पाशुपत सूत्र
ग्रंथालय > सुत्र व तंत्र ग्रंथ Posted at 2016-03-13 12:42:54
पाशुपत सूत्र
पाशुपतसूत्र, १
अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः ॥ १.१ ॥
* हितार्थमखिलं येन सृष्टं ब्रह्मादिकं जगत् । प्रणम्य तं पशुपतिं शिरसा सदसस्पतिम् । अर्थातिशयसम्पन्नं ज्ञानातिशयमुत्तमम् । पञ्चार्थं क्रियते भाष्यं कौण्डिन्येनानुपूर्वशः ॥ भाष्य १.१:१
* आह वक्ष्यति भगवान् पञ्चार्थम् ॥ भाष्य १.१:२
* अथास्यादिसूत्रं किमिति ॥ भाष्य १.१:३
* अत्रोच्यते अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः इति ॥ भाष्य १.१:४
* एतत्प्रथमसूत्रं शास्त्रादावुच्चार्यते ॥ भाष्य १.१:५
* तदनन्तरं पदविग्रहः क्रियते ॥ भाष्य १.१:६
* तदुपयोगिनं योगविधिं व्याख्यास्याम इति ॥ भाष्य १.१:७
* अष्टपदं सूत्रम् ॥ भाष्य १.१:८
* तत्र अथ अतः इति द्वे पदे नैपातिके ॥ भाष्य १.१:९
* पशुपतेरित्येतत्पदं परिग्रहार्थेनोच्चार्यते ॥ भाष्य १.१:१०
* पाशुपतमिति तद्धितम् ॥ भाष्य १.१:११
* योगविधिमिति सामासिकम् ॥ भाष्य १.१:१२
* वि आङिति द्वे पदे । ख्यास्याम इत्याख्यातिकम् ॥ भाष्य १.१:१३
* आह किं प्रयोजनं पदविग्रहः क्रियते ॥ भाष्य १.१:१४
* तदुच्यते अर्थप्रसिद्ध्यर्थम् ॥ भाष्य १.१:१५
* कस्मादर्थाप्रसिद्धिः पदानाम् ॥ भाष्य १.१:१६
* यस्मात्पृथगर्थानीह पदानि भवन्ति ॥ भाष्य १.१:१७
* यस्मादेवं ह्याह ॥ भाष्य १.१:१८
* यथा विवृतगात्रोऽ पि शिरसि प्रावृतो नरः । नाभिव्यक्तिं व्रजत्येवं सूत्रं विग्रहवर्जितम् ॥ भाष्य १.१:१९
* एवमर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते ॥ भाष्य १.१:२०
* आह उक्तः पदविग्रहः प्रयोजनं च ॥ भाष्य १.१:२१
* इदं तु वाच्यमथ शास्त्रादिः कः इति ॥ भाष्य १.१:२२
* अत्रोच्यते अथातः पशुपतेरित्येष तावच्छास्त्रादिः ॥ भाष्य १.१:२३
* तत्र शास्त्रं तन्त्रं ग्रन्थो विद्या च ॥ भाष्य १.१:२४
* ग्रन्थार्थयोस्तदधिगमोपायत्वात् ॥ भाष्य १.१:२५
* पारिमाण्यमथशब्दादिशिवान्तं प्रवचनम् ॥ भाष्य १.१:२६
* संख्या पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं च ॥ भाष्य १.१:२७
* अथशब्दातःशब्दव्याख्यानवचनस्नानशयनाद्युपदेशाच्च शिष्याचार्ययोः प्रसिद्धिः ॥ भाष्य १.१:२८
* कैवल्यगतानामपि दुःखित्वदर्शनात्कार्यकारणप्रत्यक्षदर्शी विप्रत्वादुपायोपेयप्रत्यक्षदर्शित्वाच्च प्रश्नप्रतिवक्ता ऐश्वर्यावस्थश्चैव मुक्तत्वान्मनोऽमनःसंस्थश्च कामित्वादतः सर्वाचार्यविशिष्टोऽयमाचार्य इति ॥ भाष्य १.१:२९
* तथा ब्राह्मणग्रहणात्स्त्रीप्रतिषेधादिन्द्रियजयोपदेशाच्च उक्तं हि । बाधिर्यमान्ध्यमघ्रत्वं मूकता जडता तथा । उन्मादः कौण्यं कुष्ठित्वं क्लैब्यं गुदावर्तपङ्गुता ॥ भाष्य १.१:३०
* आदिरहितः पट्विन्द्रियो ब्राह्मणः शिष्यः ॥ भाष्य १.१:३१
* स चान्यविशिष्टोऽयं शिष्य इति ॥ भाष्य १.१:३२
* तथा देवादिभ्यश्च क्रीडाधर्मित्वात्क्रीडानिमित्ता ईश्वरप्रवृत्तिः ॥ भाष्य १.१:३३
* अनुग्रहार्था चाचार्यस्य प्रवचनवक्तृत्वे प्रवृत्तिः ॥ भाष्य १.१:३४
* तथा भजनचोदनप्रसादशिवत्वलिप्सोपदेशाद्दुःखान्तार्थिनः शिष्यस्येहोपसदनप्रवृत्तिः ॥ भाष्य १.१:३५
* न तु धर्मार्थकामकैवल्यार्थात्रेति ॥ भाष्य १.१:३६
* तथा कामित्वादिन्द्रकौशिकादिभ्यश्चाचार्यो दिव्यो निरतिशयक्रीडैश्वर्यस्वाभाव्यादित्यर्थः ॥ भाष्य १.१:३७
* चोदनोपसदनसंस्कारवश्यादिदुःखैरभिभूतत्वाच्चादिव्या इन्द्रकौशिकाद्याः शिष्या इति ॥ भाष्य १.१:३८
* तथा शिष्टप्रामाण्यात्कामित्वादजातत्वाच्च मनुष्यरूपी भगवान् ब्राह्मणकायमास्थाय कायावतरणे अवतीर्ण इति ॥ भाष्य १.१:३९
* तथा पद्भ्यामुज्जयिनीं प्राप्तः । कस्मात् । शिष्टप्रामाणत्चिह्नदर्शनश्रवणाच्च । अत्याश्रमप्रसिद्धं लिङ्गमास्थाय प्रवचनमुक्तवान् भस्मस्नानशयनानुस्नाननिर्माल्यैकवासोग्रहणादधिकरणप्रसिद्ध्यर्थं च स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः । अतो रुद्रप्रचोदितः कुशिकभगवानभ्यागत्याचार्ये परिपूर्णपरितृप्त्याद्युत्कर्षलक्षणानि विपरीतानि चात्मनि दृष्ट्वा पादावुपसंगृह्य न्यायेन जातिं गोत्रं श्रुतमनृणत्वं च निवेदयित्वा कृतक्षणमाचार्यं काले वैद्यवदवस्थितमातुरवदवस्थितः शिष्यः पृष्टवान् भगवन् किमेतेषामाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानामैकान्तिकोऽत्यन्तिको व्यपोहोऽस्त्युत नेति । अथोक्तपरिग्रहाधिकारलिप्सासु परापदेशेनोपदेशे सच्छिष्यसाधकपाठप्रसिद्ध्यर्थं कारणपदार्थाधिगमार्थं चात्मनि परापदेशं कृत्वा भगवानेवोक्तवानथेति । अत्र पूर्वप्रकृतापेक्षायामथशब्दः । कथम् । शिष्येणोदीरितं पूर्वं प्रश्नमपेक्ष्योक्तवानथेति । एवमयमथशब्दः पृष्टप्रतिवचनार्थोऽस्ति । स दुःखान्त इत्यर्थः । आह किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः उतापरीक्षितायेति । उच्यते परीक्षिताय । यस्मादाह इति । अत्र अतःशब्दः शिष्यगुणवचने । यस्मादयं ब्रह्मावर्तदेशजः कुलजः पट्विन्द्रियो विविदिषादिसम्पन्नः शिष्यः । पूर्वं चात्रार्थतोऽतः शब्दो द्रष्टव्यः । अथ स दुःखान्तः कुतः प्राप्यते केन वाभ्युपायेनेति । तदुच्यते पशुपतेः । प्रसादादिति वाक्यशेषः । अत्र पशूनां पतिः ॥ भाष्य १.१:४०
* पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । कार्यकरणाञ्जना निरञ्जनाश्च पशवः । आह किं तेषां पशुत्वम् । उच्यते अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणमस्वातन्त्र्यमनैश्वर्यं बन्धोऽनाडिः । बन्धगुण इत्युपचर्यते । तत्कथंलक्षणमिति चेत् । तदुच्यते पश्यनात्पाशनाच्च पशवः । तत्र पाशा नाम कार्यकरणाख्याः कलाः । ताश्च कला उपरिष्टाद्वक्ष्यामः । ताभिः पाशिताः बद्धाः संनिरुद्धाः शब्दादिविषयपरवशाश्च भूत्वावतिष्ठन्ते इत्यतोऽवगम्यतेऽस्वातन्त्र्यमनैश्वर्यं बन्धः । कार्यकरणरहितस्य पशुत्वं निवर्तत इति चेत् । तदुच्यते संहृतानामपि पुनः पुनः संबन्धग्रहणाच्छास्त्रे । किं चान्यत् । पश्यनाच्च पशवः । यस्माद्विभुत्वेऽपि चित्समवेतत्वेऽपि च शरीरमात्रमेव पश्यन्त्युपलभन्ति च न बहिर्द्धानि । कार्यकरणरहिताश्च न कार्यकरणं प्रतिपद्यते त्यजन्ति वा । धर्माधर्मप्रकाशदेशकालचोदनाद्यपेक्षितत्वाच्च । अतः सुष्ठूक्तं पश्यनात्पाशनाच्च पशवः । यस्मादुक्तं सांख्ययोगेन ये मुक्ताः सांख्ययोगेश्वराश्च ये । ब्रह्मादयस्तिर्यगन्ताः सर्वे ते पशवः स्मृताः ॥ भाष्य १.१:४१
* पतिः कस्मात् । आप्ति पाति च तान् पशूनित्यतः पतिर्भवति । तान् केनाप्नोति केन रक्षति । ततो विभुशक्त्या । यस्मात्तत्रापि शक्तिमस्यानन्तां नातिवर्तन्ते । विप्रत्वाच्चास्यानन्ता ज्ञानशक्तिः अपरिमिता । तया अपरिमितया अपरिमितानेव प्रत्यक्षान् पशूनाप्नोतीति पतिः । तथा पालयतीति प्रभुशक्तिः । कस्मात् । तच्छन्दात्तेषां प्रवृत्तिनिवृत्तिः स्थितिरिष्टानिष्टस्थानशरीरेन्द्रियविषयादिप्राप्तिर्भवति । तत्परिदृष्टानां तत्प्रचोदितानां चेत्यर्थः । एवं ॥ भाष्य १.१:४२
* पशुपतेरिति कार्यकारणयोः प्रसादस्य चोद्देशः । तस्मात्प्रसादात्स दुःखान्तः प्राप्यते । न तु ज्ञानवैराग्यधर्मैश्वार्यत्यागमात्रादित्यर्थः । आह कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसीदतीति । उच्यते यदानेन तु तत्प्राप्तं भवति । आह किं तदिति । उच्यते पाशुपतमत्र पशुपतिनोक्तं परिगृहीतं पशुपतिमधिकृत्य चारभ्यत इति पाशुपतम् । यथा वैष्णवं मानसमिति । किं तदिति । उच्यते योगम् । अत्रात्मेश्वरसंयोगो योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वादन्यतरकर्मजः स्थाणुश्येनवत् । चोदनाध्ययनादिवचनाद्मेषवदुभयकर्मजः । यस्मात्सति विभुत्वे अनधिकारकृतत्वाद्वियोगस्य । वियुक्तस्यैव च संयोग उपदिश्यते । विषयरक्तविरक्तवत्क्रियायोगे । इह तु समाधिलक्षणे योगे संनियम इति । आह किं परिज्ञानमात्रादेव तद्योगः प्राप्यते । उच्यते । यस्मादाह तत्प्राप्तौ विधिं व्याख्यास्यामः । अत्र योगस्य विधिः योगविधिरिति षष्ठीतत्पुरुषसमासः । अत्र सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् । न तु सेनावनादिवत् । कस्मात् । क्रियाणां क्षणिकानां समुदायासम्भवात् । यद्येवं विधिः कस्मात् । विधायकत्वाद्विधिः । उपायोपेयभावाच्च । विधिमिति कर्म । एव सदुःखान्तः कार्यं कारणं योगो विधिरिति पञ्चैव पदार्थाः समासत उद्दिष्टाः । ते व्याख्येयाः । व्याख्यानमेतेषां विस्तरविभागविशेषोपसंहारनिगमनानि । तस्मादन्यद्व्याख्येयमन्यद्व्याख्यानम् । यस्मादाह व्याख्यास्यामः । अत्र विः विस्तरे विभागे विशेषे च भवति । तत्र विस्तर इति प्रत्यक्षानु ॥ भाष्य १.१:४३
* मानाप्तवचनमिति प्रमाणान्यभिधीयन्ते । तत्र प्रत्यक्षं द्विविधमिन्द्रियप्रत्यक्षमात्मप्रत्यक्षं च । इन्द्रियप्रत्यक्षमिन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धघटाहाः व्याख्यानतापमूत्रपुरीषमांसलवणप्राणायामैः सिद्धम् । आत्मप्रत्यक्षं तदुपहारकृत्स्नतपोदुःखान्तादि वचनात्सिद्धम् । यथा प्रस्थेन मितो व्रीहिः प्रस्थः । परमार्थतस्त्विन्द्रियार्थसम्बन्धव्यञ्जकसामग्र्यं धर्माधर्मप्रकाशदेशकालचोदनाद्यनुगृहीतं सत्प्रमाणमुत्पद्यते । आत्मप्रत्यक्षं तु चित्तान्तःकरणसम्बन्धसामग्र्यम् । अनुमानमपि प्रत्यक्षपूर्वकं चित्तात्मान्तःकरणसम्बन्धसामग्र्यं च धर्माधर्मप्रकाशदेशकालचोदनादिस्मृतिहेतुकमुत्पत्त्यनुग्रहतिरोभावकालादि । तैश्चोत्तरसृष्टिकर्तृत्वमनुमीयते कारणस्य । अतो नोत्सूत्रम् । तच्च द्विविधं दृष्टं सामान्यतोदृष्टं च । तत्र दृष्टमपि द्विविधं पूर्ववच्छेषवच्च । तत्र पूर्वदृष्टोऽयं षडङ्गुलीयकः स एवेति पूर्ववत् । विषाणादिमात्रदर्शनाद्गौरिति शेषवत् । सामान्यतोदृष्टमपीह गतिपूर्विकां देशान्तरप्राप्तिं दृष्ट्वा चास्यादित्यादिगतिप्रसिद्धिः । त्रैकाल्येऽप्यर्थाधिगमे निमित्तं प्रमाणम् । आगमो नाम आ महेश्वराद्गुरुपारम्पर्यागतं शास्त्रम् । आगमोऽलौकिकादिव्यवहारहेतुराचक्षितः स्मृतः । रुद्रः प्रोवाच वचनात्सिद्धिः । एष्वेवोपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभादीनां व्याख्यायमानानामन्तर्भावः । एवमेतानि त्रीणि प्रमाणानि । प्रमापयिता भगवांश्चोदकः । प्रमाता पुरुषः । प्रमेयाः कार्यकारणादयः पञ्च पदार्थाः । प्रमितिः संवित् । संवित्संचिन्तनं सम्बोधो विद्याभिव्यक्तिरित्यर्थः । उद्देशनिर्देशाधिगमाच्च विर्विस्तरे भवति । विभागो नाम पदपदार्थसूत्रप्रकरणाध्यायाद्यसंकरः । विशेषो ॥ भाष्य १.१:४४
* नाम साध्यसाधनव्यतिरेकः । आङिति व्याख्यामर्यादायां भवति । पदात्पदं सूत्रात्सूत्रं प्रकरणात्प्रकरणमध्यायादध्यायमा बोधादा परिसमाप्तेरिति मर्यादावस्थस्यैव च वक्ष्यामः । ख्या प्रकथने । प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिव्यतिरेकेण च व्याख्यास्यामः । स्या इत्येष्ये काले । यावदयमाचार्यो गृहस्थादिभ्योऽभ्यागतं पूर्वमतःशब्दात्परीक्षितं ब्राह्मणं व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तै सद्योजातादिसंस्कृतेन भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च करोति तावदेष्यः कालः क्रियते । म इति प्रतिज्ञायां भवति । उत्थानादिगणे सम्यग्व्वावस्थितस्य व्याख्येयव्याख्यानयोर्भगवानेव क्रमशो वक्ता । स्थूलोपायपूर्वकत्वात्सूक्ष्मविधेयाधिगमस्य पूर्वाश्रमनियमप्रतिषेधार्थमत्याश्रमयमनियमप्रसिद्ध्यर्थं च विधिः प्रथमं व्याख्यायते । इत्यत्रायं पदार्थोपन्यासः परिसमाप्त इति ॥ भाष्य १.१:४५
* अत्राह प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते । इदमिदानीं चिन्त्यम् । अथास्य कश्चादिः किं मध्यं कोऽन्तः कत्यङ्गो वा विधिरिति । तदुच्यते भस्मनाद्यो निन्दामध्यो मूढान्तश्च विधिः । स च त्र्यङ्गो दानयजनतपोङ्ग इति । तत्कथमवगम्यते यस्मादिदमारभ्यते ॥ भाष्य १.१:४६
**********************************************
भस्मना त्रिषवणं स्नायीत ॥ १.२ ॥
* अत्र भस्म वामद्रव्यं यदग्नीन्धनसंयोगान्निष्पन्नम् ॥ भाष्य १.२:१
* तत्परकृतं पार्थिवं भुक्तं दीप्तिमत् ॥ भाष्य १.२:२
* ग्रामादिभ्यो भैक्ष्यवद्भस्मार्जनं कर्तव्यम् ॥ भाष्य १.२:३
* स्नानशयनानुस्नानकृत्यबन्धुत्वान्निष्परिग्रहत्वादहिंसकत्वादुत्कृष्टमेव शुचि प्रभूतं ग्राह्यं साधनत्वात् ॥ भाष्य १.२:४
* अलाभे स्वल्पमपि ग्राह्यम् ॥ भाष्य १.२:५
* आधारोऽप्यलाबुचर्मवस्त्रादिरत्र प्रसिद्धः ॥ भाष्य १.२:६
* आह किं तेन भस्मना कर्तव्यम् ॥ भाष्य १.२:७
* तदुच्यते भस्मनेति तृतीया करणार्थे कर्तुः क्रियामादिशति यथा वाश्या तक्षणं बुद्ध्या पिधानम् ॥ भाष्य १.२:८
* आह अथ कस्मिन् काले सा क्रिया कर्तव्येति ॥ भाष्य १.२:९
* त्रिषवणमिति ॥ भाष्य १.२:१०
* द्विगुः समासः ॥ भाष्य १.२:११
* त्रीणीति संख्या ॥ भाष्य १.२:१२
* सवनमिति कालनिर्देशः ॥ भाष्य १.२:१३
* पूर्वसंध्या मध्याह्नसंध्या अपरसंध्येति संध्यात्रयम् ॥ भाष्य १.२:१४
* त्रिषवणं त्रिसंध्यं त्रिकालमित्यर्थः ॥ भाष्य १.२:१५
* आह त्रिषवणं किमनेन कर्तव्यम् ॥ भाष्य १.२:१६
* तदुच्यते स्नायीत ॥ भाष्य १.२:१७
* अत्र स्नानं शौचकार्येण शरीरेष्वागन्तुकानां स्नेहत्वग्लेपमलगन्धादीनां भस्मनापकर्षणं कर्तव्यम् ॥ भाष्य १.२:१८
* स्नानं तु भस्मद्रव्यगात्रसंयोजनम् ॥ भाष्य १.२:१९
* परमार्थतस्तु स्नानादि पुण्यफलसंयोगधर्मात्मवचनादात्मशौचमेवैतत् ॥ भाष्य १.२:२०
* केवलं स्नानाद्यकलुषापहतपाप्मादिवचनात्कार्यकरणव्यपदेशेनात्मशौचं व्याख्यायते ॥ भाष्य १.२:२१
* इत इत्येतदाज्ञायां नियोगे च ॥ भाष्य १.२:२२
* नियोगत्वान्निगतं नियतत्वान्निगम इत्यर्थः ॥ भाष्य १.२:२३
* कस्मात् ॥ भाष्य १.२:२४
* प्रतितन्त्रसिद्धत्वादहिंसकत्वान्निःश्रेयसहेतुत्वाच्च ॥ भाष्य १.२:२५
* भस्मना स्नेयं न चाद्भिर्विपरीतत्वादित्यर्थः ॥ भाष्य १.२:२६
* किं स्नानमेवैवं भस्मना कर्तव्यम् ॥ भाष्य १.२:२७
* उच्यते ॥ भाष्य १.२:२८
* यस्मादाह ॥ भाष्य १.२:२९
**********************************************
भस्मनि शयीत ॥ १.३ ॥
* अत्र भस्म तदेव ॥ भाष्य १.३:१
* निरुक्तमस्य पूर्वोक्तम् ॥ भाष्य १.३:२
* भस्मनि इत्यौपश्लेषिकं संनिधानम् ॥ भाष्य १.३:३
* शय इत्युपशमस्य विश्रामस्याख्या ॥ भाष्य १.३:४
* इत इत्येतदाज्ञायां नियोगे च ॥ भाष्य १.३:५
* भस्मन्येव रात्रौ स्वप्तव्यं नान्यत्रेत्यर्थः ॥ भाष्य १.३:६
* उक्तं हि । यथा मृगा मृत्युभयस्य भीता उद्विग्नवासा न लभन्ति निद्राम् । एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥ भाष्य १.३:७
* किं च विशेषार्थित्वात् ॥ भाष्य १.३:८
* विशेषार्थी चायं ब्राह्मणः ॥ भाष्य १.३:९
* उक्तं हि । न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति । हयानामिव जात्यानामर्धरात्रार्धशायिनाम् ॥ भाष्य १.३:१०
* तस्मात्परिवृष्टे भूप्रदेशे दिवा परिग्रहं कृत्वा भस्मास्तीर्याध्ययनाध्यापनध्यानाभिनिविष्टेन प्रवचनचिन्तनाभिनिवेशैश्च श्रान्तेन बाहूपधानेन सद्योजातादिसंस्कृते भस्मनि रात्रौ स्वप्तव्यमित्यर्थः ॥ भाष्य १.३:११
* किमर्थमिति चेत् ॥ भाष्य १.३:१२
* उच्यते तपोऽर्थं भूप्रदेशे शौचार्थं विश्रामार्थं वा ॥ भाष्य १.३:१३
* समविषमनिम्नोन्नतायां भूमौ यामं यामद्वयं वा स्वप्तव्यमित्यर्थः ॥ भाष्य १.३:१४
* आह किं स्नानं शयनं च भस्मना प्रयोजनद्वयमेवात्र कर्तव्यमुतान्यदपि ॥ भाष्य १.३:१५
* सवनान्तस्थस्यास्याशौचकं प्राप्तस्य निर्घातकं किमिति ॥ भाष्य १.३:१६
* तदुच्यते ॥ भाष्य १.३:१७
**********************************************
अनुस्नानम् ॥ १.४ ॥
* मन्त्रादिस्नानवत् ॥ भाष्य १.४:१
* अत्र अनु इति पृष्ठकर्मक्रियायां भवति ॥ भाष्य १.४:२
* अनुपानानुगमनवत् ॥ भाष्य १.४:३
* स्नानं तु भस्मद्रव्यसंयोजनमेव ॥ भाष्य १.४:४
* सवनत्रये स्नानस्यान्तरेषु भुक्तोच्छिष्टक्षुतनिष्ठीवितमूत्रपुरीषोत्सर्गादिनिमित्तकमशौचकमभिसमीक्ष्य तदनुस्नानं कर्तव्यम् ॥ भाष्य १.४:५
* किमर्थमिति चेत्शौचार्थं लिङ्गाभिव्यक्त्यर्थं च ॥ भाष्य १.४:६
* स्नेयमित्यर्थः ॥ भाष्य १.४:७
* आह किं भस्मैवैकं लिङ्गाभिव्यक्तिकारणम् ॥ भाष्य १.४:८
* भक्तिविवृद्धौ वा अप्रतिषिद्धस्य साधनं किमिति ॥ भाष्य १.४:९
* तदुच्यते ॥ भाष्य १.४:१०
**********************************************
निर्माल्यम् ॥ १.५ ॥
* अत्र भस्मवल्लोकादिप्रसिद्धं निर्माल्यम् ॥ भाष्य १.५:१
* निरिति निर्मुक्तस्याख्या ॥ भाष्य १.५:२
* माल्यमिति पुष्पसमूहपर्यायः ॥ भाष्य १.५:३
* तत्परकृतं कारणमूर्त्यारोपितावतारितं निष्परिग्रहं पद्मोत्पलाद्यम् ॥ भाष्य १.५:४
* भक्तिविवृद्ध्यर्थं लिङ्गाभिव्यक्त्यर्थं च तद्धार्यमित्यर्थः ॥ भाष्य १.५:५
* आह भस्मनिर्माल्येन तस्य लिङ्गं व्यक्तं भवतीति क्व सिद्धम् ॥ भाष्य १.५:६
* तदुच्यते इह ॥ भाष्य १.५:७
* यस्मादाह ॥ भाष्य १.५:८
**********************************************
लिङ्गधारी ॥ १.६ ॥
* अत्र यथान्येषामपि वर्णाश्रमिणामाश्रमप्रतिविभागकराणि लिङ्गानि भवन्ति ॥ भाष्य १.६:१
* तत्र गृहस्थस्य तावद्वासस्त्रयं वैणवी यष्टिः सोदकं च कमण्डलु सोत्तरोष्ठवपनं यज्ञोपवीतादि लिङ्गम् ॥ भाष्य १.६:२
* तथा ब्रह्मचारिणोऽपि दण्डकमण्डलुमौञ्जीमेखलायज्ञोपवीतकृष्णाजिनादि लिङ्गम् ॥ भाष्य १.६:३
* तथा वानप्रस्थस्यापि करीरचीरवल्कलकूर्चजटाधारणादि लिङ्गम् ॥ भाष्य १.६:४
* तथा भिक्षोस्त्रिदण्डमुण्डकमण्डलुकाषायवासोजलपवित्रस्थलपवित्रादि लिङ्गम् ॥ भाष्य १.६:५
* एवमिहापि यदेतत्पाशुपतयोगाधिकरणं लिङ्गमित्याश्रमप्रतिविभागकरं भस्मस्नानशयनानुस्नाननिर्माल्यैकवासादिनिष्पन्नं स्वशरीरलीनं पाशुपतमिति लौकिकादिज्ञानजनकं तत् ॥ भाष्य १.६:६
* लीयनाल्लिङ्गनाच्च लिङ्गम् ॥ भाष्य १.६:७
* तद्धारयन् लिङ्गधारी भवति ॥ भाष्य १.६:८
* दण्डधारिवदित्यर्थः ॥ भाष्य १.६:९
* आह अथैते स्नानशयनानुस्नानादयोऽर्थाः क्व कर्तव्याः ॥ भाष्य १.६:१०
* कुतो वा निर्माल्यस्यार्जनं कर्तव्यम् ॥ भाष्य १.६:११
* कुत्रस्थेन वा तद्धार्यम् ॥ भाष्य १.६:१२
* कृतलिङ्गेन वा क्व वस्तव्यम् ॥ भाष्य १.६:१३
* तदुच्यते आयतने ॥ भाष्य १.६:१४
* यस्मादाह ॥ भाष्य १.६:१५
**********************************************
आयतनवासी ॥ १.७ ॥
* अथ भस्मनिर्माल्यवल्लोकादिप्रसिद्धमायतनम् ॥ भाष्य १.७:१
* आङिति मर्यादायां भवति ॥ भाष्य १.७:२
* यस्मादेते गृहस्थादयः प्रयतनियतशुचिसाध्वाचाराः स्वस्वमर्यादयोपतिष्ठन्ते यजन्ति च शान्तिकपौष्टिकादिभिः क्रियाभिरिति ॥ भाष्य १.७:३
* यजनाच्चायतनम् ॥ भाष्य १.७:४
* तस्मिन् परकृत आयतने वस्तव्यमिति वासी इत्यायतनं च परिगृह्णाति ॥ भाष्य १.७:५
* भूप्रदेशे आकाशे वृक्षमूले बहिः प्रादक्षिण्येन वा यत्र क्वचित्प्रतिवसन् शिष्टमर्यादया आयतनवासी भवति ॥ भाष्य १.७:६
* पुलिनवासवद्वसेदित्यर्थः ॥ भाष्य १.७:७
* पुण्यफलावाप्तिश्चास्याशु भवति ॥ भाष्य १.७:८
* उक्तं हि । ग्रामे वा यदि वारण्ये पुण्यस्थानं हि शूलिनः ॥ भाष्य १.७:९
* आवासो धर्मतृप्तानां सिद्धिक्षेत्रं हि तत्परम् ॥ भाष्य १.७:१०
* आह तस्मिन्नायतने प्रतिवसता काः क्रियाः कर्तव्याः ॥ भाष्य १.७:११
* किं स्नानाद्या उपलेपनाद्या वा ॥ भाष्य १.७:१२
* आहोस्विद्दृष्टा अस्यान्या वैशेषिक्यः क्रियाः कर्तव्याः ॥ भाष्य १.७:१३
* यथा चान्या वैशेषिक्यः क्रियाः कर्तव्याः प्रयोजनं च वक्ष्यामः - ॥ भाष्य १.७:१४
**********************************************
हसितगीतनृत्तडुंडुंकारनमस्कारजप्योपहारेणोपतिष्ठेत् ॥ १.८ ॥
* अथ त्रिषु स्नानकालेषु सद्योजातादिसंस्कृतेन भस्मना जपता स्नात्वा जपतैवायतनमभिगन्तव्यम् ॥ भाष्य १.८:१
* अभिगम्य च यत्पूर्वं जपति तत्प्रत्याहारार्थं जप्यमोमोमों ॥ भाष्य १.८:२
* हसितादीनि तु कृत्वा यत्पश्चाज्जपति तन्नियमार्थं जप्यम् ॥ भाष्य १.८:३
* तदत्र हसितं नाम यदेतत्कण्ठौष्ठपुटविस्फूर्जनमट्टहासः क्रियते तद्धसितम् ॥ भाष्य १.८:४
* गीतमपि गान्धर्वशास्त्रसमयानभिष्वङ्गेण यत्र भगवतो महेश्वरस्य सभायां गौणद्रव्यजकर्मजानि नामानि चिन्त्यन्ते तत् ॥ भाष्य १.८:५
* संस्कृतं प्राकृतं परकृतमात्मकृतं वा यद्गीयते तद्गेयम् ॥ भाष्य १.८:६
* नृत्तमपि नाट्यशास्त्रसमयानभिष्वङ्गेण हस्तपादादीनामुत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं चलनमनवस्थानम् ॥ भाष्य १.८:७
* निगमकाले नियमार्थं गेयसहकृतं नृत्तं प्रयोक्तव्यम् ॥ भाष्य १.८:८
* डुंडुंकारो नाम य एष जिह्वाग्रतालुसंयोगान्निष्पद्यते पुण्यो वृषनादसदृशः सः ॥ भाष्य १.८:९
* डुंडुंकरणं डुंडुंकारः ॥ भाष्य १.८:१०
* कारशब्दो डुंडुंकारस्योपहाराङ्गावधारणार्थः ॥ भाष्य १.८:११
* नम इति ॥ भाष्य १.८:१२
* नाप्योष्ठीयं कर्तव्यं नोपांशु ॥ भाष्य १.८:१३
* मानसं तु नमस्करणं नमस्कारः ॥ भाष्य १.८:१४
* कारशब्दो वाचिकोपांशुप्रतिषेधार्थं मानसोपहाराङ्गावधारणार्थं चेत्यर्थः ॥ भाष्य १.८:१५
* जप्यं नाम सद्योजातादिष्वक्षरपङ्क्त्यां मनसा भावस्य संचारविचारः ॥ भाष्य १.८:१६
* तज्जप्यम् ॥ भाष्य १.८:१७
* उपेति विशेषणे क्रियोपसंहारे समस्तत्वे च ॥ भाष्य १.८:१८
* उपहरणादुपहारो व्रतं नियम इत्यर्थः ॥ भाष्य १.८:१९
* उपह्रियते निवेद्यते नियोगमात्रकर्तृत्वात्साधकेनेत्युपहारः ॥ भाष्य १.८:२०
* उपतिष्ठेत् ॥ भाष्य १.८:२१
* अत्रोपेत्यभ्युपगमे ॥ भाष्य १.८:२२
* अभ्युपगतेन विधिस्थेन प्रणतविनतेनेत्यर्थः ॥ भाष्य १.८:२३
* तिष्ठेदित्यैकाग्र्यं प्रत्याहाराभावस्थितिमेवाधिकुरुते ॥ भाष्य १.८:२४
* सर्वकरणानां वृत्तौ प्रत्याहारं कृत्वा कायिकवाचिकमानसिकाभिः क्रियाभिरुपहारं कृत्वा भृत्यवदुपहारेण स्थेयम् ॥ भाष्य १.८:२५
* अपसव्यं च प्रदक्षिणमुपरिष्टाद्वक्ष्यामः ॥ भाष्य १.८:२६
* आह कस्य निर्माल्यं धार्यम् ॥ भाष्य १.८:२७
* कस्य वा आयतने वस्तव्यम् ॥ भाष्य १.८:२८
* क्व चोपस्थेयमिति ॥ भाष्य १.८:२९
* तदुच्यते ॥ भाष्य १.८:३०
**********************************************
महादेवस्य दक्षिणामूर्तेः ॥ १.९ ॥
* अत्र महानित्यभ्यधिकत्वे ॥ भाष्य १.९:१
* सर्वक्षेत्रज्ञानामभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यभ्यधिकः ॥ भाष्य १.९:२
* ऋषिर्विप्रः अधिपतिः ॥ भाष्य १.९:३
* सदाशिवत्वमभ्यधिकत्वं च प्रवक्ष्यामः ॥ भाष्य १.९:४
* अत्र देव इति दिवु क्रीडायाम् ॥ भाष्य १.९:५
* क्रीडाधर्मित्वात् ॥ भाष्य १.९:६
* अग्न्युष्णत्ववत् ॥ भाष्य १.९:७
* क्रीडावानेव भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यमुत्पादयति अनुगृह्णाति तिरोभावयति च ॥ भाष्य १.९:८
* उक्तं हि । अप्रचोद्यः प्रचोद्यैस्तु कामकारकरः प्रभुः । क्रीडते भगवान् लोकैर्बालः क्रीडनकैरिव ॥ भाष्य १.९:९
* देवस्य इति षष्ठी ॥ भाष्य १.९:१०
* स्वस्वामिभावः सम्बन्धः ॥ भाष्य १.९:११
* परिग्रहार्थमेवाधिकुरुते ॥ भाष्य १.९:१२
* अत्र दक्षिणेति दिक्प्रतिविभागे भवति ॥ भाष्य १.९:१३
* आदित्यो दिशो विभजति ॥ भाष्य १.९:१४
* दिशश्च मूर्तिं विभजन्ति ॥ भाष्य १.९:१५
* मूर्तिनाम यदेतद्देवस्य दक्षिणे पार्श्वे स्थितेनोदङ्मुखेनोपान्ते यद्रूपमुपलभ्यते वृषध्वजशूलपाणिनन्दिमहाकालोर्ध्वलिङ्गादिलक्षणं यद्वा लौकिकाः प्रतिपद्यन्ते महादेवस्यायतनमिति तत्रोपस्थेयम् ॥ भाष्य १.९:१६
* दक्षिणामूर्तिग्रहणात्पूर्वोत्तरपश्चिमानां मूर्तीनां प्रतिषेधः ॥ भाष्य १.९:१७
* मूर्तिनियोगाच्च मूर्त्यभावे नियमलोपः ॥ भाष्य १.९:१८
* भैक्ष्यानुपयोगान्निर्घातानामुक्तत्वाच्चेत्यर्थः ॥ भाष्य १.९:१९
* विधिरित्युपदिष्टानामर्थानां भस्मस्नानोपदेशादप्सु स्नानादीनां प्रतिषेधः ॥ भाष्य १.९:२०
* भस्मशयनोपदेशाद्विषयशयनादीनां प्रतिषेधः ॥ भाष्य १.९:२१
* आयतने वसत्यर्थोपदेशाच्छेषवसत्यर्थप्रतिषेधः ॥ भाष्य १.९:२२
* हसिताद्युपदेशाच्छेषोपहारप्रतिषेधः ॥ भाष्य १.९:२३
* निर्माल्योपदेशात्प्रत्यग्राणां माल्यानां प्रतिषेधः ॥ भाष्य १.९:२४
* भस्मनिर्माल्यलिङ्गोपदेशाच्छेषलिङ्गप्रतिषेधः ॥ भाष्य १.९:२५
* महादेवग्रहणादन्यदेवताभक्तिप्रतिषेधः ॥ भाष्य १.९:२६
* दक्षिणामूर्तिग्रहणात्पूर्वपश्चिमानां मूर्तीनां प्रतिषेधः ॥ भाष्य १.९:२७
* एवं दक्षिणामूर्तिरित्युक्ते अस्य ब्राह्मणस्य पूर्वप्रसिद्धा नियमा नियमैः प्रतिषिध्यन्ते ॥ भाष्य १.९:२८
* कीलकप्रतिकीलकवत्पुराणोदकनवोदकवच्चेति ॥ भाष्य १.९:२९
* अत्रेदं भस्मप्रकरणं समाप्तम् ॥ भाष्य १.९:३०
* आह नियमाभिधानादेव हि संशयः ॥ भाष्य १.९:३१
* यत्र यमास्तत्र नियमाः ॥ भाष्य १.९:३२
* मिथुनमेवैतद्यस्मात् ॥ भाष्य १.९:३३
* अतो न संशयः ॥ भाष्य १.९:३४
* यमा अस्मिन् तन्त्रे के चिन्त्यन्ते ॥ भाष्य १.९:३५
* उच्यते प्रसिद्धा यमाः अहिंसादय इति ॥ भाष्य १.९:३६
* अत्र त्वन्येषाम् ॥ भाष्य १.९:३७
* अहिंसा ब्रह्मचर्यं च सत्यासंव्यवहारकौ । अस्तेयमिति पञ्चैते यमा वै संप्रकीर्तिताः ॥ भाष्य १.९:३८
* अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । अप्रमादश्च पञ्चैते नियमाः संप्रकीर्तिताः ॥ भाष्य १.९:३९
* तद्वदस्माकं न भवति ॥ भाष्य १.९:४०
* कस्मात् ॥ भाष्य १.९:४१
* नियमनिवृत्तिदर्शनात् ॥ भाष्य १.९:४२
* अस्मिन् हि तन्त्रे कालान्तरिता नियमा निवर्तन्ते ॥ भाष्य १.९:४३
* कथमा देहपाताद्यमानां न निवृत्तिरस्ति ॥ भाष्य १.९:४४
* कस्मात् ॥ भाष्य १.९:४५
* हिंसादिदोषात् ॥ भाष्य १.९:४६
* तस्मादहिंसाद्या दश सर्वे ते यमाः प्रत्यवगन्तव्यः ॥ भाष्य १.९:४७
* आह यद्येवं निगमनिवृत्तौ भ्रष्टनियमस्य पतनप्रसङ्गः ॥ भाष्य १.९:४८
* उच्यते अवसितप्रयोजनत्वान्न पतनप्रसङ्गः ॥ भाष्य १.९:४९
* किं च यमानां प्राधान्यात् ॥ भाष्य १.९:५०
* उक्तं हि पतति नियमवान् यमेष्वसक्तो न तु यमवान्नियमालसोऽवसीदेत् ॥ भाष्य १.९:५१
* इति यमनियमौ समीक्ष्य बुद्ध्या यमबहुलेष्वतिसंदधीत बुद्धिम् ॥ भाष्य १.९:५२
* तस्मान्न पतनप्रसङ्गः ॥ भाष्य १.९:५३
* अतः प्रसिद्धा यमा अहिंसादयः ॥ भाष्य १.९:५४
* आह किं प्रसिद्धा इति कृत्वा गृह्यन्ते आहोस्विच्छक्यमेतेषां यमानां सर्वज्ञोक्तशास्त्रतः सद्भावो वक्तुम् ॥ भाष्य १.९:५५
* उच्यते यद्यन्यत्र प्रसिद्धा इति क्व ॥ भाष्य १.९:५६
* तत्र चिन्त्यते ॥ भाष्य १.९:५७
* कस्मात् ॥ भाष्य १.९:५८
* कृतोपदेशात् ॥ भाष्य १.९:५९
* यस्मादुक्तं सूत्रतःकृतमित्यत्र ॥ भाष्य १.९:६०
* कृताप्रतिषेधा कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्येत्यर्थः ॥ भाष्य १.९:६१
* सा च हिंसा त्रिविधा भवति ॥ भाष्य १.९:६२
* दुःखोत्पादनमण्डभेदः प्राणनिर्मोचनमिति ॥ भाष्य १.९:६३
