशाः स्युः ॥ ८ ॥ सुचारुकेशो मृदुवाक्‌ सुवेशः सुदीर्घकण्ठश्चपलः सुनेत्रः । सुरक्तपाणिः समदन्तपङ्क्तिः सौभाग्ययुक्तः कथितो मृगोऽयम्‌ ॥ ९ ॥ स्फाराकाराः सदर्पाः सुरतरसकलालम्पटाः सुन्दराङ्गा व्यूढोरस्काः सुरूपाः सुसमजठरिणो मांसला लोलनेत्राः । अत्यन्तप्रौढवाचोऽपरिलघुधृतयः क्रोधना मध्यवेगा उक्षाणो लिङ्गमीषद्विततनवमितैरङ्गुलीकैर्वहन्ति ॥ १० ॥ कार्ये धृष्टा बलिष्ठाः सितशमदशनाः पीवरास्या वराक्षा ग्रीवाबाहूरुदीर्घाः परहितनिरताः सात्त्विकाः स्निग्धवाचः । निर्लज्जाश्चारुशीलाः पृथुतरगतयश्चण्डसम्भोगरक्ता अश्वा लिङ्गं वहन्तो युवतिजनमतं भानुसङ्ख्याङ्गुलीकम्‌ ॥ ११ ॥ मृग्यादीनां स्वरूपनिरूपणम्‌ । मृद्वङ्गी दीर्घनेत्रा वरबिसलतिकाकोमला दीर्घबाहुः शोणाम्भोजाभिरामं वहति करयुगं ह्रस्वमध्या सुकेशी । सुश्रोणीः कम्बुकण्ठी पृथुकुचयुगला या वहत्यङ्गुलीकैः षड्भिः कन्दर्पगेहं कथयति हरिणीं तामिह ज्योतिरीशः ॥ १२ ॥ व्यानिम्नोत्तुङ्गशीर्षा बहुतरकपिशस्थूलकेशप्रचारा चञ्चन्नीलाम्बुजाक्षी सुललितवदना तुङ्गवक्षोजभारा । गम्भीरावर्तनाभिर्वलिभिरुपगता श्रोणिभारालसाङ्गी सेयं रन्ध्राङ्गुलीकं वहति रतगुहारन्ध्रकं वै तुरङ्गी ॥ १३ ॥ स्थूलाङ्गी स्थूलगण्डा लघुतरनयना स्थूलनीलाल्पकेशा बिम्बौष्ठी पीनबाहुः कठिनगुरुकुचा हीनपर्वाऽतिदुष्टा । निर्लज्जा रासभोक्तिस्तरलितवदना सर्वदा कष्टसाध्या निर्दिष्टा हस्तिनीयं वहति रविसमैरङ्गुलैर्गुह्यदेशम्‌ ॥ १४ ॥ अथ स्त्रीणामवस्थाविशेषाः कथ्यन्ते । षोडशवर्षवयस्कां बालामित्यालपन्ति धीमन्तः । विंशात्तरुणीं त्रिंशात्प्रौढां पञ्चाशतो वृद्धाम्‌ ॥ १५ ॥ बाला नूतनसङ्गमे रतिकरी सान्द्रान्धकारे भवे- दालोके सुखमातनोति तरुणी सम्भोगलीलाविधौ । आलोकेऽपि सुखायते सरभसं प्रौढा तमिस्रेऽङ्गना वृद्धा जीवितहारिणी न कुरुते कुत्रापि सौख्यं मनाक्‌ ॥ १६ ॥ अथ देशविशेषात्‌ स्त्रीस्वरूपं निरूप्यते । रूक्षाङ्गी बहुवर्णिनी चलमतिर्गीतप्रिया चाटुला शैलाम्भोनिधिपार्श्वदेशवनिता प्रायो भवेदीदृशी । अम्भोदागमपुष्पमाससमये सेव्या पुनः प्रीणिता गुर्वाहारसुगन्धिमाल्यवसनस्निग्धाङ्गरागादिभिः ॥ १७ ॥ गूढग्रन्थिरहर्निशं हि सकले गात्रे वहप्यच्छता- मम्भोजप्रसवारुणोत्तमकरा शीतालयप्रेयसी । सौराष्ट्री च कलिङ्गदेशयुवतिः कामं भवेत्पित्तला हेमन्ते शिशिरे नरैरविरतं सेव्या यथाकाङ्क्षया ॥ १८ ॥ ज्ञेया कोकिलकाकलीकलरवा मेदस्विनी शीतला निद्रालुश्च शिरीषकोमलतनुः स्निग्धानना श्लेष्मला । वङ्गश्रीहटकामरूपतरुणी शीतादिना शङ्किता गन्तव्या शरदि प्रकृष्टमदना ग्रीष्मे नरैरादृता ॥ १९ शुचिचरितविचित्रा चित्रसम्भोगमित्रा नखदशनविरक्ता शिल्पशिक्षानुरक्ता । स्थिरमतिनिजबन्धुः कामसर्वस्वसिन्धु- र्भवति रुचिरवेषा कामिनी मध्यदेशा ॥ २० ॥ करकुचकरजाताश्लेषविन्यासदक्षा सकलसुरतबन्धुर्ज्ञानवैदग्ध्यदक्षा । नलघुनगुरुवेगा प्रायशः कामरक्ता रमयति मधुराल्पं सुन्दरी तैरभुक्ती ॥ २१ ॥ मृदुवचनविभागा कोमलानङ्गभागा विगतरमणनी(भी)तिः कोमलानङ्गगीतिः । द्रवति झटिति कान्ता चित्रसम्भोगदक्षा रमयति किल कौली कीर्तिता वङ्गीगौडी ॥ २२ ॥ करतलहतितुष्टा बाह्यसम्भोगहृष्टा चिरनिधुवनसाध्या मालवी धूर्तवाक्या । सुखयति सुखवेगा व्यञ्जितानङ्गरागा चपलपिशुनशीला स्यादियं चोलबाला ॥ २३ ॥ कुवलयदलवर्णा चारुताटङ्ककर्णा चकितहरिणनेत्रा फुल्लराजीववक्त्रा । लघुनिधुवनरक्ताऽकष्टसम्भोगसक्ता सुललितगतिरेषा गुर्जरी चारुवेषा ॥ २४ ॥ अलसवलितदृष्टिर्दिव्यरूपाङ्गयष्टिः कठिनमदनवेगा दुःखसाध्या प्रयोगे । विरमति सुरतान्ते कोपमायाति कान्ते विविधपुरुषलोला सैन्धवी दुष्टशीला ॥ २५ ॥ पुलककरजदात्री दुष्टवाक्याभिधात्री विषमसुरतपात्री निश्चितं कालरात्री । इति भवति पुरन्ध्री कोशलावन्तिका स्त्री कवलयति रतार्ता श्रूयते पूर्ववार्ता ॥ २६ ॥ पिकवरमृदुवाचः कोमलाङ्ग्यः सुरम्या व्यपगतभयलज्जाः साहसिन्यः स्वतन्त्राः । लघुनिधुवनसाध्याश्चीनसौवीरभेद- द्रविडमलयजाताः सुन्दराङ्ग्यस्तरुण्यः ॥ २७ ॥ सकलसुरतदक्षा सिद्धिसौभाग्यवश्या दशनवसनपानप्रीतिभाजः सलज्जाः । करजलिखनदक्षाश्चण्डवेगाभिरम्याः कुसुमसुरभयः स्युर्मद्रतैलङ्गनार्यः ॥ २८ ॥ सुरतसविमर्दप्रेमवत्यः प्रचण्डाः करजदशनकेशाश्लेषसञ्ज्ञाविहीनाः । सहजमलिनचित्ताः पौण्ड्रकाम्बोजजाताः करतललयतुष्टाः कामरूपाङ्गनाः स्युः ॥ २९ ॥ गाढं संश्लिष्य कण्ठे लिखति कररुहैः सर्वतः कान्तदेहं केशेष्वाकृष्य चुम्बत्यधरमविरतं मुष्टिघातं ददाति । तृप्तिं नो याति शीघ्रं द्रवति न च रते चण्डवेगा प्रगल्भा ज्ञातव्या पण्डितेन्द्रैरतिकलितरतिर्लाटकर्णाटनारी ॥ ३० ॥ दुष्टा दुर्गन्धदेहाः पशुसमसुरताश्चुम्बनश्लेषहीनाः सेर्ष्या म्लेच्छाङ्गनाः स्युर्लघुरतनिरताः पार्वतीयाश्च नार्यः । काश्मीराभीरगन्ध्याः सकलरसकलामोददक्षा नितान्तं साध्या देशानुसारादिह पटुमतिभिर्योषितः सर्वदैव ॥ ३१ ॥ जातेस्तत्त्वं समस्तं निखिलशशिकलाबोधनं सत्त्ववृत्तिं मृग्यादीनां वशत्वं मदनरसकलाकौतुकं चाप्यशेषम् । इत्थं यः कामिनीनां कलयति चरितं देशसात्म्येन सम्य- ग्यावज्जीवं स तस्याः प्रभवति हृदये प्राणनाथः सुखाय ॥ ३२ ॥ योनिभेदनिरूपणम्‌ । स्पर्शेन पङ्कजसमा तरुणीजनाना- मभ्यन्तरे च गुटिकासमदेशका च । योनिर्भवेदथ वलिप्रकारावकीर्णा गोजिह्विकासुखरकर्कशगर्भदेशा ॥ ३३ ॥ अत्युत्तमा प्रकथिता प्रथमा कवीन्द्रै- र्मध्या च मध्यमविधा किल सम्प्रदिष्टा । शेषद्वयं मदनकेलिकलारसज्ञै- र्निन्द्यं सदैव कथितं सुरतोत्सवेषु ॥ ३४ ॥ वह्निर्न शान्तिमुपयाति कदाऽपि काष्ठै- र्नाम्भोनिधिर्विरमति प्रचुरैः पयोभिः । नाप्यन्तको जगति जन्तुभिरेति तोषं वामाऽपि नैव पुरुषैः खलु याति तृप्तिम्‌ ॥ ३५ ॥ तस्मान्नरेण रतिरङ्गविचक्षणेन मायामुपास्य सकलां स्वशरीरसाध्याम्‌ । तासां मनोहरणमेव परं विधेयं नो वेद कोऽपि हृदयं खलु कामिनीनाम्‌ ॥ ३६ ॥ प्रीतिभेदनिरूपणम्‌ । स्रक्चन्दनाम्बरमनोहरभक्ष्यभोज्यै- र्नानाविधैरुपचिता विषयैः सदैव । प्रीतिः स्मृता विषयजेति कविप्रवीरैः सादृश्ययोगसुभगा कथिता सदैव ॥ ३७ ॥ आखेटशिल्पसुरपूजनकेलिरङ्ग- सङ्गीतसेवनविधावुपचीयते या । अभ्यासकौशलवशेन कृशोदरीणा- माभ्यासकी निगदिता कविभिः पुराणैः ॥ ३८ ॥ स्त्रीणां रागविनाशहेतवः । दारिद्रदुःखभयविक्लवमानरोगै- रुद्वेगकोपतनुतादिभिरीश्वराणाम्‌ । रागं त्यजन्ति वनिता इह विस्तरस्य भीत्या न चास्य कथितः सकलो विवर्तः ॥ ३९ ॥ इति श्रीकविशेखरज्योतीश्वरविरचिते पञ्चसायके द्वितीयः सायकः । अथ तृतीयः सायकः । देहदौर्गन्ध्यहरणयोगाः । प्रागङ्गरागः पुरुषेण कार्यः स्रिया च सम्भोगसुखाय गात्रे । तस्मादहं गन्धविधानमादौ विलासिनः सर्वमुदीरयामि ॥ १ ॥ हरीतकीलोध्रमरिष्टपत्रं सप्तच्छदो दाडिमकल्कलं च । एषोऽङ्गनायाः कथितः कवीन्द्रैः शरीरदौर्गन्ध्यहरः प्रलेपः ॥ २ ॥ हरीतकीचन्दनमुस्तनागैरुशीरलोध्रामयरात्रितुल्यैः । स्त्रीपुंसयोर्घर्मजगात्रगन्धं विनाशयत्याशु विलेपनं च ॥ ३ ॥ हरीतईश्रीफलमुस्तयुक्तैर्बिम्बीफलैः पूतकरञ्जबीजैः । कक्षादिदौर्गन्ध्यमतिप्रभूतं विनाशयत्याशु हठेन योगः ॥ ४ ॥ (सचन्दनोशीरकबिल्वपत्रैः कोलाक्षमज्जागुरुनागपुष्पैः । लिप्त्वा शरीरं प्रमदा जवेन चिरप्ररूढं विनिहन्ति गन्धम्‌ ॥ ५ ॥ सकेसरोशीरशिरीषलोघ्रैश्चूर्णीकृतैरङ्गविलेपनेन । ग्रीष्मे नराणां कदाचिदेव घर्मस्रुतिः स्यादिति भोजराजः ॥ ६ ॥ महापरिमलं तैलम्‌ । आदौ बिल्वदलं ततो मरुवकं पुष्पाण्यशोकस्य तु प्रत्यादित्यमजस्रमेव तिलजे तैले घटे निःक्षिपेत्‌ । केतक्यां कुसुमानि चेह मुहुशः शेषे क्षिपेदादरा- दित्थं कार्यमिदं महापरिमलं तैलं नरैः सिद्धये ॥ ७ ॥ स्नानीयसुगन्धिनिरूपणम्‌ । स्वर्णाम्बुदोशीरमिशीयुतानां पथ्यान्वितानां च विलेपनेन । स्नात्वा नरः सौरभमेव मासाच्चैकण्यमाप्नोति शिरोरुहाणाम्‌ ॥ ८ ॥ पथ्यारसालामलकीफलानां सजम्बुजीमूतदलामयानाम्‌ । मांसीयुतानां परिलेपनेन स्नायान्नरः सौरभकान्तिवृद्ध्यै ॥ ९ ॥ देहसौरभ्यकरा योगाः । हरीतकीतोयदतुल्यभागौ वनेचरस्यापि चतुर्थभागः । तदर्थभागः कथितो नखस्य स्यादेष गन्धो मदनप्रकाशः ॥ १० ॥ एलाशटीपत्रकचन्दनानि तोयाभयाचन्द्रघनामयानि । सुसौरभोऽयं सुरराजयोग्यः ख्यातः सुगन्धो नरमोहनार्थः ॥ ११ ॥ ऐणेयकाश्मीरघनाम्बुलोहनिशाकरोशीरसमानि पिष्ट्वा । लेपः प्रियोऽयं सुरमानवानामुदीरितः पूर्वकवीन्द्रवर्यैः ॥ १२ ॥ उशीरकृष्णागुरुचन्दनानि पत्राम्बुतुल्यानि समानि पिष्ट्वा । एतानि गात्रेषु विलासिनीनां श्रीखण्डतुल्यं प्रथयन्ति गन्धम्‌ ॥ १३ ॥ सर्वोत्तमसुगन्धयोगाः । जातीकर्कटरक्तचन्दनघनश्रीवासशैलेयकं कस्तूरीकनकामतङ्गकुसुमैः स्थौणेयकैः संयुतम्‌ । एतानीन्दुयुतानि पर्णजरसैः पिष्टोऽङ्गरागः शुभः कार्यो गन्धकलाकलापकुशलैः क्षोणीन्द्रयोग्यः सदा ॥ १४ ॥ पथ्या भागचतुष्टयं जलमुचो भागैकमात्रं मतं व्याधेर्भागचतुष्टयं च शशिनण स्थौणेयभागद्वयम्‌ । भागाः पञ्च शिलोद्भवस्य कथिता भागो नखस्यापि च कस्तूरीदलसञ्ज्ञकं निगदितं सौरभ्यविज्ञैरिदम्‌ ॥ १५ ॥ पथ्याभागचतुष्टयं जलमुचो भागैकमात्रं सदा श्रीखण्डागुरुजातिकामृगमदस्योक्ताश्च भागास्त्रयः । मांसीपद्मतुषारवालकसमैः सम्यक्तया पेषितः सर्वैरेभिरिहोत्तमः प्रकथितः सौरभ्यगर्भाभिधः ॥ १६ ॥ मुखवासयोगाः । रसालजम्बूफलगर्भसारः सकर्कटो माक्षिकसंयुतश्च । स्थितो मुखान्तः पुरुषस्य रात्रौ करोति सौरभ्यसुखं मुखस्य ॥ १७ ॥ गुडत्वगेलानखजातिकाह्वैः स्वर्णान्वितैः क्षुद्रवटी विधेया । ताम्बूलगर्भा दिवसे च रात्रौ करोति पुंसां मुखवासमिष्टम्‌ ॥ १८ ॥ यः कुष्ठचूर्णं मधुना घृतेन पीकाक्षबीजान्वितमत्ति नित्यम्‌ । मासैकमात्रेण मुखं तदीयं गन्धायते केतकिपुष्पतुल्यम्‌ ॥ १९ ॥ वाजीकरणसमुद्देशः । बलेन नारी परितोषमेति न हीनवीर्यस्य कदाऽपि सौख्यम्‌ । अतो बलार्थं रतिलम्पटस्य बीजाभिवृद्धिं प्रथमं विदध्यात्‌ ॥ २० ॥ चूर्णं विदार्याः स्वरसेन तस्याः सुभावितं भास्कररश्मिजालैः । मध्वाज्यसम्मिश्रितमाशु लीढ्वा दश स्त्रियो गच्छति निर्विशङ्कः ॥ २१ ॥ भूयो विभाव्यामलकस्य चूर्णं रसेन तस्यैव सिताज्यमिश्रम्‌ । सक्षौद्रमालेढि निशामुखे यो नूनं स वृद्धस्तरुणत्वमेति ॥ २२ ॥ शतावरीगोक्षुरवानरीणां गोरक्षामातङ्गबलाबलानाम्‌ । क्षीरेण चूर्णानि निपीय रात्रौ मथ्नाति दर्पं तरुणीजनस्य ॥ २३ ॥ यो वर्तकीलावकपिञ्जलानां मांसं तथा वेश्मविहङ्गमस्य । घृतेन सिद्धं सह सैन्धवेन महाबलः स्यादुपभुज्य नूनम्‌ ॥ २४ ॥ शतावरीगर्भमिदं ससर्पिः पचेत्पयोभिर्दशभागयुक्तैः । सितोपलाभ्यां मधुसम्प्रयुक्तं नास्माद्द्वितीयं भुवि दृष्टमन्यत्‌ ॥ २५ ॥ सितपिकतरुबीजं तण्डुलाः षष्टिकानां सघृतमधुसमेतं प्रत्यहं योऽवलेढि । जठरकुहरमध्ये याति यावन्न पाकं रमयति कृशदेहोऽप्यङ्गनानां समूहम्‌ ॥ २६ ॥ मांसीं विदारीं च तथोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम्‌ । पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम्‌ ॥ २७ ॥ लघुशाल्मलिमूलेन तालमूलीं सुचूर्णिताम्‌ । सर्पिषा पयसा पीत्वा रतौ चटकवद्भवेत्‌ ॥ २८ ॥ वृद्धशाल्मलिमूलस्य रसं शर्करया पिबेत्‌ । एतत्प्रयोगात्सप्ताहाज्जायते रेतसोऽम्बुधिः ॥ २९ ॥ योनिगाढीकरणसमुद्देशः । प्रौढाङ्गनाया नवसूतिकायाः श्लथं वराङ्गं न सुखाय यूनाम्‌ । तस्मान्नरैर्भेषजतो विधेया गाढक्रिया मन्मथमन्दिरस्य ॥ ३० ॥ निशाद्वयं पङ्कजकेसरं च निष्पिष्य देवद्रुतमतुल्यभागम्‌ । अनेन लिप्तं मदनातपत्रं प्रयाति सङ्कोचमलं युवत्याः ॥ ३१ ॥ सधातुकीपुष्पफलत्रिकेण जम्बुत्वचा सारघसंयुतेन । लिप्त्वा वराङ्गं मधुकेन तुल्यं वृद्धाऽपि कन्येव भवत्पुरन्ध्री ॥ ३२ ॥ पिकाक्षबीजेन मनोजगेहं विलिप्य योषा नियमं चरन्ती । हठेन गाढं लभते वराङ्गं दृष्टो नरैरेष सदैव योगः ॥ ३३ ॥ या शक्रगोपं स्वयमेव पिष्ट्वा विलिम्पति स्त्री कुसुमेषुवेश्म । आह स्म तस्याः कठिनं च गाढं भवेच्च नात्रास्ति विकल्पशङ्का ॥ ३४ ॥ इन्दीवरव्याधिवचाकणानां तुरङ्गगन्धायुगयामिनीणाम्‌ । लेपेन नार्याः स्मरवेश्मरन्ध्रं सङ्कोचयत्याशु हठेन योगः ॥ ३५ ॥ मदनकघनसारैः क्षौद्रतुल्यैर्वराङ्गं शिथिलितमपि यस्याः पूरितं भूय एव । भवति कठिनमुच्चैः कर्कशं कामिनीना- मिति निगदति योगं रन्तिदेवो नरेन्द्रः ॥ ३६ ॥ द्रावणसमुद्देशः । यद्यप्यष्टगुणाधिको निगदितः कामोऽङ्गनानां सदा नो याति द्रवतां तथाऽपि झटिति व्यायामिनां सङ्गमे । तस्माद्भेषजसम्प्रयोगविधिना सङ्क्षेपतो द्रावणं किञ्चित्पल्लवयामि पङ्कजदृशां प्रत्यायकं कामिनोः ॥ ३७ ॥ सिन्दूरचिञ्चाफलमाक्षिकाणि तुल्यानि यस्या मदनातपत्रे । क्षिप्तानि वै सा पुरुषप्रसङ्गात्प्रागेव रेतःस्रुतिमातनोति ॥ ३८ ॥ घोषारजः क्षौद्रसमन्वितं तु क्षिप्तं यदीये स्मरयन्त्रगेहे । द्रुता भवेत्सा हठतो हि नारी दृष्टः सदाऽयं किल योगराजः ॥ ३९ ॥ अगस्तिपत्रद्रवसंयुतेन मध्वाज्यसम्मिश्रितटङ्कणेन । लिप्त्वा ध्वजं यो रमतेऽङ्गनां यां सा शुक्रमावर्षति शीघ्रमेव ॥ ४० ॥ सरोध्रधत्तूरकपिप्पलीनां क्षुद्रोषणक्षौद्रविमिश्रितानाम्‌ । लेपेन लिङ्गस्य करोति रेतःस्रुतिं विपक्षप्रमदाजनस्य ॥ ४१ ॥ तुषजलपरिमिश्रैर्बीजपूरस्य मूलै- र्दिवसकरमयूखैर्मर्दितैः कामवेश्म । द्रवति झटिति लिप्तं भेषजस्यास्य योगा- दिति वदति नरेन्द्रो रन्तिदेवः कवीन्द्रः ॥ ४२ ॥ लिङ्गस्थूलीकरणसमुद्देशः । सकुष्ठमातङ्गबलाबलानां वचाश्वगन्धागजपिप्पलीनाम्‌ । तुरङ्गशत्रोर्नवनीतयोगाल्लेपेन लिङ्गं मुशलत्वमेति ॥ ४३ ॥ सरोध्रकाशीशतुरङ्गगन्धामातङ्गगन्धापरिपाचितेन । तैलेन वृद्धिं खलु यान्ति शीघ्रं वराङ्गकर्णस्तनमेहनानि ॥ ४४ ॥ अथ ध्वजदृढीकरणसमुद्देशः । हयारिपत्रं नवनीतपिष्टं वचाबलानागबलामयैश्च । लेपेन लिङ्गं सहसैव पुंसां लोहोपमं स्यादिति दृष्टमेतत्‌ ॥ ४५ ॥ अथ वीर्यस्तम्भनसमुद्देशः । क्षीरेण बस्तस्य च बद्धमूलं लज्जालुमूलं स्वयमेव पिष्ट्वा । यस्तु स्वपादौ परिलिप्य शेते रेतो न तस्य स्रवते कदाचित्‌ ॥ ४६ ॥ श्वेतेषुपुङ्खाख्यतरोः फलानि क्षीरेण पिष्ट्वा वटपादपस्य । करञ्जबीजोदरमध्यगानि बध्नन्ति वीर्यं वदने धृतानि ॥ ४७ ॥ श्वेतेषुपुङ्खाचरणं गृहीत्वा पुष्यार्कयोगे पुरुषस्य कट्याम्‌ । कुमारिकाकर्तितसूत्रकेण बद्धं न यात्याशु मनोजजीरम्‌ ॥ ४८ ॥ आदाय कृष्णेतरकाकजङ्घामूलं सिताम्भोरुहकेशरं च । क्षौद्रेन पिष्ट्वा परिलिप्तनाभेः स्तम्भं प्रयात्याशु नरस्य बीजम्‌ ॥ ४९ ॥ अथ वशीकरणतिलकसमुद्देशः । मञ्जिष्ठतोयदवचासितभानुमूलैः स्वीयाङ्गशोणितयुतैः समकुष्ठकैश्च । कृत्वा ललाटफलके तिलकं कृतज्ञो लोकत्रयं वशयति क्षणमात्रकेण ॥ ५० ॥ अथ वशीकरणाञ्जनसमुद्देशः । देवीमहोत्सवदिने किल कज्जलं यत्‌ सिद्धार्थकस्य सुरसेन नरोत्तमाङ्गे । निष्पातितं नरवरेण निशि श्मशाने तन्नेत्रगं भुवनमेव वशं करोति ॥ ५१ ॥ अथ वशीकरणचूर्णसमुद्देशः । कुष्ठोत्पलं मधुकरस्य च पत्रयुग्मं मूलं तथा तगरजं सितकाकजङ्घा । यस्याः शिरोगतमिदं विहितं तु चूर्णं दासीभवेज्झटिति सा तरुणी न चित्रम्‌ ॥ ५२ ॥ अथ वशीकरणलेपनसमुद्देशः । सव्येन पाणिकमलेन रतावसाने यो रेतसा निजभवेन विलासदक्षः । वामं विलिम्पति पदं सहसैव यस्या- स्तस्यैव सा भवति नात्र विकल्पभावः ॥ ५३ ॥ सम्भोगशेषसमये निजकान्तमेढ्रं या कामिनी स्पृशति वामपदाम्बुजेन । तस्याः पतिः सपदि विन्दति दासभावं गोणीसुतेन कथितः किल यागराजः ॥ ५४ ॥ सिन्धूत्थमाक्षिककपोतमलानि पिष्ट्वा लिङ्गं विलिप्य तरुणीं रमते नरो यः । साऽन्यं प्रयाति पुरुषं न कदाऽपि कामं दासीभवेदतिमनोहरदिव्यमूर्तिः ॥ ५५ ॥ भल्लूकमेढ्रघनसारमधूनि पिष्ट्वा लिप्तध्वजो निधुवनं विदधीत यस्याः । साऽऽह्लादिनी कुसुमसायकसन्नताङ्गी वश्या भवेच्चिरतरं न हि संशयोऽत्र ॥ ५६ ॥ गोरोचनाशिशिरदीधितिशम्भुबीज- काश्मीरचन्दनयुतैः कनकद्रवेण । लिप्तध्वजः परिरमत्यबलां नरो य- स्तस्याः स एव हृदये मुकुटत्वमेति ॥ ५७ ॥ अथ वशीकरणधूपसमुद्देशः । शृङ्गीवचायुवतिसर्जरसं समानं कृत्वा त्रुटिं मलयजं च षडेव मिश्रम्‌ । यो धूपयेन्निजगृहं वसनं शरीरं तस्यापि दास इव मोहमुपैति लोकः ॥ ५८ ॥ अथ वशीकरणमन्त्रसमुद्देशः । मदमदपदमादौ मादयेति द्विवारं तदनु च लिखनीयं सौख्यदं ह्रीं च तस्मात्‌ । अथ च पदमुपान्ते नामरूपादिसञ्ज्ञो भवति मदनमन्त्रः स्वाहया संयुतोऽयम्‌ ॥ ५९ ॥ 'ॐ मद मद मादय मादय ह्रीं अमुकीं वशमानय स्वाहा' शतशतपरिजापात्‌ स्यादयं सिद्धिदाता दशदशकुसुमानां लोहितानां च होमात्‌ । इह तु सकलकार्यं वामहस्तेन कार्य- मुपदिशति समासाज्ज्योतिरीशः स्वरूपम्‌ ॥ ६० ॥ अस्य मन्त्रस्य दशसहस्त्रसङ्ख्याकोन्मितो जपः, रक्तवर्णैः प्रसूनैर्मधुना घृतेन च होमः करणीयः । सर्वं वामहस्तेन कर्तव्यम् । अथ ध्यानम्‌- कनकरुचिरमूर्तिः कुण्डलाकृष्टचापो युवतिहृदयमध्ये निश्चलारोपिताक्षः । इति मनसि मनोजं ध्याययेद्यो जपस्थो वशयति स समस्तं भूतलं मन्त्रशक्त्या ॥ ६१ ॥ अथ चामुण्डमन्त्रः । चामुण्डे प्रथमं जयेति कथितं सम्बोधनं मोहय ज्ञातव्यं वशमानयेति च पदं साध्यं द्वितीयायुतम्‌ । स्वाहान्तः प्रणवादिरेष प्रथितस्तन्त्रे महामोहनः सन्मन्त्रः कविशेखरेण कथितो नास्माद्द्वितीयो भुवि ॥ ६२ । 'ॐ चामुण्डे जय चामुण्डे मोहय अमुकीं वशमानय स्वाहा' इति मन्त्रः । अस्य मन्त्रस्य जप एकलक्षमितः, पलाशकुसुमैर्होमः दशांशं, सर्वं वामहस्तेन कर्तव्यम्‌ । अथ चामुण्डाया ध्यानम्‌- दंष्ट्राकोटिविसङ्कटा सुवदना सान्द्रान्धकारे स्थिता खट्वाङ्गासिनिगूढदक्षिणकरा वामे सपाशं शिरः । श्यामा पिङ्गलमूर्धजा भयकरी शार्दूलचर्माम्बरा चामुण्डा शववाहिनी जपविधौ ध्येया सदा साधकैः ॥ ६३ ॥ अथ विश्वेश्वरीमन्त्रः । ओङ्कारः प्रथमं नमो नम इति प्रोक्तं च तस्मात्पदं चामुण्डे परिकीर्तितं हिलि हिलि ज्ञेया च सञ्ज्ञा ततः । ज्ञातव्यं तु समानयेति च पदं सन्मन्त्रिणां सम्मतो मन्त्रोऽयं कविशेखरेण कथितः ख्यातः सदा सिद्धिदः ॥ ६४ ॥ 'ॐ नमो नमश्चामुण्डे हिली हिलि अमुकीं वशमानय स्वाहा' अस्य मन्त्रस्य जप एकलक्षपरिमितः, तद्दशांशः पलाशकुसुमैर्होमः करणीयः, सर्वं वामहस्तेन कर्तव्यम् ॥ अथविश्वेश्वरीध्यानम्‌ । वज्रासक्तशरासना त्रिनयना सव्येतरेणाङ्कुशं वामेनापि करेण पाशमुरसि न्यस्तोत्तमाङ्गस्रजा । व्यामुक्तोरुकचा करालवदना वह्निप्रभा मध्यगा ध्येया जापविधौ नरैरिति सदा विश्वेश्वरी सिद्धये ॥ ६५ ॥ अथ पद्मिनीवशीकरणमन्त्रः । 'ॐ कामेश्वर ! मोहय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण मधुमिश्रितजातिकुसुमसहितं ताम्बूलमादित्यदिने सहस्रवारमभिमन्त्रितं पद्मिन्यै दातव्यम्‌ । पद्मिनी वश्या भवति ॥ अथ चित्रिणीवशीकरणमन्त्रः । 'ॐ पच पच ॐ विहङ्गम विहङ्गम ॐ कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण रम्भामूलजलभावितजातीफलमिलितताम्बूलमादित्यदिने पञ्चशतवारमभिमन्त्रितं चित्रिण्यै दातव्यम्‌ । चित्रिणी वश्या भवति ॥ अथ शङ्खिनीवशीकरणमन्त्रः । 'ॐ हर हर ॐ पच पच कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण तरगमूलं श्रीफलञ्चादित्यवारे अष्टोत्तरशतवारमभिमन्त्रितं शङ्खिन्यै दातव्यम्‌ । सा वश्या भवति ॥ अथ हस्तिनीवशीकरणमन्त्रः । 'ॐ चिरि चिरि वशं कुरु कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण आदित्यदिने क्षौद्राक्तौ कपोतभ्रमरपक्षौ ताम्बूलदले विन्यस्य अष्टोत्तरशतमभिमन्त्रितं कृत्वा हस्तिन्यै देयम्‌ । हस्तिनी वश्या भवति ॥ अथ अनिच्छाहरणोपायनिरूपणम्‌ । क्षीरोदनं द्विजवराय पुरा प्रदद्यात्‌ पुष्योद्धृतं सितबलाचरणं कुमार्या । पिष्टं प्रदत्तमिति वैरकृतामनिच्छां निःसारयेदिह मुहुर्विदितप्रभावः ॥ ६६ ॥ अथ स्तनोत्थापनसमुद्देशः । मातङ्गकृष्णामयवाजिगन्धा वचायुताः पर्युषिताम्बुमिश्राः । हयारिपत्रीनवनीतयोगात्‌ कुर्वन्ति पीनं कुचकुम्भयुग्मम्‌ ॥ ६७ ॥ वसा भुजङ्गस्य हयारिपत्रं कोलस्य मेदः समभागयुक्ताः । वक्षोजकुम्भं मदिरायताक्ष्याः कुर्वन्ति पीनं सकलं हठेन ॥ ६८ ॥ तैलं हठाद्दाडिमकल्कसिद्धं सिद्धार्थजं लेपनतो नितान्तम्‌ । नारीस्तनौ चारुतरौ सुपीनौ कुर्यादसौ योगवरः सदैव ॥ ६९ ॥ श्रीपर्णिकाया रसकल्कसिद्धं तिलोद्भवं तैलवरं प्रदिष्टम्‌ । प्लोतेन वक्षोजयुगे प्रदेयं प्रयाति वृद्धिं पतितोऽपि नार्याः ॥ ७० ॥ योनिसंस्कारसमुद्देशः । प्रक्षालयेन्निम्बकषायनीरैर्निशाज्यकृष्णागुरुगुग्गुलूनाम्‌ । धूपेन योनिं निशि धूपयित्वा नारी प्रमोदं विदधाति भर्तुः ॥ ७१ ॥ जातीप्रसूनैः सितसर्षपस्य तैलं पचेल्लघ्वनले प्रकामम्‌ । अभ्यङ्गयोगेन सदैव योनौ सौभाग्यमाप्नोति रते पुरन्ध्री ॥ ७२ ॥ अथ रोमशातनसमुद्देशः । भुजङ्गचूर्णं कटुतैलमध्ये सप्ताहमादित्यकरे निधेयम्‌ । तत्तैलयोगेन विलासिनीनां नश्यन्ति रोमाणि समूलमेव ॥ ७३ ॥ पलाशभस्मान्विततालचूर्णैः रम्भाम्बुमिश्रैरुपलिप्य भूयः । कन्दर्पगेहे मृगलोचनानां रोमाणि रोहन्ति कदापि नैव ॥ ७४ ॥ रम्भाजले सप्तदिनं विभाव्य भस्मेह कम्बोर्मसृणं च पश्चात्‌ तालेन युक्तं च विलेपनेन रोमाणि निर्मूलयति क्षणेन ॥ ७५ ॥ अथ पुष्पजननसमुद्देशः । ज्योतिष्मतीकोमलपत्रमग्नौ भृष्टं जपायाः कुसुमेन पिष्टम्‌ । गृहाम्बुना पीतमिदं युवत्या करोति पुष्पं स्मरमन्दिरस्य ॥ ७६ ॥ अथ गर्भसाधारणसमुद्देशः । तुरङ्गगन्धाश्रुतवारिसिद्धमाजं पयः स्नानदिने निपीय । प्राप्नोति गर्भं नियमं चरन्ती वन्ध्याऽपि नूनं पुरुषप्रसङ्गात्‌ ॥ ७७ ॥ पुष्योद्धृतं लाक्ष्मणमेव मूलं भर्त्रा निपिष्टं सघृतं च पीतम्‌ । क्षीरौदनं प्राश्य पतिप्रसङ्गाद्गर्भं विधत्ते तरुणी न चित्रम्‌ ॥ ७८ ॥ या बीजपूरद्रुममूलमेकं क्षीरेण सिद्धं हविषा विमिश्रम्‌ । ऋतौ निपीय स्वपतिं प्रयाति दीर्घायुषं सा तनयं प्रसूते ॥ ७९ ॥ अथ गर्भसंस्थापनसमुद्देशः । कशेरुशृङ्गाटकजीवनाख्यपयोधरैरण्डशतावरीभिः । सिद्धं पयः शर्करया विमिश्रं संस्थापयेद्गर्भमुदीर्णशूलम्‌ ॥ ८० ॥ अथ सुखप्रसवसमुद्देशः । अथ सुखप्रसवमन्त्रः - ॐ इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि । उच्चैःश्रवा तुरङ्गाणां मन्दिरे निवसन्तु ते ॥ ८१ ॥ ॐ इदमममृतमपां समुद्धृतं वै तव लघु गर्भमिमं विमुञ्चतु स्त्रि । तदनलपवनार्कवासरास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ॥ ८२ ॥ ॐ मुक्ताः पाशा विपाशाश्च मुक्ताः सूर्येण रश्मयः । मुक्तः सर्वभयाद्गर्भ एह्येहि मा चिर स्वाहा ॥ ८३ ॥ एभिर्जलं च्यावनमन्त्रराजैर्जप्त्वा प्रदेयं किल गर्भवत्यै । सद्यः प्रसूते नवमूढगर्भा योगोऽयमात्रेयमुनिप्रदिष्टः ॥ ८४ ॥ एभिर्मन्त्रैः सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम्‌ । "ॐ मन्मथ मन्मथ मन्मथवाहिनि ! लम्बोदरं मुञ्च मुञ्च लघु स्वाहा" इति मन्त्रः । अनेन मन्त्रेण सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम्‌ । सुखात्‌ प्रसवो भवति ॥ अथ वन्ध्याकरणसमुद्देशः । पलाशक्षीरिद्रुमयोः फलानि पुष्पाण्यथो शाल्मलिपादपस्य । मद्येन मासार्धदिनं निपीय वन्ध्या भवेन्निश्चितमेव नारी ॥ ८५ ॥ फलं कदम्बस्य च माक्षिकं हि तुषोदकेन त्रिदिनं निपीय । स्नानावसाने नियमेन चापि वन्ध्यामवश्यं कुरुते हठेन ॥ ८६ ॥ कर्षद्वयं राक्षसवृक्षबीजं सप्ताहमात्रं सितशालिवारा । ऋतौ निपीतं मृगशावकाक्ष्या वन्ध्यात्वमेतन्नियतं करोति ॥ ८७ ॥ अथ केशसंस्कारसमुद्देशः । तिलप्रसूनं सह गोक्षुरेण ससारघं गव्यघृतेन पिष्टम्‌ । सप्ताहमात्रेण शिरःप्रलेपाद्भवन्ति दीर्घाः प्रचुराश्च केशाः ॥ ८८ ॥ कर्षार्धमात्रं प्रसवं फलेन निम्बस्य तैलं नियमेन पीतम्‌ । क्रमेण कुन्देन्दुतुषारगौरं शिरोरुहं मेचकतामुपैति ॥ ८९ ॥ अथ इन्द्रलुप्तसमुद्देशः । गुञ्जाफलैः क्षौद्रयुतैर्विलिप्य केशप्रदेशे सकलेन्द्रलुप्तम्‌ । अनेन योगेन सदैव केशा रोहन्ति कृष्णाः कुटिला विशालाः ॥ ९० ॥ इति श्रीकविशेखरज्योतिरीशविरचिते पञ्चसायके तृतीयः सायकः । अथ चतुर्थः सायकः । अथ कन्यालक्षणसमुद्देशः । प्रख्याते महति प्रभूतविभवे चारित्रशीलान्विते विद्याधैर्यविवेकशौर्यविभवश्लाघ्ये कुलीने कुले । कन्या भ्रातृयुता सुशीलविनया रूपोज्ज्वला दक्षिणा त्रैवर्गाश्रितशुद्धवंशनिलया सद्भिर्विवाह्या नरैः ॥ १ ॥ अम्भोजास्या बहलनयना भूरिकेशप्रचारा तुल्या स्निग्धा सुसमदशना पद्मरागाधरौष्ठी । रम्यश्रोत्रा मधुरवचना कम्बुकण्ठी शुभाङ्गी मध्ये क्षीणा सुललितकरा दक्षिणावर्तनाभिः ॥ २ ॥ पीनश्रोणी कनककदलीस्तम्भजङ्घाभिरामा रक्ताशोकप्रसवचरणा स्निग्धशाखाङ्गुलीका । इत्थं युक्ता सुललिततनुर्लक्षणैरुत्तमैर्या कन्या सद्भिश्चटुलचरिता सा विवाह्या गुणज्ञैः ॥ ३ ॥ अथ कन्यादूषणसमुद्देशः । खर्वा पिङ्गलकुन्तला कृशतनुर्दीर्घाऽतिरोमाकुला कृष्णा सौकरलोचना पृथुगला कृष्णाधरा दन्तुरा । रुक्षाङ्गी विकटस्तनी च सबला बभ्रूरवीरात्मजा वाचाला बहुभोजना च गदिनी प्रौढा च दुःखान्विता ॥ ४ ॥ पुष्पक्ष्माधरवृक्षदेशतटिनीनक्षत्रसञ्ज्ञा च या हास्ये कूपयुगं कपोलयुगले यस्या भवेत्‌ सत्वरम्‌ । अङ्गुष्ठाधिकपर्वणी चरणयोर्यस्याश्च जाताऽङ्गुलिः पादस्यापि कनीनिका न पतति क्ष्मायां तदन्यैव वा ॥ ५ ॥ अज्ञातान्वयजा स्वभावपिशुना लम्बाधरा चञ्चला कुष्ठिश्चित्रिकुलोद्भवा च वितता यस्याः कटिर्नासिका । निन्द्या पल्लवजिह्विका द्रुतगतिर्न्यूनाधिकाङ्गी पुन- स्त्याज्या कामकलाकलापकुशलैः कन्या विवाहे सदा ॥ ६ ॥ अथ वरलक्षणसमुद्देशः । प्रख्यातोऽमलवंशजो नववयाः शूरस्सुशीलश्च यः स्वाचारः स्थिरसौहृदो गुणनिधिर्नानाकुटुम्बी बली । अर्थी भोगरतो विशिष्टवचनो दाक्षिण्यधैर्याश्रयो जामाता जगतीतले कविवरैरेवंविधो वर्णितः ॥ ७ ॥ अथ वरदूषणसमुद्देशः । पापिष्ठो व्यसनी ऋणैरुपहतो द्यूतप्रियो भिक्षुको रोगी पुंस्त्वविवर्जितश्चलमतिर्वैदेशिकः कातरः । मूर्खो दुष्टकुलोद्भवश्च कृपणो वृद्धोऽतिदीनः खलः कर्तव्यो न वरः कदाऽपि पुरुषैरेवंविधो भूतले ॥ ८ ॥ अथ विवाहभेदसमुद्देशः । चातुर्वर्ण्यसमाहिता मुनिवरैरष्टौ विवाहाः स्त्रियो ब्राह्मो दैवतकस्ततो निगदितौ गान्धर्वपैशाचकौ । आर्षो राक्षसकस्तथाऽऽसुर इति ख्यातोऽपरश्चाष्टमः प्राजापत्यसमाभिधः पृथगमी प्रोक्ता मया नामतः ॥ ९ ॥ आर्षो दैवतकः प्रजापतिभवो ब्राह्मो द्विजानां मतो गान्धर्वः सह राक्षसेन कथितः क्षात्रस्य तज्ज्ञैरसौ । एकश्चासुरसञ्ज्ञको निगदितो वैश्यस्य शूद्रस्य च सङ्क्षेपादुपवर्णितं क्रमवशात्पौराणिकं लक्षणम्‌ । १० ॥ विद्यावान्‌ गुणपूजितः सुचरितः सद्वंशजातो मुनिः सौम्यो मानरतः सुशीलविनयो गेहागतः प्रार्थकः । कन्याया गृहनायकः सपुलकस्तस्मै ददात्यादरा- दार्षो गोयुगदक्षिणो निगदितस्तज्ज्ञैर्विवाहो वरः ॥ ११ ॥ ऋत्विग्भिः परिमण्डिते बहुविधे यज्ञोत्सवे चोत्तमे नानावर्णसुवर्णवस्त्रकुसुमैराभूषिताङ्गी शुभा । कन्या दक्षिणया द्विजाय विधिना यद्दीयते चादरा- द्दैवः सोऽयमुदीरितः कविवरैरित्थं विवाहो वरः ॥ १२ ॥ कन्या बान्ध्वसन्निधौ सुललिता विप्रोत्तमायादरा- दुक्त्वा- तुभ्यमियं मया स्वतनया दत्तेति हर्षान्वितौ । धर्मं सञ्चरतां यथासुखमुभौ दाम्पत्ययोगात्सदा प्राजापत्यकरग्रह कविवरैरेषः प्रमाणीकृतः ॥ १३ ॥ आहूयार्चनपूर्वकं द्विजवरायाच्छाद्य वासोवरै- र्विद्याशीलविवेकवंशविनयाचारान्विताय स्वयम्‌ । कन्या प्रीतिमते वराय विधिना यद्दीयते सादरं ब्राह्मोऽसौ मुनिपुङ्गवैर्निगदितः श्रेष्ठो विवाहोऽपरः ॥ १४ ॥ कन्या यौवनशालिनी पतिममुं या स्वीकरोति स्वयं गान्धर्वः स हि कथ्यते भुजबलादाकृष्यते यत्पुनः । ज्ञेयो राक्षस एष पण्डितवरैश्चौर्याद्विवाहोऽपरः पैशाचः कविशेखरेण कथितस्त्याज्यः सदा यत्नतः ॥ १५ ॥ आदाय प्रथमं वराद्बहुतरं शुल्कं यथाकाङ्क्षया वस्त्रालङ्कृतिवैभवेन तनयासन्तोषमुत्पाद्य च । पश्चाद्दुष्कुलसम्भवाय मलिनं कन्याप्रदानं वृथा प्रख्यातोऽधमवंशजापरिणयस्तज्ज्ञैरसावासुरः ॥ १६ ॥ अथ परदारत्यागसमुद्देशः । अश्रद्धामुपहस्यतां मलिनतामर्थक्षयं लाघवं गर्हां ग्लानिमधोगतिं विकलतामायुःक्षतिं दुर्गतिम्‌ । इत्थं ये परदारकर्मणि रता लोकत्रये निन्दिता विन्दन्ते परमापदः सुखधिया दुःखं नरास्ते सदा ॥ १७ ॥ पौलस्त्यः सुरदैत्यमर्त्यमुकुटव्याघृष्टपादाम्बुजो मैथिल्याहरणादवाप मरणं वालिश्च्युतो राज्यतः । पाञ्चालीप्रतिकाङ्क्षित्वेन निधनं भीमाद्गतः कीचक- स्तस्मादन्यवधूर्नरैर्न मनसाऽप्यालापनीया भुवि ॥ १८ ॥ अथ दूतीसमुद्देशः । चक्षुःप्रीतिरुदीरिता प्रथमतश्चित्तभ्रमः स्यात्ततः सङ्कल्पस्तदनन्तरं निगदितो निद्राविनाशस्तथा । वैराग्यं विषयेषु कार्श्यमथ च व्रीडानिवृत्तिस्ततो ह्युन्मादो मरणं दश(नव) प्रकटिताः कन्दर्पचेष्टा इति ॥ १९ ॥ कामिन्या नवयौवने न मिलति स्वेच्छाविहारो नृणा- मुन्मादो मरणं तदा मनसिजव्यामोहतो जायते । तस्मात्तद्विनिवारणाय पुरुषैरन्याङ्गना कामिभि- र्गन्तव्येति वदन्ति काश्यपमुनिक्षेमेन्द्रवात्स्यायनाः ॥ २० ॥ तारापीडसुतो विनाशमगमत्कादम्बरीकाङ्क्षया व्यामुक्तः किल पुण्डरीकमुनिरप्युच्चैर्महाश्वेतया । उर्वश्या च पुरूरवा नरपतिः सन्त्याजितो जीवितं तस्माज्जीवितरक्षणाय हि विनिर्गम्या परप्रेयसी ॥ २१ ॥ दासी वारवधूर्नटी च विधवा बाला च धात्री तथा कन्या प्रव्रजिता च भिक्षुवनिता सम्बन्धिनी शिल्पिनी । मालाकारनितम्बिनी प्रतिसखी दौत्ये स्मृता योषिता- मालापे कविभिः सदैव मदनव्यापारलीलाविधौ ॥ २२ ॥ अथ सुखसाध्यासमुद्देशः । प्रौढा कान्तविमानिता बहुगुणा रम्याऽनपत्या तथा रण्डा स्वैरपरा स्वतन्त्रगमना शिल्पप्रिया गायिका । षण्ढोन्मत्तदरिद्रसेवकमहारोगार्तडिम्भाङ्गना नूनं सिद्ध्यति दूतिकानिगदिता रम्याभिसारोत्सवे ॥ २३ ॥ अथ कष्टसाध्यासमुद्देशः । एका वल्लभरक्षिता परजनालापे विरक्ता दृढा निःस्नेहा धनयौवने गुरुजनाद्भीता च लज्जावती । स्वस्था सुन्दरनायका पतिरता शिष्यादिकान्ता तथा दुःसाध्या कविशेखरेण रमणी प्रोक्ता रतिप्रार्थने ॥ २४ ॥ अथ त्याज्यस्त्रीसमुद्देशः । अज्ञाता द्विजवल्लभा गुरुवधूर्मित्राङ्गना रोगिणी चेटी प्रव्रजिता सती रिपुवधूः शिष्या च गर्भान्विता । भ्रूणघ्नी मृतसन्ततिः खलजना चास्पृश्यजा गोत्रजा गन्तव्या न कदाचिदेव पुरुषैरेताः स्त्रियः कामिभिः ॥ २५ ॥ सुरतत्याज्यस्थानसमयसमुद्देशः । नद्यां देवगृहे चतुष्पथवटे शैलस्य सानौ जले गुर्वग्निद्विजसन्निधौ परगृहे दुर्गे श्मशाने वने । सन्ध्यायां दिवसे कदाऽपि सुरतं पुम्भिर्विवेकान्वितै- र्दृष्ट्वा धर्मविरोधसङ्कटमिति त्याज्यं सदा यत्नतः ॥ २६ ॥ अष्टम्यां हिमरश्मिशेखरतिथौ बाणे च पूर्णातिथौ भानोः सङ्क्रमणे व्रते च शरदि ग्रीष्मे क्षपायामपि । यातायातपरिश्रमे ज्वरगदे सम्भोगचेष्टां नरः कुर्यान्नैव कदाचिदेव सुकृतीत्याहुर्मुनीन्द्राः स्फुटम्‌ ॥ २७ ॥ अथ सुरतयोग्यस्थानसमुद्देशः । स्फूर्ज्जद्दीपशिखोज्ज्वले सुललिते रम्योन्नते विस्तरे धूपोद्गारमनोहरे कुसुमस्रग्दामोपशोभान्विते । वीणातालरवाकुले मनसिजप्रस्तावनानन्दिते सम्भोगः कुशलैः स्वकीयभवने कार्यो यथाकाङ्क्षया ॥ २८ ॥ अथाभिलाषसमुद्देशः । उक्ता गच्छति लज्जिता विरमति प्रेम्णा मनागीक्षते केशाँल्लुञ्चति जृम्भणं रचयति प्रस्तौति गाथां मुहुः । आलिङ्गत्यपरां विरौति परुषं चुम्बत्यसौ बालकं गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते ॥ २९ ॥ दोर्मूलं खलु दर्शयेत्‌ स्तनयुगे वस्त्रं समालम्बते अङ्गुष्ठेन लिखेन्महीं स्मितमुखी व्रीडां विधत्ते मृषा । दन्तेनाधरपल्लवं विदशति व्यक्तं तथा भाषते भावैरेभिरिह स्फुटं मृगदृशां ज्ञेयोऽभिलाषः सदा ॥ ३० ॥ अथालिङ्गनसमुद्देशः । माल्यापूरितकुन्तलः सुवसनः स्निग्धाङ्गरागोज्ज्वलो नानाभूषणसुन्दरः स्मरवशस्ताम्बूलपूर्णाननः । स्फूर्ज्जद्दीपमनोज्ञवासभवने शय्यातले नायको रागार्थं परिरम्भणं प्रथमतः कुर्यात्समं योषिता ॥ ३१ ॥ वृक्षारूढकसञ्ज्ञकं प्रथमतस्तस्माल्लतावेष्टितं तस्माज्जाघनविद्धकावपि मतावूरूपगूढं पुनः । ज्ञातव्यं तिलतण्डुलं रसविदामालिङ्गनं योषितां क्षीरं नीरपुरःसरं निगदितं तस्माच्च लालाटिकम्‌ ॥ ३२ ॥ एकेन पादेन पदं स्वभर्तुरन्येन चाक्रम्य तदूरुभागम्‌ । आपीड्य दोर्भ्यामपि कान्तपृष्ठं वृक्षाधिरूढं प्रवदन्ति तज्ज्ञाः ॥ ३३ ॥ ऊर्ध्वं भुजाभ्यां सरलाङ्गयष्टी क्षोणीरुहं वल्लिरिवाधिरुद्य । नारी प्रियं चुम्बति निस्तरङ्गा भवेल्लतावेष्टितसञ्ज्ञकं तत्‌ ॥ ३४ ॥ श्रोणीतटे बाहुयुगेन कान्तमापीड्य मुक्ताम्बरकेशभारा । वक्त्रासवं स्वादयति प्रहृष्टा तज्ज्ञैः स्फुटं जाघनमेतदुक्तम्‌ ॥ ३५ ॥ सुखोपविष्टं पुरुषं पुरन्ध्री सम्मीलिताक्षं स्वकरप्रबन्धात्‌ । आविध्यति प्रेमलसत्कुचाभ्यामालिङ्गनं विद्धकमेतदाहुः ॥ ३६ ॥ कान्तो मनोजव्यथिताङ्गयष्ट्या आपीडयेदूरुयुगं युवत्याः । ऊरूपघातेन कविप्रवीरैरूरूपगूढं तदिदं प्रदिष्टम्‌ ॥ ३७ ॥ बाहूरुवक्षोजघनेन गाढमन्योन्यसंसक्तशरीरयष्ट्योः । आनन्दभावाद्यदुदीर्णभावमालिङ्गनं तत्तिलतण्डुलाख्यम्‌ ॥ ३८ ॥ गात्रोपरिष्ठादथ तल्पमध्ये संलीयते यन्मिथुनं शरीरे । कामातिरेकात्‌ कृतपूर्णचेष्टमालिङ्गनं क्षीरजलं प्रदिष्टम्‌ ॥ ३९ ॥ अन्योन्यसंसक्तमुखं च बाहू नेत्रं ललाटं हृदयं कपोलम्‌ । आनन्दभावश्रममीलिताक्षं लालाटिकं तत्त्वविदो वदन्ति ॥ ४० ॥ अथ चुम्बनसमुद्देशः । गण्डस्थलीमस्तकदन्तवासोग्रीवाकुचोरःस्तनचूचुकानि । आलिङ्गनानन्तरमेव यूनोः स्थानानि चुम्बस्य वदन्ति तज्ज्ञाः ॥ ४१ ॥ कक्षायुगं चापि नितम्बिनीनां कन्दर्पगेहं च रतिप्रवीणाः । चुम्बन्ति कामं तरलायताक्ष्या देशस्य सात्म्येन सदैव लाटाः ॥ ४२ ॥ कान्तोऽङ्गनाया वदने स्वकीयं वक्त्रं समारोप्य बलेन यत्र । न चुम्बति क्रोधवशेन नारी स्याच्चुम्बनं तन्निमिताभिदानम्‌ ॥ ४३ ॥ पत्युर्मुखे स्वीयमुखं निवेश्य प्रेम्णा मनागञ्चति दन्तवासः । उच्चेन गृह्णात्यपि कम्पितोष्ठी प्रोक्तं मुनीन्द्रैः स्फुरितं विनोदात्‌ ॥ ४४ ॥ हस्तेन नेत्रं परिमील्य भर्तुः सम्मीलिताक्षी वदने स्वजिह्वाम्‌ । निक्षिप्य च क्रीडति यत्र लोला ख्यातं रसज्ञैः खलु घृष्टसञ्ज्ञम्‌ ॥ ४५ ॥ हस्ताङ्गुलीसम्पुटकेन यत्र कान्तोष्ठमादाय रसज्ञया च । आस्वादयेन्निर्दशनं विनोदात्‌ स्याच्चुम्बनं पीडितमेतदेव ॥ ४६ ॥ कान्ताधरं स्वाधरसम्पुटेन पीत्वा मुहुः स्वादयति क्रमेण । नारी च तेनैव विधानकेन ज्ञेयं मुनीन्द्रैरिति सम्पुटाख्यम्‌ ॥ ४७ ॥ ओष्ठेन कान्तोष्ठयुगं निपीय जिह्वां निधायाप्यथ तालुभागे । चुम्बोत्सवे नृत्यति यत्र नारी प्रोक्तं समौष्ठं मुनिभिः पुराणैः ॥ ४८ ॥ अथ नखाघातसमुद्देशः । कक्षाकुचोरःस्थलकुक्षिनाभिश्रोणीललाटाङ्घ्रिकरेषु सद्यः । साङ्गुष्ठसर्वाङ्गुलिकैश्च सर्वैः सुव्यक्त एषः स्तनकन्धरादौ ॥ ४९ ॥ सञ्ज्ञापकं मन्मथरागराशेरुक्तं मुनीन्द्रैश्छुरिताभिधानम्‌ । वक्षोजकन्दर्पगृहाधरेषु देयं नवोढाप्रमदाजनानाम्‌ ॥ ५० ॥ कण्डूयनेनैव शिरोरुहाणामस्योपयोगं परिकीर्तयन्ति । अर्धेन्दुशङ्काशमिदं नखज्ञैरर्धेन्दुसञ्ज्ञं कथितं समासात्‌ ॥ ५१ ॥ कक्षानितम्बस्तनपार्श्वकेषु दातव्यमेतत्‌ करजं सदैव । अर्धेन्दुसञ्ज्ञद्वितयं प्रयुक्तं स्यान्मण्डलाख्यं मदनावतंसम्‌ ॥ ५२ ॥ ऊरूतटे कामगृहे नितम्बे प्रोचुर्मुनीन्द्रा विनियोगमस्य । समैश्च सर्वैर्नखरैः सुलग्नैस्तज्ज्ञैः किलोक्तं शशकप्लुताख्यम्‌ ॥ ५३ ॥ सीमन्तपार्श्वे हृधि चूचुकादावेतत्‌ प्रयोज्यं सुरतप्रयोगे । सर्वैर्नखैर्वै स्तनमध्यभागे पश्चादधोऽङ्गुष्ठभवा हि रेखा ॥ ५४ ॥ व्यक्तीकृता रागकरी तदेतन्मयूरपदं समुदीरयन्ति । अलम्बमेवं स्फुरितार्धरेखं प्राहुः क्षतं पङ्कजपत्रसञ्ज्ञम्‌ ॥ ५५ ॥ दोर्मूलवक्षःस्थलनाभिसन्धावस्योपयोगं वदते महेशः । रेखायुगं गण्डयुगे प्रदत्तं स्तनान्तकक्षाजघनस्थलेषु । देशान्तरं गच्छति कामिनीनां संस्मारकं दर्दुरकं वदन्ति ॥ ५६ ॥ पुंसः शरीरे युवतीकुचे वा क्षतं नखस्य प्रतिवीक्ष्य सद्यः । कन्दर्परागाकुलचित्तवृत्तिर्मुनेरपि स्यात्‌ किमुतेतरस्य ॥ ५७ ॥ सर्वस्वमेवास्ति मनोभवस्य प्रेम्णा प्रयुक्तं करजं रतज्ञैः । नास्माद्द्वितीयं भुवि रागबीजमित्याह शीतांशुकलाकिरीटः ॥ ५८ ॥ अथ दशनघातसमुद्देशः । दन्तप्रकाराश्च नखप्रकारैर्ज्ञेयाः समा एव समैश्च सद्भिः । शीत्कारहुङ्कारविचेष्टिताद्याः प्रायो विशेषाः पुनरत्र कार्याः ॥ ५९ ॥ श्लथा घनास्तीव्रमुखाः समाङ्गा रागस्पृशो निर्मलदीप्तिभाजः । दन्ता प्रदेया नखदानदेशे वक्त्रान्तराक्षिद्वितयं विहाय ॥ ६० ॥ दन्तौष्ठसंयोगवशेन गण्डे दन्तप्रकारः किल विद्रुमोऽयम्‌ । अभ्यासयोगाद्युवतीजनानां स्यान्नान्यथा क्वापि विनोदतस्तु ॥ ६१ ॥ ऊरूस्थले कण्ठकपोलयुग्मे खण्डाभ्रकं मण्डलतुल्यरूपम्‌ । संशोभते दन्तमिदं युवत्याः प्रायो मुनीन्द्राः समुदीरयन्ति ॥ ६२ ॥ दीर्घा सुरक्ता क्षतकुञ्चिता च रेखा स्थले चूचुकयोः प्रदेया । विशेषकाले स्मरणे च तज्ज्ञैर्दन्तोऽयमुक्तः किल कोलचर्चः(र्वः) ॥ ६३ ॥ अथ केशाकर्षणसमुद्देशः । द्वाभ्यां कराभ्यां शिरसि प्रकामं कृष्ट्वा कचांश्चुम्बन्ति वल्लभश्चेत्‌ । तदेव दिष्टं समहस्तसञ्ज्ञं स्यादेकहस्तेन तरङ्गरङ्गः ॥ ६४ ॥ कर्णप्रदेशे च कचं निपीड्य प्रेम्णा पतिश्चुम्बति वल्लभास्यम्‌ । अन्योन्यहस्तग्रहविस्तरेण कामावतंसं मुनयो वदन्ति ॥ ६५ ॥ संवेष्ट्य सर्वाङ्गुलिभिः कचौघं यस्याः पतिर्धारयति स्मरार्ताम्‌ । भुजङ्गवल्ली परिकीर्तितेयं रतोत्सवे केशकलाविधिज्ञैः ॥ ६६ ॥ भव्या घना रौक्ष्यविवर्जिताश्च श्यामा विशाला बहुलाः कचाः स्युः । चुम्बप्रदानावसरे प्रकर्ष्या रागोदयार्थं तरुणीजनानाम्‌ ॥ ६७ ॥ इत्यादयो बाह्यरतप्रकाराः पूर्वं रतज्ञैः परिकल्पनीयाः । अन्येऽपि ये सन्ति बहुप्रभेदा नोक्ता मया विस्तरभीतितस्ते ॥ ६८ ॥ इति श्रीकविशेखरज्योतिरीश्वरविरचिते पञ्चसायके चतुर्थः सायकः । अथ पञ्चमः सायकः । अथ नाडीसमुद्देशः । मनोभवागारमुखे तु नाड्यस्तिस्रो भवन्ति प्रमदाजनानाम्‌ । समीरणा चान्द्रमसी च गौरी विशेषमासामुपवर्णयामि ॥ १ ॥ प्रधानभूता मदनातपत्रे समीरणा नाम विशेषनाडी । तस्या मुखे यत्पतितं नृवीर्यं तन्निष्फलं स्यादिति चन्द्रमौलिः ॥ २ ॥ या चापरा चान्द्रमसी च नाडी कन्दर्पगेहे भवति प्रधाना । सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेन ॥ ३ ॥ गौरीति नाडी यदुपस्थदेशे प्रधानभूता भवति स्वभावात्‌ । पुत्रं प्रसूते बहुधाऽङ्गना सा कष्टोपभोग्या सुरते प्रदिष्टा ॥ ४ ॥ अथोत्तानबन्धसमुद्देशः । प्रसारितोरूद्वयमध्ययोगाद्गाढाऽपि नारी श्लथतामुपैति । संलग्नजानुद्वयबन्धयुक्ता श्लथाऽपि सङ्कोचमलं प्रयाति ॥ ५ ॥ तस्या युवत्याः प्रकृतिं च सत्त्वं देशं च भावं मदनातपत्रम्‌ । आलोक्य बन्धाः परिकल्पनीयाः सम्भोगकाले पुरुषै रसज्ञैः ॥ ६ ॥ उत्तानसुप्तप्रमदोरूमध्ये स्थितः पतिः कामयते प्रकामम्‌ । तयोर्द्वयोः प्रीतिकरः प्रदिष्टो बन्धो नराणामतिदुर्लभोऽयम्‌ ॥ ७ ॥ उत्तानसुप्ता युवतिः स्वपादौ स्कन्धे समारोप्य रमेन्नरस्य । बन्धोऽयमुक्तः समपादसञ्ज्ञः प्रयोजनीयः करिणीरतेषु ॥ ८ ॥ एवंविधायाः स्त्रिय एव जङ्घां कान्तः स्वजङ्घोपरि सन्निवेश्य । उद्भ्रम्य भूयः कटिमारमन्त्याः स्यादेष बन्धः किल नागराख्यः ॥ ९ ॥ धृत्वा स्वजानुं गगने स्वपादौ शय्यातले स्त्री प्रथमं प्रसुप्ता । कुचौ पतिः पाणियुगेन धृत्वा रमेत्तदा व्योमपदाभिधानम्‌ ॥ १० ॥ एकं युवत्याश्चरणं पृथिव्यामूर्ध्वं तथाऽन्यं परिकल्य कान्तः । पद्भ्यां स्थितो हस्तयुगं च भूमौ त्रैविक्रमः स्यादिति वन्धराजः ॥ ११ ॥ नितम्बबिम्बं किल नायकेन नार्यास्त्रिकं हस्तयुगेन धृत्वा । गुल्फौ निधाय स्थित एव तस्या बन्धोऽप्यसौ चाटुककेलिकः स्यात्‌ ॥ १२ ॥ कान्तस्य वक्षःस्थलगौ च (स्व)पादा- वालिङ्ग्य गाढं प्रमदा कराभ्याम्‌ । किञ्चिन्नतोरुद्वययोगतश्च ज्ञेयो बुधैरित्यवदारितोऽयम्‌ ॥ १३ ॥ अथ पार्श्वबन्धसमुद्देशः । एकं युवत्या हृदये स्वपादं तथाऽर्पितं तल्पगतं तदन्यम्‌ । प्रौढाङ्गनावल्लभ एष बन्धः ख्यातः पृथिव्यामुपवीतिकाख्यः ॥ १४ ॥ ऊर्वोः पतिर्मध्यगतो युवत्याः पार्श्वस्थितायाः परिरभ्य देहम्‌ । यूनोस्त्रिकालोलनतो रसज्ञैरत्यादृतः सम्पुटनामधेयः ॥ १५ ॥ पार्श्वस्थितायाः मृगशावकाक्ष्याः पृष्ठावलम्बी रमणः प्रसुप्तः । लिङ्गस्मरागारनिवेशयोगादिहोपदिष्टः खलु नागबन्धः ॥ १६ ॥ अथोपविष्टबन्धसमुद्देशः । पद्मासनं सम्परिकल्प्य भर्ता क्रोडोपविष्टां युवतिं रमेच्च । अन्योन्यकण्ठार्पितबाहुयोगात्‌ पद्मासनाख्यं प्रवदन्ति सन्तः ॥ १७ ॥ कान्तो नितम्बस्थित एव नार्याः श्रोणीं कराभ्यां यदि याति धृत्वा । आस्फालयेद्वाऽपि कटिप्रबन्धात्‌ प्रोक्तो मुनीण्द्रैरिति कीर्तिबन्धः ॥ १८ ॥ अथाधोमुखबन्धसमुद्देशः । अधोमुखस्थां रमयेच्च नारीं तत्पृष्ठवर्ती पशुतुल्यरूपः । भर्ता परिक्रीडति भावहीनो निर्दिश्यते हारिणबन्ध एषः ॥ १९ ॥ दन्तावलच्छागतुरङ्गमाणां क्रीडाप्रकारैश्च भवन्ति बन्धाः । इत्थं रसज्ञैरनुलापनीया नोदाहृता विस्तरभीतितस्ते ॥ २० ॥ ऊर्ध्वबन्धसमुद्देशः । अन्योन्यदोःपञ्जरमध्यजातः स्तम्भो यदा बाहुयुगेन लग्नः । निष्पीड्य नारी पतिमूर्ध्वसंस्थं रमेत्तदा व्यात्तकरं वदन्ति ॥ २१ ॥ एको युवत्या यदि कान्तहस्ते जानु स्थितः स्यादपरः पृथिव्याम्‌ । कान्तं कराभ्यामुपगूह्य यत्स्याज्ज्ञेयं रसज्ञैः करणं त्रिपादम्‌ ॥ २२ ॥ अथ पुरुषायितसमुद्देशः । अधोमुखी कान्तहृदि प्रसुप्ता दोर्भ्यां समालिङ्ग्य यदि प्रयाति । गा(प्रौ)ढाङ्गनावल्लभ एष तज्ज्ञैः बन्धः प्रदिष्टो विपरीतरूपः ॥ २३ ॥ धूर्त ! त्वमेवं विजितोऽस्यकस्माद्युद्धे मया पञ्चशरस्य नारी । इत्यादिकं भूरिविधं रटन्ती प्रायः सुखं विन्दति केलिरङ्गे ॥ २४ ॥ विपरीतरतावयोग्यां स्त्रियं दर्शयति । नवप्रसूता ऋतुयोगयुक्ता गर्भालसा स्थूलतनुर्नताङ्गी । क्षीणा नवोढा ज्वरिता च नारी वर्ज्या रतिज्ञैर्विपरीतबन्धे ॥ २५ ॥ अथ सन्ताडितसमुद्देशः । वामस्वभावान्मदनस्य रागो हस्तप्रहारात्समुपैति वृद्धिम्‌ । तस्माद्यथास्थानमसौ विधेयो वराङ्गनायाः सुरतावसाने ॥ २६ ॥ यद्यङ्गना कान्तहृदि प्रहारं मुष्ट्या भजन्ती सुरतोपचारैः सन्ताडितं नाम वदन्ति तज्ज्ञा विस्तीर्णहस्तेन तदा पताकम्‌ ॥ २७ ॥ साङ्गुष्ठमध्याङ्गुलसम्प्रहारात्‌ सञ्जायते कुण्डलनामधेयः । यः केवलाङ्गुष्ठभवोऽभिघातः प्रोक्तः कवीन्द्रैः स तु बिन्दुमालः ॥ २८ ॥ द्रवति यदि न नारी प्रौढरागार्तियुक्ता मृदुनिधुवनयोगे दन्तसन्धौ सलीलम्‌ । पिबति दशनवासः किञ्चिदुन्मुच्य भूयः कथितमिह रसज्ञैः सीत्कृतं रागकारि ॥ २९ ॥ पिकशिखिकलहंसप्रायपक्षिवृजानां ध्वनितमनुकरोतीत्यङ्गना मन्मथार्ता । मुखदशनविवर्तात्तत्कवीन्द्रा वदन्ति स्तनितमिति समासाच्चित्रसम्भोगकाले ॥ ३० ॥ एवंविधकरणस्य फलं निरूपयति । इत्यादियोगैः पृथुकामभावं सम्पाद्य नारीपुरुषौ चिरेण । जातानुरागौ रहसि प्रकामं सौख्यं समास्वादयतो महीयः ॥ ३१ ॥ अष्टानायिकासमुद्देशः । यस्याः पतिर्मिलति केलिकथानुरक्तः पार्श्वं न मुञ्चति मनोभववेगयुक्तः । स्यात्सुन्दरी सकलसौख्यकलानिधाना स्वाधीनपूर्वपतिकेति वदन्ति तज्ज्ञाः ॥ ३२ ॥ पुष्पाङ्गरागरुचिरा तरुणी प्रियस्य तिष्ठत्यनागमनहेतुविचारलोला । एषाऽबला न हि चिरं परिदेवनीया सोत्कण्ठितेति कथिता कविभिः पुराणैः ॥ ३३ ॥ स्रक्चन्दनाम्बरविभूषणभूषिताङ्गी या वल्लभागमनमार्गविरूढदृष्टिः । तल्पं गता रुचिरवासगृहेऽवशेते सा कीर्तिता जगति वासकसज्जितेति ॥ ३४ ॥ क्रोधात्प्रयाति चरणे पतितोऽपि कान्तः प्रायः प्रचण्डवचनाच्चरणैर्निरस्तः । पश्चात्तदीयविरहक्षरदानताङ्गी सा कीर्तितेह कलहान्तरिता कवीन्द्रैः ॥ ३५ ॥ सङ्केतकं प्रियतमः स्वयमेव दत्त्वा नैवागतः समुचिते समये च यस्याः । हृष्टा वचोऽमृतरसैः सकलाङ्गयष्टिः सा वर्णिता कविवरैरिह विप्रलब्धा ॥ ३६ ॥ प्रातर्विनिद्रवदनस्मरभारचौरो निद्रालसोऽलसगतिर्नखविक्षताङ्गः । यस्याः प्रयात्यभिमुखं मुहुशो युवत्याः सा खण्डितेति कथिता कविभिः पुराणैः ॥ ३७ ॥ आरम्भभग्नचरिता विकला च नारी या निर्मिता हि मदनेन मदेन याति । गुप्ताभिसाररसिका परवेश्म गन्तुं सा कीर्तिता कविवरैरभिसारिकेति ॥ ३८ ॥ देशान्तरं प्रतिवसद्रमणश्च यस्या दत्त्वाऽवधिं चिरतरं गुरुकार्ययोगात्‌ । दुर्वारदुःखदहनैः परिदेविताङ्गी सा प्रोषितप्रियतमा कथिता मुनीन्द्रैः ॥ ३९ ॥ ग्रन्थोपसंहारः । यावच्चन्द्रकलाकिरीटहृदये शैलाधिराजात्मजा यावद्वक्षसि माधवस्य कमला सानन्दमादीव्यति । यावत्कामकलाविवर्तचटुलं क्षोणीतलं राजते तावच्छ्रीकविशेखरस्य कृतिनः काव्यं मुदे दीव्यताम्‌ ॥ ४० ॥ इति कविशेखरश्रीज्योतीश्वराचार्यविरचिते पञ्चसायके पञ्चमः सायकः । समाप्तश्चायं ग्रन्थः ॥

Search

Search here.