* तत्र दुःखोत्पादनं नाम क्रोशनतर्जनताडननिर्भर्त्सनादिबहुभेदोऽपि चतुर्विधस्यापि भूतग्रामस्य मनोवाक्कायकर्मभिरभिद्रोहो न कर्तव्यः ॥ भाष्य १.९:६४
* एवमहिंसा भवत्येतेषां जन्तूनाम् ॥ भाष्य १.९:६५
* अण्डभेदो नाम दाहतापधूमोपरोधपरिहारार्थमग्निकरणादानसम्प्रदानप्रतिनिधानसंधुक्षणादीनि न कुर्यात्नैव कारयेत् ॥ भाष्य १.९:६६
* तथा प्राणनिर्मोचनं नाम वस्त्रशिक्यभस्माधारभैक्ष्यभाजनादीनि मुहुर्मुहुर्विवेचयितव्यानि ॥ भाष्य १.९:६७
* कस्मात् ॥ भाष्य १.९:६८
* प्राणिनो हि सूक्ष्मचारिणः क्षिप्रमेव विलयं प्रयान्ति ॥ भाष्य १.९:६९
* तस्मात्सूक्ष्मैरङ्गपवित्रैः पक्ष्मचामरतालवृन्तैर्वस्त्रान्तरैर्वा मुहुर्मुहुर्विग्रन्थोदकेन वा ॥ भाष्य १.९:७०
* हरितेषु तृणेषु न संसिक्ते भूप्रदेशे भवति ॥ भाष्य १.९:७१
* वसन्तग्रीष्महैमान्तिकानष्टौ मासान् भिक्षुर्विचक्रमेत् ॥ भाष्य १.९:७२
* दयार्थं सर्वभूतानामेकत्र वर्षासु वसेत् ॥ भाष्य १.९:७३
* वर्षाभेदं तु यः कुर्याद्ब्राह्मणो योगदीक्षितः । प्राजापत्येन कृच्छ्रेण ततः पापात्प्रमुच्यते ॥ भाष्य १.९:७४
* शारीरं दृश्यते यत्र भयं कस्यांचिदापदि । दुर्दिने राष्ट्रभङ्गे वा वर्षास्वपि व्यतिक्रमेत् ॥ भाष्य १.९:७५
* नासूर्यं च व्रजेन्मार्गं नादृष्टां भूमिमाक्रमेत् । परिपूनाभिरद्भिश्च नित्यं कुर्यात्प्रयोजनम् ॥ भाष्य १.९:७६
* संवत्सरकृतं पापं मत्स्यबन्धस्य यद्भवेत् । एकाहात्तदवाप्नोति अपूतजलसंग्रही ॥ भाष्य १.९:७७
* दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ भाष्य १.९:७८
* हिंसकास्तु निवर्तन्ते ब्रह्मत्वमपि ये गताः । तस्मादपूतमुदकं नोपयुञ्जीत योगवित् ॥ भाष्य १.९:७९
* अथ नष्टे पवित्रे च गृह्णीयात्त्रिषु वै सकृत् । नदीप्रस्रवणे चैव गृहस्थेषु च साधुषु ॥ भाष्य १.९:८०
* काण्डानि यानि गृह्यन्ते कन्दाश्चैव प्ररोहिणः । बीजानि चैव पक्वानि सर्वाण्येतानि वर्जयेत् ॥ भाष्य १.९:८१
* यदा न कुर्याद्द्रोहं च सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ भाष्य १.९:८२
* यो न हिंसति भूतानि स्थावराणि चराणि च । आत्मानमिव सर्वाणि सोऽमृतत्वाय कल्पते ॥ भाष्य १.९:८३
* न यज्ञदानैर्न तपोऽग्निहोत्रैर्न ब्रह्मचर्यैर्न च सत्यवाक्यैः । न वेदविद्याध्ययनैर्व्रतैर्वा प्राप्यं फलं यद्यहिंसकस्य ॥ भाष्य १.९:८४
* यो दद्यात्काञ्चनं मेरुं कृत्स्नां चैव वसुंधराम् । समुद्रं रत्नपूर्णं वा न तुल्यं स्यादहिंसया ॥ भाष्य १.९:८५
* इत्येवमहिंसा तन्त्रे सिद्धा ॥ भाष्य १.९:८६
* तथा ब्रह्मचर्यं च तन्त्रे सिद्धम् ॥ भाष्य १.९:८७
* कस्मात् ॥ भाष्य १.९:८८
* स्त्रीप्रतिषेधातिन्द्रियजयोपदेशाच्च त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्तम् ॥ भाष्य १.९:८९
* विशेषेण तु जिह्वोपस्थयोरिति ॥ भाष्य १.९:९०
* अत्राह विशेषग्रहणं किंप्रयोजनम् ॥ भाष्य १.९:९१
* त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्त्वा जिह्वोपस्थयोर्विशेषग्रहणं किंप्रयोजनं क्रियते ॥ भाष्य १.९:९२
* उच्यते प्रधानत्वात् ॥ भाष्य १.९:९३
* तन्मूलत्वादितरप्रवृत्तेः ॥ भाष्य १.९:९४
* तन्मूला हीतरेषां प्रवृत्तिर्भवति ॥ भाष्य १.९:९५
* कथम् ॥ भाष्य १.९:९६
* जिह्वेन्द्रियविषये उपस्थेन्द्रियविषये वा सक्तः त्रयोदशभिः प्रवर्तते ॥ भाष्य १.९:९७
* अत एतदुक्तं विशेषेण जिह्वोपस्थयोरिति ॥ भाष्य १.९:९८
* जिह्वोपस्थनिमित्तं हि पतनं सर्वदेहिनाम् । तस्मादमित्रवत्पश्येज्जिह्वोपस्थं हि मानवः ॥ भाष्य १.९:९९
* अथवा मनःपूर्वकत्वात्सर्ववृत्तीनां तन्निग्रहात्सर्ववृत्तीनां निग्रहः कृतो भवति ॥ भाष्य १.९:१००
* उक्तं हि । मनो हि मूलं सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ भाष्य १.९:१०१
* पुनरप्युक्तम् । इन्द्रियैः प्रसृतैर्दुःखमिन्द्रियैर्निभृतैः सुखम् । तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना ॥ भाष्य १.९:१०२
* इन्द्रियाणि हि तत्सर्वं यत्स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ भाष्य १.९:१०३
* अतो जन्म अतो दुःखमतो मृत्युभयं तथा । इन्द्रियाणां प्रसङ्गाद्वै तस्मादेतान् जयामहे ॥ भाष्य १.९:१०४
* इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ भाष्य १.९:१०५
* रज्जुरेषा निबन्धाय या स्त्रीषु रमते मतिः । छित्त्वैनां कृतिनो यान्ति नैनां त्यजति दुष्कृती ॥ भाष्य १.९:१०६
* स्त्रीहेतोर्निर्गमो ग्रामात्स्त्रीकृते क्रयविक्रयः । स्त्रियो मूलमनर्थानां नैनां प्राज्ञः परिष्वजेत् ॥ भाष्य १.९:१०७
* विषमग्निरसिर्बाणः स्फुटं कृत्वा विभीषिका । माया रूपवती ह्येषा यां स्त्रियं मन्यते जनः ॥ भाष्य १.९:१०८
* अमेध्यपूर्णे कृमिजन्तुसंकुले स्वभावदुर्गन्ध अशौच अध्रुवे । कडेबरे मूत्रपुरीषभाजने रमन्ति मूर्खा न रमन्ति पण्डिताः ॥ भाष्य १.९:१०९
* माद्यतीति स्त्रियं दृष्ट्वा सुरां पीत्वा न माद्यति । तस्माद्दृष्टिमदां नारीं दूरतः परिवर्जयेत् ॥ भाष्य १.९:११०
* अधोमुखेनादंष्ट्रेण जघनान्तरचारिणा । सर्वशास्त्राचिकित्स्येन जगद्दष्टं भगाहिना ॥ भाष्य १.९:१११
* लोमशेन कुरूपेण दुर्गन्धेन कुचर्मणा । हरिणीपदमात्रेण सर्वमन्धीकृतं जगत् ॥ भाष्य १.९:११२
* दीप्ताङ्गारसमा नारी घृतकुम्भसमः पुमान् । ये प्रसक्ता विलीनास्ते ये स्थितास्ते दिवं गताः ॥ भाष्य १.९:११३
* यथाग्निरेधःसंवृद्धो महाज्योतिः प्रकाशते । तथेन्द्रियनिरोधेन स्वात्मज्योतिः प्रकाशते ॥ भाष्य १.९:११४
* ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः ॥ भाष्य १.९:११५
* क्षीरं पिबन्ति मधु ते पिबन्ति सोमं पिबन्त्यमृतेन सार्धम् । मृत्योः पुरस्तादमरा भवन्ति ये ब्राह्मणा ब्रह्मचर्यं चरन्ति ॥ भाष्य १.९:११६
* इत्येवं ब्रह्मचर्यं तन्त्रे सिद्धम् ॥ भाष्य १.९:११७
* तथा सत्यं तन्त्रे सिद्धम् ॥ भाष्य १.९:११८
* तच्च द्विविधम् ॥ भाष्य १.९:११९
* तद्यथा परिदृष्टार्थभूतार्थं वचनं वाक्सत्यं चेति ॥ भाष्य १.९:१२०
* तत्र परिदृष्टार्थभूतार्थं वचनं सत्यं तन्त्रे सिद्धम् ॥ भाष्य १.९:१२१
* कस्मात् ॥ भाष्य १.९:१२२
* व्याख्यानोपदेशात्विद्वदुपदेशाच्च ॥ भाष्य १.९:१२३
* तथा वाक्सत्यमपि तन्त्रे सिद्धम् ॥ भाष्य १.९:१२४
* कस्मात् ॥ भाष्य १.९:१२५
* वाग्विशुद्ध्युपदेशात् ॥ भाष्य १.९:१२६
* इह स्वशास्त्रोक्तं भाषतोऽनृतमपि सत्यमापद्यते ॥ भाष्य १.९:१२७
* कस्मात् ॥ भाष्य १.९:१२८
* शुद्धिवृद्धिकरत्वात् ॥ भाष्य १.९:१२९
* यस्मादाह । स्वर्गमनृतेन गच्छति दयार्थमुक्तेन सर्वभूतानाम् । सत्येनापि न गच्छति सतां विनाशार्थमुक्तेन ॥ भाष्य १.९:१३०
* पुनस्त्वाह । गोब्राह्मणार्थेऽवचनं हिमस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ भाष्य १.९:१३१
* सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ भाष्य १.९:१३२
* यथा हि तेषामेव भूतानां हितमनृतमपि सत्यमापद्यते एवमिहाप्यस्माकं स्वशास्त्रोक्तं भाषतामनृतमपि सत्यमापद्यते ॥ भाष्य १.९:१३३
* कस्मात् ॥ भाष्य १.९:१३४
* विधिविहितत्वात् ॥ भाष्य १.९:१३५
* इत्येतदपि तत्र सिद्धम् ॥ भाष्य १.९:१३६
* तथा असंव्यवहारस्तन्त्रे सिद्धः ॥ भाष्य १.९:१३७
* कस्मात् ॥ भाष्य १.९:१३८
* अव्यक्तप्रेतोन्मत्तमूढोपदेशात् ॥ भाष्य १.९:१३९
* नेह लोके अव्यक्तप्रेतोन्मत्तमूढाः संव्यवहारं कुर्वन्ति यस्मादतोऽत्रासंव्यवहारस्तन्त्रे सिद्धः ॥ भाष्य १.९:१४०
* संव्यवहारश्च पुनर्द्विविधः ॥ भाष्य १.९:१४१
* तद्यथा क्रयावक्रयसंव्यवहारा राजकुलसंव्यवहारश्चेति ॥ भाष्य १.९:१४२
* अत एकतरेणाप्यत्राधिकृतस्यात्मपीडा परपीडा चावर्जनीये भवतः ॥ भाष्य १.९:१४३
* तत्र यद्यात्मानं पीडयति तेनेहैव लोके दुःखी भवति ॥ भाष्य १.९:१४४
* स्यात्परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः प्रचीयते ॥ भाष्य १.९:१४५
* तेनामुष्मिन् लोके तीव्रं दुःखमनुभवति ॥ भाष्य १.९:१४६
* तस्मादुभयथापि संव्यवहारो वर्जनीयः ॥ भाष्य १.९:१४७
* भवति ह्यपि । यश्च पापं प्रकुरुते यश्च पापं प्रशंसति । सहायश्चोपभोक्ता च सर्वे ते समकर्मिणः ॥ भाष्य १.९:१४८
* उक्तं हि । विक्रये तु महान् दोषो विक्रयात्पतते यतः । एष एव क्रये दोषस्तस्मात्तं परिवर्जयेत् ॥ भाष्य १.९:१४९
* प्रच्छन्नं कुरुते पापं न मे जानाति कश्चन । मुच्यते जनवादेभ्यस्तस्मात्पापान्न मुच्यते ॥ भाष्य १.९:१५०
* पुनरप्युक्तम् । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ भाष्य १.९:१५१
* नारम्भशीलो न च दम्भशीलः शास्त्रोपदिष्टानि करोत्यदीनः । यमेषु युक्तो नियमेषु चैव मुनिर्भवत्येष्वजरोऽमरश्च ॥ भाष्य १.९:१५२
* तथा अस्तेयं तन्त्रे सिद्धम् ॥ भाष्य १.९:१५३
* कस्मात् ॥ भाष्य १.९:१५४
* अवासोपदेशातनुत्सृष्टान्नप्रतिषेधाच्च ॥ भाष्य १.९:१५५
* इह विद्यमानस्याप्येकस्य वाससो मलवदवस्थितस्यावासोपदेशात्परिग्रहपरित्याग उपदिश्यते ॥ भाष्य १.९:१५६
* किंचान्यदपि ॥ भाष्य १.९:१५७
* परित्यक्तानामन्नपानादीनामुपयोगो दृष्टो यस्मात् ॥ भाष्य १.९:१५८
* अतोऽत्रास्तेयं तन्त्रे सिद्धम् ॥ भाष्य १.९:१५९
* स्तेयं च पुनः षड्विधम् ॥ भाष्य १.९:१६०
* तत्र अदत्तादानमनतिसृष्टग्रहणमनभिमतग्रहणमनधिकारप्रतिग्रहः अनुपालम्भः अनिवेदितोपयोगश्चेति ॥ भाष्य १.९:१६१
* अदत्तस्य ग्रहणमदत्तादानम् ॥ भाष्य १.९:१६२
* अनतिसृष्टग्रहणं नाम बालोन्मत्तप्रमत्तवृद्धदुर्बलानां वित्तापहरणम् ॥ भाष्य १.९:१६३
* अनभिमतग्रहणं नाम कीटभ्रमरपक्षिपतंगादीनामनभिप्रेतद्रव्यापहरणम् ॥ भाष्य १.९:१६४
* अनधिकारप्रतिग्रहो नाम इह शास्त्रे अनभ्यनुज्ञातानामर्थानां गोभूहिरण्यद्विपदचतुष्पदादीनां ग्रहणम् ॥ भाष्य १.९:१६५
* अनुपालम्भो नाम कुहककल्कनडम्भविस्मापनवर्धापनादिभिरुपायैः परेभ्यो हिरण्याच्छादनोपयोगः ॥ भाष्य १.९:१६६
* अनिवेदितोपयोगो नाम भक्ष्यभोज्यलेह्यपेयचोष्यादीनामन्यतमं यत्किंचिद्गुरवेऽनिवेदितमुपयुङ्क्ते स उच्यते अनिवेदितोपयोग इति ॥ भाष्य १.९:१६७
* एवं षड्विधं स्तेयम् ॥ भाष्य १.९:१६८
* अस्य षड्विधस्यापि स्तेयस्य परिवर्जनमस्तेयमाहुराचार्याः ॥ भाष्य १.९:१६९
* भवति ह्यपि । यदेतद्धनमित्याहुः प्राणा ह्येते बहिश्चराः । स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥ भाष्य १.९:१७०
* उक्तं हि । सर्वस्वपरिमोष्टा च जीवितान्तकरश्च यः । द्वावेतौ समकर्माणौ तस्मात्स्तेयं विवर्जयेत् ॥ भाष्य १.९:१७१
* न स्तेनस्य परो लोको नायं लोको दुरात्मनः । शङ्कितः सर्वभूतानां द्रोहात्मा पाप एव सः ॥ भाष्य १.९:१७२
* मृदमापस्तथा यानं पत्त्रं पुष्पं फलान्यपि । असंवृतानि गृह्णीयात्पवित्रार्थीह कार्यवान् ॥ भाष्य १.९:१७३
* नद्यश्च वाप्यः कूपाश्च तटाकानि सरांसि च । असंवृतानि गृह्णीयात्प्राजापत्येन कर्मणा ॥ भाष्य १.९:१७४
* इत्येवमस्तेयं तन्त्रे सिद्धम् ॥ भाष्य १.९:१७५
* अक्रोधस्तन्त्रे सिद्धः ॥ भाष्य १.९:१७६
* कस्मात् ॥ भाष्य १.९:१७७
* शूद्रप्रतिषेधाततितापोपदेशाच्च ॥ भाष्य १.९:१७८
* इहाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वद्वंद्वानां मनसि शरीरे च उपनिपतितानां सहिष्णुत्वमप्रतीकारश्चेति यस्मात्कृतोऽत्राक्रोधस्तन्त्रे सिद्धः ॥ भाष्य १.९:१७९
* क्रोधश्च पुनश्चतुर्विधः ॥ भाष्य १.९:१८०
* तद्यथा भावलक्षणः कर्मलक्षणः वैकल्यकरः उद्वेगकरश्चेति ॥ भाष्य १.९:१८१
* तत्र भावलक्षणो नाम सः यत्रासूयाद्वेषमदमानमात्सर्यादयो भावाः प्रवर्तन्ते ॥ भाष्य १.९:१८२
* कर्मलक्षणो नाम यत्र कलहवैरसंप्रहरणाद्या भावाः प्रवर्तन्ते ॥ भाष्य १.९:१८३
* वैकल्यकरो नाम यत्र पाणिपादनासाक्ष्यङ्गुलिप्रहरणादयो भावाः प्रवर्तन्ते ॥ भाष्य १.९:१८४
* उद्वेगकरो नाम यत्र स्वात्मानं परात्मानं वा प्राणैर्वियोजयति ॥ भाष्य १.९:१८५
* इत्येवं चतुर्विधः क्रोधः ॥ भाष्य १.९:१८६
* अस्य चतुर्विधस्यापि क्रोधस्य परिवर्जनमक्रोधमाहुराचार्याः ॥ भाष्य १.९:१८७
* तस्माद्देशजातिकुलकर्मसम्बन्धनिन्दायां करणक्रियायां कार्यनिन्दायामाहारनिन्दायां वाधिकृतेन क्रोधो न कर्तव्यः ॥ भाष्य १.९:१८८
* तत्र देशनिन्दा तावद्भवति ॥ भाष्य १.९:१८९
* तद्यथा यत्र भवान् जातस्तत्र देशे ब्राह्मणा एव न सन्तीति यदि कश्चिदधिक्षेपं कुर्यात्तत्र क्रोधो न कर्तव्यः ॥ भाष्य १.९:१९०
* तत्रैतत्स्यादेवमभिहिते तीव्रदुःखं मानसमभिव्यज्यते ॥ भाष्य १.९:१९१
* कथमत्र क्रोधो न भविष्यतीति ॥ भाष्य १.९:१९२
* उच्यते न भविष्यति ॥ भाष्य १.९:१९३
* कस्मात् ॥ भाष्य १.९:१९४
* परिसंख्यानसामर्थ्यात् ॥ भाष्य १.९:१९५
* इह मनुष्यलोके देशोऽयं नाम मातापितृहेतुकः औपचयिकः कार्यपिण्डः शरीराख्यः ॥ भाष्य १.९:१९६
* स तस्माद्भवः ॥ भाष्य १.९:१९७
* क्षेत्रज्ञस्तु चेतनः सर्वगतः शुचिः ॥ भाष्य १.९:१९८
* अस्य चास्माकं चान्तरमविदितम् ॥ भाष्य १.९:१९९
* अपरिदृष्टार्थे भवानेतद्वा ब्रूयात् ॥ भाष्य १.९:२००
* अतः क्रोधनिमित्तासंभवात्परिसंख्यानसामर्थ्येन क्रोधो न कार्यः ॥ भाष्य १.९:२०१
* एवं शेषेष्वपि द्रष्टव्यम् ॥ भाष्य १.९:२०२
* भवति ह्यपि । शृङ्गवान्नखवान् दंष्ट्री विकृतो रुधिराशनः । राक्षसो वा पिशाचो वा क्रोधिष्णुर्जायते नरः ॥ भाष्य १.९:२०३
* पुनश्चाह । कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च । पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥ भाष्य १.९:२०४
* विद्विष्टः सर्वभूतानां बह्वमित्रोऽल्पबान्धवः । क्रूरधर्मा दुराचारः क्रोधिष्णुर्जायते नरः ॥ भाष्य १.९:२०५
* क्रुद्धः करोति पापानि क्रुद्धः पापानि भाषते । क्रुद्धो भवति निर्लज्जस्तस्मात्क्रोधं विवर्जयेत् ॥ भाष्य १.९:२०६
* तथा चोक्तम् । यत्क्रोधनो जपति यच्च जुहोति यद्वा यद्वा तपस्तप्यति यद्ददाति तत्सर्वम् । वैवस्वतो हरति पूर्तममुष्य सर्वं मिथ्या श्रुतं भवति तस्य शमोऽपि तस्य ॥ भाष्य १.९:२०७
* धन्यास्ते पुरुषव्याघ्रा ये बुद्ध्या क्रोधमुत्थितम् । शमयन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ भाष्य १.९:२०८
* यतो रूपं ततो ज्ञानं यतो ज्ञानं ततस्तपः । यतस्तपस्ततः सिद्धिर्यतः सिद्धिस्ततः क्षमा ॥ भाष्य १.९:२०९
* क्षमा सर्वपरं मित्रं क्रोधः सर्वपरो रिपुः । क्षमावतामयं लोकः परो लोकः क्षमावताम् ॥ भाष्य १.९:२१०
* एतस्मात्कारणात्क्षन्तव्यमित्येवमक्रोधस्तन्त्रे सिद्धः ॥ भाष्य १.९:२११
* तथा गुरुशुश्रूषा तन्त्रे सिद्धा ॥ भाष्य १.९:२१२
* कस्मात् ॥ भाष्य १.९:२१३
* व्याख्यानोपदेशाद्विद्वदुपदेशाच्च ॥ भाष्य १.९:२१४
* इह चोक्तं विधिं व्याख्यास्यामः इति ॥ भाष्य १.९:२१५
* अत्राणिति मर्यादायाम् ॥ भाष्य १.९:२१६
* म इति प्रतिज्ञायां भवति ॥ भाष्य १.९:२१७
* मयि वर्तते ॥ भाष्य १.९:२१८
* मयि तिष्ठतीति ॥ भाष्य १.९:२१९
* यदि चेष्टे वत्स्यसि यदि चेष्टे स्थास्यसि ततस्ते वक्ष्यामः ॥ भाष्य १.९:२२०
* तत्रेष्टमित्यष्टाङ्गं ब्रह्मचर्यं मर्यादामधिकुरुते ॥ भाष्य १.९:२२१
* तद्यथा उत्थानप्रत्युत्थानाभिवादनगुरुकार्यहितकारी अनुत्तरोत्तरवादी पूर्वोत्थायी जघन्यसंवेशी प्रेषिताप्रेषितसर्वकार्यकृतज्ञः सर्वनिवेदितात्मा दक्षो दाक्षिण्यानुरक्तः स्नानोद्वर्तनसंवाहनादिभिः क्रियाविशेषैः छायेवानुगतो नित्यमिदं कृतमिदं करिष्ये किं करवाणीति भूत्वा गुरवेऽहरहर्वर्तितव्यम् ॥ भाष्य १.९:२२२
* यस्तु विद्यां गुरोरधिकृत्य बहुभ्यः सम्प्रयच्छति अनेनास्य विद्याया दानेन गुरवः शुश्रूषिता भवन्ति ॥ भाष्य १.९:२२३
* क्षीणे च ब्रह्मचर्ये नियतं गुरुषु यद्गौरवं तद्ब्रह्मचर्यम् ॥ भाष्य १.९:२२४
* भवति ह्यपि । गुरुर्देवो गुरुः स्वामी गुरुर्माता गुरुः पिता । यस्यैवं निश्चितो भावः श्रेयस्तस्य न दूरतः ॥ भाष्य १.९:२२५
* अग्निसूर्येन्दुताराभिश्चाक्षुषोऽर्थः प्रकाशते । भूतं भव्यं भविष्यं च गुरुवाक्यैः प्रकाशते ॥ भाष्य १.९:२२६
* देशकैर्गम्यतेऽध्वानं देशकैर्गम्यतेऽर्णवः । देशकैर्गम्यते स्वर्गो गुरुर्मोक्षस्य देशकः ॥ भाष्य १.९:२२७
* अमृतस्य प्रदातारं यो गुरुं ह्यवमन्यते । षष्टिवर्षसहस्राणि नरकं पर्युपासते ॥ भाष्य १.९:२२८
* गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ भाष्य १.९:२२९
* आचार्यं पूजयेद्यस्तु सर्वावस्थं हि नित्यशः । पूजितस्तेन भवति शिवो वै नात्र संशयः ॥ भाष्य १.९:२३०
* आचार्यमूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति । तस्माद्वै नावमन्तव्य आचार्यः श्रेय इच्छता ॥ भाष्य १.९:२३१
* ग्रन्थार्थविदुषे नित्यं योगमार्गानुदर्शिने । सर्वार्थेनापि कर्तव्यः परितोषो विजानता ॥ भाष्य १.९:२३२
* ऋचं वा यदि वार्धर्चं पादं वा यदि वाक्षरम् । सकाशाद्यस्य गृह्णीयान्नियतं तत्र गौरवम् ॥ भाष्य १.९:२३३
* लिङ्गकर्त्री यथा माता शास्त्रकर्ता यथा पिता । प्रबोधकृद्गुरुस्तेषां तदेवायतनं महत् ॥ भाष्य १.९:२३४
* इत्येवं गुरुशुश्रूषा तन्त्रे सिद्धा ॥ भाष्य १.९:२३५
* तथा शौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२३६
* कस्मात् ॥ भाष्य १.९:२३७
* भस्मस्नानोपदेशात् ॥ भाष्य १.९:२३८
* तच्च शौचं त्रिविधम् ॥ भाष्य १.९:२३९
* तद्यथा गात्रशौचं भावशौचमात्मशौचं चेति ॥ भाष्य १.९:२४०
* तत्र भस्मस्नानोपदेशात्प्रसिद्धं भस्मना गात्रशौचम् ॥ भाष्य १.९:२४१
* आह यदुक्तं प्रसिद्धं भस्मना गात्रशौचमिति एतदेवायुक्तम् ॥ भाष्य १.९:२४२
* कस्मात् ॥ भाष्य १.९:२४३
* पूर्वोत्तरव्याघातात् ॥ भाष्य १.९:२४४
* इह पुरस्तादुक्तं प्रसिद्धा यमा अहिंसादयो भवन्ति ॥ भाष्य १.९:२४५
* यदिह भूयोऽपि अप्रसिद्धं भस्मना गात्रशौचमित्यभिधीयते ॥ भाष्य १.९:२४६
* तस्मादिदं पूर्वोत्तरं न संगच्छति ॥ भाष्य १.९:२४७
* व्याहतं च भवति ॥ भाष्य १.९:२४८
* एष दोष इत्यतः पूर्वोत्तरव्याघातात् ॥ भाष्य १.९:२४९
* तत्र यदुक्तं प्रसिद्धं भस्मना गात्रशौचमित्येतदयुक्तम् ॥ भाष्य १.९:२५०
* उच्यते नायं दोषः ॥ भाष्य १.९:२५१
* कस्मात् ॥ भाष्य १.९:२५२
* प्रसिद्धिदर्शनात् ॥ भाष्य १.९:२५३
* इहान्यत्रापि प्रसिद्धं भस्मना गात्रशौचमिति ॥ भाष्य १.९:२५४
* एवं ह्याह । संसर्गजाश्च ये दोषा ये चान्ये पितृमातृजाः । अन्नपानकृताश्चैव संकरा देहमाश्रिताः । सर्वांस्तान् दहते भस्म अस्थिमज्जागतानपि ॥ भाष्य १.९:२५५
* पुनश्चाह । केशकीटोपपन्नानि दुष्टान्नानि च यानि वै । भस्मना स्पृष्टमात्राणि भोज्यान्याहुर्मनीषिणः ॥ भाष्य १.९:२५६
* पुनरप्युक्तम् । मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मोद्ध्वस्तो भस्मराशौ शयानो रुद्राध्यायी मुच्यते पातकेभ्यः ॥ भाष्य १.९:२५७
* यः स्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः । कुलैकविंशमुद्धृत्य स गच्छेत्परमां गतिम् ॥ भाष्य १.९:२५८
* एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् ॥ भाष्य १.९:२५९
* तस्माद्युक्तं वक्तुं प्रसिद्धा यमा अहिंसादय इति ॥ भाष्य १.९:२६०
* तथोपस्पर्शनप्राणायामजप्यैः अकलुषमतिर्भवतीति भावशौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२६१
* भावमन्तर्गतं दुष्टं न स्नानमपकर्षति । भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् ॥ भाष्य १.९:२६२
* मृत्तिकानां सहस्रेण जलकुम्भशतेन च । न शुध्यन्ति दुरात्मानः पापोपहतचेतसः ॥ भाष्य १.९:२६३
* सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचमद्भिः शौचं तु पञ्चमम् ॥ भाष्य १.९:२६४
* शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा । प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे ॥ भाष्य १.९:२६५
* यस्मादाह । सर्वस्वमपि यो दद्यात्कलुषेणान्तरात्मना । न तेन धर्मभाग्भवति भाव एवात्र कारणम् ॥ भाष्य १.९:२६६
* यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् । तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः ॥ भाष्य १.९:२६७
* इत्येवं भावशौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२६८
* तथात्मशौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२६९
* कस्मात् ॥ भाष्य १.९:२७०
* यस्मादवमानपरिभवपरिवादाद्यैरपहतपाप्मा भवति इत्यात्मशौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२७१
* यस्मादन्यैरप्युक्तम् । कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् । अपमानात्परं नास्ति साधनं मनुरब्रवीत् ॥ भाष्य १.९:२७२
* इत्येवं शौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२७३
* तथा आहारलाघवं तन्त्रे सिद्धम् ॥ भाष्य १.९:२७४
* कस्मात् । भैक्षोत्सृष्टयथालब्धोपदेशात् ॥ भाष्य १.९:२७५
* स्वल्पमपि अनुपायतोऽर्जितमलघु प्रभूतमपि उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् ॥ भाष्य १.९:२७६
* उक्तं हि । चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् । अक्रुद्धश्चाप्रहृष्टश्च तपस्तद्धि सनातनम् ॥ भाष्य १.९:२७७
* यश्चरेत्सर्वभोज्येषु भैक्ष्यं च व्यवहारतः । भुञ्जीत प्रतिगृह्णीयात्प्रशस्तानां स्वकर्मसु ॥ भाष्य १.९:२७८
* चातुर्वर्ण्यं चरेद्भैक्ष्यं पतितांस्तु विवर्जयेत् । पयश्चापश्च भैक्ष्यं च सममेतन्न संशयः ॥ भाष्य १.९:२७९
* भैक्ष्यशेषं तु यो भिक्षुर्यदि किंचित्समुत्सृजेत् । ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥ भाष्य १.९:२८०
* संनिधानं न कुर्वीत सर्वावस्थोऽपि योगवित् । संनिधानकृतैर्दोषैर्यतिः संजायते कृमिः ॥ भाष्य १.९:२८१
* माधुकरमसंकल्पं प्राक्प्रवृत्तमयाचितम् । तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ भाष्य १.९:२८२
* गृहाद्गृहं पर्यटंस्तु न गृहं परिवर्जयेत् । परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् ॥ भाष्य १.९:२८३
* अदुष्टापतितं साधुं भिक्षुको यो व्यतिक्रमेत् । स तस्य सुकृतं दत्त्वा दुष्कृतं प्रतिपद्यते ॥ भाष्य १.९:२८४
* तथैव च गृहस्थस्य निराशो भिक्षुको व्रजेत् । स तस्येष्टं च पूर्तं च भिक्षुरादाय गच्छति ॥ भाष्य १.९:२८५
* अकृते वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥ भाष्य १.९:२८६
* वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् । नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥ भाष्य १.९:२८७
* दशाहं द्वादशाहं वा यत्र भिक्षा न लभ्यते । तद्गृहं वर्जयेद्भिक्षुरूषराणीव कर्षकः ॥ भाष्य १.९:२८८
* चतुरक्षरसंयुक्तां भिक्षां तु समुदाहरेत् । एष प्रव्रजिनां धर्मः शेषस्तु क्रयविक्रयः ॥ भाष्य १.९:२८९
* न हसेन्न चाभिप्रेक्षेत्भिक्षामिच्छंस्तु भिक्षुकः । गोदोहमात्रं संतिष्ठेन्नोपतिष्ठेत्कदाचन ॥ भाष्य १.९:२९०
* जरामरणगर्भेभ्यो भीतस्य नरकादपि । भयात्क्षपयते यस्मात्तस्माद्भैक्ष्यमिति स्मृतम् ॥ भाष्य १.९:२९१
* दधिभक्षाः पयोभक्षा येऽन्ये यावकभक्षिणः । सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥ भाष्य १.९:२९२
* तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् । पिबेद्द्वादश वर्षाणि न तद्भैक्ष्यसमं भवेत् ॥ भाष्य १.९:२९३
* मासि मासि कुशाग्रेण यः पिबेत्सोममग्रजः । भैक्ष्यं चाव्यवहारेण तुल्यं भवति वा न वा ॥ भाष्य १.९:२९४
* भैक्ष्यमन्नं परं श्रेयो भैक्ष्यमन्नं परं शुचि । भैक्ष्यं हि व्रतिनां श्रेष्ठं भैक्ष्यमेव परा गतिः ॥ भाष्य १.९:२९५
* यद्यज्जलं निर्धमनेष्वपेयं नदीगतं तत्पुनरेव पेयम् । तथान्नपानं विधिपूर्वमागतं द्विजातिपात्रान्तरितं न दुष्यति ॥ भाष्य १.९:२९६
* लवणमलवणं वा स्निग्धमस्नेहिकं वा सहरसविरसं वा शुष्कमन्नं द्रवं वा । यदि इह निरवद्यं भुञ्जते भैक्ष्यमन्नं स खलु भवति भिक्षुर्भिक्षुधर्मादलुप्तः ॥ भाष्य १.९:२९७
* तथोत्सृष्टं यथालब्धं च तत्रैवावसरप्राप्तत्वात्प्रतितन्त्रसिद्धान्तसिद्धं सूत्रतोऽर्थनिर्देशं करिष्यामः ॥ भाष्य १.९:२९८
* इत्येवमाहारलाघवं तन्त्रे सिद्धम् ॥ भाष्य १.९:२९९
* तथा अप्रमादस्तन्त्रे सिद्धः ॥ भाष्य १.९:३००
* कस्मात् ॥ भाष्य १.९:३०१
* अप्रमादोपदेशात्जप्योपदेशाच्च ॥ भाष्य १.९:३०२
* इह नित्यं यमेष्वप्रमत्तेनोपस्थितस्मृतिना भवितव्यम् ॥ भाष्य १.९:३०३
* उक्तं हि । अप्रमादो दमस्त्यागो ब्राह्मणस्य हयाः स्मृताः । शीलरश्मिसमायुक्तैर्धेयात्मा मानसे रथे ॥ भाष्य १.९:३०४
* तं ब्रह्मरथमारुह्य गर्भजन्मजरायुतान् । छिन्दन्मृत्युभयान् पाशान् ब्रह्मभूतोऽवतिष्ठते ॥ भाष्य १.९:३०५
* इत्येवमप्रमादस्तन्त्रे सिद्धः ॥ भाष्य १.९:३०६
* एवं प्रसिद्धा यमा अहिंसादयः ॥ भाष्य १.९:३०७
* आह अविशेषदोषान्न प्रसिद्धा यमाः ॥ भाष्य १.९:३०८
* इहान्येषामप्यहिंसादीनि धर्मसाधनानि ॥ भाष्य १.९:३०९
* इहापि च शास्त्रे तान्येव ॥ भाष्य १.९:३१०
* तस्मात्साध्यसाधननिष्ठास्वप्यविशेषः ॥ भाष्य १.९:३११
* उच्यते न ॥ भाष्य १.९:३१२
* अतिप्रसङ्गादनेकान्ताच्च ॥ भाष्य १.९:३१३
* यदि धर्मसाधनास्तित्वमात्रसाधर्म्यादहिंसादीनां त्यागः क्रियते तस्मात्कार्यकारणक्षेत्रज्ञधर्माधर्मसुखदुःखसंसारपदार्थादयोऽपि त्याज्याः ॥ भाष्य १.९:३१४
* अथ नैवमनेकान्तः ॥ भाष्य १.९:३१५
* किंच त्यागे कृतिहिंसादीनां धर्मसाधनत्वप्रसङ्गः ॥ भाष्य १.९:३१६
* किंच अतिदानातियजनातितपोऽतिगत्यनावृत्त्यादिभिः यमनियमगर्भत्वाद्विधेः सिद्धम् ॥ भाष्य १.९:३१७
* नियमविशेषणाच्च नाविशेषः ॥ भाष्य १.९:३१८
* तस्माद्युक्तमुक्तं प्रसिद्धा यमा अहिंसादय इति ॥ भाष्य १.९:३१९
* अत एतदुक्तंमहादेवस्य दक्षिणामूर्तेः इति ॥ भाष्य १.९:३२०
* अत्रेदं यमप्रकरणं समाप्तम् ॥ भाष्य १.९:३२१
* आह तस्मिन्नायतने प्रतिवसतः का मात्रा ॥ भाष्य १.९:३२२
* सा वाच्या गृहस्थादिवत् ॥ भाष्य १.९:३२३
* तदुच्यते न ॥ भाष्य १.९:३२४
* यस्मादाह ॥ भाष्य १.९:३२५
**********************************************
एकवासाः ॥ १.१० ॥
* अत्र एकमिति संख्या ॥ भाष्य १.१०:१
* वास इत्याच्छादने भवति ॥ भाष्य १.१०:२
* तस्य वासः पञ्चविधमण्डजं वोडजं वालजं वल्कलजं चर्मजं वा ॥ भाष्य १.१०:३
* यत्कुशलेनाभ्युपायेनोपपद्यते तदेकपटलमनेकपटलं वा ग्राम्यादिभ्यो निष्परिग्रहं कौपीनप्रच्छादनमात्रं लज्जाप्रतीकारार्थं चैकं वासो ग्राह्यम् ॥ भाष्य १.१०:४
* अस्यैव च सूत्रस्य सामर्थ्यात्सर्वद्रव्यपरित्यागे कृते एकवासोमात्रपरिग्रहः संस्कर्तव्यः शिष्यः । आह लज्जाविनिवृत्तिरस्य कदा भवतीति । उच्यते ज्ञानाकलुषाभ्याम् । अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च भवति तदा तस्य लज्जानिवृत्तिः ॥ भाष्य १.१०:५
* आह किं विनिवृत्तायामपि लज्जायां नियतमेवैकं वासो ग्राह्यमाहोस्विदनियतमिति । उच्यते अनियतं यस्मादाह ॥ भाष्य १.१०:६
**********************************************
अवासा वा ॥ १.११ ॥
* अत्र अकारो वासःप्रतिषेधे वर्तते । अवाससा नग्नेन यथा जातेन निष्परिग्रहेण भवितव्यम् । आह अवासस्त्वे किं ते प्रयोजनम् । तद्वाच्यमेकवासस्त्ववत् । तदुच्यते निष्परिग्रहार्थममङ्गलख्यापनार्थं चेति प्रयोजनद्वयं द्रष्टव्यम् । वाशब्दः शक्त्यशक्त्योर्विचारणे । यद्यशक्तस्तदा अनग्नेनैकवाससा भाव्यम् । यदि शक्तस्तदा अवाससा नग्नेन यथाजातेन निष्परिग्रहेण भवितव्यमित्यर्थः । न तु वा विकल्पे । विकल्पार्थासंभवादित्यर्थः ॥ भाष्य १.११:१
* आह तस्मिन्नायतने प्रतिवसता किमा देहपातादनिर्गच्छतैव स्थेयं ध्यानैकनिष्ठेन शिलावदाहोस्विद्दृष्टोऽस्यायतनान्निर्गमः भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादिप्रवेशो वा । उच्यते दृष्टः । यस्मात् ॥ भाष्य १.११:२
**********************************************
मूत्रपुरीषं नावेक्षेत् ॥ १.१२ ॥
* अत्र मूत्रं च पुरीषं च मूत्रपुरीषम् । चार्थे द्वंद्वसमासः अत्र मूत्रं नाम यदेतदुदरपर्युषितं निःसरति बहिः स्रवति तन्मूत्रम् ॥ भाष्य १.१२:१
* मोचनान्मूत्रम् ॥ भाष्य १.१२:२
* मूत्रत्वाभिसम्बन्धाद्धि मूत्रं लोकादिप्रसिद्धमित्यर्थः ॥ भाष्य १.१२:३
* पुरीषं नाम यदेतत्पीतखादितावलीढानामाहारविशेषाणामाध्यात्मिकेन अग्निना परिपक्वमपानेन स्खलति तत्पुरीषम् ॥ भाष्य १.१२:४
* पुरान्निर्गतत्वात्पुरीषत्वाभिसम्बन्धाद्वा पुरीषं लोकादिप्रसिद्धमित्यर्थः ॥ भाष्य १.१२:५
* नकारो दर्शनप्रतिषेधे ॥ भाष्य १.१२:६
* न द्रष्टव्यमित्यर्थः ॥ भाष्य १.१२:७
* अव इति अपवर्जनं नाम प्रतिषेधे जातिग्रहणेन्द्रियान्तरप्रतिषेधे चेत्यर्थः ॥ भाष्य १.१२:८
* ईक्ष दर्शने ॥ भाष्य १.१२:९
* यदेतन्निजं बुद्धीन्द्रियं चक्षुरनेन चक्षुषा अनया बुद्ध्या मनुष्यादीनां मूत्रपुरीषं न द्रष्टव्यम् ॥ भाष्य १.१२:१०
* न तु गवादीनामित्यर्थः ॥ भाष्य १.१२:११
* आह किं मूत्रपुरीषसंदर्शनमात्रमेवास्य प्रतिषिध्यते ॥ भाष्य १.१२:१२
* उच्यते न ॥ भाष्य १.१२:१३
* यस्मादाह ॥ भाष्य १.१२:१४
**********************************************
स्त्रीशूद्रं नाभिभाषेत् ॥ १.१३ ॥
* अत्र स्त्री च शूद्रश्च स्त्रीशूद्रम् ॥ भाष्य १.१३:१
* चार्थे द्वंद्वसमासः ॥ भाष्य १.१३:२
* अत्र स्त्री नाम सेयं लोकप्रसिद्धा स्तनजघनकेशवती हावभावविलासयुक्ता पुरुषभावस्वभाविका दिव्या मानुषा अतिरतिरसा विषयमूर्तिरिति कृत्वा प्रतिषिध्यते ॥ भाष्य १.१३:३
* अनुभाषणपूर्विका चास्याः प्राप्तिर्भविष्यतीत्यतः स्त्री नाभिभाषितव्येत्यर्थः ॥ भाष्य १.१३:४
* शूद्रो नामायं लोकादिप्रसिद्धस्त्रिवर्णपरिचारकः ॥ भाष्य १.१३:५
* शोचनाद्द्रोहणाच्च शूद्रः ॥ भाष्य १.१३:६
* स खल्वदयालुरिति कृत्वा प्रतिषिध्यते ॥ भाष्य १.१३:७
* किमर्थम् ॥ भाष्य १.१३:८
* तेनाक्रुष्टश्चाभिहतश्च वा क्रुद्धस्तद्वधार्थं प्रवर्तते अतो जातिज्ञानतपःश्रुतहानिर्भवति ॥ भाष्य १.१३:९
* सूचिते चावमानाद्यभावेऽवमानाद्यभावात्सूचिवृद्धयोरभावः ॥ भाष्य १.१३:१०
* अकलुषसूत्रे चास्य दोषनिर्देशं करिष्यामः ॥ भाष्य १.१३:११
* नकारो भाषणप्रतिषेधे ॥ भाष्य १.१३:१२
* नाभिभाषितव्यमित्यर्थः ॥ भाष्य १.१३:१३
* अभिशब्दः प्रसङ्ग इति ॥ भाष्य १.१३:१४
* प्रतिषेधे जातिग्रहणे चेतरप्रतिषेधे चेत्यर्थः ॥ भाष्य १.१३:१५
* भाष व्यक्तायां वाचि ॥ भाष्य १.१३:१६
* यदेतत्कर्मेन्द्रियं वागनया वाण्या इति ॥ भाष्य १.१३:१७
* अतः स्त्रीशूद्रं नाभिभाषितव्यमित्यर्थः ॥ भाष्य १.१३:१८
* आह नावेक्षेन्नाभिभाषेदित्युक्तेऽथ किमनेन साधकेनान्धमूकवदवस्थातव्यमिति ॥ भाष्य १.१३:१९
* उच्यते न ॥ भाष्य १.१३:२०
* यस्मादाह ॥ भाष्य १.१३:२१
**********************************************
यद्यवेक्षेद्यद्यभिभाषेत् ॥ १.१४ ॥
* अत्र यदि यदि इत्याशङ्कायाम् ॥ भाष्य १.१४:१
* नाभिभाषेदिति वचनान्निषिद्धेऽप्यर्थे गुर्वर्थमात्मार्थं वा भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादीन् प्रविष्टस्य विण्मूत्रयोः स्त्रीशूद्रयोश्च दर्शनमभिभाषणं च भविष्यतीति कृत्वा ॥ भाष्य १.१४:२
* अत एतदुक्तं सर्वज्ञेन भगवता यद्यवेक्षेद्यद्यभिभाषेदिति ॥ भाष्य १.१४:३
* अवश्यं भवेदित्यर्थः ॥ भाष्य १.१४:४
* आह दृष्टे चाभिभाषिते चोपहतेन निर्घातनं किं कर्तव्यम् ॥ भाष्य १.१४:५
* तदुच्यते उपस्पर्शनम् ॥ भाष्य १.१४:६
* यस्मात् ॥ भाष्य १.१४:७
**********************************************
उपस्पृश्य ॥ १.१५ ॥
* अत्र उप इत्यभ्युपगमे ॥ भाष्य १.१५:१
* अभ्युपगमनेन कलुषमतिनेत्यर्थः ॥ भाष्य १.१५:२
* स्पृश्य इति भस्मद्रव्यगात्रसंयोजनमेव ॥ भाष्य १.१५:३
* उपस्पृश्येति स्नानपर्यायः ॥ भाष्य १.१५:४
* सचैलोदकस्पर्शनवत् ॥ भाष्य १.१५:५
* स च भस्मना कर्तव्यः नाद्भिः ॥ भाष्य १.१५:६
* कस्मात् ॥ भाष्य १.१५:७
* पूर्वोत्तरव्याघातात् ॥ भाष्य १.१५:८
* स्नानस्याप्रसङ्गाच्च ॥ भाष्य १.१५:९
* उपस्पृश्येति निष्ठा ॥ भाष्य १.१५:१०
* आह उपस्पृश्य यदि कलुषं न क्षीणं स्यात्ततो निर्घातनं किं कर्तव्यम् ॥ भाष्य १.१५:११
* तदुच्यते साकाङ्क्षत्वान्निष्ठाशब्दस्य प्राणायामः कर्तव्यः ॥ भाष्य १.१५:१२
* यस्मादाह ॥ भाष्य १.१५:१३
**********************************************
प्राणायामं कृत्वा ॥ १.१६ ॥
* अत्र प्राणो नाम य एष मुखनासिकाभ्यां निःसरति वायुरेष प्राणः ॥ भाष्य १.१६:१
* तस्य आयामो निग्रहो निरोधः स प्राणायामः ॥ भाष्य १.१६:२
* स च पुरुषवृत्तिर्द्रष्टव्यः ॥ भाष्य १.१६:३
* कस्मात् ॥ भाष्य १.१६:४
* ज्ञानेच्छाप्रयत्नपूर्वकत्वात्प्राणायामस्य च ॥ भाष्य १.१६:५
* एकोद्धातो द्विरुद्धातो वा ॥ भाष्य १.१६:६
* तथा विंशतिमात्रश्चतुर्विंशतिमात्रस्त्रिंशन्मात्रो वा ॥ भाष्य १.१६:७
* मात्रा त्वक्षिनिमेषकालः ॥ भाष्य १.१६:८
* स यथाशक्ति यथाबलं कर्तव्यः ॥ भाष्य १.१६:९
* तस्मादुपस्पृश्य पद्मकस्वस्तिकोपस्थाञ्जलिकार्धचन्द्रपीठकदण्डायतसर्वतोभद्रादीनामन्यतमेनासनबन्धेन प्राङ्मुख उदङ्मुखो वा उपविश्यैतान्यङ्गानि कृत्वा ग्रीवामुन्नाम्य पूरणपूर्वको वा रेचकपूर्वको वा तावत्कर्तव्यो यावन्निगृहीता वायवो ध्यानीभूतश्च भवति ॥ भाष्य १.१६:१०
* तत्र ध्यानीभूतो नाम यदा दन्तिवदन्तःशरीरं पूर्णं भवति ॥ भाष्य १.१६:११
* निगृहीतानां तु लक्षणं यदा कूर्मवदन्तःशरीरे उच्छ्वासप्रत्युच्छ्वासा वर्तन्ते स्वच्छेन्द्रियश्च भवति तदा मन्तव्या निगृहीता वायव इति ॥ भाष्य १.१६:१२
* ततः शनैः शनैर्मोक्तव्या नासिकया यथोत्पलपत्त्रमपि नासापुटस्थं न कम्पयति ॥ भाष्य १.१६:१३
* तदत्र प्रश्नाक्रान्तौ क्रमेणाक्रमितव्यः अन्तर्भावेऽन्तरे वायवो भावयितव्याः ॥ भाष्य १.१६:१४
* अन प्राणने ॥ भाष्य १.१६:१५
* आङिति आसनबन्धनिभृतनिगृहीतकलुषक्षपणविसर्गादिमर्यादामधिकुरुते ॥ भाष्य १.१६:१६
* यमु बन्धने ॥ भाष्य १.१६:१७
* बन्धयितव्याः ॥ भाष्य १.१६:१८
* डुकृञ्करणे द्रष्टव्यः ॥ भाष्य १.१६:१९
* त्वा इति कर्मनिष्ठायाम् ॥ भाष्य १.१६:२०
* विच्छेदवदित्यर्थः ॥ भाष्य १.१६:२१
* आह अथ कृते प्राणायामे यदि कलुषं न क्षीणं स्यात्ततोऽनेन किं कर्तव्यम् ॥ भाष्य १.१६:२२
* तदुच्यते जप्यम् ॥ भाष्य १.१६:२३
* यस्मादाह ॥ भाष्य १.१६:२४
**********************************************
रौद्रीं गायत्रीं बहुरूपीं वा जपेत् ॥ १.१७ ॥
* अत्र त्वाशब्दसामर्थ्याद्गम्यते प्राणसंयमेन समं जप्यं कर्तव्यम् ॥ भाष्य १.१७:१
* उपस्पर्शनवत् ॥ भाष्य १.१७:२
* तस्मादत्र रौद्री नाम तत्पुरुषा ॥ भाष्य १.१७:३
* रौद्री च कस्मात् ॥ भाष्य १.१७:४
* रुद्रस्योपस्थापकत्वाद्रौद्री ॥ भाष्य १.१७:५
* रुद्रो वास्यां चिन्त्यते रुद्रप्रापकत्वाद्वा रौद्री ॥ भाष्य १.१७:६
* आह सद्योजातादिबहुप्रकारा तत्र का सा रौद्री ॥ भाष्य १.१७:७
* तदुच्यते गायत्री ॥ भाष्य १.१७:८
* अत्र या रौद्री सा गायत्री ॥ भाष्य १.१७:९
* गायत्री च कस्मात् ॥ भाष्य १.१७:१०
* गीता गातारं त्रायत इति ॥ भाष्य १.१७:११
* गायत्रे वा छन्दसि वर्तत इति गायत्री ॥ भाष्य १.१७:१२
* अत्र रौद्रीग्रहणाद्वैदिक्यादिगायत्रीप्रतिषेधः ॥ भाष्य १.१७:१३
* इह तु गायत्रीग्रहणात्सद्योजातादीनां प्रतिषेधः ॥ भाष्य १.१७:१४
* गायत्रीमिति कर्म ॥ भाष्य १.१७:१५
* बहुरूपी नामाघोरा ॥ भाष्य १.१७:१६
* बहुरूपी च कस्मात् ॥ भाष्य १.१७:१७
* बहुरूपस्योक्तपरिग्रहेष्वाकारेषु वर्तत इति बहुरूपी ॥ भाष्य १.१७:१८
* बहुरूपो वा अस्यां चिन्त्यत इति बहुरूपप्रापकत्वाद्बहुरूपी ॥ भाष्य १.१७:१९
* बहुरूपीमिति कर्म ॥ भाष्य १.१७:२०
* वा इति विकल्पे ॥ भाष्य १.१७:२१
* उभयोरपि ब्रह्मत्वमुभयोरपि तुल्यार्थसाधकत्वमुभे अपि महेश्वरपरिगृहीते इत्यत एकामनेकां वा उपस्पृश्य जपेदिति मानसी क्रियेत्यर्थः ॥ भाष्य १.१७:२२
* आह उपस्पर्शनप्राणायामजप्याधिकृतस्य का कार्यनिष्पत्तिः ॥ भाष्य १.१७:२३
* तदुच्यते अकलुषत्वम् ॥ भाष्य १.१७:२४
* यस्मादाह ॥ भाष्य १.१७:२५
**********************************************
अकलुषमतेः ॥ १.१८ ॥
* इति ॥ भाष्य १.१८:१
* अत्र अकलुषा यस्य मतिः सोऽयमकलुषमतिः ॥ भाष्य १.१८:२
* बहुव्रीहिसमासः ॥ भाष्य १.१८:३
* अत्राकारः कलुषप्रतिषेधे ॥ भाष्य १.१८:४
* भावकालुष्यमेवात्र कालुष्यम् ॥ भाष्य १.१८:५
* कथं गम्यते ॥ भाष्य १.१८:६
* प्राक्सिद्धत्वात् ॥ भाष्य १.१८:७
* इह च पुरस्तादुक्तम् ॥ भाष्य १.१८:८
* नावेक्षेन्नाभिभाषेदित्युक्ते अर्थापन्नं दृष्टे चाभिभाषिते च द्वेषेच्छाक्रोधा उत्पद्यन्ते ॥ भाष्य १.१८:९
* ते चोत्पन्ना मतावभिव्यज्यन्ते ॥ भाष्य १.१८:१०
* कालतिलकादिदर्शनवत् ॥ भाष्य १.१८:११
* अभिव्यक्तेश्चोच्यते कलुषितोऽहं व्याहतोऽहं मलिनीकृतोऽहमिति ॥ भाष्य १.१८:१२
* अतो द्वेषेच्छाक्रोधनिमित्तत्वान्मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते ॥ भाष्य १.१८:१३
* यदा त्वेते द्वेषादयो भावा बीजक्षये सति नोत्पद्यन्ते तदा परं भावशौचं प्रत्यवगन्तव्यम् ॥ भाष्य १.१८:१४
* कलुषमतेरिति ॥ भाष्य १.१८:१५
* नैमित्तिकं च कलुषम् ॥ भाष्य १.१८:१६
* न च निमित्तानित्यत्वान्नैमित्तिकं नित्यं भवति ॥ भाष्य १.१८:१७
* बीजक्षयेऽङ्कुरवत् ॥ भाष्य १.१८:१८
* न च यत्रैव कलुषमुत्पद्यते तत्रैवोपस्पर्शनादीनि कर्तव्यानि ॥ भाष्य १.१८:१९
* आयतने तु कर्तव्यानि ॥ भाष्य १.१८:२०
* अथापि कलुषमुत्पन्नं प्रध्वस्तं स्यात्तथापि तदर्थं न कर्तव्यानि ॥ भाष्य १.१८:२१
* यदा तु तदवस्थितं सम्भवति शिरोरोगादिवत्तदा कर्तव्यानि ॥ भाष्य १.१८:२२
* अत्र मतिरिति बुद्धिरित्यनर्थान्तरम् ॥ भाष्य १.१८:२३
* अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत इत्यर्थः ॥ भाष्य १.१८:२४
* आह अकलुषमतिना साधकेन किं कर्तव्यम् ॥ भाष्य १.१८:२५
* तदुच्यते चरितव्यम् ॥ भाष्य १.१८:२६
* यस्मादाह ॥ भाष्य १.१८:२७
**********************************************
चरतः ॥ १.१९ ॥
* अत्र चरतः इति धर्मार्जनमधिकुरुते ॥ भाष्य १.१९:१
* भैक्ष्यचरणवत्तपश्चरितव्यं विहर्तव्यं तपसोऽर्जनं कर्तव्यं न स्थेयमित्यर्थः ॥ भाष्य १.१९:२
* चरत इति वर्तमानकालः ॥ भाष्य १.१९:३
* अकलुषमतेश्चरतो वा अस्य का कार्यनिष्पत्तिः ॥ भाष्य १.१९:४
* तदुच्यते ॥ भाष्य १.१९:५
**********************************************
ततोऽस्य योगः प्रवर्तते ॥ १.२० ॥
* अत्र ततः इति चर्यापदेशे ॥ भाष्य १.२०:१
* ततः चर्याभिनिवेशादनन्तरं तज्जन्यधर्मादित्यर्थः ॥ भाष्य १.२०:२
* अस्य इति साधकापदेशे ॥ भाष्य १.२०:३
* योऽयमकलुषमतिश्चरति तस्येत्यर्थः ॥ भाष्य १.२०:४
* आह किं भवतीति ॥ भाष्य १.२०:५
* तदुच्यते योगः प्रवर्तते ॥ भाष्य १.२०:६
* अध्ययनध्यानादिलक्षणः क्रियायोगश्चरतः प्रवर्तत इत्यर्थः ॥ भाष्य १.२०:७
* अत्रात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ भाष्य १.२०:८
* प्र इति आदिकर्मणि आरम्भे भवति ॥ भाष्य १.२०:९
* यदा अकलुषमतिश्चरति तदा प्रवर्तत इत्यर्थात् ॥ भाष्य १.२०:१०
* तत्र यतः प्रवर्तते ॥ भाष्य १.२०:११
* विषयेभ्यः ॥ भाष्य १.२०:१२
* प्रत्याहृतचित्तस्य यत्प्रवर्तते तद्योगः ॥ भाष्य १.२०:१३
* यथा प्रवर्तते ॥ भाष्य १.२०:१४
* क्रमशः ॥ भाष्य १.२०:१५
* येन प्रवर्तते ॥ भाष्य १.२०:१६
* तपसा प्रवर्तते ॥ भाष्य १.२०:१७
* यस्य प्रवर्तते ॥ भाष्य १.२०:१८
* आत्मनः साधकस्य ॥ भाष्य १.२०:१९
* यस्मिन् प्रवर्तते ॥ भाष्य १.२०:२०
* योऽयमात्मन्यात्मभावः स महेश्वरे प्रवर्तत इत्यर्थः ॥ भाष्य १.२०:२१
* एवं यस्माद्द्रव्यावस्थानकालदेशक्रियाप्रयोगोच्चावचप्रयोजनयमनियमवृत्तिवसत्यर्थप्राणायामप्रत्याहारनिमित्तप्रतिषेधसंशयनिर्घातनशौचनियोगफलोपायाश्च व्याख्याताः अतोऽत्रायतनप्रकरणं समाप्तम् ॥ भाष्य १.२०:२२
* अत्राह किं प्रयोजननिष्ठं तन्त्रम् ॥ भाष्य १.२०:२३
* उच्यते न ॥ भाष्य १.२०:२४
* योगनिष्ठम् ॥ भाष्य १.२०:२५
* यस्मादाह युक्तोत्तरे सत्यपि पदार्थवैलक्षण्ये रङ्गपताकादिवच्छिष्यप्रलोभनार्थमिदमारभ्यते ॥ भाष्य १.२०:२६
**********************************************
दर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते ॥ १.२१ ॥
* अत्र दूरं नाम यदेतद्दर्शनाद्यं विकरणान्तं माहेश्वरमैश्वर्यमनेन कदाचित्प्राप्तपूर्वकं तस्मिंस्तत्प्राप्तौ च ॥ भाष्य १.२१:१
* दर्शनादिष्वाधिकारिकोऽत्र दूरशब्दो द्रष्टव्यः ॥ भाष्य १.२१:२
* तत्प्राप्तिश्च योगप्रवृत्तितः ॥ भाष्य १.२१:३
* आह यद्येवं सूत्रतोऽभिधीयन्तां दर्शनादयः ॥ भाष्य १.२१:४
* तदुच्यन्ते ॥ भाष्य १.२१:५
* दर्शनमित्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्य १.२१:६
* द्रष्टा दर्शनं दृश्यमिति ॥ भाष्य १.२१:७
* अत्र द्रष्टा सिद्धः ॥ भाष्य १.२१:८
* दर्शनमस्य सिद्धिः ज्ञानम् ॥ भाष्य १.२१:९
* द्रष्टव्यानि रूपाणि ॥ भाष्य १.२१:१०
* तत्कृत्स्नेषु विषयेषु समासविस्तरविभागविशेषतश्च दर्शनं प्रवर्तत इत्यर्थः ॥ भाष्य १.२१:११
* तथा श्रवणमित्यत्रापि नस्त्रिकं चिन्त्यन्ते ॥ भाष्य १.२१:१२
* श्रोता श्रवणं श्रव्यमिति ॥ भाष्य १.२१:१३
* तत्र श्रोता सिद्धः ॥ भाष्य १.२१:१४
* श्रवणमस्य सिद्धिर्ज्ञानम् ॥ भाष्य १.२१:१५
* श्रव्याः शब्दाः ॥ भाष्य १.२१:१६
* तदस्य सिद्धस्य श्राव्येष्वर्थेषु समासविस्तरविभागविशेषतश्च श्रवणं प्रवर्तत इत्यर्थः ॥ भाष्य १.२१:१७
* तथा मननमित्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्य १.२१:१८
* मन्ता मननं मन्तव्यमिति ॥ भाष्य १.२१:१९
* अत्र मन्ता सिद्धः ॥ भाष्य १.२१:२०
* मननमस्य सिद्धिर्ज्ञानम् ॥ भाष्य १.२१:२१
* मन्तव्यानि परचित्तानि ॥ भाष्य १.२१:२२
* देवमनुष्यतिर्यग्योनीनां धर्मार्थकाममोक्षचित्तानां मन्ता भवतीत्यर्थः ॥ भाष्य १.२१:२३
* तथा विज्ञानमित्यत्रापि नस्त्रिकं चिन्त्यन्ते ॥ भाष्य १.२१:२४
* विज्ञाता विज्ञानं विज्ञेयमिति ॥ भाष्य १.२१:२५
* तत्र विज्ञाता सिद्धः ॥ भाष्य १.२१:२६
* विज्ञानमस्य सिद्धिर्ज्ञानम् ॥ भाष्य १.२१:२७
* विज्ञेया वृत्तयः ॥ भाष्य १.२१:२८
* अस्य सिद्धस्य प्रवर्तन्ते स्वतः प्रादुर्भवन्तीत्यर्थः ॥ भाष्य १.२१:२९
* अस्य ज्ञानमस्ति नेति ॥ भाष्य १.२१:३०
* उच्यते अस्ति ॥ भाष्य १.२१:३१
* यस्मादाह ॥ भाष्य १.२१:३२
**********************************************
सर्वज्ञता ॥ १.२२ ॥
* अत्रोक्तेषु दृश्यश्रव्यादिषु च अशेषेषु सिद्धेश्वरपश्वादिषु निर्विशेषवाची सर्वशब्दो द्रष्टव्यः ॥ भाष्य १.२२:१
* ज्ञता इत्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्य १.२२:२
* ज्ञाता ज्ञानं ज्ञेयमिति ॥ भाष्य १.२२:३
* तत्र ज्ञाता सिद्धः ज्ञानमस्य सिद्धिर्ज्ञानम् ॥ भाष्य १.२२:४
* ज्ञेयं कार्यं कारणं सिद्धाश्चेति ॥ भाष्य १.२२:५
* तस्मादेका ज्ञानशक्तिरपरिमितेन ज्ञेयेनानेकेनानेकधोपचर्यते ॥ भाष्य १.२२:६
* स्फटिकादित्यवच्चास्य सर्वतः प्रवर्तत इत्यर्थः ॥ भाष्य १.२२:७
* आह किमयं सिद्धो ज्ञानमात्रसंतुष्टः पङ्गुवदुत क्रियाशक्तिरप्यस्ति नेति ॥ भाष्य १.२२:८
* उच्यते अस्ति ॥ भाष्य १.२२:९
* यस्मादाह ॥ भाष्य १.२२:१०
**********************************************
मनोजवित्वम् ॥ १.२३ ॥
* अत्रागन्तुकत्वात्सर्वज्ञानशक्तिरुक्ता ॥ भाष्य १.२३:१
* न तु ऋषित्वविप्रत्ववदित्यर्थः ॥ भाष्य १.२३:२
* यस्मातत्र मनोजववदित्येवं प्राप्ते समानोपमानत्वान्मनोजवित्वमित्युक्तम् ॥ भाष्य १.२३:३
* मनोजववत् ॥ भाष्य १.२३:४
* आह ॥ भाष्य १.२३:५
* कोऽर्थः सूत्रस्य ॥ भाष्य १.२३:६
* उच्यते यादृङ्मनसो जवित्वमाशुकारित्वमीदृशमस्य सिद्धस्य कर्तृत्वे शीघ्रत्वम् ॥ भाष्य १.२३:७
* न चास्य प्रजापतिवत्तपोनिमित्तत्वाद्भावोत्तरा प्रवृत्तिः ॥ भाष्य १.२३:८
* किंतु भावस्य बलीयस्त्वात्प्रवृत्तेरुत्पन्नस्वभावः करोमीति कृतमेव भवति ॥ भाष्य १.२३:९
* विनाशयामीति विनष्टं वा ॥ भाष्य १.२३:१०
* कस्मात् ॥ भाष्य १.२३:११
* दृक्क्रिययोरप्रतीघातत्वात् ॥ भाष्य १.२३:१२
* त्वमिति भावनिर्देशाद्गम्यते वित्तमस्य शक्तिः सामर्थ्यम् ॥ भाष्य १.२३:१३
* ऐश्वर्यमीदृशमित्यर्थः ॥ भाष्य १.२३:१४
* आह किमस्य सिद्धस्य कर्तव्यं करणं कुतो वा करोति ॥ भाष्य १.२३:१५
* तदुच्यते ॥ भाष्य १.२३:१६
**********************************************
कामरूपित्वम् ॥ १.२४ ॥
* कामरूपी इत्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्य १.२४:१
* कामी कामः काम्यमिति ॥ भाष्य १.२४:२
* तत्र कामी सिद्धः ॥ भाष्य १.२४:३
* कामोऽस्येच्छा ॥ भाष्य १.२४:४
* काम्यानि रूपाणि ॥ भाष्य १.२४:५
* कथम् ॥ भाष्य १.२४:६
* कमु इच्छायां भवति ॥ भाष्य १.२४:७
* रूपाणि यावन्ति यादृशानि चेच्छति तावन्ति तादृशानि च करोति ॥ भाष्य १.२४:८
* आत्मायत्तानि चास्य रूपकरणानि पृथिव्यादीनि ॥ भाष्य १.२४:९
* विभुत्वाच्च करणानां यत्र यत्र रूपाण्यभिनिर्वर्तयति तत्र तत्र चास्य बुद्ध्यादीनां करणानां वृत्तिलाभो भवति ॥ भाष्य १.२४:१०
* चक्षुरादिवद्दृष्टान्तात् ॥ भाष्य १.२४:११
* नाधिष्ठाता इति चेत् ॥ भाष्य १.२४:१२
* तच्च न ॥ भाष्य १.२४:१३
* कस्मात् ॥ भाष्य १.२४:१४
* यस्मादाह रूपीति ॥ भाष्य १.२४:१५
* अत्र रूपाण्यधितिष्ठतीति रूपी ॥ भाष्य १.२४:१६
* दण्डिवत् ॥ भाष्य १.२४:१७
* रूपिवचनाच्च सर्वेषामेव रूपाणां युगपदेवाधिष्ठाता भवति ॥ भाष्य १.२४:१८
* विभुत्वादभिन्नो महेश्वरात् ॥ भाष्य १.२४:१९
* इदं च रुद्रसायुज्यनिर्देशाद्गम्यते ॥ भाष्य १.२४:२०
* त्वमिति भावनिर्देशाद्गम्यते वित्तमस्य शक्तिः सामर्थ्यम् ॥ भाष्य १.२४:२१
* ऐश्वर्यमीदृशमित्यर्थः ॥ भाष्य १.२४:२२
* आह परिमितेषु कृत्येषु अशक्तिदर्शनात्संदेहः ॥ भाष्य १.२४:२३
* अथ किमयं सिद्धस्तेषां स्वकृतानां रूपाणां संहारे शक्तः उत विश्वामित्रवदशक्तः इति ॥ भाष्य १.२४:२४
* उच्यते ॥ भाष्य १.२४:२५
* यस्मादाह ॥ भाष्य १.२४:२६
**********************************************
विकरणः ॥ १.२५ ॥
* अत्र विः विनाशे विनाकरणे ॥ भाष्य १.२५:१
* विकरणो भवति ॥ भाष्य १.२५:२
* विशिखविरथवत् ॥ भाष्य १.२५:३
* करणप्रतिषेधात्कार्यप्रतिषेधः कृतो भवति ॥ भाष्य १.२५:४
* कस्मात् ॥ भाष्य १.२५:५
* विशिष्टत्वाद्ग्राहकत्वात्सूक्ष्मत्वाच्च करणानाम् ॥ भाष्य १.२५:६
* तस्माद्विकरण इति कैवल्यम् ॥ भाष्य १.२५:७
* आह अविशेषादिह सांख्ययोगादीनामपि सहैश्वर्येण कार्यकरणत्यागं कृत्वा कैवल्यनिष्ठा ॥ भाष्य १.२५:८
* इहापि च शास्त्रे ॥ भाष्य १.२५:९
* कथं तस्मादविशेषः ॥ भाष्य १.२५:१०
* अथ मतिः निरतिशये मोक्षे नास्ति वैषम्यं तथाप्यतिदानादिभिः साध्यसाधननिष्ठातोऽथ विशेषः उच्यते ॥ भाष्य १.२५:११
* नाविशेषः ॥ भाष्य १.२५:१२
* यस्मादाह ॥ भाष्य १.२५:१३
**********************************************
धर्मित्वं च ॥ १.२६ ॥
* अत्र गुणधर्मेणायं धर्मी भवति ॥ भाष्य १.२६:१
* यदेतद्दर्शनाद्यं विकरणान्तं माहेश्वरमैश्वर्यमस्येशप्रसादात्स्वगुणसंवृत्तं तेनायं गुणधर्मेण धर्मी भवति ॥ भाष्य १.२६:२
* कुतः ॥ भाष्य १.२६:३
* त्वमिति भावनिर्देशाद्गम्यते ॥ भाष्य १.२६:४
* ऋतेऽपि कार्यकरणे ज्ञाता कर्ता च भवति ॥ भाष्य १.२६:५
* ततश्च कैवल्याद्याः सर्वनिष्ठा विशेषिता भवन्ति ॥ भाष्य १.२६:६
* चशब्दोऽत्र ज्ञानक्रियाशक्तिसमारोपणार्थः ॥ भाष्य १.२६:७
* एवमत्रास्य सिद्धस्य कामरूपिविकरणवचनात्स्वकृतेषु रूपेषु प्रभुत्वं विभुत्वं गुणधर्मित्वं च व्याख्यातम् ॥ भाष्य १.२६:८
* एतद्युक्तोत्तरे प्रसादाद्गुणाः प्रवर्तन्त इत्यर्थः ॥ भाष्य १.२६:९
* अत्रेदमाधिकारिकमैश्वर्यप्रकरणं परिसमाप्तमिति ॥ भाष्य १.२६:१०
* आह किं परकृतेष्वपि देवमनुष्यतिर्यग्योनिरूपेष्वस्य सिद्धस्य प्रभुत्वं विभुत्वं चास्ति नेति ॥ भाष्य १.२६:११
* उच्यते अस्ति ॥ भाष्य १.२६:१२
* यस्मादाह ॥ भाष्य १.२६:१३
**********************************************
सर्वे चास्य वश्या भवन्ति ॥ १.२७ ॥
* अत्र सर्वे निरवशेषाः पशुधर्माण इत्यर्थः ॥ भाष्य १.२७:१
* चशब्दः स्वकृतपरकृतरूपसमुच्चयार्थः ॥ भाष्य १.२७:२
* परकृतेष्वपि देवादिरूपेषु प्रभुत्वं विभुत्वं चास्तीति ॥ भाष्य १.२७:३
* अस्य इति सिद्धस्येत्यर्थः ॥ भाष्य १.२७:४
* वश्याः विधेयाः ॥ भाष्य १.२७:५
* वशवर्तिनश्च भवन्तीत्यर्थः ॥ भाष्य १.२७:६
* भवन्ति इति भूतार्थवादो निःसंशयम् ॥ भाष्य १.२७:७
* आह किमयं सिद्धस्तेषां कदाचिद्वश्यो भवति नेति ॥ भाष्य १.२७:८
* उच्यते न ॥ भाष्य १.२७:९
* यस्मादाह ॥ भाष्य १.२७:१०
**********************************************
सर्वेषां चावश्यो भवति ॥ १.२८ ॥
* अत्रापि सर्वशब्दः पशुष्वेव ॥ भाष्य १.२८:१
* सर्वेषामिति न्यूनपरिग्रहे ॥ भाष्य १.२८:२
* चशब्दोऽभ्यधिकत्वे ॥ भाष्य १.२८:३
* अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ॥ भाष्य १.२८:४
* अवश्य इति ॥ भाष्य १.२८:५
* अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति ॥ भाष्य १.२८:६
* भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्य १.२८:७
* यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां शक्तेरवश्यो भवतीत्यर्थः ॥ भाष्य १.२८:८
* आह किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति आहोस्विद्धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् ॥ भाष्य १.२८:९
* गुरोः शक्तः शिष्यो नाध्याक्रान्तः ॥ भाष्य १.२८:१०
* यस्मादाह ॥ भाष्य १.२८:११
**********************************************
सर्वांश्चाविशति ॥ १.२९ ॥
* अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः ॥ भाष्य १.२९:१
* चशब्दः पूर्वोक्तसमुच्चये ॥ भाष्य १.२९:२
* न केवलमस्य ते वश्याः किं त्वावेश्याश्चेति ॥ भाष्य १.२९:३
* अत्र आङिति आवेशनमर्यादामधिकुरुते ॥ भाष्य १.२९:४
* विश प्रवेशने ॥ भाष्य १.२९:५
* स तस्य ज्ञानक्रिययोर्विभुत्वेऽपि शक्तिसंयोगादाविश्य प्रत्ययलोपं कर्तुं समर्थो भवतीत्यर्थः ॥ भाष्य १.२९:६
* आह किमयं सिद्धस्तेषां कदाचिदावेश्यो भवति नेति ॥ भाष्य १.२९:७
* उच्यते न ॥ भाष्य १.२९:८
* यस्मादाह ॥ भाष्य १.२९:९
**********************************************
सर्वेषां चानावेश्यो भवति ॥ १.३० ॥
* अत्रापि सर्वशब्दः पशुष्वेव ॥ भाष्य १.३०:१
* सर्वेषामिति न्यूनपरिग्रहे ॥ भाष्य १.३०:२
* चशब्दोऽभ्यधिकत्वे ॥ भाष्य १.३०:३
* अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ॥ भाष्य १.३०:४
* अनावेश्य इति ॥ भाष्य १.३०:५
* अकारा भूतपूर्वमावेश्यत्वं प्रतिषेधयति ॥ भाष्य १.३०:६
* अनावेश्यधर्मा भवति ॥ भाष्य १.३०:७
* न व्याधिशेषवदवस्थानं भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्य १.३०:८
* यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां चानावेश्यो भवतीत्यर्थः ॥ भाष्य १.३०:९
* आह किमावेशनमात्र एव शक्तो यक्षरक्षःपिशाचादिवदुत प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं शक्तो भवतीति ॥ भाष्य १.३०:१०
* उच्यते शक्तः ॥ भाष्य १.३०:११
* यस्मादाह ॥ भाष्य १.३०:१२
**********************************************
सर्वे चास्य वध्या भवन्ति ॥ १.३१ ॥
* अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः ॥ भाष्य १.३१:१
* चशब्दः समुच्चये ॥ भाष्य १.३१:२
* न केवलमस्य ते वश्याः आवेश्याश्च किंतु वध्याश्चेति ॥ भाष्य १.३१:३
* अस्य इति सिद्धापदेशे ॥ भाष्य १.३१:४
* वध्या इति ॥ भाष्य १.३१:५
* वध प्राणविप्रयोगे यातनायां च ॥ भाष्य १.३१:६
* प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं समर्थो भवतीत्यर्थः ॥ भाष्य १.३१:७
* भवन्ति इति भूतार्थवादो निःसंशये ॥ भाष्य १.३१:८
* यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वे चास्य वध्या भवन्तीत्यर्थः ॥ भाष्य १.३१:९
* आह किमयं सिद्धस्तेषां कदाचिद्वध्यो भवति नेति ॥ भाष्य १.३१:१०
* उच्यते न ॥ भाष्य १.३१:११
* यस्मादाह ॥ भाष्य १.३१:१२
**********************************************
सर्वेषां चावध्यो भवति ॥ १.३२ ॥
* अत्रापि सर्वशब्दः पशुष्वेव ॥ भाष्य १.३२:१
* सर्वेषामिति न्यूनपरिग्रहे ॥ भाष्य १.३२:२
* चशब्दोऽभ्यधिकत्वे ॥ भाष्य १.३२:३
* अभ्यधिकः उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ॥ भाष्य १.३२:४
* अवध्य इति ॥ भाष्य १.३२:५
* अकारो भूतपूर्वं वध्यत्वं प्रतिषेधयति ॥ भाष्य १.३२:६
* यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां चावध्यो भवतीत्यर्थः ॥ भाष्य १.३२:७
* एवं परकृतेष्वपि देवादिशरीरेषु रूपेषु प्रभुत्वं विभुत्वं च व्याख्यातम् ॥ भाष्य १.३२:८
* अत्रेदं षट्सूत्रीप्रकरणं परिसमाप्तम् ॥ भाष्य १.३२:९
* आह किमस्य सिद्धस्यैतदैश्वर्यं नित्यमाहोस्वित्पार्थिवाप्यतैजसवायव्यव्योममानसाहंकारिकमहदात्मकादिवदनित्यमिति ॥ भाष्य १.३२:१०
* उच्यते नित्यम् ॥ भाष्य १.३२:११
* यस्मादाह ॥ भाष्य १.३२:१२
**********************************************
अभीतः ॥ १.३३ ॥
* अत्र अक्षयादिवचनविरोधादधीतश्चरतीति पाठानुपपत्तिः ॥ भाष्य १.३३:१
* तस्मादतीतानागतवर्तमानकालभयं न विद्यत इत्यतोऽभीतः ॥ भाष्य १.३३:२
* आह अभीतानामपि ब्रह्मादीनां संहारे क्षयः श्रूयते ॥ भाष्य १.३३:३
* तस्मान्नाभीतत्वात्नित्यम् ॥ भाष्य १.३३:४
* अभीतस्य वा किं लक्षणम् ॥ भाष्य १.३३:५
* तदुच्यते ॥ भाष्य १.३३:६
**********************************************
अक्षयः ॥ १.३४ ॥
* अत्र अकारः क्षयप्रतिषेधे ॥ भाष्य १.३४:१
* अत्र क्षयो नाम सति पुरुषनित्यत्वे पूर्वमस्य ब्राह्मणस्य तैस्तैरैश्वर्यैरपकर्षः ॥ भाष्य १.३४:२
* आहंकारिकमहदात्मकादिभिरनित्यो योगः ॥ भाष्य १.३४:३
* अयं तु अनेन नित्येन माहेश्वरेणैश्वर्येण योगात्पुरुषः अक्षयः इत्युपचर्यते ॥ भाष्य १.३४:४
* राजकोशवत्कुटुम्बिद्रव्यवत् ॥ भाष्य १.३४:५
* आह ईश्वराणामपि ययातिप्रभृतीनां जराभिभवनादथ किमयं जीर्यते नेति ॥ भाष्य १.३४:६
* अक्षयस्य वा किं लक्षणम् ॥ भाष्य १.३४:७
* तदुच्यते ॥ भाष्य १.३४:८
**********************************************
अजरः ॥ १.३५ ॥
* अत्र अकारो जरां प्रतिषेधति ॥ भाष्य १.३५:१
* अत्र जरा नाम पलितस्खलित्यादिलक्षणा कार्यस्य दृक्क्रियाशक्तिहानिश्च करणानाम् ॥ भाष्य १.३५:२
* कस्मात् ॥ भाष्य १.३५:३
* तत्फलभोक्तृत्वादयं जीर्यत इत्युपचर्यते ॥ भाष्य १.३५:४
* इदानीं तु कामित्वाद्विकरणधर्मित्वाच्च नास्तीत्यतः अजर इत्युच्यते ॥ भाष्य १.३५:५
* आह अजराणामपि देवादीनां संहारादर्वाङ्मृत्युर्दृश्यते ॥ भाष्य १.३५:६
* अथ किमस्य मृत्युर्विद्यते नेति ॥ भाष्य १.३५:७
* अजरस्य वा किं लक्षणम् ॥ भाष्य १.३५:८
* तदुच्यते ॥ भाष्य १.३५:९
**********************************************
अमरः ॥ १.३६ ॥
* अत्र अकारो मृत्युप्रतिषेधे ॥ भाष्य १.३६:१
* मृङ्प्राणत्यागे ॥ भाष्य १.३६:२
* अत्र प्राणादिवृत्तिनिरोधो मृत्युरित्युच्यते ॥ भाष्य १.३६:३
* कस्मात् ॥ भाष्य १.३६:४
* तत्फलभोक्तृत्वात् ॥ भाष्य १.३६:५
* सोऽस्य कामित्वाद्विकरणधर्मित्वाच्च नास्तीत्यतः ॥ भाष्य १.३६:६
* अमर इत्युच्यते ॥ भाष्य १.३६:७
* तस्मादभीताक्षयादिवचनान्नित्यमैश्वर्यमिति सिद्धम् ॥ भाष्य १.३६:८
* आह ॥ भाष्य १.३६:९
**********************************************
सर्वत्र चाप्रतिहतगतिर्भवति ॥ १.३७ ॥
* सर्वत्र अभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणापि अप्रतिबन्धधर्मित्वमप्रतीघातः ॥ भाष्य १.३७:१
**********************************************
इत्येतैर्गुणैर्युक्तो भगवतो महादेवस्य महागणपतिर्भवति ॥ १.३८ ॥
* इत्येतैः पूर्वोक्तैः अवश्यत्वानावेश्यत्वावध्यत्वाभीतत्वाक्षयत्वाजरत्वामरत्वाप्रतीघातत्वाख्यैः अष्टभिर्गुणैः सिद्धिलक्षणैर्युक्तो भगवतो महादेवस्य महागणपतिर्भवति ॥ भाष्य १.३८:१
* सर्वपशुभ्योऽभ्यधिकत्वमैश्वर्यातिशयान्महत्त्वम् ॥ भाष्य १.३८:२
* गणाः नन्दिमहाकालादयः ॥ भाष्य १.३८:३
* सर्वपश्वादिकार्यस्वामित्वं पतित्वम् ॥ भाष्य १.३८:४
* एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य १.३८:५
**********************************************
अत्रेदं ब्रह्म जपेत् ॥ १.३९ ॥
* बृहच्च तेभ्यः सर्वब्रह्मभ्यः स्वयं भवति ॥ भाष्य १.३९:१
* जपेदिति च मानसक्रिया ॥ भाष्य १.३९:२
* जप्यं प्रत्यवगन्तव्यम् ॥ भाष्य १.३९:३
* उक्तमाह जपयज्ञस्तु यज्ञानां विशिष्टो दशभिर्गुणैः ॥ भाष्य १.३९:४
* उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ भाष्य १.३९:५
* अतो मनसैव जप्तव्यम् ॥ भाष्य १.३९:६
* किमर्थमिति चेत् ॥ भाष्य १.३९:७
* तदुच्यते अधर्मव्युच्छित्त्यर्थं धर्मस्य चाभिवृद्ध्यर्थं तस्य चाकुशलेभ्यो व्यावर्तनार्थं ब्रह्मण्यनवरतपदपङ्क्त्यामुपनिबन्धनार्थं चेत्यर्थः ॥ भाष्य १.३९:८
* आह किं पुनस्तद्ब्रह्मेति ॥ भाष्य १.३९:९
* अत्रोच्यते सद्योजाताद्यम् ॥ भाष्य १.३९:१०
* अथवात्र ब्रह्माध्याययोर्दूरस्थः सम्बन्धः ॥ भाष्य १.३९:११
* कथम् ॥ भाष्य १.३९:१२
* पशुपतेरित्युक्ते संदेहः ॥ भाष्य १.३९:१३
* किंनरपतिसुरपतिप्रजापतिप्रभृतिवदस्यैश्वर्यं कृतमनित्यमागन्तुकं वा ॥ भाष्य १.३९:१४
* किं चास्य जन्म मृत्युर्वा विद्यते नेति ॥ भाष्य १.३९:१५
* उच्यते न ॥ भाष्य १.३९:१६
* यस्मादाह ॥ भाष्य १.३९:१७
**********************************************
सद्योऽजातं प्रपद्यामि ॥ १.४० ॥
* अत्र सद्यः इत्यस्मिन् पदेऽर्थद्वयं चिन्त्यते ॥ भाष्य १.४०:१
* संश्च आद्यश्च ॥ भाष्य १.४०:२
* आप्तिपालनवत् ॥ भाष्य १.४०:३
* अत्र सदिति नित्यत्वे ॥ भाष्य १.४०:४
* कस्मात् ॥ भाष्य १.४०:५
* विनाशहेत्वभावात् ॥ भाष्य १.४०:६
* नित्यं ध्रुवमविनाशि पत्युः पतित्वं नान्येषामित्यतोऽभिधीयते सदिति ॥ भाष्य १.४०:७
* आह किमयमादिमत्त्वे सति नित्यो मोक्षवत् ॥ भाष्य १.४०:८
* उच्यते न ॥ भाष्य १.४०:९
* यस्मादाह आद्यः ॥ भाष्य १.४०:१०
* तद्व्यतिरिक्तस्य ॥ भाष्य १.४०:११
* हेतोरसंभवादाद्यमनागन्तुकं पत्युः पतित्वं नान्येषामित्यर्थः ॥ भाष्य १.४०:१२
* आह किं नित्यानादित्वे सति पुरुषवज्जायते ॥ भाष्य १.४०:१३
* उच्यते न ॥ भाष्य १.४०:१४
* यस्मादाह अजातः ॥ भाष्य १.४०:१५
* अत्र अकारो जन्ममृत्युप्रतिषेधे ॥ भाष्य १.४०:१६
* जन्ममृत्युरहितो भगवान्निरञ्जनः ॥ भाष्य १.४०:१७
* कस्मात् ॥ भाष्य १.४०:१८
* साञ्जनवृत्त्यलाभात् ॥ भाष्य १.४०:१९
* निरभिमानित्वं नान्येषामित्यतः ॥ भाष्य १.४०:२०
* अजातमिति कर्म ॥ भाष्य १.४०:२१
* आह अथैतत्सत्त्वमाद्यत्वमजातत्वं च गुणं कारणे ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्य १.४०:२२
* तदुच्यते प्रपत्तव्यम् ॥ भाष्य १.४०:२३
* यस्मादाह प्रपद्यामि ॥ भाष्य १.४०:२४
* इति साधकापदेशः ॥ भाष्य १.४०:२५
* यथा अग्ने व्रतपते व्रतं चरिष्यामि इति ॥ भाष्य १.४०:२६
* अत्र प्रशब्दः कारणान्तरेषु सत्त्वाद्यत्वाजातत्वप्रतिषेधार्थो भृशार्थश्च ॥ भाष्य १.४०:२७
* तस्मात्सर्वभावानभिष्वङ्गेण तदेव कारणं प्रपत्तव्यम् ॥ भाष्य १.४०:२८
* शरणमभ्युपगन्तव्यमित्यर्थः ॥ भाष्य १.४०:२९
* आह अत्र प्रपन्नः किं करिष्यति ॥ भाष्य १.४०:३०
* किं वा दास्यति ॥ भाष्य १.४०:३१
* तदुच्यते पूजां करिष्यत्यात्मानं च दास्यति ॥ भाष्य १.४०:३२
* यथाह ॥ भाष्य १.४०:३३
**********************************************
सद्योऽजाताय वै नमः ॥ १.४१ ॥
* आह सत्त्वमाद्यत्वमजातत्वं च पूर्वोक्तम् ॥ भाष्य १.४१:१
* सद्योऽजाताय इति चतुर्थी ॥ भाष्य १.४१:२
* वैशब्दः सम्भावने ॥ भाष्य १.४१:३
* सत्त्वमाद्यत्वमजातत्वं च धर्मान् संभाव्य ब्रवीति सद्योऽजाताय वै नमः ॥ भाष्य १.४१:४
* नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य १.४१:५
* नमस्कारेणात्मानं प्रयच्छति पूजां च प्रयुङ्क्त इत्यर्थः ॥ भाष्य १.४१:६
* आह किं प्रयोजनमात्मानं महेश्वराय प्रयच्छति ॥ भाष्य १.४१:७
* किमस्य दुःखं वा ॥ भाष्य १.४१:८
* किं वा महेश्वरान्मृगयते ॥ भाष्य १.४१:९
* किं वा स्वयमुत्पादितानुगृहीततिरोभावितानां पशूनां पतिः उत परैरिति ॥ भाष्य १.४१:१०
* उच्यते स्वयम् ॥ भाष्य १.४१:११
* यस्मादाह ॥ भाष्य १.४१:१२
**********************************************
भवे भवे नातिभवे ॥ १.४२ ॥
* अत्र भवे भवे इति वीप्सा ॥ भाष्य १.४२:१
* भव इति विद्याकलापशूनां समस्तानां ग्रहणम् ॥ भाष्य १.४२:२
* भवः कस्मात् ॥ भाष्य १.४२:३
* भवनभावनकृतत्वात् ॥ भाष्य १.४२:४
* यस्माद्देवमनुष्यतिर्यक्त्वेन भावयति च तानीश्वरः ॥ भाष्य १.४२:५
* धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणां भवनभावनत्वाद्भवः ॥ भाष्य १.४२:६
* तस्य भूयोभूय उत्पत्त्यनुग्रहतिरोभावं च दृष्ट्वा ॥ भाष्य १.४२:७
* वीप्सायाः उत्पत्तावुत्पत्तावनुग्रहेऽनुग्रहे तिरोभावे तिरोभावे चेत्यर्थः ॥ भाष्य १.४२:८
* नातिभवे इति ॥ भाष्य १.४२:९
* नकारः कार्यत्वं प्रतिषेधयति ॥ भाष्य १.४२:१०
* अतिशयितभवेषु मा भवामीत्यर्थः ॥ भाष्य १.४२:११
* आह किं भवाद्वियोगमात्रमेवैकं मृगयते ॥ भाष्य १.४२:१२
* तदुच्यते न ॥ भाष्य १.४२:१३
* यस्मादाह ॥ भाष्य १.४२:१४
**********************************************
भजस्व माम् ॥ १.४३ ॥
* अत्र भज इत्यनुग्रहे ॥ भाष्य १.४३:१
* स्व इति कारणापदेशे ॥ भाष्य १.४३:२
* मामित्यात्मापदेशे ॥ भाष्य १.४३:३
* भजस्व मां त्रायस्व मामनुगृह्णीष्व मामित्यर्थः ॥ भाष्य १.४३:४
* आह कमामन्त्रयते ॥ भाष्य १.४३:५
* कं प्रपद्यते ॥ भाष्य १.४३:६
* कस्मै नमस्कारं करोति ॥ भाष्य १.४३:७
* कस्तं पुरुषं भवान्मोक्षयति ॥ भाष्य १.४३:८
* कं वा ब्रवीति भजस्व मामिति ॥ भाष्य १.४३:९
* तदुच्यते यस्मादाह ॥ भाष्य १.४३:१०
**********************************************
भवोद्भवः ॥ १.४४ ॥
* अत्र भव इति विद्याकलापशूनामेव ग्रहणम् ॥ भाष्य १.४४:१
* तस्योत्पत्तिकर्ता भगवानित्यतो भवोद्भव इति ॥ भाष्य १.४४:२
* अत्रोत्पादकानुग्राहकतिरोभावकधर्मि कारणमुत्पाद्यानुग्राह्यतिरोभाव्यधर्मि कार्यमित्येतत्कार्यकारणयोर्लक्षणम् ॥ भाष्य १.४४:३
* एतस्मिन् कारणे प्रपत्त्यादि क्रमोपयोगि द्रष्टव्यम् ॥ भाष्य १.४४:४
* एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये प्रथमोऽध्यायः सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥ भाष्य १.४४:५
**********************************************
ড়ाशुपतसूत्र, २
वामः ॥ २.१ ॥
* नामभिः श्रेष्ठ इत्यर्थः ॥ भाष्य २.१:१
* उक्तं हि । पुरुषध्वजशृङ्गेषु हविर्भूषणलक्ष्मसु । वामः श्रेष्ठेष्ववक्रेषु नवस्वर्थेषु कीर्तितः ॥ भाष्य २.१:२
* आह किंनिमित्तास्योत्पादकादिप्रवृत्तिः किंप्रयोजना वा ॥ भाष्य २.१:३
* तदुच्यते ॥ भाष्य २.१:४
**********************************************
देवस्य ॥ २.२ ॥
* इति ॥ भाष्य २.२:१
* अत्र देव इति दिवु क्रीडायाम् ॥ भाष्य २.२:२
* क्रीडाधर्मित्वात्क्रीडानिमित्ता ॥ भाष्य २.२:३
* क्रीडावानेव स भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यमुत्पादयननुगृह्णाति तिरोभावयति चेत्यतो देवः ॥ भाष्य २.२:४
* प्रवृत्तिश्चोत्पत्त्यादिफला द्रष्टव्या ॥ भाष्य २.२:५
* देवस्य इति तद्धर्मित्वे षष्ठी ॥ भाष्य २.२:६
* आह किं नामद्वयमेवात्र कारणे वितन्यते अर्थद्वयमेव वा आहोस्विदन्यदप्यस्ति नेति ॥ भाष्य २.२:७
* उच्यतेऽस्ति ॥ भाष्य २.२:८
* यस्मादाह ॥ भाष्य २.२:९
**********************************************
ज्येष्ठस्य ॥ २.३ ॥
* इति ॥ भाष्य २.३:१
* अत्र परत्वाज्ज्येष्ठः ॥ भाष्य २.३:२
* केषां केन वा परः ॥ भाष्य २.३:३
* तदुच्यते सिद्धसाधकपशूनाम् ॥ भाष्य २.३:४
* तदायत्तत्वात्सिद्धसाधकभावस्य सर्वपशूनां च प्रवृत्तिनिवृत्तिस्थित्यादिफलानामित्यतो ज्येष्ठः परतरः ॥ भाष्य २.३:५
* परतमश्चेति ॥ भाष्य २.३:६
* अकृतकं चास्यैश्वर्यम् ॥ भाष्य २.३:७
* उक्तं हि । दृक्क्रियालक्षणा शक्तिस्तत्त्वधर्मोऽस्य नित्यता । श्रेष्ठोऽतः सर्वभूतेषु तस्मादेष परः स्मृतः ॥ भाष्य २.३:८
* इत्येवं परत्वाज्ज्येष्ठः ॥ भाष्य २.३:९
* अत्रापि ज्येष्ठस्येति तद्धर्मित्वे षष्ठी ॥ भाष्य २.३:१०
* आह किं नामत्रयमेवात्र कारणे चिन्त्यते अर्थत्रयमेव वा आहोस्विदन्यदप्यस्ति नेति ॥ भाष्य २.३:११
* उच्यतेऽस्ति ॥ भाष्य २.३:१२
**********************************************
रुद्रस्य ॥ २.४ ॥
* इति ॥ भाष्य २.४:१
* अत्र रुतस्य भयस्य द्रावणात्संयोजनाद्रुद्रः तत्र रुतमभिलाप इत्यनर्थान्तरम् ॥ भाष्य २.४:२
* द्रावणं नाम ॥ भाष्य २.४:३
* भयं विविधम् ॥ भाष्य २.४:४
* उक्तं हि । नानाविधैः कृतैर्यस्माद्भयैश्च विविधैस्तथा । संयोजयति भूतानि तस्माद्रुद्र इति स्मृतः ॥ भाष्य २.४:५
* अत्रापि तद्धर्मित्वे षष्ठी ॥ भाष्य २.४:६
* आह किं तत् ॥ भाष्य २.४:७
* कीदृशं वा तदस्येति ॥ भाष्य २.४:८
* उच्यते ॥ भाष्य २.४:९
**********************************************
कलितासनम् ॥ २.५ ॥
* अत्र त्रिविधेन कार्येण विद्याकलापशुसंज्ञकेन तत्रैव स्थित्युत्पत्तिप्रलयान् प्राप्नुवता कलितं शोभितशब्दितं नभस्ताराभिरिवेत्यर्थः ॥ भाष्य २.५:१
* आह यदेतत्पत्युः पतित्वं शक्तिः सामर्थ्यमैश्वर्यं स्वगुणः सद्भावः सतत्त्वं तत्त्वधर्मः तदासनम् ॥ भाष्य २.५:२
* नतु पद्मासनवदुपवेशनलक्षणमित्यर्थः आसनं कस्मात् ॥ भाष्य २.५:३
* आस्तेऽस्मिनासनम् ॥ भाष्य २.५:४
* कार्यमनेन वा अध्यास्त इत्यासनमित्यर्थः ॥ भाष्य २.५:५
* अत आसनम् ॥ भाष्य २.५:६
* अतोऽव्ययोऽमृतो भगवान् कामतः स्वशक्तिस्थं कार्यं स्वशक्त्या अध्यास्ते ॥ भाष्य २.५:७
* तस्मादासनस्थं कार्यं कारणं चेति ॥ भाष्य २.५:८
* आह कार्यकारणयोर्वृत्तिसंकरदोषो गोजाविमहिषीक्षीरवत् ॥ भाष्य २.५:९
* तदुत न ॥ भाष्य २.५:१०
* अङ्गुल्यग्ररूपादिवदित्यसंकरः ॥ भाष्य २.५:११
* दीपादित्यप्रकाशनयनरश्मिवच्चासंकरः ॥ भाष्य २.५:१२
* आह संकरे अपरिच्छेददोषः ईश्वरपुरुषविद्याकलानां माक्षिककोटद्रव्यवत् ॥ भाष्य २.५:१३
* तदुच्यते एकोत्तरोत्कर्षेण व्याप्यव्यापकभावेनावस्थितानां तत्त्वादीनां नापरिच्छेददोषः सूत्रत्वाद्व्यापकं महेश्वरतत्त्वं व्याप्यं पुरुषादिपञ्चविंशकम् ॥ भाष्य २.५:१४
* तथा आत्मत्वाद्व्यापकं पुरुषतत्त्वं व्याप्यं प्रधानादिचतुर्विंशकम् ॥ भाष्य २.५:१५
* तथा व्यापकं प्रधानं व्याप्यं बुद्ध्यादित्रयोविंशकम् ॥ भाष्य २.५:१६
* व्यापिका भवति बुद्धिः व्याप्यमहंकारादिद्वाविंशकम् ॥ भाष्य २.५:१७
* तथा व्यापको भवत्यहंकारः व्याप्यान्येकादशेन्द्रियाणि दशविधं च कार्यम् ॥ भाष्य २.५:१८
* व्यापकान्येकादशेन्द्रियाणि व्याप्यानि पञ्चभूतसूक्ष्माणि शब्दादीनि ॥ भाष्य २.५:१९
* तथा व्यापकानि पञ्चभूतसूक्ष्माणि शब्दादीनि व्याप्यानि आकाशादीनि पञ्चमहाभूतानि ॥ भाष्य २.५:२०
* तथा व्यापकमाकाशं व्याप्यं वाय्वादिभूतचतुष्कम् ॥ भाष्य २.५:२१
* तथा व्यापको भवति वायुः व्याप्यं तेजःप्रभृति भूतत्रयम् ॥ भाष्य २.५:२२
* तथा व्यापकं भवति तेजः व्याप्यमबादिद्वयम् ॥ भाष्य २.५:२३
* तथा व्यापिका भवन्त्यापः व्याप्या पृथिवी ॥ भाष्य २.५:२४
* व्यापिका पृथिवी व्याप्यानि भूम्युदकरसलक्षणानि कार्याणि ॥ भाष्य २.५:२५
* तथा व्यापकानि भूम्युदकरसलक्षणानि कारणानि व्याप्यं देवमनुष्यतिर्यग्योनि तृणौषधिवृक्षगुल्मलतावनस्पत्यादिकार्यमनेकविधमतो नापरिच्छेददोषः ॥ भाष्य २.५:२६
* आह वृत्त्यसंकरग्रहणे दृष्टान्ताभावादयुक्तं तदुच्यते हरिद्रोदकवद्व्याप्यं व्यापकं च तद्यथा हरिद्रोदके स्निग्धत्वशैत्यादिधर्मैरपां ग्रहणं गन्धवर्णघनक्षारत्वादिभिर्हरिद्रायाः ॥ भाष्य २.५:२७
* तथार्णवदेवादिस्थानशरीरेन्द्रियविषयादिसंनिवेशेन सुखदुःखसंनिपातेन चेश्वरस्य ॥ भाष्य २.५:२८
* एवं पुरुषस्यापि ॥ भाष्य २.५:२९
* ईश्वरस्यापि अपरिणामिधर्मित्वात्सुखदुःखदातृत्वाच्च प्रधानधर्माधर्मादीनां ग्रहणम् ॥ भाष्य २.५:३०
* तथा प्रधानस्य मानससंकल्पालोचनगमनादिभिः करणग्रामस्य विषयाणां च ग्रहणम् ॥ भाष्य २.५:३१
* तथा धृतिसंग्रहपक्तिव्यूहावकाशदानादिभिर्धर्मैः पृथिव्यादीनां ग्रहणमिति प्रधानवादिनो मन्यन्ते ॥ भाष्य २.५:३२
* आह अथेह तन्त्रे कथं कार्यकारणावस्थानम् ॥ भाष्य २.५:३३
* तद्वाच्यम् ॥ भाष्य २.५:३४
* तदुच्यते इह यस्मादाह शर्वसर्वेभ्यः इति वचनाद्यथासम्भवम् ॥ भाष्य २.५:३५
* सति विभुत्वे स्ववृत्त्या कार्यकारणयोः सर्वगतत्वेऽपि स्ववृत्त्यसंकरः तस्मादासनस्थं कार्यं कारणं चेति ॥ भाष्य २.५:३६
* आह किं तदासनस्थं कार्यमासने नित्यमाहोस्विदनित्यमिति ॥ भाष्य २.५:३७
* उच्यते नित्यं कार्यम् ॥ भाष्य २.५:३८
* कस्मात् ॥ भाष्य २.५:३९
* पत्युर्भवति ॥ भाष्य २.५:४०
* कारणेश्वरनित्यत्वात्पतिनित्यत्वम् ॥ भाष्य २.५:४१
* इह सद्योजातादिवचनात्पालको नित्यः ॥ भाष्य २.५:४२
* पालकनित्यत्वाच्च पाल्यमपि नित्यम् ॥ भाष्य २.५:४३
* कस्मात् ॥ भाष्य २.५:४४
* न ह्यसति पाल्ये पालक इत्येव ॥ भाष्य २.५:४५
* सति नित्यत्वे तान्येव पश्वादीनि संयोजयति ॥ भाष्य २.५:४६
* मृल्लोहमयप्राकारादिवद्दृष्टान्तात् ॥ भाष्य २.५:४७
* वृत्तिलाभश्चोत्पत्तिरित्युच्यते ॥ भाष्य २.५:४८
* स्थितिस्थानशरीरेन्द्रियविषयाद्यायतनानां परस्परोपकाराच्चानुग्रहः ईश्वरचोदनानुग्रहः वियोजनं वृत्तिलोपश्च ॥ भाष्य २.५:४९
* लोपोऽभावः ॥ भाष्य २.५:५०
* तस्मात्त्रिष्वपि कालेषु आसनस्थं कार्यं द्रष्टव्यम् ॥ भाष्य २.५:५१
* पृथिव्यां बीजवदित्यर्थः ॥ भाष्य २.५:५२
* आह किं तत्कार्यं भगवान् युगपदुत्पादयति क्रमशो वा ॥ भाष्य २.५:५३
* किं वा कर्मापेक्षः अनपेक्षो वा ॥ भाष्य २.५:५४
* तदुच्यते यथेष्टम् ॥ भाष्य २.५:५५
* यस्मादाह ॥ भाष्य २.५:५६
**********************************************
सार्वकामिक इत्याचक्षते ॥ २.६ ॥
* अत्र सर्वशब्दो विद्यादिकार्यनिरवशेषवाची द्रष्टव्यः ॥ भाष्य २.६:१
* कामिक इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ भाष्य २.६:२
* कामी कामः काम्यमिति च तत्र कामी ईश्वरः ॥ भाष्य २.६:३
* कामोऽस्येच्छा ॥ भाष्य २.६:४
* काम्यं विद्यादिकार्यम् ॥ भाष्य २.६:५
* तदक्रमेण क्रमशो वा यथेष्टमुत्पादयति ॥ भाष्य २.६:६
* कस्मात् ॥ भाष्य २.६:७
* कामित्वात् ॥ भाष्य २.६:८
* अकर्मापेक्षित्वं चास्यात एव सिद्धम् ॥ भाष्य २.६:९
* कर्मकामिनश्च महेश्वरमपेक्षन्ते न तु भगवानीश्वरः कर्म पुरुषं वापेक्षते ॥ भाष्य २.६:१०
* अतो न कर्मापेक्ष ईश्वरः ॥ भाष्य २.६:११
* इतिशब्दोऽर्थानां निर्वचनत्वात्प्रकरणपरिसमाप्त्यर्थः ॥ भाष्य २.६:१२
* आह कामित्वं तत्त्ववैधर्म्यं कुर्यात् ॥ भाष्य २.६:१३
* कार्यत्वेन वा परिणामित्वमात्मनो बन्धमोक्षविपर्ययं वा कुर्यात् ॥ भाष्य २.६:१४
* तदुच्यते यस्मादाह आङिति ॥ भाष्य २.६:१५
* आङिति कार्यकारणत्वमात्मनो मुक्तानां च मर्यादा ॥ भाष्य २.६:१६
* तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकल्पकत्वाभावकत्वेनापरिणामित्वमात्मनो मुक्तानां च पुनर्दुःखैरसंयोजनमित्येषा कारणमर्यादा ॥ भाष्य २.६:१७
* स्थाप्या च कार्यमर्यादा ॥ भाष्य २.६:१८
* तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकाल्प्यविकार्यमर्यादा ॥ भाष्य २.६:१९
* तदन्यचोद्याधिष्ठेयत्वं च ॥ भाष्य २.६:२०
* चक्षिङ्कथने ॥ भाष्य २.६:२१
* भगवता कार्येभ्यो भवता रुद्रेणाचक्षितम् ॥ भाष्य २.६:२२
* भगवतो महेश्वरस्य शक्तिः सनातनी ॥ भाष्य २.६:२३
* तद्विद्यादिकार्यं कलितमित्येषोऽर्थः ॥ भाष्य २.६:२४
* तथा चोक्तं वर्णितमित्यर्थः ॥ भाष्य २.६:२५
* अत्रेदमाधिकारिकं कार्यकारणप्रकरणं परिसमाप्तमिति ॥ भाष्य २.६:२६
* किं नाम कामित्वं रुद्रकामित्वं च ॥ भाष्य २.६:२७
* एतदेव कारणे महाभाग्यमाहोस्विदन्यदस्ति ॥ भाष्य २.६:२८
* उच्यते अस्ति ॥ भाष्य २.६:२९
* यस्मादाह ॥ भाष्य २.६:३०
**********************************************
अमङ्गलं चात्र मङ्गलं भवति ॥ २.७ ॥
* अमङ्गलमिति अत्र साधनजातमधिकुरुते तदुद्देशेन तु मङ्गलवचननिर्देशं करोति ॥ भाष्य २.७:१
* चशब्दः कारणगुणवचनोपक्षेपे द्रष्टव्यः ॥ भाष्य २.७:२
* उपक्षिप्योत्तरत्र मङ्गलं प्रदक्षिणं च वक्ष्यामः ॥ भाष्य २.७:३
* तस्मादुभयं रुद्रे देवाश्च पितरश्च इत्युपरिष्टाद्वक्ष्यामः ॥ भाष्य २.७:४
* अत्रशब्दे मूर्त्यधिष्ठातरि मनःसंज्ञे कारणे सकले उपतिष्ठता अपसव्यसम्बन्धो द्रष्टव्यः ॥ भाष्य २.७:५
* मङ्गलमित्यत्रापि चामङ्गले वक्तव्ये मङ्गलमेव तद्वक्ष्यामः ॥ भाष्य २.७:६
* तदुच्यते अत्र अमङ्गलं नाम नग्नत्वापसव्यत्वसम्बन्धो हसिताद्यः साधनवर्गः ॥ भाष्य २.७:७
* स त्किह कारणमूर्तिसामर्थ्यान्मङ्गलं भवति ॥ भाष्य २.७:८
* शैलोदोमावनवत् ॥ भाष्य २.७:९
* मङ्गलं साधनं धर्मनिष्पादकम् ॥ भाष्य २.७:१०
* भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्य २.७:११
* कारणमूर्तौ क्रियमाणममङ्गलं मङ्गलं भवतीत्यर्थः ॥ भाष्य २.७:१२
* आह किं नग्नत्वमपसव्यत्वं वा साधनद्वयमेवोच्यते ॥ भाष्य २.७:१३
* न ॥ भाष्य २.७:१४
* यस्मादाह ॥ भाष्य २.७:१५
**********************************************
अपसव्यं च प्रदक्षिणम् ॥ २.८ ॥
* नग्नत्वं च साधनमेवेत्यर्थः ॥ भाष्य २.८:१
* अत्रामङ्गलनिर्देशार्थत्वात्प्रत्याहारवदुपहारसामान्यमात्रख्यापनाच्च पृथगपसव्यारम्भः ॥ भाष्य २.८:२
* तस्मादत्र अपसव्यं नाम यत्सव्याद्विपरीतम् ॥ भाष्य २.८:३
* चशब्दः समुच्चये ॥ भाष्य २.८:४
* न केवलं कारणमूर्तिसामर्थ्यादमङ्गलं मङ्गलमापद्यते अपसव्यं च प्रदक्षिणमापद्यत इत्यर्थः ॥ भाष्य २.८:५
* प्रदक्षिणं नाम यदन्येषामपसव्यं तदिह प्रदक्षिणं धर्मनिष्पादकं भवति ॥ भाष्य २.८:६
* ननु यत्तेषां प्रदक्षिणं कस्मात् ॥ भाष्य २.८:७
* उत्सूत्रादिदोषादप्स्नानादिवदित्यर्थः ॥ भाष्य २.८:८
* आह समस्तानां कारणगुणानां तु वचनं किमस्ति नेति ॥ भाष्य २.८:९
* उच्यते अस्ति ॥ भाष्य २.८:१०
* यस्मादाह ॥ भाष्य २.८:११
**********************************************
तस्मादुभयथा यष्टव्यः ॥ २.९ ॥
* इति ॥ भाष्य २.९:१
* अत्र तस्माच्छब्दः कारणगुणवचने ॥ भाष्य २.९:२
* के कारणगुणा इति ॥ भाष्य २.९:३
* तदुच्यते पतित्वसत्त्वाद्यत्वाजातत्वोत्पादकानुग्राहकतिरोभावकत्वतपावावेदे वामदेवज्येष्ठरुद्रकामित्वं च मङ्गलावाप्तिः प्रदक्षिणावाप्तिश्च ॥ भाष्य २.९:४
* एतान् कारणगुणान् ज्ञात्वा ॥ भाष्य २.९:५
* अतो ब्रवीति तस्मादिति ॥ भाष्य २.९:६
* अथैतत्कारणगुणवचनं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्य २.९:७
* तदुच्यते उभयथा यष्टव्यः ॥ भाष्य २.९:८
* अत्रोभयथा द्विधेत्यर्थः ॥ भाष्य २.९:९
* यष्टव्य इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ भाष्य २.९:१०
* यष्टा यजनं यष्टव्यमिति ॥ भाष्य २.९:११
* अत्र यष्टा साधकः ॥ भाष्य २.९:१२
* यष्टव्यो भगवान्महेश्वरः ॥ भाष्य २.९:१३
* यजनं भावना ॥ भाष्य २.९:१४
* यजनमध्ययनध्यापनस्मरणाद्यम् ॥ भाष्य २.९:१५
* तत्फलदेवनित्यता सायुज्यमित्युत्तरत्र वक्ष्यामः ॥ भाष्य २.९:१६
* आह अनिर्देशात्संदेहः ॥ भाष्य २.९:१७
* कथमुभयथा ॥ भाष्य २.९:१८
* द्विधा निर्देशो वाच्यः ॥ भाष्य २.९:१९
* तदुच्यते ॥ भाष्य २.९:२०
**********************************************
देववत्पितृवच्च ॥ २.१० ॥
* कथमिति ॥ भाष्य २.१०:१
* उच्यते पूर्वमस्य ब्राह्मणस्य देवयजने पितृयजने चाधिकारोऽधिगतः ॥ भाष्य २.१०:२
* तस्मात्तेभ्यो देवपितृभ्यो भक्तिव्यावर्तनं कृत्वा उभयथापि महेश्वरे भावमवस्थाप्य यजनं कर्तव्यं नान्यस्य ॥ भाष्य २.१०:३
* चशब्दः प्रतिषेधे ॥ भाष्य २.१०:४
* यत्तत्पूर्वं देवपितृषु कारकत्वं संभावितं तत्तेषु न विद्यते ॥ भाष्य २.१०:५
* अतस्तेषां यजनं न कर्तव्यमित्यर्थः ॥ भाष्य २.१०:६
* आह यद्येवं तस्मादुच्यतां देवपित्णां को दोषः यस्मात्ते न यष्टव्याः ॥ भाष्य २.१०:७
* रुद्रे वा को गुणः यस्मात्स एव यष्टव्यः ॥ भाष्य २.१०:८
* इति निर्देशो वाच्यः ॥ भाष्य २.१०:९
* अप्स्नानादिवत् ॥ भाष्य २.१०:१०
* तदुच्यते ॥ भाष्य २.१०:११
**********************************************
उभयं तु रुद्रे देवाः पितरश्च ॥ २.११ ॥
* तत्रोभयं द्वयं समस्तमित्यर्थः ॥ भाष्य २.११:१
* तुशब्दो देवपितृषु वैशेषिकं कारणत्वं व्यावर्तयति रुद्रे इति कारणापदेशम् ॥ भाष्य २.११:२
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य २.११:३
* रुद्र इति वैषयिकं संनिधानम् ॥ भाष्य २.११:४
* अत्र शक्तिर्विषय इत्यनर्थान्तरम् ॥ भाष्य २.११:५
* ते देवपितरो रुद्रशक्त्यां हार्यधार्यकार्यत्वेन वर्तन्ते आधीयन्ते विषये वर्तन्त इत्यर्थः ॥ भाष्य २.११:६
* देवाः पितरश्च ॥ भाष्य २.११:७
* तत्र देवा इति ऋभुषु ब्रह्मादिपिशाचान्तेषु मनुष्यतिर्यग्योनिवर्जं सामान्यसंज्ञा ॥ भाष्य २.११:८
* विधिवत् ॥ भाष्य २.११:९
* पितर इति विशेषसंज्ञा भस्मस्नानादिवदित्यर्थः ॥ भाष्य २.११:१०
* ब्राह्मणदेवदत्तादिवच्च ॥ भाष्य २.११:११
* अत्राह सामान्यविशेषसंज्ञाभिधाने किं प्रयोजनमिति चेत् ॥ भाष्य २.११:१२
* तदुच्यते त्रिविधस्यापि कार्यस्य रुद्रे हार्यधार्यकार्यज्ञापनार्थं किंच कालक्रियास्वाहास्वधामन्त्रान्यत्वदर्शनाद्देवपितृयजनापहृतचित्तव्यावर्तनार्थत्वाच्च ॥ भाष्य २.११:१३
* तस्मादन्यानन्यत्वेनापि व्याख्यानमदुष्टम् ॥ भाष्य २.११:१४
* चशब्दोऽभ्यधिकत्वे ॥ भाष्य २.११:१५
* देवपितृवत्सत्त्वस्य त्रिविधस्यापि कार्यस्येश्वरे प्रतिष्ठाप्रसवसंयोगवियोगसुखमोहबन्धमोक्षदातृत्वेन च स एव परं कारणं समस्तत्वेनाप्यते इत्येवं चशब्दोऽभ्यधिकत्वे द्रष्टव्यः तस्माद्दुःखान्तार्थिना ते देवपितरो न यष्टव्याः ॥ भाष्य २.११:१६
* तदर्थे भगवान्महेश्वरो यष्टव्य इत्यर्थः ॥ भाष्य २.११:१७
* अत्रेदमानुषङ्गिकं कार्यकारणप्रकरणं परिसमाप्तम् ॥ भाष्य २.११:१८
* अत उत्तरस्य विधिप्रकरणस्य सत्यपि पदार्थवैलक्षण्ये साध्यसाधनभावाद्यजनेन सह सम्बन्धं करिष्यामः ॥ भाष्य २.११:१९
* कस्मात् ॥ भाष्य २.११:२०
* इह पुरस्तादुक्तमुभयथा यष्टव्यः देववत्पितृवच्च ॥ भाष्य २.११:२१
* यत्र पूर्वं देवपितृभ्यो व्यावर्तितया भक्त्या महेश्वरं यजतोऽनवगमात्स्वात्मेश्वरसंयोगं योगं प्राप्स्यसि तत्फलं वक्ष्यामः ॥ भाष्य २.११:२२
* येन च बलेनोपबृंहितस्य तत्रैव यजने उद्योगोऽभिनिवेशश्च भविष्यति तद्बलं वक्ष्यामः ॥ भाष्य २.११:२३
* तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ भाष्य २.११:२४
* तदुच्यते ॥ भाष्य २.११:२५
**********************************************
हर्षाप्रमादी ॥ २.१२ ॥
* इति ॥ भाष्य २.१२:१
* अथवान्यो दूरस्थः सम्बन्धः ॥ भाष्य २.१२:२
* यस्मादुच्यते यस्य येनार्थसम्बन्धो दूरस्थस्यापि तेन तदर्थोत्पत्तिः समाना ॥ भाष्य २.१२:३
* आनन्तर्येऽपि असंबन्धो ग्रहणक्षयादिवन्न त्वत्र अमङ्गलादिभिः ॥ भाष्य २.१२:४
* कस्मात् ॥ भाष्य २.१२:५
* शेषाभावात् ॥ भाष्य २.१२:६
* एवमिहापि दूरस्थः सम्बन्धः ॥ भाष्य २.१२:७
* कस्मात् ॥ भाष्य २.१२:८
* इह पुरस्तादुक्तमकलुषमतेः चरतः ततोऽस्य योगः प्रवर्तते ॥ भाष्य २.१२:९
* अत्र कलुषव्यतिरेकेण येऽन्ये योगव्याघातकरा हेतवः तान् वक्ष्यामः ॥ भाष्य २.१२:१०
* यथा चैका चरितव्या योगप्रापिका इति व्याख्यास्यामः ॥ भाष्य २.१२:११
* तथा चर्यान्तरेण तपसा योगप्राप्तिर्यथा भवति तद्बलं वक्ष्यामः ॥ भाष्य २.१२:१२
* तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ भाष्य २.१२:१३
* हर्षाप्रमादी इति ॥ भाष्य २.१२:१४
* अत्र हर्षो नाम दिव्येषु विषयेषु विधानजधर्मप्रकाशितेषु प्रीतितुष्टिप्रमोदाः ॥ भाष्य २.१२:१५
* ते त्विह प्राप्त्यादिव विश्वामित्रादिस्वरूपा द्रष्टव्याः ॥ भाष्य २.१२:१६
* कथंलक्षणा इति चेत् ॥ भाष्य २.१२:१७
* तदुच्यते कार्यकरणविशुद्धिलक्षणाः तत्र कार्यविशुद्धिस्तावद्यदैतद्देवशरीरं ज्वलन्तं भासा दीप्यन्तं दिवि भुव्यन्तरिक्षे च रुक्मदण्डवदुच्छ्रितमात्मानं पश्यति तदा दिवि अणिमा लघिमा महिमा इति त्रयः कार्यगुणा भवन्ति ॥ भाष्य २.१२:१८
* अन्तरिक्षे च यस्माद्धर्मविशेषात् ॥ भाष्य २.१२:१९
* तथा करणविशुद्धिरपि गरिमादिभिः बाह्यैरन्तः करणेन च दूरविषयग्राहकत्वालोचनसंकल्पाध्यवसायाभिमानादयो भवन्ति ॥ भाष्य २.१२:२०
* कस्मात् ॥ भाष्य २.१२:२१
* धर्मादिवचनात् ॥ भाष्य २.१२:२२
* अपिच प्राप्तिः प्राकाम्यमीशित्वं वशित्वं च यत्र कामावसायित्वमिति पञ्च करणगुणा भवन्ति ॥ भाष्य २.१२:२३
* इत्येवं यदन्येषामणिमाद्यष्टगुणं चतुःषष्टिविकल्पं धर्मकार्यमैश्वर्यं तदिह शास्त्रे हर्ष इति संज्ञितम् ॥ भाष्य २.१२:२४
* तेषु मदमकुर्वन् हर्षाप्रमादी भवति ॥ भाष्य २.१२:२५
* धर्मविद्याबलेनेत्यर्थः ॥ भाष्य २.१२:२६
* आह कुत्रस्थस्य ते हर्षा अभिव्यज्यन्ते कीदृशस्य वा ॥ भाष्य २.१२:२७
* तदुच्यते ॥ भाष्य २.१२:२८
**********************************************
चर्यायां चर्यायाम् ॥ २.१३ ॥
* अत्र चर्यायां चर्यायामिति वीप्सा ॥ भाष्य २.१३:१
* आह अनिर्देशादिह वीप्सा एकवचनद्विवचनबहुवचनेषु भवति ॥ भाष्य २.१३:२
* तत्रैकवचने तावद्भवति ॥ भाष्य २.१३:३
* यस्मादुक्तम् । अद्य ते रुधिरं तीव्रं पिबामि पुरुषाधम । वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥ भाष्य २.१३:४
* इति ॥ भाष्य २.१३:५
* तथा द्विवचनेऽपि भवति । उभौ ध्वजौ वातमलौ शुशुभाते रथे रथे । संरब्धौ परमक्रुद्धौ युधि घ्नन्तौ परस्परम् ॥ भाष्य २.१३:६
* तथा बहुवचनेऽपि भवति ॥ भाष्य २.१३:७
* यस्मादुक्तम् । पुरुषे पुरुषे बुद्धिः सा सा भवति निश्चिता । तुष्यन्ति च पृथक्सर्वे ते मनुष्यास्तथा तथा ॥ भाष्य २.१३:८
* इत्यतः संशयः ॥ भाष्य २.१३:९
* अतः किमेका चरिः उत चरिद्वयमुत चरिबहुत्वमिति ॥ भाष्य २.१३:१०
* उच्यते एका चरिः क्रियाबहुत्वेऽपि भवति ॥ भाष्य २.१३:११
* यथायतने लोके च ॥ भाष्य २.१३:१२
* तत्रायतने स्नानहसिताद्याः लोके च क्राथनस्पन्दनाद्याः विधिक्रियाः इत्येवं चरिक्रियातत्त्वं दृष्ट्वा वीप्सार्थेनाभिहितं चर्यायां चर्यायां क्रियायामित्यर्थः ॥ भाष्य २.१३:१३
* तस्मात्सकृदुच्चारिता वीप्सा बहुवचनेऽपि भवति ॥ भाष्य २.१३:१४
* वृक्षबलिवत् ॥ भाष्य २.१३:१५
* किंच माहात्म्यमिति चर्योत्तरसम्बन्धात्कथ्यते एका चरिः क्रियाबहुत्वे भवति ॥ भाष्य २.१३:१६
* कार्यकरणविशुद्धिलक्षणा हर्षा इत्युक्तम् ॥ भाष्य २.१३:१७
* न च विभा कार्यकरणैश्वर्याभिनिवेशः शक्यते कर्तुमित्यतोऽवगम्यते कार्यकरणवतश्चरतो महिमानोऽभिव्यज्यन्त इत्यर्थः ॥ भाष्य २.१३:१८
* आह अप्रमत्तस्याचरतः का कार्यनिष्पत्तिः ॥ भाष्य २.१३:१९
* तदुच्यते ॥ भाष्य २.१३:२०
**********************************************
माहात्म्यमवाप्नोति ॥ २.१४ ॥
* माहात्म्यं नाम अर्यमप्रकाशवत् ॥ भाष्य २.१४:१
* तदुत यस्य सांनिध्यादयं ब्राह्मणः परिदृष्टार्थोऽपि भूत्वा दुष्टाश्वतररथस्थानीयैर्देहेन्द्रियादिभिरपनीयते अपह्रियते तदमाहात्म्यम् ॥ भाष्य २.१४:२
* विधियोगाभिनिवेशासामर्थ्यमधर्मबलम् ॥ भाष्य २.१४:३
* उक्तं हि । ह्रियते बुद्धिर्मनोऽपि नरस्य देहेन्द्रियैः । अमूढसंज्ञो दुर्दान्तैर्दुष्टाश्वैरिव सारथिः ॥ भाष्य २.१४:४
* माहात्म्यमतो विपरीतम् ॥ भाष्य २.१४:५
* यस्य सांनिध्यादयं ब्राह्मणः स्नानशयनानुस्नानादिक्राथनस्पन्दनाध्ययनध्यानस्मरणकरणसमर्थो भवति परया श्रद्धया युक्तस्तन्माहात्म्यम् ॥ भाष्य २.१४:६
* आह किं तदिति ॥ भाष्य २.१४:७
* उच्यते यदेतत्प्रभ्रष्टस्य तपसो वीर्यं तपोबलं तपःशक्तिस्तन्माहात्म्यम् ॥ भाष्य २.१४:८
* कथं गम्यते ॥ भाष्य २.१४:९
* चर्यानन्तरोक्तत्वात् ॥ भाष्य २.१४:१०
* यदनन्तरं यदवाप्नोति तत एव तदासादयतीत्यर्थः ॥ भाष्य २.१४:११
* आह प्राप्नोतीति अस्तु पाठः ॥ भाष्य २.१४:१२
* लब्धुर्भविष्यतीत्युच्यते ॥ भाष्य २.१४:१३
* अवरम्य क्षणगतिप्रीतिप्राप्त्यर्थत्वात्तेन विधिचरणेन रक्षते हर्षविशेषाणामभिप्रीतिविशेषणमतिगतिसंस्तवनावाप्तिश्च ॥ भाष्य २.१४:१४
* तस्मान्मन्त्रबलवद्धर्मबलमेवास्य माहात्म्यमवाप्नोतीत्यर्थः ॥ भाष्य २.१४:१५
* आह कः सोऽभ्युपायः ॥ भाष्य २.१४:१६
* कानि वा तानि धर्मसाधनानि यैर्हर्षोत्पत्तिर्माहात्म्यलाभश्च भवति ॥ भाष्य २.१४:१७
* चरिक्रियाणां वा कतिविधो विभागः ॥ भाष्य २.१४:१८
* दानादीनां वा पूर्वोक्तानां विशेषणं किमस्ति नेति ॥ भाष्य २.१४:१९
* उच्यतेऽस्ति ॥ भाष्य २.१४:२०
* यस्मादाह ॥ भाष्य २.१४:२१
**********************************************
अतिदत्तमतीष्टम् ॥ २.१५ ॥
* अत्र कुदानानि गोभूहिरण्यसुवर्णादीनि ॥ भाष्य २.१५:१
* कस्मात् ॥ भाष्य २.१५:२
* अनैकान्तिकानात्यन्तिकसातिशयफलत्वात्कुपथाध्वप्रवादाच्च ॥ भाष्य २.१५:३
* तस्मादत्र अतिशब्दो विशेषणम् ॥ भाष्य २.१५:४
* अतिदानं चात्मप्रदानम् ॥ भाष्य २.१५:५
* कस्मात् ॥ भाष्य २.१५:६
* आत्मनः दातृत्वाद्भूयो दानप्रयोजनाभावात् ॥ भाष्य २.१५:७
* स्थानशरीरेन्द्रियविषयाद्यप्रापकत्वात् ॥ भाष्य २.१५:८
* ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवानावृत्तिफलत्वादसाधारणफलत्वाच्चात्मप्रदानमतिदानम् ॥ भाष्य २.१५:९
* तथा कुयजनान्यग्निष्टोमादीनि ॥ भाष्य २.१५:१०
* कस्मात् ॥ भाष्य २.१५:११
* संग्रहप्रतिग्रहहिंसादियुक्तेन श्रवेणाभिनिर्वृत्तिदर्शनात्पत्त्रीरात्रिजदेवतादिसाधारणफलत्वादनित्यसातिशयसंकीर्णफलत्वाच्च कुयजनान्यग्निष्टोमादीनि ॥ भाष्य २.१५:१२
* तस्मादत्रातिशब्दो विशेषणम् ॥ भाष्य २.१५:१३
* अतियजनं नाम यदायतने लोके वा ॥ भाष्य २.१५:१४
* तत्रायतने स्नानहसिताद्या लोके च क्राथनस्पन्दनाद्या विधिक्रिया ॥ भाष्य २.१५:१५
* कस्मात् ॥ भाष्य २.१५:१६
* संग्रहप्रतिग्रहहिंसादिरहितेन क्रमेण स्वशरीरसमुत्थाभिः कायिकवाचिकमानसिकाभिरिज्यते यस्मात् ॥ भाष्य २.१५:१७
* अतश्चेत्युच्यते अतियजनम् ॥ भाष्य २.१५:१८
* आह किं दानं यजनं च साधनद्वयमेवात्रातिशब्देन विशिष्टं कर्तव्यमिति ॥ भाष्य २.१५:१९
* उच्यते न ॥ भाष्य २.१५:२०
* यस्मादाह ॥ भाष्य २.१५:२१
**********************************************
अतितप्तं तपस्तथा ॥ २.१६ ॥
* अतिशब्दो विशेषणे ॥ भाष्य २.१६:१
* नायान्त्याध्यात्मिकाधिभौतिकाधिदैविकास्तेषां स्वशास्त्रोक्तेन क्रमेण मनसि संमतानां मतानामनुपायतः प्रतीकारमकुर्वतां तपो निष्पद्यते ॥ भाष्य २.१६:२
* यत्र तृतीयायामात्मसंयोगान्निष्पद्यते तत्तप इत्यर्थः ॥ भाष्य २.१६:३
* तदा शयनार्थे कथम् ॥ भाष्य २.१६:४
* तथातितापेभ्योऽतितपो निष्पद्यते तथा दानयजनाभ्यामपीति ॥ भाष्य २.१६:५
* तथाशब्दः साधनत्रयोपसंहारार्थः ॥ भाष्य २.१६:६
* यदा ददाति तदा यजति तप्यति च ॥ भाष्य २.१६:७
* यदापि यजति तदा ददाति तप्यति च ॥ भाष्य २.१६:८
* यदा तप्यति तदा ददाति यजति च ॥ भाष्य २.१६:९
* एवमादिदीक्षाप्रभृतिरस्य ब्राह्मणस्य ॥ भाष्य २.१६:१०
* एभिस्त्रिभिरुपायैर्गङ्गास्रोतोवद्धर्मस्यायोऽधर्मस्य व्ययो भवति तदातिदानादिनिष्पन्नेन प्रकृष्टेन तपसा अस्य ब्राह्मणस्य हर्षोत्पत्तिर्माहात्म्यलाभश्च सम्भवतीत्यर्थः ॥ भाष्य २.१६:११
* आह अतिदानादिनिष्पन्नेन प्रकृष्टेन तपसास्य ब्राह्मणस्य का गतिर्भवतीति ॥ भाष्य २.१६:१२
* उच्यते अभ्युदयकैवल्यव्यतिरेकेण ॥ भाष्य २.१६:१३
**********************************************
अत्यागतिं गमयते ॥ २.१७ ॥
* अत्र अतिशब्दो विशेषणे ॥ भाष्य २.१७:१
* आङिति मर्यादायां भवति ॥ भाष्य २.१७:२
* कथमध्ययनध्यानादिरहितमपि साधकं तपोऽतिगतिं गमयति तदभ्यासो हरत्येनमिति वचनात् ॥ भाष्य २.१७:३
* अतिगतिरिति योगपर्यायः ॥ भाष्य २.१७:४
* कथं गम्यते ॥ भाष्य २.१७:५
* तपःकार्यत्वादानन्त्यब्रह्मसायुज्यवत् ॥ भाष्य २.१७:६
* सांख्ययोगाभ्युदयादिगतिविशेषविशेषितत्वादुपरिष्टाद्वर्तत इत्यर्थः ॥ भाष्य २.१७:७
* तस्मात्तपसः फलं विशेषार्थमभिधीयते योगोऽतिगतिमिति ॥ भाष्य २.१७:८
* अतिगतिमिति कर्म ॥ भाष्य २.१७:९
* गमयते ॥ भाष्य २.१७:१०
* न तावद्गतः गमिष्यति किंतु गमयतीत्यर्थः ॥ भाष्य २.१७:११
* आह अतिदानाद्यथावत्तपसो गुणवचनं किमस्ति नेति ॥ भाष्य २.१७:१२
* उच्यते अस्ति ॥ भाष्य २.१७:१३
* यस्मादाह ॥ भाष्य २.१७:१४
**********************************************
तस्मात् ॥ २.१८ ॥
* इति ॥ भाष्य २.१८:१
* अत्र तस्माच्छब्दस्तपसो गुणवचने ॥ भाष्य २.१८:२
* तस्मादतिदानादिनिष्पन्नो धर्मोऽत्यागतिं गमयते निरतिशयां प्रापयति ॥ भाष्य २.१८:३
* न स्थानशरीरेन्द्रियविषयादिप्राप्तौ ॥ भाष्य २.१८:४
* ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवानावृत्तिफलत्वं च दृष्ट्वा ॥ भाष्य २.१८:५
* अतो ब्रवीति तस्मादिति ॥ भाष्य २.१८:६
* आह अत्यन्ततपसो गुणवचनं ज्ञात्वा कारणं च साधकेन किं कर्तव्यम् ॥ भाष्य २.१८:७
* तदुच्यते तदर्थमेव ॥ भाष्य २.१८:८
**********************************************
भूयस्तपश्चरेत् ॥ २.१९ ॥
* अत्र भूयः पुनःसंधाने द्रष्टव्यः इष्टापूर्तवत् ॥ भाष्य २.१९:१
* कथम् ॥ भाष्य २.१९:२
* हर्षेष्वभिसक्तस्य मुहूर्तमर्धमुहूर्तं वा साधनेभ्यो व्युच्छेदं दृष्ट्वा संधाने भूयःशब्दोऽभिहितः ॥ भाष्य २.१९:३
* तस्मादत्र तपस्तदेव ॥ भाष्य २.१९:४
* निरुक्तमस्य पूर्वोक्तम् ॥ भाष्य २.१९:५
* चरेदित्यर्जनमधिकुरुते ॥ भाष्य २.१९:६
* धर्मानेकसंशयान्यत्वाच्च अपुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ भाष्य २.१९:७
* आह यद्येवं तस्मादुच्यतां हर्षाणां को दोषोऽभिव्यज्यते ॥ भाष्य २.१९:८
* माहात्म्यस्य वा को गुणः यस्मात्तद्ग्राह्यमिति ॥ भाष्य २.१९:९
* तदुच्यते कुरुते माहात्म्यम् ॥ भाष्य २.१९:१०
* यस्मादाह ॥ भाष्य २.१९:११
**********************************************
नान्यभक्तिस्तु शंकरे ॥ २.२० ॥
* अयं नकारोऽन्यभक्तिप्रतिषेधे ॥ भाष्य २.२०:१
* भक्तिर्भावनेत्यर्थः ॥ भाष्य २.२०:२
* तुशब्दो विशेषणे ॥ भाष्य २.२०:३
* कथम् ॥ भाष्य २.२०:४
* ये हर्षेष्वभिसक्ताः दूष्यतः तस्करत्वमापन्नाः ते विशेषेण तु शंकराद्दूरस्था भवन्ति ॥ भाष्य २.२०:५
* शंकरः कस्मात् ॥ भाष्य २.२०:६
* समस्तसुखनिर्वाणकरत्वाच्छंकरः ॥ भाष्य २.२०:७
* शंकरे इत्यौपश्लेषिकं संनिधानम् ॥ भाष्य २.२०:८
* शंकरे भावना कर्तव्या नान्यत्रेत्यर्थः ॥ भाष्य २.२०:९
* उक्तं हि । कर्मणा मनसा वाचा यदश्लक्ष्णं निषेवते । तदभ्यासो हरत्येनं तस्मात्कल्याणमाचरेत् ॥ भाष्य २.२०:१०
* एवमेते महात्मानः प्राहुरध्यात्मचिन्तकाः । यच्चित्तस्तन्मयो भावो गुह्यमेतत्सनातनम् ॥ भाष्य २.२०:११
* गच्छंस्तिष्ठन् शयानो वा जाग्रच्चैव स्वपंस्तथा । शंकरे भावनां कुर्याद्यदीच्छेद्योगमात्मनः ॥ भाष्य २.२०:१२
* यस्मात्क्षयान्ते त्रैलोक्यं शंकरे याति संक्षयम् । तस्मात्संवर्तको धाता शंकरस्त्वभिधीयते ॥ भाष्य २.२०:१३
* एवं शंकरे भाव उपश्लेषितव्यो नान्यत्रेत्यर्थः ॥ भाष्य २.२०:१४
* एवं परिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य २.२०:१५
**********************************************
अत्रेदं ब्रह्म जपेत् ॥ २.२१ ॥
* इति ॥ भाष्य २.२१:१
* अस्य पूर्वोक्तोऽर्थः ॥ भाष्य २.२१:२
* आह धर्मपरिणामकत्वात्शंकरत्वात्सुखद ईश्वरोऽभिहितः ॥ भाष्य २.२१:३
* अथान्तरसृष्ट्यां सुखदुःखकारणं किं भवति धर्माधर्मसत्त्वरजोवदुत नेति ॥ भाष्य २.२१:४
* उच्यते अत्र य उपायः सुखदः तथा वक्ष्यामः यथावान् यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् ॥ भाष्य २.२१:५
* ननु कोर्यकलवन्निरधिकारस्तथा वक्ष्यामो विस्तरशश्चास्मिन् ब्रह्मणि कारणशक्तिं वक्ष्यामः ॥ भाष्य २.२१:६
* शक्तिं च ज्ञात्वा यथा साधकोऽष्टभिर्नमस्कारैरात्मानं ददाति तथा वक्ष्यामः ॥ भाष्य २.२१:७
* अत इदमारभ्यते ॥ भाष्य २.२१:८
**********************************************
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ २.२२ ॥
* इति ॥ भाष्य २.२२:१
* प्रयोगान्यत्वात्प्रयोजनान्यत्वाच्चापुनरुक्ता वामदेवादिशब्दा द्रष्टव्याः ॥ भाष्य २.२२:२
* अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च पूर्वोक्तम् ॥ भाष्य २.२२:३
* वामदेवज्येष्ठरुद्रायेति चतुर्थी ॥ भाष्य २.२२:४
* नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२२:५
* सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वनमस्कारा द्रष्टव्याः ॥ भाष्य २.२२:६
* आह किं चतुष्कमेवात्र कारणे चिन्त्यते ॥ भाष्य २.२२:७
* नामचतुष्कापदेशेन वा नाम्नि नमस्कारो द्रष्टव्यः ॥ भाष्य २.२२:८
* उच्यते न ॥ भाष्य २.२२:९
* यस्मादाह ॥ भाष्य २.२२:१०
**********************************************
कालाय नमः ॥ २.२३ ॥
* अत्र काल इत्येष महेश्वरपर्यायः कस्मात्पूर्वोत्तरसूत्रसामर्थ्यात् ॥ भाष्य २.२३:१
* कालयते यस्मात्क्षेत्रसाधिनिष्ठानि स्थानानि कलादिशरीरेन्द्रियविषयादिभ्यो वियोगेनेति ततः कालः ॥ भाष्य २.२३:२
* उक्तं हि ॥ भाष्य २.२३:३
* ब्रह्मादिभूर्जपर्यन्तं जगदेतच्चराचरम् । यतः कलयते रुद्रः कालरूपी ततः स्मृतः ॥ भाष्य २.२३:४
* काल्यान् कलयते यस्मात्कलाभ्यः कालपर्ययात् । कलनात्कालनाच्चापि काल इत्यभिधीयते ॥ भाष्य २.२३:५
* एवं कालो हि भगवान् ॥ भाष्य २.२३:६
* काल्याः क्षेत्रज्ञाः ॥ भाष्य २.२३:७
* स्थानानि तु ब्रह्मेन्द्रदेवपित्रादिवचनाद्ब्राह्मं प्राजापत्यं सौम्यमैन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचमिति ॥ भाष्य २.२३:८
* तथा ब्राह्मणशूद्रगोमृगसर्वभूतकृतान्नादिवचनात्तथा मानुषपशुमृगपक्षिसरीसृपस्थावरादीनां ग्रहणम् ॥ भाष्य २.२३:९
* तथा योगेश्वरा देवेष्वन्तर्भूताः ॥ भाष्य २.२३:१०
* कस्मात् ॥ भाष्य २.२३:११
* धर्मबाहुल्यात् ॥ भाष्य २.२३:१२
* तथा नारकास्तिर्यक्ष्वन्तर्भूताः ॥ भाष्य २.२३:१३
* कस्मात् ॥ भाष्य २.२३:१४
* अधर्मबाहुल्यात् ॥ भाष्य २.२३:१५
* एवं स्थानतश्चतुर्दशकः संसार इत्युपचर्यते ॥ भाष्य २.२३:१६
* एतेषु कलादिवचनान्महेश्वरो निमित्तम् ॥ भाष्य २.२३:१७
* कस्मात् ॥ भाष्य २.२३:१८
* पूर्वोत्तरशरीरेषु भोगलोपाभिव्यक्तिमात्रत्वात् ॥ भाष्य २.२३:१९
* आदिमान् संसारो द्रष्टव्यः ॥ भाष्य २.२३:२०
* तत्फलभोक्तृत्वात्कार्यकरणयोरनादित्वादनादिरकृताभ्यागमादित्येतद्भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कालाय नमः ॥ भाष्य २.२३:२१
* अत्रापि कालाय इति चतुर्थी ॥ भाष्य २.२३:२२
* नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२३:२३
* सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ भाष्य २.२३:२४
* आह अथ स्थानशरीरेन्द्रियविषयादीनां किमेष भगवान् प्रभुः कर्ता भवति नेति ॥ भाष्य २.२३:२५
* उच्यते प्रभुः कर्तैव ॥ भाष्य २.२३:२६
* यस्मादाह ॥ भाष्य २.२३:२७
**********************************************
कलविकरणाय नमः ॥ २.२४ ॥
* अत्र कला नाम कार्यकरणाख्याः कलाः ॥ भाष्य २.२४:१
* तत्र कार्याख्याः पृथिव्यापस्तेजो वायुराकाशः ॥ भाष्य २.२४:२
* आकाशः शब्दगुणः ॥ भाष्य २.२४:३
* शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि । ते रसश्च जले ज्ञेयास्ते च गन्धः क्षितावपि ॥ भाष्य २.२४:४
* शब्दस्पर्शरूपरसगन्धाः ॥ भाष्य २.२४:५
* तथा करणाख्याः श्रोत्रं त्वक्चक्षुः जिह्वा घ्राणं पादः पायुः उपस्थः हस्तः वाक्मनः अहंकारः बुद्धिरिति ॥ भाष्य २.२४:६
* तासां विकरणो भगवानीश्वरः ॥ भाष्य २.२४:७
* कस्मात् ॥ भाष्य २.२४:८
* दृक्क्रियाशक्त्योरप्रतीघातात् ॥ भाष्य २.२४:९
* विकरणत्वं नाम स्थानशरीरेन्द्रियविषयादिसंनिवेशेन विस्तरविभागविशेषतश्च कार्यकरणाख्याभिः कलाभिर्धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्यादिभिश्च क्षेत्रज्ञसंयोजनमित्येतद्भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कलविकरणाय नमः ॥ भाष्य २.२४:१०
* अत्रापि कलविकरणाय इति चतुर्थी । नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२४:११
* सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमःशदः ॥ भाष्य २.२४:१२
* आह कालनविकरणत्वादवान्तरसृष्ट्यां कर्मक्षये वृत्तिलाभे चापेक्षते नेति ॥ भाष्य २.२४:१३
* धर्मज्ञानवैराग्यैश्वर्यादीनां वा किमेष भगवान् प्रभुर्भवति नेति ॥ भाष्य २.२४:१४
* उच्यते प्रभुः ॥ भाष्य २.२४:१५
* यस्मादाह ॥ भाष्य २.२४:१६
**********************************************
बलप्रमथनाय नमः ॥ २.२५ ॥
* बलं नाम धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि इच्छाद्वेषप्रयत्नादीनि विद्यावर्गः रूपाणि ॥ भाष्य २.२५:१
* प्र इति भृशार्थे कामित्वाकर्षणे च ॥ भाष्य २.२५:२
* मथनत्वं नाम बलवृत्तिनिरोधनमुदधिमथनवत् ॥ भाष्य २.२५:३
* न वाग्निज्ञानादीनि दुर्बलानि ॥ भाष्य २.२५:४
* यस्मादुक्तम् । न ह्यतेजस्विनाशाय तैजसाः प्रभवन्ति वै । बलान्यतिबलान्यस्य न भवेऽतिबलानि वै ॥ भाष्य २.२५:५
* इत्येवं भगवत्यभ्यधिकत्वं शेषेषु पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं बलप्रमथनाय नमः ॥ भाष्य २.२५:६
* अत्रापि बलप्रमथनाय इति चतुर्थी ॥ भाष्य २.२५:७
* नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२५:८
* सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ भाष्य २.२५:९
* आह केषां कालनविकरणमथनानि करोति ॥ भाष्य २.२५:१०
* तदुच्यते भूतानाम् ॥ भाष्य २.२५:११
* यस्मादाह ॥ भाष्य २.२५:१२
**********************************************
सर्वभूतदमनाय नमः ॥ २.२६ ॥
* अत्र कलावचने पुनरुक्तिदोषान्न पृथिव्यादिषु सर्वशब्दः ॥ भाष्य २.२६:१
* किं तु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतशब्दः ॥ भाष्य २.२६:२
* आह भूतत्वानुपपत्तेर्न चेतनेषु सर्वभूतशब्दः ॥ भाष्य २.२६:३
* तदुच्यते दमनाय ॥ भाष्य २.२६:४
* शमु दमु उपशमे ॥ भाष्य २.२६:५
* देवमनुष्यादीनां स्थानशरीरेन्द्रियविषयादिषु या रतिः रञ्जनाधिवासना तत्सर्वमन्तरदृष्ट्या सर्वमीश्वरकृतमेव द्रष्टव्यमित्येतद्भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं सर्वभूतदमनाय नमः ॥ भाष्य २.२६:६
* अत्रापि सर्वभूतदमनाय इति चतुर्थी ॥ भाष्य २.२६:७
* नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२६:८
* सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ भाष्य २.२६:९
* आह कीदृशे महेश्वरे कालनादिशक्तिरुच्यते किं सकले निष्कले उत उभयोरपि ॥ भाष्य २.२६:१०
* उच्यते उभयोरपि ॥ भाष्य २.२६:११
* यस्मादाह ॥ भाष्य २.२६:१२
**********************************************
मनोऽमनाय नमः ॥ २.२७ ॥
* अत्र मनःशब्देनान्तःकरणं तत्तन्त्रत्वादुदाहरणार्थत्वाच्च मनोग्रहणस्य उभयात्मकत्वाच्च मनसः सर्वकरणग्रहणानुग्रहणाच्च कार्यग्रहणमित्यतः कार्यकरणाधिष्ठातृत्वाच्च सकल इत्युपचर्यते ॥ भाष्य २.२७:१
* तथा चैतादृशमनसः प्रतिषेधादत्र कार्यकरणरहितो निष्कलो भगवानमन इत्युच्यते ॥ भाष्य २.२७:२
* तस्मात्सकलेतरानुग्राहकानादिशक्तिर्विद्यते ॥ भाष्य २.२७:३
* उक्तं हि । अपाणिपादोदरपार्श्वजिह्वः अतीन्द्रियो व्यापिस्वभावसिद्धः । पश्यत्यचक्षुः स शृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति । स वेत्ति सर्वं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ भाष्य २.२७:४
* इत्येतद्भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं वक्तुं मनोऽमनाय नमः ॥ भाष्य २.२७:५
* मनोऽमनाय इति चतुर्थी ॥ भाष्य २.२७:६
* नमु इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२७:७
* सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वे नमःशब्दा द्रष्टव्याः ॥ भाष्य २.२७:८
**********************************************
ড়ाशुपतसूत्र, ३
अव्यक्तलिङ्गी ॥ ३.१ ॥
* इति ॥ भाष्य ३.१:१
* अत्र अकारो लिङ्गव्यक्तत्वं प्रतिषेधति ॥ भाष्य ३.१:२
* अवसितप्रयोजनः पूर्वोक्तैर्लिङ्गोपकरणैरनुस्नाननिर्माल्यैकवासाद्यैः प्रयोजनैर्विनिवृत्तैर्लोकतस्त्रिषु स्नानं कुर्वन्नपि ॥ भाष्य ३.१:३
* षडाश्रमलिङ्गानुपलब्धावनवधृतोक्तलिङ्गवदव्यक्ताः क्रियाः कार्याः ॥ भाष्य ३.१:४
* आह कया वा मर्यादया कस्मिन् वा काले सा क्रिया कर्तव्या ॥ भाष्य ३.१:५
* तदुच्यते ॥ भाष्य ३.१:६
**********************************************
व्यक्ताचारः ॥ ३.२ ॥
* अत्र व्यक्तशब्दो दिवसमधिकुरुते ॥ भाष्य ३.२:१
* व्यक्ताः स्फुटाः प्रकाशाः ॥ भाष्य ३.२:२
* अहनीत्यर्थः ॥ भाष्य ३.२:३
* आङित्यवमानादिनिष्पत्तिमर्यादामधिकुरुते ॥ भाष्य ३.२:४
* चार इति क्राथनादीनामुद्देशः ॥ भाष्य ३.२:५
* तान् क्राथनादीन् साधको नटदवस्थितो रङ्गवल्लौकिकानधिजन्य नाटकवदाचारानाचरति करोति प्रयुङ्क्त इत्यतोऽयं व्यक्ताचारः ॥ भाष्य ३.२:६
* आह अव्यक्तलिङ्गिनो व्यक्ताचारस्य का कार्यनिष्पत्तिः ॥ भाष्य ३.२:७
* तदुच्यते अवमानः ॥ भाष्य ३.२:८
* यस्मादाह ॥ भाष्य ३.२:९
**********************************************
अवमतः ॥ ३.३ ॥
* अत्र अव वर्जने ॥ भाष्य ३.३:१
* मानेन तेषां लिङ्गाचारज्ञानविधिविपरीतप्रवृत्तिं दृष्ट्वा सर्वदोषदुष्टोऽयमिति मानसाधेनावमाने यो जनः परिवर्जयतान्यतोऽयमबहुमतत्वं प्राप्नोति ॥ भाष्य ३.३:२
* उक्तं च ॥ भाष्य ३.३:३
* अमृतस्येव लिप्सेत नैव मानं विचक्षणः । विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः ॥ भाष्य ३.३:४
* सुखं ह्यवमतः शेते सर्वसङ्गविवर्जितः । दोषान् परस्य न ध्यायेत्तस्य पापं सदा मुनिः ॥ भाष्य ३.३:५
* आह केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति ॥ भाष्य ३.३:६
* तदुच्यते ॥ भाष्य ३.३:७
**********************************************
सर्वभूतेषु ॥ ३.४ ॥
* अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः ॥ भाष्य ३.४:१
* कस्मादुच्यते वर्णाश्रमिष्विति ॥ भाष्य ३.४:२
* भूतेषु इत्युक्तं नतु देवतिर्यग्योनिम्लेच्छादिषु ॥ भाष्य ३.४:३
* कस्मात् ॥ भाष्य ३.४:४
* व्यक्ताचारावमानदानादानविरोधात् ॥ भाष्य ३.४:५
* उक्तं हि । धन्यो देशो यत्र गावः प्रभूताः मेध्यं चान्नं पार्थिवा धर्मशीलाः । पुण्या नद्यः सर्वलोकोपभोग्यास्तांस्तान् देशान्सिद्धिकामो व्रजेत ॥ भाष्य ३.४:६
* भूतेषु इति सामीपिकं संनिधानम् ॥ भाष्य ३.४:७
* भूतसमीपे भूताभ्याशे भूतानामध्यक्ष इत्यर्थः ॥ भाष्य ३.४:८
* सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतरत्वादस्य विध्याचरणम् ॥ भाष्य ३.४:९
* असुरेषु इत्याचरणज्ञापकाच्च ॥ भाष्य ३.४:१०
* आह अवमतेन सर्वभूतेषु किं कर्तव्यम् ॥ भाष्य ३.४:११
* तदुच्यते चरितव्यम् ॥ भाष्य ३.४:१२
* यस्मादाह ॥ भाष्य ३.४:१३
**********************************************
परिभूयमानश्चरेत् ॥ ३.५ ॥
* अत्र परि सर्वतोभावे ॥ भाष्य ३.५:१
* पगक्ष्याः परीक्ष्या इत्यर्थः ॥ भाष्य ३.५:२
* भूय इति बहुधा ॥ भाष्य ३.५:३
* यष्टिमुष्ट्यादिभिः संयोजनं परिभवः ॥ भाष्य ३.५:४
* कायिक इत्यर्थः ॥ भाष्य ३.५:५
* मान इति साधककालकर्माभिधाने ॥ भाष्य ३.५:६
* परिभूयमानेनैव ॥ भाष्य ३.५:७
* स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः ॥ भाष्य ३.५:८
* कनकपाषाणवदिन्द्रकीलकवच्च भवितव्यम् ॥ भाष्य ३.५:९
* चरेदित्यर्जनमधिकुरुते ॥ भाष्य ३.५:१०
* धर्मार्जने नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः ॥ भाष्य ३.५:११
* आह अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव उत शुद्धिरप्यस्ति ॥ भाष्य ३.५:१२
* उच्यते अस्ति ॥ भाष्य ३.५:१३
* यस्मादाह ॥ भाष्य ३.५:१४
**********************************************
अपहतपाप्मा ॥ ३.६ ॥
* भवतीति वाक्यशेषो वचनाधिकाराद्गम्यते ॥ भाष्य ३.६:१
* अत्र अप वर्जने आघाते नाशे च ॥ भाष्य ३.६:२
* अपहता अन्यतनष्टा इत्यर्थः ॥ भाष्य ३.६:३
* पाप्मानोऽत्र द्विविधाः सुलक्षणाः दुःखलक्षणाश्च ॥ भाष्य ३.६:४
* तत्र सुखलक्षणाः उन्मादः मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं बहुभोजनमित्येवमाद्याः ॥ भाष्य ३.६:५
* तथा दुःखलक्षणाःशिरोरोगदन्तरोगाक्षिरोगाद्याः ॥ भाष्य ३.६:६
* एवमेते पाप्मान आत्मगताः कायकरणेष्वादर्शप्रतिरूपकवदभिव्यक्ताः ॥ भाष्य ३.६:७
* कृत्स्नाः अपहताः पाप्मानः सोऽयमपहतपाप्मा भवतीत्यर्थः ॥ भाष्य ३.६:८
* आह किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य पापक्षयशुद्धिहेतुः आहोस्विद्वाचिकमप्यस्ति नेति ॥ भाष्य ३.६:९
* उच्यते यस्मादाह ॥ भाष्य ३.६:१०
**********************************************
परेषां परिवादात् ॥ ३.७ ॥
* अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः संयोजयन्ति तेषाम् ॥ भाष्य ३.७:१
* परेषामिति षष्ठीबहुवचनम् ॥ भाष्य ३.७:२
* आह स्वपरवाक्यावमानादिभिः शुद्धिरेवास्य न तु वृद्धिः ॥ भाष्य ३.७:३
* सा च साधकस्य फलाभिधानादतिदानादिष्वित्युच्यते न पूर्वकृतसुकृतदानविवक्षया ॥ भाष्य ३.७:४
* परि इति च सर्वतोभावे ॥ भाष्य ३.७:५
* वद वादः ॥ भाष्य ३.७:६
* अव्यक्तोऽयं प्रेतोऽयमुन्मत्तोऽयं मूढोऽयं मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्काम्यसम्यक्कारी असम्यग्वादी इत्येवमुग्रैर्वचोभिरभिघ्नन्तीति वादाः ॥ भाष्य ३.७:७
* वादादिति निमित्तपञ्चमी द्रष्टव्या ॥ भाष्य ३.७:८
* तस्मादवमानादिभिः परान् संयोजयता स्वयमेवात्मा संयोक्तव्यः ॥ भाष्य ३.७:९
* अन्यथा पाशमात्रः स्यादिति ॥ भाष्य ३.७:१०
* पाप्मनां वा जानपदेशात्संदेहः ॥ भाष्य ३.७:११
* कस्य कार्यं पाप्मनः ॥ भाष्य ३.७:१२
* कथं वा तेषां कार्यकरणेष्वभिव्यक्तानां परसमुत्थैरवमानादिभिर्निर्घातनं भवति ॥ भाष्य ३.७:१३
* तदुच्यते ॥ भाष्य ३.७:१४
* यस्मादाह ॥ भाष्य ३.७:१५
**********************************************
पापं च तेभ्यो ददाति ॥ ३.८ ॥
* अत्र पापमित्यधर्मपर्यायः ॥ भाष्य ३.८:१
* तद्यथा । आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् । पापं पाप्मानं वृजिनं स्तेयम् ॥ भाष्य ३.८:२
* इत्येकार्थवाचकाः शब्दाः ॥ भाष्य ३.८:३
* इह चोक्तं पापमिति ॥ भाष्य ३.८:४
* पापं च कस्मात् ॥ भाष्य ३.८:५
* पावकपासकत्वात्पापम् ॥ भाष्य ३.८:६
* पावयति यस्मात्शिरोरोगदन्तरोगाक्षिरोगादिभिः पातयति नरकादिषु पासयति वानिष्टाभिः कार्यकरणाख्याभिः कलाभिरिति ॥ भाष्य ३.८:७
* अतः पावकपातकपासकत्वात्पापम् ॥ भाष्य ३.८:८
* एवंच बीजाङ्कुरवत्पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः ॥ भाष्य ३.८:९
* बीजपापप्रसवाः पाप्मान इत्यर्थः ॥ भाष्य ३.८:१०
* तेभ्य इति चतुर्थी सम्प्रदानार्था ॥ भाष्य ३.८:११
* अथ एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति संक्रामयतीत्यर्थः ॥ भाष्य ३.८:१२
* आह किमवमानादिभिः शुद्धिरेवास्य न तु वृद्धिरिति ॥ भाष्य ३.८:१३
* तदुच्यते वृद्धिरप्यस्ति ॥ भाष्य ३.८:१४
* यस्मादाह ॥ भाष्य ३.८:१५
**********************************************
सुकृतं च तेषामादत्ते ॥ ३.९ ॥
* अत्र सु प्रशंसायाम् ॥ भाष्य ३.९:१
* कृतमिति धर्मपर्यायः ॥ भाष्य ३.९:२
* चशब्दः शुद्धिसमुच्चयार्थः पूर्वधर्मनियोगार्थश्च ॥ भाष्य ३.९:३
* तेषामिति ॥ भाष्य ३.९:४
* ये अवमानादिभिः संयोजयन्ति तेषामित्यर्थः ॥ भाष्य ३.९:५
* तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य कृत्स्नस्यादानज्ञापनार्थम् ॥ भाष्य ३.९:६
* आदत्ते ॥ भाष्य ३.९:७
* आ ग्रहणे ॥ भाष्य ३.९:८
* स्वात्मनि करोति विषमं वा इहातुरवदित्यर्थः ॥ भाष्य ३.९:९
* आह अतिदानाद्यतितपोवदवमानादिसाधनं गुणवचनं किमस्ति नेति ॥ भाष्य ३.९:१०
* उच्यते अस्ति ॥ भाष्य ३.९:११
* यस्मादाह ॥ भाष्य ३.९:१२
**********************************************
तस्मात् ॥ ३.१० ॥
* इति । अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने ॥ भाष्य ३.१०:१
* कथम् ॥ भाष्य ३.१०:२
* यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति ॥ भाष्य ३.१०:३
* यस्माच्च तन्निष्ठालौकिकशरीरेन्द्रियविषयादिप्रापकः ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तिरेकान्तेनात्यन्तिकी भवति ॥ भाष्य ३.१०:४
* अतो ब्रवीति तस्मादिति ॥ भाष्य ३.१०:५
* आह अथैतदवमानादिसाधनमेव कर्तव्यम् ॥ भाष्य ३.१०:६
* किं वा अव्यक्तावस्थानैव चरितव्यम् ॥ भाष्य ३.१०:७
* तदुच्यते न ॥ भाष्य ३.१०:८
* यस्मादाह ॥ भाष्य ३.१०:९
**********************************************
प्रेतवच्चरेत् ॥ ३.११ ॥
* अत्र पुरुषाख्यः प्रेतः न मृताख्यः ॥ भाष्य ३.११:१
* कस्मात् ॥ भाष्य ३.११:२
* आचरणोपदेशात् ॥ भाष्य ३.११:३
* वदिति किंचिदुपमा ॥ भाष्य ३.११:४
* उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन रूढश्मश्रुनखरोमधारिणा सर्वसंस्कारवर्जितेन भवितव्यम् ॥ भाष्य ३.११:५
* अतो वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते ॥ भाष्य ३.११:६
* प्रयोजननिष्पत्तिश्च भवति अवमानादि ॥ भाष्य ३.११:७
* चरेदित्याज्ञामधिकुरुते ॥ भाष्य ३.११:८
* धर्मार्जने नियोगे च ॥ भाष्य ३.११:९
* संशयान्यत्वाच्चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ भाष्य ३.११:१०
* आह चरतोऽस्य के क्रियाविशेषाः ॥ भाष्य ३.११:११
* का वार्थनिष्पत्तिः ॥ भाष्य ३.११:१२
* आचाराणां वा को विस्तारः ॥ भाष्य ३.११:१३
* तदुच्यते ॥ भाष्य ३.११:१४
**********************************************
क्राथेत वा ॥ ३.१२ ॥
* अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः तदा आचार्यसकाशान्निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां समूहस्तत्र तेषां नातिदूरे नातिसंनिकर्षे यत्र च तेषां नोपरोधो दृष्टिनिपातश्च भवति तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि ॥ भाष्य ३.१२:१
* तत्रैवानेनासुप्तेन सुप्त इव भवितव्यम् ॥ भाष्य ३.१२:२
* ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः कर्तव्यः ॥ भाष्य ३.१२:३
* ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः प्रपद्यन्ते परिभवन्ति च ॥ भाष्य ३.१२:४
* अनेनानृताभियोगेनास्य यत्तेषां सुकृतं तदागच्छति ॥ भाष्य ३.१२:५
* अस्यापि च यत्पापं तत्तान् प्रति ॥ भाष्य ३.१२:६
* एवं क्राथनमिति क्रिया ॥ भाष्य ३.१२:७
* इत इत्यभियजन आज्ञायां नियोगे च ॥ भाष्य ३.१२:८
* वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः ॥ भाष्य ३.१२:९
* आह अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः हसितादिवत् ॥ भाष्य ३.१२:१०
* कस्माद्भाविवचनं भवति ॥ भाष्य ३.१२:११
* उच्यते पृथगभिधाने सत्यपि हसितगीतनृत्यवत्संदेहः ॥ भाष्य ३.१२:१२
* पृथगभिधाने सत्यपि हसितगीतयोः पृथक्पृथक्प्रयोगः ॥ भाष्य ३.१२:१३
* अत्र विभक्तयोस्तु गीतनृत्ययोः ॥ भाष्य ३.१२:१४
* अध्ययनयन्त्रणयोश्च ॥ भाष्य ३.१२:१५
* तस्मात्पृथगभिधानमनुरतो वा विभागे भवतान्यदोषः ॥ भाष्य ३.१२:१६
* ततः क्राथनक्रिययावमानादिषु निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् ॥ भाष्य ३.१२:१७
* यथा लौकिकानां सम्प्रत्ययो भवति किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति ॥ भाष्य ३.१२:१८
* अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् ॥ भाष्य ३.१२:१९
* यस्मादाह ॥ भाष्य ३.१२:२०
**********************************************
स्पन्देत वा ॥ ३.१३ ॥
* अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते ॥ भाष्य ३.१३:१
* कस्मात् ॥ भाष्य ३.१३:२
* ज्ञानेच्छाप्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः ॥ भाष्य ३.१३:३
* द्रष्टारो हि वायुसंसृष्टोऽयमिति लौकिकाः प्रतिपद्यन्ते परिभवन्ति च ॥ भाष्य ३.१३:४
* अनेनानृताभियोगेनास्य तत्पुण्यमागच्छति अस्यापि च यत्पापं तान् गच्छति ॥ भाष्य ३.१३:५
* एवं स्पन्दनमिति क्रिया ॥ भाष्य ३.१३:६
* इत इत्यभियजन आज्ञायां नियोगे च ॥ भाष्य ३.१३:७
* एवमादिसाधने सति वा विकल्पे रौद्रीबहुरूपीवत् ॥ भाष्य ३.१३:८
* अवस्थानक्राथनोत्थानस्पन्दनादौ वाशब्दो द्रष्टव्यः ॥ भाष्य ३.१३:९
* आह अभिप्रस्थितस्य धर्मसाधनं किमस्ति नेति ॥ भाष्य ३.१३:१०
* उच्यते अस्ति ॥ भाष्य ३.१३:११
* यस्मादाह ॥ भाष्य ३.१३:१२
**********************************************
मण्टेत वा ॥ ३.१४ ॥
* वेति पादवैकल्यमधिकुरुते ॥ भाष्य ३.१४:१
* मण्टने च प्रयुक्ते वक्तारो वदन्त्युपहतमस्य पादेन्द्रियम् ॥ भाष्य ३.१४:२
* कृत्स्नस्याशुभस्य च वृत्तिरस्मिञ्छरीरे उपलभ्यते ॥ भाष्य ३.१४:३
* उक्तं हि । दारिद्र्यं व्याधिभूयिष्ठता मूर्खत्वं चारूपता भ्रंशतापि । देहोत्पत्तिर्वर्णहीने कुले वा प्रत्यादेशः कर्मणां दुष्कृतानाम् ॥ भाष्य ३.१४:४
* द्रष्टारो हि उपहतपाद इति प्रपद्यन्ते परिभवन्ति च ॥ भाष्य ३.१४:५
* अनेनानृताभियोगेन यत्तेषां सुकृतं तदस्यागच्छति ॥ भाष्य ३.१४:६
* अस्यापि च यत्पापं तान् गच्छति ॥ भाष्य ३.१४:७
* एवं मण्टनमिति क्रिया ॥ भाष्य ३.१४:८
* इत इत्यभियजने आज्ञायां नियोगे च ॥ भाष्य ३.१४:९
* वाशब्दः क्राथनस्पन्दनमण्टनादिविभागे द्रष्टव्यः ॥ भाष्य ३.१४:१०
* आह स्त्रीष्वधिकारिकर्मसाधनं किमस्ति नेति ॥ भाष्य ३.१४:११
* उच्यते अस्ति ॥ भाष्य ३.१४:१२
* यस्मादाह ॥ भाष्य ३.१४:१३
**********************************************
शृङ्गारेत वा ॥ ३.१५ ॥
* अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते ॥ भाष्य ३.१५:१
* कथम् ॥ भाष्य ३.१५:२
* स्त्रीजनसमूहस्यानुपरोधे नातिदूरे नातिसंनिकर्षे अधिदृष्टिनिपाते स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियमधिकृत्यालोचनसंकल्पाध्यवसायाभिमानादयः प्रयोक्तव्याः ॥ भाष्य ३.१५:३
* अयुक्ता चेच्छावलोके हि सति केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि ॥ भाष्य ३.१५:४
* ततः स्त्रीपुंनपुंसकादयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति ॥ भाष्य ३.१५:५
* अनेनानृताभियोगेनास्य यत्तेषां सुकृतं तदागच्छति अस्यापि यत्पापं तत्तेषां गच्छत्येव ॥ भाष्य ३.१५:६
* शृङ्गारणमिति क्रिया ॥ भाष्य ३.१५:७
* इत इत्यभियजने आज्ञायां नियोगे च वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां विकल्पे ॥ भाष्य ३.१५:८
* क्रियान्यत्वाच्चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः ॥ भाष्य ३.१५:९
* आह क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्यत्वात् ॥ भाष्य ३.१५:१०
* उक्तं हि । ये हि वै दीक्षितं यजमानं पृष्ठतोऽपवदन्ति ते तस्य पाप्मानमभिव्रजन्ति ॥ भाष्य ३.१५:११
* पृष्ठतः पदमग्रतः पार्श्वतश्च योज्यम् ॥ भाष्य ३.१५:१२
* तस्मात्क्राथेत वा स्पन्देत वा मण्टेत वा शृङ्गारेत वा ॥ भाष्य ३.१५:१३
* कस्मात् ॥ भाष्य ३.१५:१४
* अतियजनादिविशेषितत्वात् ॥ भाष्य ३.१५:१५
* कस्मात् ॥ भाष्य ३.१५:१६
* सर्वज्ञवचनादर्थाविसंवादित्वाच्च लोकापरिग्रहाभावः ॥ भाष्य ३.१५:१७
* आह क्रियाचतुष्कमेवात्र कर्तव्यमिति ॥ भाष्य ३.१५:१८
* उच्यते न ॥ भाष्य ३.१५:१९
* यस्मादाह ॥ भाष्य ३.१५:२०
**********************************************
अपितत्कुर्यात् ॥ ३.१६ ॥
* अत्र अपिशब्दः क्राथनादिसर्वक्रियासमुच्चयवचने ॥ भाष्य ३.१६:१
* तदिति अनैकान्ते ॥ भाष्य ३.१६:२
* कुर्यादिति कुशलां हासवृत्तिमधिकुरुते ॥ भाष्य ३.१६:३
* यमानामविरोधिनां शुविरूपकाणां द्रव्याणां काष्ठलोष्टादीनां ग्रहणधारणसंस्पर्शनादीनि कर्तव्यानि ॥ भाष्य ३.१६:४
* ततस्ते वक्तारो वदन्ति असम्यक्कारी शुच्यशुच्योः कार्याकार्ययोरविभागज्ञ इति ॥ भाष्य ३.१६:५
* अनेनानृताभियोगेनास्य धर्माधर्मयोश्च हानादानशुद्धिर्भवति ॥ भाष्य ३.१६:६
* आह किं क्रियापञ्चकमेवात्र कर्तव्यम् ॥ भाष्य ३.१६:७
* तदुच्यते न ॥ भाष्य ३.१६:८
* यस्मादाह ॥ भाष्य ३.१६:९
**********************************************
अपितद्भाषेत् ॥ ३.१७ ॥
* अत्र अपिशब्दः सर्वेन्द्रियवृत्त्यपादानसम्भावने ॥ भाष्य ३.१७:१
* तदिति अनैकान्ते ॥ भाष्य ३.१७:२
* भाषेदिति वाक्यवृत्तिमधिकुरुते ॥ भाष्य ३.१७:३
* इत्पदमपार्थकं पुनरुक्तं व्याहतं भाषितव्यमिति ॥ भाष्य ३.१७:४
* ततस्ते वक्तारो वदन्ति असम्यग्वादी वाच्यावाच्ययोरविभागज्ञ इति ॥ भाष्य ३.१७:५
* अनेनानृताभियोगेनास्य धर्माधर्मयोस्त्यागादानशुद्धिर्भवति ॥ भाष्य ३.१७:६
* आह किं हसितादिवद्यथापाठक्रमेणैव क्राथनादयः प्रयोक्तव्याः ॥ भाष्य ३.१७:७
* किं वा प्रयोजनं कर्तव्यम् ॥ भाष्य ३.१७:८
* तदुच्यते परिभवादिनिष्पत्त्यर्थम् ॥ भाष्य ३.१७:९
* यस्मादाह ॥ भाष्य ३.१७:१०
**********************************************
येन परिभवं गच्छेत् ॥ ३.१८ ॥
* अत्र यच्छब्दः अतिक्रान्तापेक्षणे वीप्सायां च ॥ भाष्य ३.१८:१
* परिभवः पूर्वोक्तः ॥ भाष्य ३.१८:२
* गच्छेदित्यवमानपरिभवपरिवादाः प्राप्तव्या इत्यर्थः ॥ भाष्य ३.१८:३
* एवमत्र व्यक्ताचारसमासोक्तानां क्राथनादीनामाचाराणां विस्तरविभागविशेषोपसंहारादयश्च व्याख्याता इत्यर्थः ॥ भाष्य ३.१८:४
* आह कियन्तं कालं परिभवादयः प्राप्तव्याः ॥ भाष्य ३.१८:५
* कीदृशेन वा ॥ भाष्य ३.१८:६
* तदुच्यते ॥ भाष्य ३.१८:७
**********************************************
परिभूयमानो हि विद्वान् कृत्स्नतपा भवति ॥ ३.१९ ॥
* अत्र परि सर्वतोभावे ॥ भाष्य ३.१९:१
* भूय इत्यनेकशोऽवमानादयः प्राप्तव्याः ॥ भाष्य ३.१९:२
* मान इत्यस्य पूर्वोक्तोऽर्थः ॥ भाष्य ३.१९:३
* हिशब्दः कृत्स्नतपौत्कर्षे ॥ भाष्य ३.१९:४
* उत्कर्षापेक्षो द्रष्टव्यः ॥ भाष्य ३.१९:५
* विद्या नाम या ग्रन्थार्थवर्तिपदार्थानामभिव्यञ्जिका विप्रत्वलक्षणा ॥ भाष्य ३.१९:६
* न्यायात्पदार्थानामधिगतप्रत्ययो लाभमलोपायाभिज्ञः विद्वानित्युच्यते ॥ भाष्य ३.१९:७
* कृत्स्नमिति प्रयोगप्राप्तौ पर्याप्तिमधिकुरुते न तु हर्षादिप्राप्तावित्यर्थः ॥ भाष्य ३.१९:८
* कृत्स्नतपाः पर्याप्ततपाः साधक इत्यर्थः ॥ भाष्य ३.१९:९
* भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्य ३.१९:१०
* यदा यमनियमेषु दृढो भूत्वा क्राथनादीन् प्रयुङ्क्ते तदा कृत्स्नतपा भवति ॥ भाष्य ३.१९:११
* कृत्स्नस्य तपसो लक्षणमात्मप्रत्यक्षं वेदितव्यम् ॥ भाष्य ३.१९:१२
* एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य ३.१९:१३
**********************************************
अत्रेदं ब्रह्म जपेत् ॥ ३.२० ॥
* इति ॥ भाष्य ३.२०:१
* अस्य पूर्वोक्तोऽर्थः ॥ भाष्य ३.२०:२
* किंपुनस्तद्ब्रह्मेति ॥ भाष्य ३.२०:३
* तदुच्यते ॥ भाष्य ३.२०:४
**********************************************
अघोरेभ्यः ॥ ३.२१ ॥
* अथवा ब्रह्मणा सह ब्रह्मसम्बन्धो भवति ॥ भाष्य ३.२१:१
* कथम् ॥ भाष्य ३.२१:२
* मनोग्रहणाद्रूपादिविहीना अर्थाः ॥ भाष्य ३.२१:३
* किं तानि सुरूपाणि सलक्षणानि विलक्षणानि उत सलक्षणविलक्षणानीति ॥ भाष्य ३.२१:४
* किं परिमितानि उत अपरिमितानि उत परिमितापरिमितानि ॥ भाष्य ३.२१:५
* उच्यते कारणत्वबहुत्वेनोक्तस्य भगवतो रूपनानात्वं वैलक्षण्यावैलक्षण्यं परिमितापरिमितत्वं चोच्यते अघोरेभ्यः ॥ भाष्य ३.२१:६
* अकारो रूपाणां घोरत्वं प्रतिषेधति ॥ भाष्य ३.२१:७
* अघोराण्यतिशान्तानि अनुग्रहकराणीत्यर्थः ॥ भाष्य ३.२१:८
* एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ भाष्य ३.२१:९
* आह किमेतान्येव एभ्य एव वा ॥ भाष्य ३.२१:१०
* तदुच्यते न ॥ भाष्य ३.२१:११
* यस्मादाह ॥ भाष्य ३.२१:१२
**********************************************
अथ घोरेभ्यः ॥ ३.२२ ॥
* अत्र अथशब्दो घोररूपोपाधिको द्रष्टव्यः घोराणि अशिवानि अशान्तानि अननुग्रहकारीणीत्यर्थः ॥ भाष्य ३.२२:१
* एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ भाष्य ३.२२:२
* आह किमेतान्येव द्विसंस्थानसंस्थेभ्य एव वा ॥ भाष्य ३.२२:३
* उच्यते यस्मादाह ॥ भाष्य ३.२२:४
**********************************************
घोरघोरतरेभ्यश्च ॥ ३.२३ ॥
* अत्र घोर इत्येतद्भगवतो नामधेयम् ॥ भाष्य ३.२३:१
* द्वितीयो घोरशब्दो रूपेषु द्रष्टव्यः ॥ भाष्य ३.२३:२
* तर विशेषणे ॥ भाष्य ३.२३:३
* शानतरादिवत् ॥ भाष्य ३.२३:४
* तेभ्यो घोरेभ्योऽघोरेभ्यश्च यान्यन्यानि पशूनां सम्मोहकराणि तानि घोरतराणीत्यर्थः ॥ भाष्य ३.२३:५
* एभ्य इत्यपरिमितासंख्यातेभ्य इत्यर्थः ॥ भाष्य ३.२३:६
* चशब्दो घोराघोररूपोपसंहारे द्रष्टव्यः ॥ भाष्य ३.२३:७
* एतान्येव त्रिसंख्यानि रूपाणि नान्यानीत्यर्थः ॥ भाष्य ३.२३:८
* आह कुतस्तानि रूपाणि करोति ॥ भाष्य ३.२३:९
* कुत्रस्थानि वा ॥ भाष्य ३.२३:१०
* तदुच्यते ॥ भाष्य ३.२३:११
**********************************************
सर्वेभ्यः ॥ ३.२४ ॥
* अत्र यानि रूपकारणे ॥ भाष्य ३.२४:१
* सर्वत्वं कस्मात् ॥ भाष्य ३.२४:२
* सर्वत्रानवकाशदोषात्सूच्यग्रे द्विनाभीयबदरवत् ॥ भाष्य ३.२४:३
* किंतु कारणशक्तेरव्याहतत्वाच्च ॥ भाष्य ३.२४:४
* सर्वत्र तानीत्यर्थः ॥ भाष्य ३.२४:५
* आह रूपकरणे करणेष्वस्याप्रतिघात इति क्व सिद्धम् ॥ भाष्य ३.२४:६
* तदुच्यते इह ॥ भाष्य ३.२४:७
* यस्मादाह ॥ भाष्य ३.२४:८
**********************************************
शर्वसर्वेभ्यः ॥ ३.२५ ॥
* अत्र शर्व इत्येतद्भगवतो नामधेयम् ॥ भाष्य ३.२५:१
* शर्वः कस्मात् ॥ भाष्य ३.२५:२
* विद्यादिकार्यस्य शरणाच्छर्व इत्युच्यते ॥ भाष्य ३.२५:३
* सर्वं विद्यादिकार्यं रुद्रस्थम् ॥ भाष्य ३.२५:४
* सर्वस्मिंश्च भगवांश्चोदकः कारणत्वेन सर्वत्र ॥ भाष्य ३.२५:५
* सर्वशब्दः त्रिसंख्येष्वपि एषु निरवशेषवाची द्रष्टव्यः ॥ भाष्य ३.२५:६
* एभ्य इत्यपरिमितासंख्येभ्य इत्यर्थः ॥ भाष्य ३.२५:७
* आह अथैतां रूपविभूतिं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्य ३.२५:८
* तदुच्यते ॥ भाष्य ३.२५:९
**********************************************
नमस्ते अस्तु रुद्ररूपेभ्यः ॥ ३.२६ ॥
* अत्र नम इत्यात्मप्रयुक्त इत्यर्थः ते इति कारणापदेशे ॥ भाष्य ३.२६:१
* नमस्तुभ्यं नमस्ते ॥ भाष्य ३.२६:२
* अथवा नमस्कारेणात्मानं प्रदाय धर्मप्रचयपरिग्रहमिच्छन्ति ॥ भाष्य ३.२६:३
* अथ कतमोऽयं परिग्रहः ॥ भाष्य ३.२६:४
* तदुच्यते विशिष्टे परिग्रहात् ॥ भाष्य ३.२६:५
* तदुच्यतेऽत्र रुद्र इति कारणापदेशे ॥ भाष्य ३.२६:६
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ३.२६:७
* रूपाणि यानि शरीराण्युत्पादयति तेभ्यो रूपेभ्य इत्यर्थः ॥ भाष्य ३.२६:८
* अत्र रूपव्यपदेशेन रूपिणि नमस्कारो द्रष्टव्यः ॥ भाष्य ३.२६:९
* कस्मात् ॥ भाष्य ३.२६:१०
* तदभिसंधिप्रयोगात् ॥ भाष्य ३.२६:११
* शिवपुरि उपस्थानवत् ॥ भाष्य ३.२६:१२
* एभ्य इति ॥ भाष्य ३.२६:१३
* अपरिमितासंख्यातेभ्य इत्यर्थः ॥ भाष्य ३.२६:१४
* रूपनिर्देशार्थान्यत्वाच्च पुनरुक्तापुनरुक्ताभ्यां शब्दा द्रष्टव्याः ॥ भाष्य ३.२६:१५
**********************************************
ড়ाशुपतसूत्र, ४
गूढविद्या तपआनन्त्याय प्रकाशते ॥ ४.१ ॥
* गुहू रक्षणे ॥ भाष्य ४.१:१
* रक्षितव्या न प्रकाशयितव्येत्यर्थः ॥ भाष्य ४.१:२
* गोपनं नामाप्रकाशनम् ॥ भाष्य ४.१:३
* विद्या पूर्वोक्ता स्वपरान्यप्रकाशिका प्रदीपवत् ॥ भाष्य ४.१:४
* लिङ्गैर्गोप्या रूढविद्या साधके इत्यर्थः ॥ भाष्य ४.१:५
* आह गूढविद्ये साधके का कार्यनिष्पत्तिः ॥ भाष्य ४.१:६
* तदुच्यते तपआनन्त्याय प्रकाशते इत्येष पाठः ॥ भाष्य ४.१:७
* अथवा कुरवोन्महितवत्तपोऽनन्त्याय प्रकाशत इत्येष वा पाठः ॥ भाष्य ४.१:८
* तस्मादत्र तपस्तदेव ॥ भाष्य ४.१:९
* निरुक्तमस्य पूर्वोक्तम् ॥ भाष्य ४.१:१०
* अनित्यपि नियोगपर्यायः गम्यते ॥ भाष्य ४.१:११
* तपःकार्यत्वादतिगतिसायुज्यवत् ॥ भाष्य ४.१:१२
* आह किं परिमितेष्वर्थेष्वानन्त्यशब्दः उतापरिमितेषु किं वा परिमितापरिमितेष्विति ॥ भाष्य ४.१:१३
* उच्यते परिमितापरिमितेष्वर्थेषु आनन्त्यशब्दः ॥ भाष्य ४.१:१४
* तत्र तावदीश्वरस्यैकैकशः परिमितेषु तेष्वेव विभुत्वादपरिमितेषु तथा परिमितापरिमितेष्वर्थेषु अभिव्यक्तास्य शक्तिः ॥ भाष्य ४.१:१५
* तस्य कुशलाकुशलेषु भावेष्वानन्त्यशब्दः ॥ भाष्य ४.१:१६
* यस्मादुक्तं न चैतास्तनवः केवलं मम इति ॥ भाष्य ४.१:१७
* तथा रुद्रः समुद्रो हि अनन्तो भास्करो नभः । आत्मा ब्रह्म च वाक्चैव न शक्यं भेददर्शनम् ॥ भाष्य ४.१:१८
* अनात्मविद्भिरध्यस्तां पङ्क्तिं योजनमायताम् । वेदवित्पुनते पार्थ नियुक्तः पङ्क्तिमूर्धनि ॥ भाष्य ४.१:१९
* तथा च वेदवित्पङ्क्तिमात्मवित्पुनते द्विजः । आनन्त्यं पुनते विद्वान्नाभात्वं यो न पश्यति ॥ भाष्य ४.१:२०
* आनन्त्याय इति चतुर्थी तस्मात्तप एतत्न तु विद्या कार्या ॥ भाष्य ४.१:२१
* प्रकाशो नाम भावप्रकाश्यं न तु प्रदीपवत् ॥ भाष्य ४.१:२२
* कथम् ॥ भाष्य ४.१:२३
* योगाधिकृतस्य प्रदीपस्थानीतयमानैजस्थानीयमावारकमभिभूय प्रकाशते ॥ भाष्य ४.१:२४
* चक्षुःस्थानीयया विद्यया कुशलविवेकादिकार्यं माहात्म्यातिगतिप्रकाशप्रवृत्तिस्मृतिसायुज्यस्थित्यादिप्रकाशनं तपःकार्यमित्यर्थः एवं च गुप्ते ब्राह्मणे तप आनन्त्याय प्रकाशत इत्यर्थः ॥ भाष्य ४.१:२५
* आह स्वभावगुप्तत्वादतीन्द्रियात्मगती विद्या गोप्येति ॥ भाष्य ४.१:२६
* तदुच्यते अव्यक्तप्रेताद्यवस्थानैर्लिङ्गैर्गोप्या इत्यर्थः ॥ भाष्य ४.१:२७
* आह कानि पुनस्तानि विद्यालिङ्गानि यैर्गुप्तैर्विद्या गुप्ता भवति ॥ भाष्य ४.१:२८
* तदुच्यते व्रतादीनि ॥ भाष्य ४.१:२९
* यस्मादाह ॥ भाष्य ४.१:३०
**********************************************
गूढव्रतः ॥ ४.२ ॥
* अत्र गूढं प्रच्छन्नमप्रकाशमित्यर्थः ॥ भाष्य ४.२:१
* व्रतं नाम यदायतने स्नानहसिताद्यः साधनवर्गस्तद्व्रतम् ॥ भाष्य ४.२:२
* कस्मात् ॥ भाष्य ४.२:३
* साकृतत्वाद्यस्मादयं ब्राह्मणस्तथा प्रयुङ्क्ते यथा लौकिकानां धर्मसाधनभावो न विद्यत इति अतो गूढव्रत इति ॥ भाष्य ४.२:४
* आह अव्यक्तप्रेतत्वादेव गूढत्वप्राप्तेः पुनरुक्तमिति ॥ भाष्य ४.२:५
* उच्यतेऽर्थान्यत्वादपुनरुक्तम् ॥ भाष्य ४.२:६
* तत्रावस्थानमात्रमेवाव्यक्तम् ॥ भाष्य ४.२:७
* इह तु स्नानहसितादिगोपनम् ॥ भाष्य ४.२:८
* अपि च तत्र निष्पन्नं लिङ्गमव्यक्तम् ॥ भाष्य ४.२:९
* इह तु निष्पत्तिकाले च गोपनोपदेशः ॥ भाष्य ४.२:१०
* न वाव्यक्तप्रेतत्वं वा विद्यालिङ्गम् ॥ भाष्य ४.२:११
* अतश्चापुनरुक्तम् ॥ भाष्य ४.२:१२
* तस्माद्गूढव्रतोपदेशाय स्थानापदेशापवादाय स्थाने वस्तव्यम् ॥ भाष्य ४.२:१३
* स्नानहसितादयश्च गूढाः कर्तव्याः ॥ भाष्य ४.२:१४
* एवं विद्या गुप्ता भवतीत्यर्थः ॥ भाष्य ४.२:१५
* आह किं व्रतमेवैकं विद्यालिङ्गं गोप्यमाहोस्विदन्यदप्यस्ति नेति ॥ भाष्य ४.२:१६
* उच्यतेऽस्ति ॥ भाष्य ४.२:१७
* यस्मादाह ॥ भाष्य ४.२:१८
**********************************************
गूढपवित्रवाणिः ॥ ४.३ ॥
* अत्र गूढा गुप्ता प्रच्छन्ना अप्रकाशेत्यर्थः ॥ भाष्य ४.३:१
* पवित्रा नाम सत्या संस्कृता अर्घ्यहेतुः सम्पन्ना न तु विपरीतेत्यर्थः ॥ भाष्य ४.३:२
* सा गोप्या ॥ भाष्य ४.३:३
* किमर्थमिति चेत् ॥ भाष्य ४.३:४
* तदुच्यते जातिज्ञानतपःस्तवसूचनार्थम् ॥ भाष्य ४.३:५
* यथा शरदं कुररः सूचयति ॥ भाष्य ४.३:६
* उक्तं हि । शरदं कुररः प्राह वसन्तं प्राह कोकिलः । प्राह वर्षा मयूरश्च वाक्पवित्राह ब्राह्मणम् ॥ भाष्य ४.३:७
* तथा । वागेव हि मनुष्यस्य श्रुतमाख्याति भाषिता । दीपयन्ती यथा सर्वं प्रभा भानुमिवामला ॥ भाष्य ४.३:८
* अतो जातिज्ञानतपःस्तवा भवन्ति ॥ भाष्य ४.३:९
* स्तविते चावसानादिमत्त्वयोः पुण्यपापक्षयवृद्ध्योरभावः ॥ भाष्य ४.३:१०
* अत एतदुक्तं गूढपवित्रवाणिरिति ॥ भाष्य ४.३:११
* आह किं व्रतं वाणी च द्वयमेवात्र गोप्यमाहोस्विदन्यदप्यस्ति नेति ॥ भाष्य ४.३:१२
* उच्यते अस्ति ॥ भाष्य ४.३:१३
* यस्मादाह ॥ भाष्य ४.३:१४
**********************************************
सर्वाणि द्वाराणि पिधाय ॥ ४.४ ॥
* इति ॥ भाष्य ४.४:१
* अत्र सर्वशब्दो द्वारप्रकृतेर्निरवशेषवाची द्रष्टव्यः ॥ भाष्य ४.४:२
* द्वाराणि क्राथनादीनि ॥ भाष्य ४.४:३
* द्वाराणि च कस्मात् ॥ भाष्य ४.४:४
* धर्माधर्मयोरायव्ययहेतुत्वाद्द्वाराणि ॥ भाष्य ४.४:५
* द्वाराणीति बहुवचनं विज्ञानयन्त्रेन्द्रियवत् ॥ भाष्य ४.४:६
* पिधाय इति प्राक्साधनप्रयोगमधिकुरुते ॥ भाष्य ४.४:७
* कथम् ॥ भाष्य ४.४:८
* अस्थानकालदेशक्रियाप्रयोगप्रयोजनान्तराणि विधिवद्विवेच्य यदा सम्यङ्मायया संनाद्यभेदक्रमेण प्रयुक्तानि तदा पिहितानि भवन्तीत्यर्थः ॥ भाष्य ४.४:९
* आह केन तानि पिधेयानि ॥ भाष्य ४.४:१०
* तदुच्यते ॥ भाष्य ४.४:११
**********************************************
बुद्ध्या ॥ ४.५ ॥
* यस्मादस्य श्रोत्रेन्द्रियवत्पिधायेति सम्यग्ज्ञानप्रयोगे सर्वज्ञेन भगवता विद्यानुगृहीतया बुद्ध्या पिधानमुक्तं तस्मादत्र करणाख्या बुद्ध्येति न ज्ञानाख्या ॥ भाष्य ४.५:१
* कथं गम्यते ॥ भाष्य ४.५:२
* बुद्ध्येति तृतीयाप्रयोगात् ॥ भाष्य ४.५:३
* भस्मना स्नानवत् ॥ भाष्य ४.५:४
* न ज्ञानाख्या ॥ भाष्य ४.५:५
* यस्य विज्ञानाख्या बुद्धिर्न ज्ञानाख्या कथं गम्यते ॥ भाष्य ४.५:६
* तस्य प्राग्ज्ञानोत्पत्तेरचेतनपुरुषस्तस्य ह्यज्ञानादसंबोध्यः स्यात् ॥ भाष्य ४.५:७
* तस्मादत्र त्रिकं चिन्त्यते पिधाता पिधानं पिधेयमिति तत्र पिधाता साधकः ॥ भाष्य ४.५:८
* पिधानमस्य विद्यानुगृहीता बुद्धिः ॥ भाष्य ४.५:९
* पिधेयं व्रतं वाणी द्वाराणि चेति ॥ भाष्य ४.५:१०
* क्रमवृत्तित्वाच्च बुद्धेरेव प्रयुङ्क्ते शेषाण्यकर्तृत्वेनैवाप्रयुक्तानि ॥ भाष्य ४.५:११
* तदा पिहितानि भवन्तीत्यर्थः ॥ भाष्य ४.५:१२
* अत्रेदं विद्याज्ञानप्रकरणं परिसमाप्तमिति ॥ भाष्य ४.५:१३
* आह किमव्यक्तप्रेत इत्यवस्थानद्वयमेवात्र कर्तव्यम् ॥ भाष्य ४.५:१४
* वागादीनि वा गोपायित्वा साधकेन किं कर्तव्यम् ॥ भाष्य ४.५:१५
* उच्यते ॥ भाष्य ४.५:१६
**********************************************
उन्मत्तवदेको विचरेत लोके ॥ ४.६ ॥
* अत्र बुद्ध्या अन्तःकरणानां श्रोत्रादीनां च बाह्यानां वृत्तिविभ्रमः कर्तव्योऽसति विषये विषयग्रहणम् ॥ भाष्य ४.६:१
* अत्र । पञ्चोन्मादाः समाख्याता वातपित्तकफात्मकाः । चतुर्थः संनिपातस्तु अभिघातस्तु पञ्चमः ॥ भाष्य ४.६:२
* एवं ग्रहबहुत्वे सति योऽयं वातपित्तश्लेष्मणां समूहः सांनिपातिकोऽयं महाग्रहः ॥ भाष्य ४.६:३
* एवं साधनप्रयोगः कर्तव्यः ॥ भाष्य ४.६:४
* तत्र यदि कश्चिद्ज्ञानजिज्ञासनार्थं दयार्थमनुग्रहार्थं वा पृच्छति तं निवर्तयित्वा ब्रूयात्समयतः प्रविशस्वेति ॥ भाष्य ४.६:५
* ततो द्वारेण प्रविश्य विपरीतमविपरीतं वा यदि कश्चिद्ब्रूयात्को भवानिति ततो वक्तव्यं माहेश्वरोऽहं कौमारोऽहमिति दुरत्ययं कृतं च ममानेनेति ॥ भाष्य ४.६:६
* ततो जिघांसनार्थं मया स्पृष्टो न तु विषयक्रीडार्थं वा ॥ भाष्य ४.६:७
* ततः परिवर्जयति इत्येवं लौकिकपरीक्षकाणां सम्मोहनार्थमुक्तमुन्मत्तवदिति ॥ भाष्य ४.६:८
* किंचिदुन्मत्तप्रेतवत्तस्यान्तःकरणादिवृत्तिविभ्रममात्रं परिगृह्यते ॥ भाष्य ४.६:९
* एक इत्यसंवहता चिन्त्यते ॥ भाष्य ४.६:१०
* एकेनेतरेभ्यो विच्छिन्नेनासहायेनेत्यर्थः आह एकेन किं कर्तव्यमिति ॥ भाष्य ४.६:११
* उच्यते विहर्तव्यम् ॥ भाष्य ४.६:१२
* यस्मादाह विचरेत ॥ भाष्य ४.६:१३
* अत्र विर्विस्तरे ॥ भाष्य ४.६:१४
* चरेत्यार्जनमधिकुरुते धर्मार्जने ॥ भाष्य ४.६:१५
* ईत इत्याज्ञायां नियोगे च ॥ भाष्य ४.६:१६
* विस्तरनियोग विशेषतश्च विहर्तव्यमित्यर्थः ॥ भाष्य ४.६:१७
* आह क्व विहर्तव्यमिति ॥ भाष्य ४.६:१८
* उच्यते लोके ॥ भाष्य ४.६:१९
* त्रिवर्णाश्रमिषु लोकसंज्ञा न तु ब्रह्मलोकादिषु ॥ भाष्य ४.६:२०
* कस्मात् ॥ भाष्य ४.६:२१
* उत्कृष्टेष्वसंभवात् ॥ भाष्य ४.६:२२
* लोके इति सामीपिकं संनिधानम् ॥ भाष्य ४.६:२३
* परवर्णा लोकास्तेषु तदध्यक्षेषु विहर्तव्यमित्यर्थः ॥ भाष्य ४.६:२४
* आह कां वृत्तिमास्थाय लोके विहर्तव्यं सर्वभक्षमेव ॥ भाष्य ४.६:२५
* उच्यते न ॥ भाष्य ४.६:२६
* यस्मादाह ॥ भाष्य ४.६:२७
**********************************************
कृतान्नमुत्सृष्टमुपाददीत ॥ ४.७ ॥
* अत्र कृतग्रहणादकृतानां बीजकाण्डफलादीनां प्रतिषेधः ॥ भाष्य ४.७:१
* कृतं भिन्नोद्भिन्नाद्यं तद्भैक्षमुत्सृष्टं यथालब्धं विधिना प्राप्तमुपयोज्यम् ॥ भाष्य ४.७:२
* अत्र कृतग्रहणादकृतप्रतिषेधः अकृतप्रतिषेधाच्च कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्या ॥ भाष्य ४.७:३
* आह किं तत्कृतं नाम बुद्धिघटाद्यम् ॥ भाष्य ४.७:४
* तदुच्यते न ॥ भाष्य ४.७:५
* यस्मादाह अन्नम् ॥ भाष्य ४.७:६
* तत्रान्नवचनादनन्नप्रतिषेधः ॥ भाष्य ४.७:७
* तच्च द्वियोनि इन्द्राभिषिक्तमिन्द्रियाभिषिक्तं च तत्रेन्द्राभिषिक्तं व्रीहियवाद्यम् ॥ भाष्य ४.७:८
* इन्द्रियाभिषिक्तं तु मांसम् ॥ भाष्य ४.७:९
* तत्पञ्चविधं भक्ष्यं भोज्यं लेह्यं पेयं चोष्यमिति ॥ भाष्य ४.७:१०
* तथा षड्रसं मधुराम्ललवणतिक्तकटुकषायमिति ॥ भाष्य ४.७:११
* आह तस्य कृतान्नस्यार्जनं कुतः कर्तव्यम् ॥ भाष्य ४.७:१२
* तदुच्यते उत्सृष्टम् ॥ भाष्य ४.७:१३
* अत्रोत्सृष्टग्रहणाद्भैक्षयथालब्धप्रतिषेधः ॥ भाष्य ४.७:१४
* किं कारणम् ॥ भाष्य ४.७:१५
* सूनादिदोषपरिहारार्थत्वान्नस्तेयप्रतिग्रहादिदोषात् ॥ भाष्य ४.७:१६
* तच्च त्रिविधमुत्सृष्टम् ॥ भाष्य ४.७:१७
* तद्यथा निसृष्टं विसृष्टमतिसृष्टमिति ॥ भाष्य ४.७:१८
* तत्र सनिमित्तं परित्यक्तमन्नं पानं वा तन्निसृष्टम् ॥ भाष्य ४.७:१९
* गोब्राह्मणादिनिमित्तं त्यक्तं विसृष्टम् ॥ भाष्य ४.७:२०
* अतिसृष्टमन्यतः परित्यक्तम् ॥ भाष्य ४.७:२१
* दयार्थमानृशंसार्थं वा यदि कश्चिद्दद्यात्तदपि ग्राह्यमेव ॥ भाष्य ४.७:२२
* आह अनेन साधकेन किं कर्तव्यमिति ॥ भाष्य ४.७:२३
* उच्यते उपयोक्तव्यम् ॥ भाष्य ४.७:२४
* यस्मादाह उपाददीत अत्रोपेत्यभ्युपगमे ॥ भाष्य ४.७:२५
* अत्यन्तासन्मानसयन्त्रस्थेनेत्यर्थः ॥ भाष्य ४.७:२६
* आददीत इत्युपयोगे ग्रहणे च विवक्षितसूत्रग्रहणे त्वावद्भवति ॥ भाष्य ४.७:२७
* तदुक्तम् । संचित्वा नरमेवैनं कामानामवितृप्तिकम् । व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ भाष्य ४.७:२८
* इति ॥ भाष्य ४.७:२९
* उपयोगेऽपि नाथकणादवत्सम् ॥ भाष्य ४.७:३०
* तस्मादुपयोक्तव्यमिति ॥ भाष्य ४.७:३१
* ईत इत्याज्ञायां नियोगे च ॥ भाष्य ४.७:३२
* तदुत्सृष्टं विधिप्राप्तमुपयोक्तव्यम् ॥ भाष्य ४.७:३३
* अन्यथा हि विधिव्यपेतेन क्रमेण वृत्त्यर्जनं न कर्तव्यमित्यर्थः ॥ भाष्य ४.७:३४
* आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च वर्ततः के वार्था निष्पद्यन्ते ॥ भाष्य ४.७:३५
* असन्मानप्रकरणस्य वा परिसमाप्तिः किमस्ति नेति ॥ भाष्य ४.७:३६
* उच्यते अस्ति ॥ भाष्य ४.७:३७
* यस्मादाह ॥ भाष्य ४.७:३८
**********************************************
उन्मत्तो मूढ इत्येवं मन्यन्ते इतरे जनाः ॥ ४.८ ॥
* अत्र उन्मत्तः स एव ॥ भाष्य ४.८:१
* निरुक्तमस्य पूर्वोक्तं मूढ इति ॥ भाष्य ४.८:२
* मुहु अपरिज्ञाने ॥ भाष्य ४.८:३
* अव्यक्तोऽयं प्रेतोऽयमुन्मत्तोऽयं मूढोऽयं मूर्खोऽयमिति वक्तारो वदन्तीत्यर्थः ॥ भाष्य ४.८:४
* इतिशब्दोऽर्थानां निर्वचनत्वात्प्रकरणपरिसमाप्त्यर्थः ॥ भाष्य ४.८:५
* एवं यस्मादवस्थानकालदेशक्रियाप्रयोगप्रयोजनगोपनवसत्यर्थकृत्स्नतपांसि च व्याख्यातानि ॥ भाष्य ४.८:६
* एवमित्यतिक्रान्तापेक्षणे ॥ भाष्य ४.८:७
* मन्यते इत्यवधारणे ॥ भाष्य ४.८:८
* इतरे इति गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषण्डिनां ब्रह्मचर्याधिकृतानां ग्रहणम् ॥ भाष्य ४.८:९
* जना इति ॥ भाष्य ४.८:१०
* जनी प्रादुर्भावे ॥ भाष्य ४.८:११
* जना इति वर्णाश्रमिणां जनानामधिकृतानां ग्रहणमुक्तं हि । जनेन हि जनो जातः जनं जनयसे जन । जनं शोचसि नात्मानं मात्मानं शोच मा जनम् ॥ भाष्य ४.८:१२
* इत्येवं वक्तारो वदन्तीत्यर्थः ॥ भाष्य ४.८:१३
* अत्रेदमाधिकारिकमसन्मानचरिप्रकरणं समाप्तम् ॥ भाष्य ४.८:१४
* आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च ततः को गुणः यं गुणं ज्ञात्वा अव्यक्तप्रेतोन्मत्ताद्या वादा निष्पाद्या इति ॥ भाष्य ४.८:१५
* तदुच्यते तं गुणं ज्ञात्वा वक्ष्यामः ॥ भाष्य ४.८:१६
* अपि च अव्यक्तप्रेतोन्मत्ताद्यं ब्राह्मणकर्मविरुद्धं क्रमं दृष्ट्वा यावदयं शिष्यः एनमर्थं न ब्रवीति तत्तस्य हृदिस्थमशङ्कितमुपलभ्योत्तरं ब्रूम इति कृत्वा भगवानिदं सूत्रमुवाच ॥ भाष्य ४.८:१७
**********************************************
असन्मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः ॥ ४.९ ॥
* अत्र अकारो मानप्रतिषेधे ॥ भाष्य ४.९:१
* मानोऽत्र द्विविधः ॥ भाष्य ४.९:२
* जात्यभिमानो गृहस्थाभिमानश्च ॥ भाष्य ४.९:३
* तत्र जात्यभिमानो नाम ब्राह्मणोऽहमिति ॥ भाष्य ४.९:४
* पूज्यत्वादूर्ध्वगमनादीनां कार्याणामुच्छ्रितत्वात्त्रयाणामपि वर्णानामुपदेशेन गुरुत्वाद्यज्ञकर्तृत्वात्त्रैलोक्यस्थितिहेतोः ब्राह्मणोऽहमिति प्रथमो मानो जात्युत्कर्षात् ॥ भाष्य ४.९:५
* तथा ब्राह्मणानामपि गृहस्थादीनां पूज्यत्वात्तत्कृतमानश्च ॥ भाष्य ४.९:६
* एतच्च मानद्वयमव्यक्तलिङ्गवचनात्प्रतिषिद्धम् ॥ भाष्य ४.९:७
* तथा वित्तं बन्धुर्यशः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ भाष्य ४.९:८
* एतानि चैकवासःप्रेताचरणगूढव्रतोपदेशिना सूत्रतः प्रतिषिद्धानीत्यतो मानो न कर्तव्यः ॥ भाष्य ४.९:९
* सनिति प्रशंसायामस्तित्वे च ॥ भाष्य ४.९:१०
* अग्रे तदसन्मानचरिप्रकरणविशिष्टं च ॥ भाष्य ४.९:११
* हिशब्दोऽयमुत्तमोत्कर्षापेक्षो द्रष्टव्यः ॥ भाष्य ४.९:१२
* यन्त्राणि अग्निष्टोमादीनि मासोपवासादीनि च गृहस्थादीनां शुद्धिवृद्धिकराणि ॥ भाष्य ४.९:१३
* यन्त्राणि च कस्मात् ॥ भाष्य ४.९:१४
* यन्त्रं कर्मादयः ॥ भाष्य ४.९:१५
* यस्मादयन्त्रा लौकिका अमर्यादावस्था भवन्तीत्यतो यन्त्राणाम् ॥ भाष्य ४.९:१६
* यन्त्राणामिति षष्ठीबहुवचनम् ॥ भाष्य ४.९:१७
* आह बहुवचनप्रयोगात्संदेहः अथ कियतां यन्त्राणाम् ॥ भाष्य ४.९:१८
* तदुच्यते सर्वेषाम् ॥ भाष्य ४.९:१९
* अत्र सर्वेषामित्यशेषाणामित्यर्थः ॥ भाष्य ४.९:२०
* सर्वेषामिति षष्ठीबहुवचनम् ॥ भाष्य ४.९:२१
* आह षष्ठ्याः साकाङ्क्षत्वात्संदेहः ॥ भाष्य ४.९:२२
* तेषां कारणात्मानो वर्तन्ते ॥ भाष्य ४.९:२३
* तदुच्यते उत्तमः ॥ भाष्य ४.९:२४
* अत्रोत्तम इति श्रेष्ठत्वे परमविशुद्धित्यागादानभावादिषु ॥ भाष्य ४.९:२५
* उक्तं हि । वरेण्यः सत्तमो मुख्यो वरिष्ठः शोभनोऽथवा । उत्तमश्चापरार्धश्च स्वर्थः श्रेष्ठार्थवाचकाः ॥ भाष्य ४.९:२६
* श्रेष्ठः ॥ भाष्य ४.९:२७
* इह चोक्तमुत्तम इति ॥ भाष्य ४.९:२८
* आह असन्मानः सर्वयन्त्राणामुत्तम इति क्व सिद्धम् ॥ भाष्य ४.९:२९
* उच्यते इह ॥ भाष्य ४.९:३०
* यस्मादाह स्मृतः ॥ भाष्य ४.९:३१
* अत्र स्मृत इत्युक्तपर्यायः महेश्वरेणोक्तं प्रोक्तं कथितं वर्णितमित्यर्थः ॥ भाष्य ४.९:३२
* विशिष्टः कस्मात् ॥ भाष्य ४.९:३३
* सर्वज्ञवचनादविसंवादित्वाच्च ॥ भाष्य ४.९:३४
* नहि प्रत्यक्षदर्शिनां वचनानि विसंवदन्तीत्यर्थः ॥ भाष्य ४.९:३५
* आह अस्मिन् क्रमे उत्तमत्वेन व्याख्यायमानं क आद्यः शोधकः ॥ भाष्य ४.९:३६
* केन वा इदं विधानं चीर्णम् ॥ भाष्य ४.९:३७
* आचरता वा किं फलं प्राप्तम् ॥ भाष्य ४.९:३८
* सोऽस्मत्प्रत्ययार्थं वाच्यः ॥ भाष्य ४.९:३९
* तदुच्यते ॥ भाष्य ४.९:४०
**********************************************
इन्द्रो वा अग्रे असुरेषु पाशुपतमचरत् ॥ ४.१० ॥
* अत्र देवतानां राजा इन्द्रः ॥ भाष्य ४.१०:१
* कथं गम्यते असुरेष्वाचरणवचनात् ॥ भाष्य ४.१०:२
* ब्राह्मणश्चायमिन्द्रः श्रेष्ठः ॥ भाष्य ४.१०:३
* सूत्रे ब्राह्मणग्रहणात्शूद्रप्रतिषेधाच्च ॥ भाष्य ४.१०:४
* इदि परमैश्वर्ये धातुः तस्येन्द्रः ॥ भाष्य ४.१०:५
* इन्द्र उत्कृष्टः श्रेष्ठः देवगन्धर्वयक्षराक्षसपितृपिशाचादीनां श्रेष्ठो न तु ब्रह्मादीनाम् ॥ भाष्य ४.१०:६
* किं तु स्वर्गिणां मध्ये ऐश्वर्येण विद्यया आज्ञया चेत्यतः श्रेष्ठत्वादिन्द्रः ॥ भाष्य ४.१०:७
* वाशब्दः सम्भावने ॥ भाष्य ४.१०:८
* अन्यैरपि देवश्रेष्ठैरिदं विधानमाचीर्णम् ॥ भाष्य ४.१०:९
* कुतस्तर्हि युष्मदादिभिर्मनुष्यमात्रैः ॥ भाष्य ४.१०:१०
* तस्मात्संभाव्योऽयमर्थः ॥ भाष्य ४.१०:११
* आह कदा चीर्णमिति ॥ भाष्य ४.१०:१२
* उच्यतेऽग्रे ॥ भाष्य ४.१०:१३
* अत्राग्र इति पूर्वकालमधिकुरुते ॥ भाष्य ४.१०:१४
* कुशिकेशानसम्बन्धात्प्राक् ॥ भाष्य ४.१०:१५
* प्रथमममरैश्चीर्णम् ॥ भाष्य ४.१०:१६
* कृतत्रेताद्वापरादिषु युगेष्वित्यर्थः ॥ भाष्य ४.१०:१७
* आह केष्वाचीर्णमिति ॥ भाष्य ४.१०:१८
* उच्यते असुरेषु ॥ भाष्य ४.१०:१९
* अत्रासुरा नाम सुरेतराः स्तेययुक्ताः ॥ भाष्य ४.१०:२०
* प्राणापहरणाद्वा असुराः प्रजापतिपुत्रा विज्ञेयाः ॥ भाष्य ४.१०:२१
* असुरेष्विति सामीपिकं संनिधानम् ॥ भाष्य ४.१०:२२
* असुरसमीपे असुराभ्याशे असुराणामध्यक्ष इत्यर्थः ॥ भाष्य ४.१०:२३
* आह किं तदिति ॥ भाष्य ४.१०:२४
* उच्यते पाशुपतम् ॥ भाष्य ४.१०:२५
* अत्र पशुपतिनोक्तपरिग्रहाधिकारेषु वर्तत इति पाशुपतम् ॥ भाष्य ४.१०:२६
* पशुपतिर्वास्मिन् चिन्त्यत इति पाशुपतम् ॥ भाष्य ४.१०:२७
* पशुपतिप्रापकत्वाद्वा पाशुपतम् ॥ भाष्य ४.१०:२८
* पाशुपतमिति समस्तस्य सम्पूर्णस्य विधानस्यैतद्ग्रहणम् ॥ भाष्य ४.१०:२९
* कस्मात् ॥ भाष्य ४.१०:३०
* व्यक्तलिङ्गपूर्वकत्वादव्यक्तादिक्रमस्य ॥ भाष्य ४.१०:३१
* तस्मात्कृत्स्नमिदमेव विधानमाचीर्णमिन्द्रेण दुःखान्तार्थिना शुद्धिवृद्ध्यर्थम् ॥ भाष्य ४.१०:३२
* धर्मबाहुल्यात्सुराणां भुव्याचीर्णम् ॥ भाष्य ४.१०:३३
* अचरदित्यतीतः कालः ॥ भाष्य ४.१०:३४
* अतीते काले चीर्णवानित्यर्थः ॥ भाष्य ४.१०:३५
* आह इन्द्रेणासुरेष्वाचरता किं फलं प्राप्तम् ॥ भाष्य ४.१०:३६
* तदुच्यते ॥ भाष्य ४.१०:३७
**********************************************
स तेषामिष्टापूर्तमादत्त ॥ ४.११ ॥
* स इतीन्द्रग्रहणं तेषामित्यसुरनिर्देशः ॥ भाष्य ४.११:१
* इष्टापूर्तमिति द्वंद्वसमासः ॥ भाष्य ४.११:२
* इष्टं च पूर्तं चेष्टापूर्तं तत्र यन्मन्त्रपूर्वकेण विधिना दत्तं हुतं स्तुत्यादिनिष्पन्नं सुकृतं तदिष्टम् ॥ भाष्य ४.११:३
* यदमन्त्रपूर्वकेणैव तत्पूर्तम् ॥ भाष्य ४.११:४
* इन्द्रेणासुरेभ्यः केनोपायेन दत्तमिति ॥ भाष्य ४.११:५
* उच्यते ॥ भाष्य ४.११:६
**********************************************
मायया सुकृतया समविन्दत ॥ ४.१२ ॥
* क्राथनस्पन्दनादिप्रयोगैः धिक्कृतस्य निद्राविष्टो वायुसंस्पृष्टो मन्दकारी असम्यक्कारी असम्यग्वादीति योऽयं दुष्टशब्दोऽभियोगशब्दश्च निष्पद्यते तस्मिन्ननृते मायासंज्ञा ॥ भाष्य ४.१२:१
* मानसकायिकाभियोगे च ॥ भाष्य ४.१२:२
* मायया इति तृतीया ॥ भाष्य ४.१२:३
* सुकृतया इति ॥ भाष्य ४.१२:४
* सु प्रशंसायां तया सुकृतया सम्यक्प्रयुक्तयेति साधकसाधनप्राधान्यम् ॥ भाष्य ४.१२:५
* अविन्दत इति प्राप्तौ प्राधान्ये च ॥ भाष्य ४.१२:६
* स तेषामिष्टापूर्तमादत्तेति ॥ भाष्य ४.१२:७
* उक्तं हि । आक्रोशमानो नाक्रोशेन्मन्युरेव तितिक्षति । स तेषां दुष्कृतं दत्त्वा सुकृतं चास्य विन्दति ॥ भाष्य ४.१२:८
* आह उत्तम इन्द्रः ॥ भाष्य ४.१२:९
* स तेषामिष्टापूर्तमित्युक्ते परापदेशेनास्य वृत्तिर्निर्गुणीकृता ॥ भाष्य ४.१२:१०
* अथात्मापदेशोऽत्र किमस्ति नेति ॥ भाष्य ४.१२:११
* उच्यते अस्ति ॥ भाष्य ४.१२:१२
* यस्मादाह ॥ भाष्य ४.१२:१३
**********************************************
निन्दा ह्येषानिन्दा तस्मात् ॥ ४.१३ ॥
* अत्रावमानपरिभवाद्या निन्दा ॥ भाष्य ४.१३:१
* कुत्सा गर्हा इत्यर्थः ॥ भाष्य ४.१३:२
* शब्दो निन्दोत्तमोत्कर्षोपक्षेपे द्रष्टव्यः ॥ भाष्य ४.१३:३
* उत्तमाधिकाराद्गम्यते ॥ भाष्य ४.१३:४
* एषा इत्यतिक्रान्तापेक्षणे ॥ भाष्य ४.१३:५
* अवमानपरिभवपरिवादाद्या निन्देत्यर्थः ॥ भाष्य ४.१३:६
* अनिन्दा इत्यकारो निन्दितत्वं प्रतिषेधति ॥ भाष्य ४.१३:७
* अनिन्दा अकुत्सा अगर्हा इत्यर्थः ॥ भाष्य ४.१३:८
* अत्र तस्माच्छब्दः पूर्वोत्तरं चापेक्षते ॥ भाष्य ४.१३:९
* तत्र पूर्वाकाङ्क्षायां तावत्कृत्स्ना निन्दाप्रकरणगुणवचने ॥ भाष्य ४.१३:१०
* यस्मादिन्द्रस्यापि शुद्धिवृद्धिकारिणी आत्मापदेशेन परापदेशेन च भगवता असन्मानचरिर्गुणीकृता तस्मादित्यर्थः ॥ भाष्य ४.१३:११
* आह निराकाङ्क्षानिर्देशात्संदेहो यथा यथा वर्णितं तथा तथा च व्याख्यातम् ॥ भाष्य ४.१३:१२
* निन्दाया अनिन्दितत्वं गुणं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्य ४.१३:१३
* तदुच्यते ॥ भाष्य ४.१३:१४
**********************************************
निन्द्यमानश्चरेत् ॥ ४.१४ ॥
* अत्र निन्दा पूर्वोक्ता ॥ भाष्य ४.१४:१
* निन्द्यमानेनैव निन्दायाः वर्तमानकाल इत्यर्थः ॥ भाष्य ४.१४:२
* चरेदित्यार्जनमधिकुरुते ॥ भाष्य ४.१४:३
* धर्मार्जने नियोगे च ॥ भाष्य ४.१४:४
* संशयान्यत्वाच्चापुनरुक्तश्चरिशब्दो द्रष्टव्यः ॥ भाष्य ४.१४:५
* अत्रेदमानुषङ्गिकमसन्मार्गचरिप्रकरणं परिसमाप्तम् ॥ भाष्य ४.१४:६
* आह निन्द्यमानश्चरेदित्युक्त्वा आद्यं विधानमाचरतः कोऽर्थो निष्पद्यते ॥ भाष्य ४.१४:७
* निष्पन्नेन वा कथमभिलप्यते ॥ भाष्य ४.१४:८
* तदुच्यते ॥ भाष्य ४.१४:९
**********************************************
अनिन्दितकर्मा ॥ ४.१५ ॥
* अत्र चर्योत्तरसम्बन्धाद्गम्यते यदेतदनिन्दितं कर्म धर्मः स एव निन्द्यमानस्याचरतो निष्पद्यते ॥ भाष्य ४.१५:१
* अतः अनिन्दितकर्मा भवतीत्यर्थः ॥ भाष्य ४.१५:२
* आह निन्द्यमानस्याचरतोऽनिन्दितं कर्म भवतीति क्व सिद्धम् ॥ भाष्य ४.१५:३
* तदुच्यते इह यस्मादाह ॥ भाष्य ४.१५:४
**********************************************
सर्वविशिष्टोऽयं पन्थाः ॥ ४.१६ ॥
* अत्र अयमिति प्रत्यक्षे ॥ भाष्य ४.१६:१
* यथायं पुरुषः ॥ भाष्य ४.१६:२
* यथाविधिश्चरिरिति याः क्रियाः अत्राधिकृतस्यानिन्दितं कर्म भवतीत्याह भगवान् ॥ भाष्य ४.१६:३
**********************************************
सत्पथः ॥ ४.१७ ॥
* कस्मात् । रुद्रसमीपप्रापणसामर्थ्यात् ॥ भाष्य ४.१७:१
* अनावृत्तिप्रापणसामर्थ्याच्चाविकलः ॥ भाष्य ४.१७:२
* तस्मात्सर्वज्ञवचनाविसंवादित्वाच्चायं सत्पथ इत्यर्थः ॥ भाष्य ४.१७:३
* आह किमन्यत्र पन्थानो न सन्ति इति ॥ भाष्य ४.१७:४
* उच्यते सन्ति ॥ भाष्य ४.१७:५
* किंतु ॥ भाष्य ४.१७:६
**********************************************
कुपथास्त्वन्ये ॥ ४.१८ ॥
* अत्र कु कुत्सायां भवति ॥ भाष्य ४.१८:१
* कस्मात् ॥ भाष्य ४.१८:२
* कुशब्दप्रयोगाद्गम्यते ॥ भाष्य ४.१८:३
* कुपुरुषवत् ॥ भाष्य ४.१८:४
* पन्थानो विधय उपाया इत्यर्थः ॥ भाष्य ४.१८:५
* तुशब्दोऽनावृत्त्युत्कर्षे ॥ भाष्य ४.१८:६
* अन्ये इति ॥ भाष्य ४.१८:७
* गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषाण्डिनां पन्थानः ॥ भाष्य ४.१८:८
* ते कुपथाः ॥ भाष्य ४.१८:९
* न ॥ भाष्य ४.१८:१०
* आह अयमेव सत्पथः शेषाः कुपथा इति क्व सिद्धम् ॥ भाष्य ४.१८:११
* किं वास्य सत्पथत्वम् ॥ भाष्य ४.१८:१२
* शेषाणां वा कुपथत्वं किमिति ॥ भाष्य ४.१८:१३
* उच्यते इह ॥ भाष्य ४.१८:१४
* यस्मादाह ॥ भाष्य ४.१८:१५
**********************************************
अनेन विधिना रुद्रसमीपं गत्वा ॥ ४.१९ ॥
* अत्र अनेन इत्यनपेक्षणे । विधिना भस्मस्नानक्राथनादिनोपायेनेत्यर्थः ॥ भाष्य ४.१९:१
* विधिनेति तृतीया ॥ भाष्य ४.१९:२
* रुद्र इति कालोपदेशे ॥ भाष्य ४.१९:३
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ४.१९:४
* समीपमिति योगपर्यायः ॥ भाष्य ४.१९:५
* कथं गम्यते ॥ भाष्य ४.१९:६
* विध्यनन्तरोक्तत्वात् ॥ भाष्य ४.१९:७
* सति विधिविषयत्वे पुरुषेश्वरयोर्विषयाधिकारकृतं वियोगं दृष्ट्वा ज्ञानपरिदृष्टेन विधिनाध्ययनध्यानाधिकृतो विशुद्धभावः समीपस्थ इत्यर्थः ॥ भाष्य ४.१९:८
* गतिः प्राप्तिर्भावस्येत्यर्थः ॥ भाष्य ४.१९:९
* त्वा इति विधिकर्मणोर्निष्ठा ॥ भाष्य ४.१९:१०
* आह अत्रैवं विध्याचरणं समीपगमनं च कस्योपदिश्यते ॥ भाष्य ४.१९:११
* उच्यते न तीर्थयात्रादिधर्मवत्सर्वेषाम् ॥ भाष्य ४.१९:१२
* किंतु संस्कारवद्ब्राह्मणस्यैव ॥ भाष्य ४.१९:१३
* यस्मादाह ॥ भाष्य ४.१९:१४
**********************************************
न कश्चिद्ब्राह्मणः पुनरावर्तते ॥ ४.२० ॥
* अत्र नकारोपदेशोऽन्याचरणप्रतिपत्तिप्रतिषेधार्थः ॥ भाष्य ४.२०:१
* कश्चिदिति गृहस्थाद्यः ॥ भाष्य ४.२०:२
* स्थानमात्रवैलक्षण्यदर्शनाद्ब्राह्मणेष्वेव कश्चिच्छब्दः ॥ भाष्य ४.२०:३
* गृहस्थो ब्रह्मचारी वानप्रस्थो भिक्षुरेकवेदो द्विवेदस्त्रिवेदश्चतुर्वेदो गायत्रीमात्रसारो वानेन विधिना रुद्रसमीपं प्राप्तः सन्न कश्चिद्ब्राह्मणः पुनरावर्तत इत्यर्थः ॥ भाष्य ४.२०:४
* ब्राह्मणग्रहणं ब्राह्मण्यावधारणार्थं ब्राह्मण एव नान्य इत्यर्थः ॥ भाष्य ४.२०:५
* क्षेत्रज्ञे च ब्राह्मणसंज्ञा ॥ भाष्य ४.२०:६
* कस्मात् ॥ भाष्य ४.२०:७
* उपचयजन्मयोगात्संस्कारयोगात्श्रुतयोगाच्च ब्राह्मणः ॥ भाष्य ४.२०:८
* पुनःशब्दः पुनरावृत्तिप्रतिषेधे ॥ भाष्य ४.२०:९
* यथा पूर्वसंज्ञानादिभिर्गत्वा आवर्तते पुनः पुनः तथानेन विधिना रुद्रसमीपं गत्वा न सकृदावर्तते ॥ भाष्य ४.२०:१०
* पुनः पुनः सर्वथापि नावर्तत इत्यर्थः ॥ भाष्य ४.२०:११
* आङिति स्वशास्त्रोक्तमर्यादामधिकुरुते अभिविध्यर्थं च ॥ भाष्य ४.२०:१२
* ये चानेन विधिनाक्षपिताज्ञानकलुषपापमायादयः क्षीणाः ते पुनः पुनरावर्तन्ते ॥ भाष्य ४.२०:१३
* न तैः सह संयोगो भवति ॥ भाष्य ४.२०:१४
* न चापरं जन्म प्रतिपद्यत इत्यर्थः ॥ भाष्य ४.२०:१५
* एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य ४.२०:१६
**********************************************
अत्रेदं ब्रह्म जपेत् ॥ ४.२१ ॥
* अस्य पूर्वोक्तोऽर्थः ॥ भाष्य ४.२१:१
* आह किं पुनस्तद्ब्रह्म ॥ भाष्य ४.२१:२
* तदुच्यते कारणादिभावेनोक्तस्य भगवत एकत्वं साधको ज्ञात्वा तत्साधनमारभते ॥ भाष्य ४.२१:३
**********************************************
तत्पुरुषाय विद्महे ॥ ४.२२ ॥
* अत्र पूर्वं कारणत्वबहुत्वनानात्वेनोपदिष्टस्य परामर्शः तदिति ॥ भाष्य ४.२२:१
* पुरुष इति पौरुष्यानुपूरणाच्च पुरुषः ॥ भाष्य ४.२२:२
* पौरुष्यमस्यानेकेषु रूपेष्ववस्थानात् ॥ भाष्य ४.२२:३
* तत्संस्थानि रूपाणि अघोरादीनि ॥ भाष्य ४.२२:४
* तत्पुरुषायेति चतुर्थी ॥ भाष्य ४.२२:५
* यथा ग्रामाय तत्त्वं ज्ञातुमिच्छति तथा पुरुषाय तत्त्वं ज्ञातुमिच्छति ॥ भाष्य ४.२२:६
* विद्मह इति ॥ भाष्य ४.२२:७
* विद ज्ञाने ॥ भाष्य ४.२२:८
* विद्महे जानीमहे उपलभामह इत्यर्थः ॥ भाष्य ४.२२:९
* आह पुरुषबहुत्वात्संदेहः ॥ भाष्य ४.२२:१०
* अथ कतमस्मै पुरुषाय ॥ भाष्य ४.२२:११
* तदुच्यते ॥ भाष्य ४.२२:१२
**********************************************
महादेवाय धीमहि ॥ ४.२३ ॥
* अत्र महादेवत्वं च पूर्वोक्तं महादेवायेति चतुर्थी ॥ भाष्य ४.२३:१
* धीमहि इति ॥ भाष्य ४.२३:२
* धीङ्संश्लेषणे ॥ भाष्य ४.२३:३
* ध्यायेमहि लीयामहे ज्ञानक्रियाशक्तिभ्यां संयुज्यामह इत्यर्थः ॥ भाष्य ४.२३:४
* अत्र धी इति ज्ञानशक्तिपर्यायः ॥ भाष्य ४.२३:५
* यया सर्वपदार्थानां तत्त्वमधिगच्छति सा ज्ञानशक्तिः ॥ भाष्य ४.२३:६
* महि इति क्रियाशक्तिपर्यायः ॥ भाष्य ४.२३:७
* यया विधियोगाचरणसमर्थो भवति सा क्रियाशक्तिरित्यर्थः ॥ भाष्य ४.२३:८
* आह अथैते दृक्क्रियाशक्ती महादेवात्साधकः किं स्वशक्तित आसादयति आहोस्वित्परशक्तितः उतोभयशक्तितः ॥ भाष्य ४.२३:९
* तदुच्यते परशक्तितः ॥ भाष्य ४.२३:१०
* यस्मादाह ॥ भाष्य ४.२३:११
**********************************************
तन्नो रुद्रः प्रचोदयात् ॥ ४.२४ ॥
* तदिति दृक्क्रियाशक्त्योर्ग्रहणम् ॥ भाष्य ४.२४:१
* न इत्यात्मापदेशे ॥ भाष्य ४.२४:२
* अस्माकमित्यर्थः ॥ भाष्य ४.२४:३
* रुद्र इति कारणापदेशे ॥ भाष्य ४.२४:४
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ४.२४:५
* प्र इत्यादिकर्मणि ॥ भाष्य ४.२४:६
* चुद प्रेरणे ॥ भाष्य ४.२४:७
* चोदनं नाम ज्ञानक्रियाशक्तिसंयोगः ॥ भाष्य ४.२४:८
* यादिति लिप्सा ॥ भाष्य ४.२४:९
* संयोजयस्व मामित्यर्थः ॥ भाष्य ४.२४:१०
* उक्तं हि रुद्रस्येच्छापूर्वको यो योगो ज्ञानक्रियाशक्तिभ्यां पश्वादिषु सम्भवः तच्चोदनमाहुराचार्याः ॥ भाष्य ४.२४:११
**********************************************
ড়ाशुपतसूत्र, ५
असङ्गः ॥ ५.१ ॥
* अत्र अकारः सङ्गप्रतिषेधे ॥ भाष्य ५.१:१
* अत्र सङ्गो नाम यदेतत्पुरुषे विषयित्वम् ॥ भाष्य ५.१:२
* तेन विषयित्वेन योगादधर्मेण चायं पुरुषो यदा अध्ययनध्यानादिभ्यश्च्यवति ॥ भाष्य ५.१:३
* दृष्टान्तश्रवणप्रेक्षणलक्षणो वनगजवत्त्रैकाल्यमित्यर्थः ॥ भाष्य ५.१:४
* असङ्गित्वमप्यतीतानागतवर्तमानानां विषयाणामनुचिन्तनं भिक्षुवत् ॥ भाष्य ५.१:५
* एवं महेश्वरे भावस्थितिस्तदसङ्गित्वमित्यर्थः ॥ भाष्य ५.१:६
* आह किमसङ्गित्वमेवैकमुक्तं नान्यल्लक्षणम् ॥ भाष्य ५.१:७
* उच्यते यस्मादाह ॥ भाष्य ५.१:८
**********************************************
योगी ॥ ५.२ ॥
* इति ॥ भाष्य ५.२:१
* अत्र योगो नामात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ भाष्य ५.२:२
* उक्तं हि । शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गतिवादितैः । क्रियमाणैर्न बुध्येत एतद्युक्तस्य लक्षणम् ॥ भाष्य ५.२:३
* इति ॥ भाष्य ५.२:४
* आह किं लक्षणद्वयमेवात्र युक्तस्योच्यते ॥ भाष्य ५.२:५
* न ॥ भाष्य ५.२:६
* यस्मादाह ॥ भाष्य ५.२:७
**********************************************
नित्यात्मा ॥ ५.३ ॥
* अत्र नित्यत्वविशेषणेनानित्यत्वं निवर्तते ॥ भाष्य ५.३:१
* नित्यत्वं नाम सति विभुत्वे पुरुषेश्वरयोर्मनसा सह गतस्यात्मताभावस्य वृत्त्याकारस्य विषयं प्रति क्रमोऽक्षोपोऽवस्थानं वृक्षशकुनिवत् ॥ भाष्य ५.३:२
* तस्मिन्निर्वृत्ते महेश्वरे युक्तो नित्य इत्युच्यते ॥ भाष्य ५.३:३
* आत्मा इति क्षेत्रज्ञमाह ॥ भाष्य ५.३:४
* कथं गम्यते ॥ भाष्य ५.३:५
* चित्तस्थित्युपदेशाद्योगार्थं विद्याचरणोपदेशादसङ्गयोगियुक्तात्माजमैत्रादीनां चेतने सम्भवात्न त्वचेतनेषु कार्यकरणप्रधानादिषु ॥ भाष्य ५.३:६
* तस्मिंश्चेतने आत्मशब्दः ॥ भाष्य ५.३:७
* आत्मा च कस्मात् ॥ भाष्य ५.३:८
* अततीत्यात्मा ॥ भाष्य ५.३:९
* आपूर्य कार्यकरणं विषयांश्चेतयतीत्यात्मा ॥ भाष्य ५.३:१०
* उक्तं हि । यदाप्नोति यदादत्ते यच्चात्ति विषयान् पुनः । यच्चास्य सततं भावः तस्मादात्मेति संज्ञितः ॥ भाष्य ५.३:११
* स च श्रोता स्प्रष्टा द्रष्टा रसयिता घ्राता मन्ता वक्ता बोद्धा इत्येवमादिः ॥ भाष्य ५.३:१२
* उक्तं हि । पुरुषश्चेतनो भोक्ता क्षेत्रज्ञः पुद्गलो जनः । अणुर्वेदोऽमृतः साक्षी जीवात्मा परिभूः परः ॥ भाष्य ५.३:१३
* इति । तस्य सुखदुःखेच्छाद्वेषप्रयत्नचैतन्यादिभिर्लिङ्गैरधिगमः क्रियत इत्यर्थः ॥ भाष्य ५.३:१४
* आह किं लक्षणत्रयमेवास्य युक्तस्योच्यते ॥ भाष्य ५.३:१५
* न यस्मादाह ॥ भाष्य ५.३:१६
**********************************************
अजः ॥ ५.४ ॥
* अत्र अज इत्यर्थान्तरप्रादुर्भावप्रतिषेधोऽभिधीयते ॥ भाष्य ५.४:१
* अत्रार्थान्तरं नाम शब्दस्पर्शरूपरसगन्धान्तरमध्ययनध्यानस्मरणादयः ॥ भाष्य ५.४:२
* तेषु न जायत इति अजः ॥ भाष्य ५.४:३
* आह किं लक्षणचतुष्कमेवास्य युक्तस्योच्यते ॥ भाष्य ५.४:४
* न ॥ भाष्य ५.४:५
* यस्मादाह ॥ भाष्य ५.४:६
**********************************************
मैत्रः ॥ ५.५ ॥
* अत्र मैत्र इति समतायां भवति ॥ भाष्य ५.५:१
* यथा मैत्र आदित्यः ॥ भाष्य ५.५:२
* सर्वभूतस्थिते च महेश्वरे स्थितचित्तः इच्छाद्वेषविनिवृत्तोऽप्रवृत्तिमान्मैत्र इत्युच्यते ॥ भाष्य ५.५:३
* तस्मात्कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन जायते ॥ भाष्य ५.५:४
* आह अथ कथं पुनरेतद्गम्यते ॥ भाष्य ५.५:५
* यथा कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन जायते ॥ भाष्य ५.५:६
* उच्यते गम्यते ॥ भाष्य ५.५:७
* यस्मादाह ॥ भाष्य ५.५:८
**********************************************
अभिजायते ॥ ५.६ ॥
* अत्र अभिशब्दो विशेषणे ॥ भाष्य ५.६:१
* को विशेष इति चेत् ॥ भाष्य ५.६:२
* तदुच्यते ॥ भाष्य ५.६:३
* यस्मादयं सङ्गी अयोगी अनित्यात्मा अनजोऽमैत्रश्च भूत्वा असङ्गादिभावेन जायत इत्येष विशेषः ॥ भाष्य ५.६:४
* जायते इति ॥ भाष्य ५.६:५
* जनी प्रादुर्भावे ॥ भाष्य ५.६:६
* तस्मात्कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन युगपज्जायते अवश्यादिवदित्यर्थः ॥ भाष्य ५.६:७
* असङ्गादिभावे कोऽसावभ्युपायो येन जायते ॥ भाष्य ५.६:८
* उच्यते ॥ भाष्य ५.६:९
**********************************************
इन्द्रियाणामभिजयात् ॥ ५.७ ॥
* अत्र जितता जयः ॥ भाष्य ५.७:१
* तस्माज्जयादसङ्गतादि भवति ॥ भाष्य ५.७:२
* अत्र परिग्रहतयेश्वराणि इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि ॥ भाष्य ५.७:३
* तेषामभिजयादित्यर्थः ॥ भाष्य ५.७:४
* आह कथं बुद्धिसिद्धिरिति चेत् ॥ भाष्य ५.७:५
* तदुच्यते सिद्धत्वात् ॥ भाष्य ५.७:६
* अत्र मतिबुद्धिपिधानस्थापनोद्देशाद्घटपटवत्सिद्धत्वाच्च बुद्धिः सिद्धा तथा परोपदेशात्स्वात्मपरात्मप्रतिविभागदर्शनात्सुरोऽहं नरोऽहमिति भिन्नवृत्तित्वाच्चाहंकारः सिद्धः ॥ भाष्य ५.७:७
* तथा मनः प्रवर्तते मनोजवी मनोऽमन इति संकल्पविकल्पवृत्तिनानात्वं च सिद्धम् ॥ भाष्य ५.७:८
* एवं त्रिकालवृत्त्यन्तःकरणं पुरुषस्य व्याख्यातम् ॥ भाष्य ५.७:९
* तथा बुद्धीन्द्रियाणां श्रोत्रं व्याख्यातम् ॥ भाष्य ५.७:१०
* परपरिवादादिवचनादुच्चैरुभयथा प्रमुखे द्विरधिष्ठाने संनिविष्टं सामन्ताच्छब्दव्यञ्जनसमर्थं सिद्धम् ॥ भाष्य ५.७:११
* तथातितपोपदेशात्त्वगन्तर्बहिश्च शरीरं व्याप्य संनिविष्टा स्पर्शव्यञ्जनसमर्था सिद्धा ॥ भाष्य ५.७:१२
* तथा मूत्रपुरीषदर्शनप्रतिषेधात्कृतान्नादिवचनाच्च चक्षुः उच्चैरुभयथा प्रमुखे द्विरधिष्ठाने संनिविष्टं घटरूपादि व्यञ्जनसमर्थं सिद्धम् ॥ भाष्य ५.७:१३
* तथा मांसलवणोपदेशाज्जिह्वा तन्मुखे मांसपेश्यां संनिविष्टा रसज्ञानजननसमर्था सिद्धा ॥ भाष्य ५.७:१४
* तथा प्राणायामोपदेशाद्घ्राणं प्रमुखे उच्चैरुभयथा द्विरधिष्ठाने संनिविष्टं गन्धग्रहणसमर्थं सिद्धम् ॥ भाष्य ५.७:१५
* एवमधिकारिवृत्तिभिर्बुध्यत्येभिः पुरुष इति बुद्धीन्द्रियाणि ॥ भाष्य ५.७:१६
* तथा कर्मेन्द्रियाणि ॥ भाष्य ५.७:१७
* मण्टनविहरणोपदेशात्पादेन्द्रियमधस्ताद्द्विरधिष्ठाने संनिविष्टं गमनक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:१८
* तथा मूत्रपुरीषदर्शनप्रतिषेधात्पाय्विन्द्रियं गुह्यप्रदेशे संनिविष्टमुत्सर्गक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:१९
* तथा स्त्रीप्रतिषेधादुपस्थेन्द्रियं त्रिवलीगुह्यप्रदेशसंनिविष्टमानन्दक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:२०
* तथा अपि तत्कर्मोपदेशाथस्तेन्द्रियमुच्चैरुभयथा द्विरधिष्ठाने भुजान्तर्देशे संनिविष्टमादानक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:२१
* तथा अपि तद्भाषणोपदेशाद्वागिन्द्रियं वाक्तालुजिह्वादिषु स्थानेषु संनिविष्टं वचनक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:२२
* अत्र विकारतद्वृत्तिभिः कर्मोत्पत्तिः पुरुषे इति कर्मेन्द्रियाणि एवमेतानि त्रयोदश करणानीन्द्रियाणि सूत्रतो व्याख्यातानि ॥ भाष्य ५.७:२३
* कस्मात् ॥ भाष्य ५.७:२४
* इन्द्रियाणामिति सामान्यग्रहणाद्विकरणवत्सामान्यप्रतिषेधाच्च ॥ भाष्य ५.७:२५
* इन्द्रियाणामिति षष्ठीबहुवचनम् ॥ भाष्य ५.७:२६
* उक्तं हि । आदानाद्ग्रहणात्त्यागाद्रङ्गणाद्गमनात्तथा । इङ्गनाद्रवणाच्चैव तस्मादिन्द्रियमुच्यते ॥ भाष्य ५.७:२७
* अभिजयादिति ॥ भाष्य ५.७:२८
* अभिशब्दः अत्यन्तविजये वशीकरणे च ॥ भाष्य ५.७:२९
* आक्रम्य वशीकर्तव्यानि ॥ भाष्य ५.७:३०
* वायुकामक्रोधपाटलिपुत्रवत् ॥ भाष्य ५.७:३१
* तस्मादकुशलेभ्यो व्यावर्तयित्वा कामतः कुशलं योजितानि तदा जितानि भवन्ति ॥ भाष्य ५.७:३२
* तस्मादुक्तमिन्द्रियाणामभिजयादिति असङ्गादिजन्मनिमित्तत्वात्पञ्चमी द्रष्टव्या ॥ भाष्य ५.७:३३
* आह अन्यत्र सांख्ययोगादीनामसङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ताः ॥ भाष्य ५.७:३४
* निरभिलप्या मुक्ता इत्युच्यन्ते मुक्त एव न युक्त इति क्व सिद्धम् ॥ भाष्य ५.७:३५
* तदुच्यते इह यस्मादाह ॥ भाष्य ५.७:३६
**********************************************
रुद्रः प्रोवाच तावत् ॥ ५.८ ॥
* तत्र रुद्र इति कारणापदेशे ॥ भाष्य ५.८:१
* रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ५.८:२
* प्र इत्यभिधानविशुद्धौ ॥ भाष्य ५.८:३
* प्रसन्नेन्द्रियवत् ॥ भाष्य ५.८:४
* वच व्यक्तायां वाचि ॥ भाष्य ५.८:५
* प्रोवाच इति ॥ भाष्य ५.८:६
* एवं यत्सांख्यं योगश्च वर्णयति असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ता इति तदविशुद्धं तेषां दर्शनम् ॥ भाष्य ५.८:७
* तैमिरिकस्य चक्षुषश्चन्द्रदर्शनवत् ॥ भाष्य ५.८:८
* अयं तु युक्त एव न मुक्त इति विशुद्धमेतद्दर्शनं द्रष्टव्यम् ॥ भाष्य ५.८:९
* कस्मात् ॥ भाष्य ५.८:१०
* सर्वज्ञवचनादविसंवादित्वाच्चैतद्गम्यम् ॥ भाष्य ५.८:११
* एवमेतन्नान्यथेत्यर्थः ॥ भाष्य ५.८:१२
* किंचान्यदिदमथशब्दादि शिवान्तं प्रवचनं रुद्रप्रोक्तं तावत्सर्वतन्त्राणां श्रेष्ठम् ॥ भाष्य ५.८:१३
* तस्मात्कारणशास्त्रयोः परप्रमाणभावोऽवधार्यत इत्यर्थः ॥ भाष्य ५.८:१४
* अत्र श्लोको निर्वचनः ॥ भाष्य ५.८:१५
* आह किमेतानीन्द्रियाणि परिज्ञानमात्रादेव जितानि भवन्ति प्रधानवत् ॥ भाष्य ५.८:१६
* तदुच्यते न ज्ञानेन वचनादिभिरेषां जयः कर्तव्यः यस्मादेषां जये भगवता वसत्यर्थवृत्तिबलक्रियालाभाय वसता इत्यतस्तज्जये वसत्यर्थ एव तावदुच्यते ॥ भाष्य ५.८:१७
* यस्मादाह ॥ भाष्य ५.८:१८
**********************************************
शून्यागारगुहावासी ॥ ५.९ ॥
* इति ॥ भाष्य ५.९:१
* अत्र शून्यमेवागारं शून्यागारम् ॥ भाष्य ५.९:२
* शून्यं विविक्तं निर्जनमित्यर्थः ॥ भाष्य ५.९:३
* आगारमिति गृहपर्यायः आगारं गृहं वेश्म सदनमिति पर्यायः ॥ भाष्य ५.९:४
* गुहू संवरणे ॥ भाष्य ५.९:५
* प्रविष्टं साधकमावरयति गोपयतीति गुहा ॥ भाष्य ५.९:६
* आह आवरकत्वाविशेषाच्छून्यागारगुहयोरविशेष इति चेत्तदुच्यते मृत्तृणकाष्ठादिकृतमगारं पर्वतगुहाद्या गुहा ॥ भाष्य ५.९:७
* तस्मान्नाविशेष इति ॥ भाष्य ५.९:८
* यथा सति विभुत्वे ज्ञत्वं साधर्म्यं पुरुषेश्वरयोः सर्वज्ञत्वतो विशेषः ॥ भाष्य ५.९:९
* तस्मादायतनेऽविविक्तदोषं दृष्ट्वा शून्यागारे गुहायां वा यथोपपत्तितो विचार्य विविक्तं विवेच्य यन्मात्रस्थानासनशयनादिभिरुपजीवति तन्मात्रं संस्करणमर्यादयोपयोगक्रियाभिनिविष्टेन वस्तव्यम् ॥ भाष्य ५.९:१०
* वसतिसंयोगाद्गुहावासी भवति ॥ भाष्य ५.९:११
* पुलिनवासिवत् ॥ भाष्य ५.९:१२
* आह तत्कथं ज्ञेयं यथा जितानीन्द्रियाणि ॥ भाष्य ५.९:१३
* तेषां जितानां वा किं लक्षणम् ॥ भाष्य ५.९:१४
* तदुच्यते ॥ भाष्य ५.९:१५
**********************************************
देवनित्यः ॥ ५.१० ॥
* अत्र देवो भगवान् ॥ भाष्य ५.१०:१
* तत्र यदास्य भगवति देवे नित्यता कथम् ॥ भाष्य ५.१०:२
* अध्ययनध्यानाभ्यां देवेऽधिकृतस्य प्राधान्येन निश्चलता वर्तते ॥ भाष्य ५.१०:३
* स्वल्पतरव्यवधानेऽपि अतियोगाभ्यासनिरन्तरप्राप्तिः ॥ भाष्य ५.१०:४
* स्मृतिस्तु देवनित्यतेत्यर्थः ॥ भाष्य ५.१०:५
* आह देवनित्यतायाः किं लक्षणम् ॥ भाष्य ५.१०:६
* तदुच्यते जितेन्द्रियत्वम् ॥ भाष्य ५.१०:७
* यस्मादाह ॥ भाष्य ५.१०:८
**********************************************
जितेन्द्रियः ॥ ५.११ ॥
* अत्र जितेन्द्रियत्वं नाम उत्सर्गनिग्रहयोग्यत्वम् ॥ भाष्य ५.११:१
* इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि पूर्वोक्तानि ॥ भाष्य ५.११:२
* तानि यदा अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशले योजितानि हतविषदर्वीकरवदवस्थितानि भवन्ति तदा देवनित्यो जितेन्द्रिय इत्यर्थः ॥ भाष्य ५.११:३
* आह किं देवनित्यतैवास्य परो निष्ठायोगः ॥ भाष्य ५.११:४
* उच्यते न ॥ भाष्य ५.११:५
* यस्मादाह ॥ भाष्य ५.११:६
**********************************************
षण्मासान्नित्ययुक्तस्य ॥ ५.१२ ॥
* अथवान्यो दूरस्थः सम्बन्धः ॥ भाष्य ५.१२:१
* यस्मादुक्तम् । यस्य येनार्थसम्बन्धो दूरस्थमपि तेन हि । अर्थतोऽन्यसमानानामानन्तर्येऽप्यसंगतिः ॥ भाष्य ५.१२:२
* एवमिहापि दूरस्थः सम्बन्धः कस्मात् ॥ भाष्य ५.१२:३
* इह पुरस्तादुक्तं विज्ञानानि चास्य प्रवर्तन्ते इति एतैर्गुणैर्युक्त इति च ॥ भाष्य ५.१२:४
* कियता कालेनास्य ते गुणाः प्रवर्तन्ते ॥ भाष्य ५.१२:५
* किं युक्तस्य किं वियुक्तस्य किं युगपत्क्रमशो वा किं सकलस्य निष्कलस्य वेति ॥ भाष्य ५.१२:६
* इत्येषामर्थानामनिर्वचनानां निर्वचनार्थमिदमारभ्यते ॥ भाष्य ५.१२:७
* यस्मादाह षण्मासान्नित्ययुक्तस्य ॥ भाष्य ५.१२:८
* अत्र षडिति संख्या मासानिति कालनिर्देशः ॥ भाष्य ५.१२:९
* मनुष्यगणनया त्रिंशद्दिवसो मासः ॥ भाष्य ५.१२:१०
* द्वादश मासाः संवत्सरः ॥ भाष्य ५.१२:११
* द्वादश पक्षा अर्धसंवत्सरः ॥ भाष्य ५.१२:१२
* षण्मासानिति ॥ भाष्य ५.१२:१३
* तस्मात्षष्ठप्रथममासयोरभ्यन्तरे ॥ भाष्य ५.१२:१४
* नित्ययुक्तस्य ॥ भाष्य ५.१२:१५
* संततमविच्छिन्नमित्यर्थः ॥ भाष्य ५.१२:१६
* युक्त इति ॥ भाष्य ५.१२:१७
* आत्मेश्वरसंयोगो योगः ॥ भाष्य ५.१२:१८
* नित्ययुक्तस्य इति षष्ठी ॥ भाष्य ५.१२:१९
* आह अस्य युक्तस्य किं भवति ॥ भाष्य ५.१२:२०
* तदुच्यते ॥ भाष्य ५.१२:२१
**********************************************
भूयिष्ठं सम्प्रवर्तते ॥ ५.१३ ॥
* अत्र भूयिष्ठमिति क्रमे प्राये च भवति ॥ भाष्य ५.१३:१
* यथा क्रमशो ददाति आदित्यो वा गतो भूयिष्ठम् ॥ भाष्य ५.१३:२
* तस्मात्सूच्यग्रेणोत्पलपत्त्रशतभेदनक्रमवत्क्रमाद्दूरदर्शनादयः प्रवर्तन्त इत्यर्थः ॥ भाष्य ५.१३:३
* समित्येकीभावे ॥ भाष्य ५.१३:४
* निष्कलस्य कार्यकरणरहितस्येत्यर्थः ॥ भाष्य ५.१३:५
* प्र इत्यादिकर्मण्यारम्भे भवति ॥ भाष्य ५.१३:६
* युक्तोत्तरे प्रभावाद्गुणाः प्रवर्तन्ते इत्यर्थः ॥ भाष्य ५.१३:७
* वर्तते कस्मिन् ॥ भाष्य ५.१३:८
* दर्शनं दृश्ये श्रवणादि श्रव्यादिष्वित्यर्थः ॥ भाष्य ५.१३:९
* तस्मात्षष्ठप्रथममासयोरभ्यन्तरे नित्ययुक्तस्य क्रमशो गुणाः सम्प्रवर्तन्ते ॥ भाष्य ५.१३:१०
* कुतः ॥ भाष्य ५.१३:११
* महेश्वरप्रसादात् ॥ भाष्य ५.१३:१२
* अशिवत्वसंज्ञके विनिवृत्ते शिवत्वप्रसादाभ्यां गुणाः प्रवर्तन्ते ॥ भाष्य ५.१३:१३
* गुणशब्दो दूरदर्शनादिवचनः ॥ भाष्य ५.१३:१४
* आह कां वृत्तिमास्थाय शून्यागारे गुहायां वासः कार्यः ॥ भाष्य ५.१३:१५
* तदुच्यते ॥ भाष्य ५.१३:१६
**********************************************
भैक्ष्यम् ॥ ५.१४ ॥
* भिक्षाणां समूहो भैक्ष्यं कापोतवत् ॥ भाष्य ५.१४:१
* तच्च नगरग्रामादिभ्यो गृहाद्गृहं पर्यटतो भक्ष्यभोज्यादीनामन्यतमं यत्प्राप्यते कृतान्नादिवचनाद्भैक्ष्यम् ॥ भाष्य ५.१४:२
* भयक्षपणाद्भैक्ष्यम् ॥ भाष्य ५.१४:३
* भिक्षावचनादभैक्ष्यप्रतिषेधः ॥ भाष्य ५.१४:४
* आह आधारात्तु कृत्वा संदेहः अथ कुत्र तद्भैक्ष्यं ग्राह्यम् ॥ भाष्य ५.१४:५
* तदुच्यते पात्रे ॥ भाष्य ५.१४:६
* यस्मादाह ॥ भाष्य ५.१४:७
**********************************************
पात्रागतम् ॥ ५.१५ ॥
* अत्र भैक्ष्यवत्प्रसिद्धं पात्रम् ॥ भाष्य ५.१५:१
* अलाबुदारुवस्त्रादीनामन्यतमं यत्प्राप्यते तत्खलु हिंसास्तेयादिरहितेन क्रमेणाहारे यत्पर्याप्तं ग्राह्यम् ॥ भाष्य ५.१५:२
* तस्मिन् तदफलके पात्रे आगतं पात्रागतमित्यर्थः ॥ भाष्य ५.१५:३
* आह ब्रह्मचारिकल्पे मधुमांसलवणवर्जमिति ॥ भाष्य ५.१५:४
* तत्किं मधुमांसादीन्येकान्तेनैव दुष्टानीति ॥ भाष्य ५.१५:५
* तदुच्यते न ॥ भाष्य ५.१५:६
* यस्मादाह ॥ भाष्य ५.१५:७
**********************************************
मांसमदुष्यं लवणेन वा ॥ ५.१६ ॥
* तत्र भैक्ष्यवत्प्रसिद्धं मांसम् ॥ भाष्य ५.१६:१
* यस्य माहिषवाराहादीनामन्यतमं यत्प्राप्यते तत्खलु हिंसास्तेयरहितत्वात् ॥ भाष्य ५.१६:२
* लवणेन वा ॥ भाष्य ५.१६:३
* अत्र लवणं नाम सैन्धवसौवर्चलाद्यं मांसवत्प्रसिद्धम् ॥ भाष्य ५.१६:४
* तदेतन्मांससमसंसृष्टं वा भैक्ष्यविधिना प्राप्तम् ॥ भाष्य ५.१६:५
* अदुष्यमकुत्सितमगर्हितमित्यर्थः ॥ भाष्य ५.१६:६
* वा विकल्पे ॥ भाष्य ५.१६:७
* मांसेन वा लवणेन वा उभाभ्यामपि साक्षाद्वा अदुष्यमित्यर्थः ॥ भाष्य ५.१६:८
* आह भैक्ष्यालाभकाले अपर्याप्तिकाले वा किमनेन कर्तव्यम् ॥ भाष्य ५.१६:९
* तदुच्यते अपः पीत्वा स्थेयम् ॥ भाष्य ५.१६:१०
* यस्मादाह ॥ भाष्य ५.१६:११
**********************************************
आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ ५.१७ ॥
* अत्र आणापः आपः ॥ भाष्य ५.१७:१
* आङिति अत्र संवृतपरिपूतादिमर्यादामधिकुरुते कृतान्नोत्सृष्टवदपदान्तरितत्वात् ॥ भाष्य ५.१७:२
* द्वितीयास्थाने प्रथमा द्रष्टव्या ॥ भाष्य ५.१७:३
* आपोऽत्र लोकादिप्रसिद्धाः ॥ भाष्य ५.१७:४
* तृणादिव्यावृत्तमुदकमित्यर्थः ॥ भाष्य ५.१७:५
* वा विभागे ॥ भाष्य ५.१७:६
* अन्यद्भैक्ष्यमन्या आप इति ॥ भाष्य ५.१७:७
* अपिशब्दः सम्भावने ॥ भाष्य ५.१७:८
* अप्यपः पीत्वा स्थेयं न तु शास्त्रव्यपेतेन क्रमेण वृत्त्यर्जनं कर्तव्यमित्यर्थः ॥ भाष्य ५.१७:९
* यथा इतिशब्दः समानार्थे ॥ भाष्य ५.१७:१०
* यथा भैक्ष्योपदेशं कृत्वा योगकर्मण्युद्यमः कर्तव्य इति व्याख्यातं तथा अपः पीत्वेति ॥ भाष्य ५.१७:११
* कालोऽत्र द्विविधः अलाभकालः अपर्याप्तिकालश्च ॥ भाष्य ५.१७:१२
* तत्र यदा ग्रामं नगरं वा कृत्स्नमटित्वा न किंचिदासादयति सः अलाभकालः अपर्याप्तिकालो नाम यदा भिक्षां भिक्षाद्वयं वा आसादयति तदा अपः पीत्वापि स्थेयम् ॥ भाष्य ५.१७:१३
* आह एवं स्थितेन किमनेन कर्तव्यम् ॥ भाष्य ५.१७:१४
* तदुच्यते उपयोक्तव्यम् ॥ भाष्य ५.१७:१५
* यस्मादाह अश्नीयादनुपूर्वशः इति ॥ भाष्य ५.१७:१६
* अश्नीयादिति योगक्रियानुपरोधेनाहारलाघवमर्यादामधिकुरुते ॥ भाष्य ५.१७:१७
* अश भोजने ॥ भाष्य ५.१७:१८
* अश्नीयादनुपूर्वशः ॥ भाष्य ५.१७:१९
* अनु पृष्ठकर्मक्रियायाम् ॥ भाष्य ५.१७:२०
* अनुपूर्वश इति अतिक्रान्तापेक्षणे प्रकारवचने च ॥ भाष्य ५.१७:२१
* यथापूर्वं ग्रामादि प्रविश्य भैक्ष्यार्जनं कृत्वालाभकाले अपर्याप्तिकाले वा तदनु पश्चादपः पीत्वा स्थेयमिति कृत्वा भगवता एतदुक्तमश्नीयादनुपूर्वश इति ॥ भाष्य ५.१७:२२
* अत्र श्लोको निर्वचनः ॥ भाष्य ५.१७:२३
* आह शून्यागारगुहावस्थस्येन्द्रियजयेन वर्ततोऽस्य बलं किं चिन्त्यते किमकलुषत्वमेव ॥ भाष्य ५.१७:२४
* तदुच्यते न ॥ भाष्य ५.१७:२५
* यस्मादाह ॥ भाष्य ५.१७:२६
**********************************************
गोधर्मा मृगधर्मा वा ॥ ५.१८ ॥
* अत्र गौर्लोकादिप्रसिद्धो मृगवत्खुरककुदविषाणसास्नादिमानिति ॥ भाष्य ५.१८:१
* तथा मृगोऽपि गोद्रव्यवल्लोकादिप्रसिद्धः कृष्णमृगादीनामन्यतमः ॥ भाष्य ५.१८:२
* तयोस्तु सति धर्मबहुत्वे समानो धर्मो गृह्यते आध्यात्मिकादिद्वंद्वसहिष्णुत्वम् ॥ भाष्य ५.१८:३
* तदुत्तरत्र वक्ष्यामः ॥ भाष्य ५.१८:४
* गोमृगधर्मग्रहणं तु परस्परविशेषणार्थम् ॥ भाष्य ५.१८:५
* वाशब्दो विकल्पार्थः ॥ भाष्य ५.१८:६
* क्रियासामान्यदृष्ट्या रौद्रीबहुरूपीवदेकधर्मेण चैकधर्मेण वा स्थेयमित्यर्थः ॥ भाष्य ५.१८:७
* आह केन बलेनास्य कार्यनिष्पत्तिः ॥ भाष्य ५.१८:८
* तदुच्यते ॥ भाष्य ५.१८:९
**********************************************
अद्भिरेव शुचिर्भवेत् ॥ ५.१९ ॥
* अत्र अद्भिः आङिव अद्भिरेव आपो जलमित्यादिप्रसिद्धाः पूर्वोक्ताः ॥ भाष्य ५.१९:१
* अद्भिरिति तृतीया ॥ भाष्य ५.१९:२
* आङिति पूर्वप्रसिद्धमात्रादिमर्यादामधिकुरुते ॥ भाष्य ५.१९:३
* गोमृगवद्द्वंद्वसहिष्णुत्वमर्यादायां च ॥ भाष्य ५.१९:४
* इव इति उपमायाम् ॥ भाष्य ५.१९:५
* यथा अद्भिश्च मृद्भिश्च प्रक्षालितानि वस्त्रादीनि शुद्धानि भवन्ति तद्वत् ॥ भाष्य ५.१९:६
* गोमृगधर्मित्वेन बलेन शुचिर्भवतीति ॥ भाष्य ५.१९:७
* उच्यते न ॥ भाष्य ५.१९:८
* यस्मादाह गोमृगयोरकुशलधर्मप्रतिषेधं कुशलधर्मे च नियोगं सिद्धशक्तिप्रशंसया असिद्धशक्तिप्रतिषेधं च वक्ष्यामः ॥ भाष्य ५.१९:९
* तदाह ॥ भाष्य ५.१९:१०
**********************************************
सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ ५.२० ॥
* असिद्धस्तु सर्वथापि वर्तमानो लिप्यत इत्यर्थः ॥ भाष्य ५.२०:१
* अतो योगी सिद्ध इत्येवं प्राप्ते सुखमुखोच्चारणार्थमुक्तं सिद्धयोगी इति ॥ भाष्य ५.२०:२
* अत्र ॥ भाष्य ५.२०:३
* योगो नामात्मेश्वरयोर्योगः ॥ भाष्य ५.२०:४
* तेनायं योगी ॥ भाष्य ५.२०:५
* सिद्धो नाम दर्शनाद्यैश्वर्यं प्राप्तः ॥ भाष्य ५.२०:६
* स खलु वशीकरणावेशनपालनादिप्रवीणः ॥ भाष्य ५.२०:७
* न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्य ५.२०:८
* आह केन न लिप्यते ॥ भाष्य ५.२०:९
* तदुच्यते कर्मणा ॥ भाष्य ५.२०:१०
* अत्र कर्मणेत्युच्यते ॥ भाष्य ५.२०:११
* कस्मात् ॥ भाष्य ५.२०:१२
* कृतकत्वात् ॥ भाष्य ५.२०:१३
* कर्मणेति तृतीया ॥ भाष्य ५.२०:१४
* इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्य ५.२०:१५
* आह अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते आहो अथ किमशुभेन कर्मणा लिप्यते नेति ॥ भाष्य ५.२०:१६
* तदुच्यते न ॥ भाष्य ५.२०:१७
* यस्मादाह पातकेन ॥ भाष्य ५.२०:१८
* अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रियविषयगतोऽशुभं भुङ्क्ते तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत इत्यर्थः ॥ भाष्य ५.२०:१९
* वा त्रिकल्पे ॥ भाष्य ५.२०:२०
* पातकेन वा अपातकेन वा समस्ताभ्यां वा वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्य ५.२०:२१
* कस्मात् ॥ भाष्य ५.२०:२२
* सिद्धिसामर्थ्यात् ॥ भाष्य ५.२०:२३
* असिद्धश्चायं योगी ब्राह्मणो गोमृगधर्मावस्थो यदि सर्वथापि गोमृगवत्प्रवर्तते ततो लिप्यते ॥ भाष्य ५.२०:२४
* तस्माद्गोमृगयोरकुशलधर्मो न ग्राह्यः ॥ भाष्य ५.२०:२५
* कुशलधर्मश्च स्वाध्यात्मिकादिद्वंद्वसहिष्णुत्वं परिगृह्यते ॥ भाष्य ५.२०:२६
* तेनायं शुचिर्भवति ॥ भाष्य ५.२०:२७
* आह किमस्याशौचम् ॥ भाष्य ५.२०:२८
* तदुच्यते द्वंद्वैर्योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः शीतादिभिरन्यैर्वा ॥ भाष्य ५.२०:२९
* न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्य ५.२०:३०
* कस्मात् ॥ भाष्य ५.२०:३१
* प्राप्तबलत्वादित्यर्थः ॥ भाष्य ५.२०:३२
* अत्र श्लोको निर्वचनः ॥ भाष्य ५.२०:३३
* आह शून्यागारगुहावस्थस्येन्द्रियजये वर्ततः काः क्रियाः कर्तव्याः ॥ भाष्य ५.२०:३४
* किं स्नानहसिताद्याः क्राथनस्पन्दनमण्टनाद्या वा ॥ भाष्य ५.२०:३५
* तदुच्यते न ॥ भाष्य ५.२०:३६
* यस्मादाह ॥ भाष्य ५.२०:३७
**********************************************
ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः ॥ ५.२१ ॥
* अत्र ऋचमृचामित्यप्यदुष्टः पाठः ॥ भाष्य ५.२१:१
* अत्र ऋचा नामाघोरा ॥ भाष्य ५.२१:२
* कथं गम्यते ॥ भाष्य ५.२१:३
* ऋङ्मध्यात् ॥ भाष्य ५.२१:४
* सद्योजाततत्पुरुषेशानवदर्चिवर्चगाः ॥ भाष्य ५.२१:५
* इष्टा चेयं तत्र तत्र जप्तव्यत्वेन गुणीकृतत्वात् ॥ भाष्य ५.२१:६
* पूर्वोत्तरसूत्रेषु जप्तव्यत्वेन गायत्र्या सहाध्यानादाशुभावसमाध्यासादनाच्च इष्टा ॥ भाष्य ५.२१:७
* अध्ययनमिति जप्यपर्यायः ॥ भाष्य ५.२१:८
* ईत इत्याज्ञायां नियोगे च ॥ भाष्य ५.२१:९
* मानसमेवाधीयीतेत्यर्थः ॥ भाष्य ५.२१:१०
* आह किमृचैवैकाध्येतव्या ॥ भाष्य ५.२१:११
* उच्यते न ॥ भाष्य ५.२१:१२
* यस्मादाह गायत्रीमिति ॥ भाष्य ५.२१:१३
* गायत्री नाम तत्पुरुषा ॥ भाष्य ५.२१:१४
* निरुक्तमस्याः पूर्वोक्तम् ॥ भाष्य ५.२१:१५
* मानसमेवाधीयीतेत्यर्थः ॥ भाष्य ५.२१:१६
* आह कीदृशोऽधीयीतेति ॥ भाष्य ५.२१:१७
* तदुच्यते आत्मयन्त्रितः ॥ भाष्य ५.२१:१८
* आत्मयन्त्रणमिति प्रत्याहारपर्यायः ॥ भाष्य ५.२१:१९
* आत्मेति क्षेत्रज्ञ उच्यते ॥ भाष्य ५.२१:२०
* आत्मत्वमस्य चैतन्यम् ॥ भाष्य ५.२१:२१
* आप्तव्यं कार्यं करणं विषयाश्च ॥ भाष्य ५.२१:२२
* आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते ॥ भाष्य ५.२१:२३
* यन्त्रणं नाम यथायमात्मभावो ब्रह्मण्यक्षरपदपङ्क्त्यां युक्तो वर्तते तदात्मा यन्त्रितो भवति ॥ भाष्य ५.२१:२४
* कथम् ॥ भाष्य ५.२१:२५
* नृत्यप्रसक्तचित्तदृष्टान्तात्कस्मात् ॥ भाष्य ५.२१:२६
* आत्मात्मभावयोरव्युच्छेदात् ॥ भाष्य ५.२१:२७
* गुणगुणिनोरपि तथा युगपद्भावः ॥ भाष्य ५.२१:२८
* कथम् ॥ भाष्य ५.२१:२९
* यष्टुं प्रवृत्तो यन्त्रयितुं च प्रवृत्त एव भवति ॥ भाष्य ५.२१:३०
* भिक्षुवत् ॥ भाष्य ५.२१:३१
* तस्माद्यन्त्रणमेवैष प्रत्याहार इति ॥ भाष्य ५.२१:३२
* आह अत्र गायत्रीबहुत्वात्संदेहः ॥ भाष्य ५.२१:३३
* कथमवगम्यते ऋचा अघोरेण वा तत्पुरुषेणेति ॥ भाष्य ५.२१:३४
* उच्यते गम्यते ॥ भाष्य ५.२१:३५
* यस्मादाह ॥ भाष्य ५.२१:३६
**********************************************
रौद्रीं वा बहुरूपीं वा ॥ ५.२२ ॥
* अत्र रौद्री नाम तत्पुरुषा ॥ भाष्य ५.२२:१
* निरुक्तमस्याः पूर्वोक्तम् ॥ भाष्य ५.२२:२
* वाशब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः ॥ भाष्य ५.२२:३
* बहुरूपी नामाघोरा ॥ भाष्य ५.२२:४
* वा विकल्पे ॥ भाष्य ५.२२:५
* तुल्यफलत्वात् ॥ भाष्य ५.२२:६
* वेत्यत एका चैका वा ॥ भाष्य ५.२२:७
* आत्मयन्त्रितोऽधीयीत इत्यर्थः ॥ भाष्य ५.२२:८
* आह आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः ॥ भाष्य ५.२२:९
* तदुच्यते ॥ भाष्य ५.२२:१०
**********************************************
अतो योगः प्रवर्तते ॥ ५.२३ ॥
* अत्र अत इति कारणापदेशे ॥ भाष्य ५.२३:१
* आत्मयन्त्रितोऽधीयीतेत्यर्थः ॥ भाष्य ५.२३:२
* तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः ॥ भाष्य ५.२३:३
* योग इति ॥ भाष्य ५.२३:४
* आत्मेश्वरसंयोगो योग इति मन्तव्यः ॥ भाष्य ५.२३:५
* प्र इत्यादिकर्मणि ॥ भाष्य ५.२३:६
* प्रवर्तते इत्यस्य पूर्वोक्तोऽर्थः ॥ भाष्य ५.२३:७
* अत्र श्लोको निर्वचनः ॥ भाष्य ५.२३:८
* आह ऋचमधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव स्थेयम् ॥ भाष्य ५.२३:९
* आहोस्विद्दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रियाध्याननमःस्तव्यम् ॥ भाष्य ५.२३:१०
* उच्यते दृष्टा ॥ भाष्य ५.२३:११
* यस्मादाह ॥ भाष्य ५.२३:१२
**********************************************
ओंकारमभिध्यायीत ॥ ५.२४ ॥
* अत्र ओमित्येष जप्यपर्यायो वामदेवादिवत् ॥ भाष्य ५.२४:१
* कारशब्दोऽवधारणे द्रष्टव्यः ॥ भाष्य ५.२४:२
* किंकारणम् ॥ भाष्य ५.२४:३
* उक्तं हि । प्रणवे नित्ययुक्तस्य व्याहृतिषु च सप्तसु । त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् ॥ भाष्य ५.२४:४
* इत्यत ओंकार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः ॥ भाष्य ५.२४:५
* अभिरभ्यासे ॥ भाष्य ५.२४:६
* ओंकारसंनिकृष्टचित्तेन भवितव्यम् ॥ भाष्य ५.२४:७
* ध्यै चिन्तायाम् ॥ भाष्य ५.२४:८
* ध्यानं चिन्तनमित्यर्थः ॥ भाष्य ५.२४:९
* उक्तं हि । ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चौंकारलक्षणम् । धीयते लीयते वापि तस्माद्ध्यानमिति स्मृतम् ॥ भाष्य ५.२४:१०
* मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा ॥ भाष्य ५.२४:११
* ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः ॥ भाष्य ५.२४:१२
* ईत इत्याज्ञायां नियोगे च ॥ भाष्य ५.२४:१३
* ओंकार एव ध्येयो नान्य इत्यर्थः । आह ओंकारो ध्येयः ॥ भाष्य ५.२४:१४
* को वा ध्यानदेशः ॥ भाष्य ५.२४:१५
* कस्मिन् वा देशे धारणा कर्तव्या ॥ भाष्य ५.२४:१६
* ध्यायमानेन वा किं कर्तव्यम् ॥ भाष्य ५.२४:१७
* तदुच्यते ॥ भाष्य ५.२४:१८
**********************************************
हृदि कुर्वीत धारणाम् ॥ ५.२५ ॥
* तत्र हृदि इत्यात्मपर्यायः ॥ भाष्य ५.२५:१
* कस्मात् ॥ भाष्य ५.२५:२
* पूर्वोत्तरसामर्थ्यात् ॥ भाष्य ५.२५:३
* योऽर्थो यत्र मिलति स तत्र स्थापयितव्यः स एवार्थो धारयितव्यः ॥ भाष्य ५.२५:४
* किंच वेदप्रामाण्यादुक्तम् । अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ भाष्य ५.२५:५
* अन्यत्रापि आत्मा विजायते पुत्र आत्मा वै आत्मनः पिता । आत्मप्रजो भविष्यामि परमं हृदयं हि सः ॥ भाष्य ५.२५:६
* अतो हृदयमात्मेत्युक्तम् ॥ भाष्य ५.२५:७
* प्रकुरुते भावं बुद्धिरध्यवसायिताम् ॥ भाष्य ५.२५:८
* हृदयं प्रियाप्रिये वेत्ति त्रिविधा करणस्थितिः ॥ भाष्य ५.२५:९
* तथा लोकेऽपि सन्ति वक्तारो हृदयं ते ज्ञास्यति ॥ भाष्य ५.२५:१०
* किमुक्तं भवति ॥ भाष्य ५.२५:११
* आत्मा ते ज्ञास्यतीति ॥ भाष्य ५.२५:१२
* अतोऽवगम्यते हृदीत्यात्मपर्यायः ॥ भाष्य ५.२५:१३
* हृदीति औपश्लेषिकं संनिधानम् ॥ भाष्य ५.२५:१४
* अत्र तु ओंकारो धार्यो नात्मा किंतु य एवात्मन्यात्मभावः ॥ भाष्य ५.२५:१५
* तस्योंकारात्प्रच्युतस्य विषयेभ्यो वृत्तिविकारमात्रेण गतस्य प्रत्यानयनं प्रत्याहारः ॥ भाष्य ५.२५:१६
* प्रत्याहृत्य हृदि धारणा कर्तव्या ॥ भाष्य ५.२५:१७
* धार्यं चोंकारानुचिन्तनम् ॥ भाष्य ५.२५:१८
* तत्रैव सुदीर्घकालमवस्थानमध्ययनम् ॥ भाष्य ५.२५:१९
* तद्धारणाहितं परं ध्यानम् ॥ भाष्य ५.२५:२०
* निष्ठायोगस्तु स्थापयित्वेति वक्ष्यामः ॥ भाष्य ५.२५:२१
* कुर्वीत इति ॥ भाष्य ५.२५:२२
* डुकृञ्करणे ॥ भाष्य ५.२५:२३
* तस्य सप्तम्यन्ते कुर्वीतेति भवति ॥ भाष्य ५.२५:२४
* हृदि धारणा कर्तव्या ॥ भाष्य ५.२५:२५
* ईत इत्याज्ञायां नियोगे च ॥ भाष्य ५.२५:२६
* पादजानुकटिनासिकादिस्थानेषु धारणाकर्तव्यताप्रतिषेधार्थो नियोगः ॥ भाष्य ५.२५:२७
* हृदि धार्या नान्यत्रेत्यर्थः ॥ भाष्य ५.२५:२८
* आह ओंकारः किं परप विष्णुरुमा कुमारश्च चतस्रोऽर्धमात्रा वा ॥ भाष्य ५.२५:२९
* उत समानपुरुष इति ॥ भाष्य ५.२५:३०
* उच्यते न ॥ भाष्य ५.२५:३१
* यस्मादाह ॥ भाष्य ५.२५:३२
**********************************************
ऋषिर्विप्रो महानेषः ॥ ५.२६ ॥
* अत्र ऋषिः इत्येतद्भगवता नामधेयम् ॥ भाष्य ५.२६:१
* ऋषिः कस्मात् ॥ भाष्य ५.२६:२
* ऋषिः क्रियायाम् ॥ भाष्य ५.२६:३
* ऋषित्वं नाम क्रियाशंसनादृषिः ॥ भाष्य ५.२६:४
* तथा कृत्स्नं कार्यं विद्याद्यमीशत इत्यतः ऋषिः ॥ भाष्य ५.२६:५
* तथा विप्र इत्येतदपि भगवतो नाम ॥ भाष्य ५.२६:६
* विप्रः कस्मात् ॥ भाष्य ५.२६:७
* विद ज्ञाने ॥ भाष्य ५.२६:८
* विप्रत्वं नाम ज्ञानशक्तिः ॥ भाष्य ५.२६:९
* व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति ॥ भाष्य ५.२६:१०
* तथा महानित्यभ्यधिकत्वे ॥ भाष्य ५.२६:११
* यदेतद्दृक्क्रियालक्षणमस्ति अनागन्तुकमकृतकमैश्वर्यं तद्गुणसद्भावः सतत्त्वं तत्त्वधर्मः तदकृतकं पुरुषचैतन्यवत्तन्नान्यस्येत्यतोऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति महान् ॥ भाष्य ५.२६:१२
* एष इति प्रत्यक्षे ॥ भाष्य ५.२६:१३
* एष यो मया पूर्वमोमिति श्रोत्रप्रत्यक्षीकृतोऽर्थः असौ विष्णूमाकुमारादीनामन्यतमो न भवति ॥ भाष्य ५.२६:१४
* कस्मात् ॥ भाष्य ५.२६:१५
* ऋषित्वाद्विप्रत्वान्महत्त्वाच्चेत्यर्थः ॥ भाष्य ५.२६:१६
* आह ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् ॥ भाष्य ५.२६:१७
* कीदृशो वा ओंकारो ध्येयः ॥ भाष्य ५.२६:१८
* तदुच्यते ॥ भाष्य ५.२६:१९
**********************************************
वाग्विशुद्धः ॥ ५.२७ ॥
* अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् ॥ भाष्य ५.२७:१
* न अमी इत्यन्यो भगवान् ॥ भाष्य ५.२७:२
* स यथा ह्यथो हित्वा वाणीं मनसा सह रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः ॥ भाष्य ५.२७:३
* यस्मादुक्तम् । आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे । येन प्राप्तं योगे मुहूर्तमपि तत्परो योगः ॥ भाष्य ५.२७:४
* परमयोग इत्यर्थः ॥ भाष्य ५.२७:५
* आह अथ यथायं बालवन्निष्कलस्तथा किं समानपुरुषः ॥ भाष्य ५.२७:६
* तदुच्यते न ॥ भाष्य ५.२७:७
* यस्मादाह तदाप्ययम् ॥ भाष्य ५.२७:८
**********************************************
महेश्वरः ॥ ५.२८ ॥
* अत्रानाद्यज्ञानद्यतिना ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण महेश्वर इति सिद्धमिह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं समानपुरुषवदनीश्वर इत्यस्य संशयस्य संव्युदासार्थमुच्यते महेश्वर इति ॥ भाष्य ५.२८:१
* यस्मादस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः ॥ भाष्य ५.२८:२
* तदकृतकत्वं पुरुषचैतन्यवत् ॥ भाष्य ५.२८:३
* अतस्तदाप्ययं महानेवेश्वरो महेश्वरः ॥ भाष्य ५.२८:४
* तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति ॥ भाष्य ५.२८:५
* एवमोंकारमिति ध्येयमुक्तम् ॥ भाष्य ५.२८:६
* ध्येयगुणीकरणमुक्तमृषिर्विप्रो महानेष इति ॥ भाष्य ५.२८:७
* ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति ॥ भाष्य ५.२८:८
* ध्येयशक्तिप्रशंसा चोक्ता महेश्वर इति ॥ भाष्य ५.२८:९
* एवं यस्मादिन्द्रियजये वर्तते अतो वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति ॥ भाष्य ५.२८:१०
* अतोऽत्र युक्तं वक्तुम् ॥ भाष्य ५.२८:११
* शून्यागारगुहाप्रकरणं परिसमाप्तमिति ॥ भाष्य ५.२८:१२
* आह शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च प्राप्ता भवति तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेन दुःखान्तप्राप्तेः स्थेयम् ॥ भाष्य ५.२८:१३
* आहोस्विद्दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रियालाभाश्चेति ॥ भाष्य ५.२८:१४
* उच्यते दृष्टः ॥ भाष्य ५.२८:१५
* यस्मादाह ॥ भाष्य ५.२८:१६
**********************************************
(...) ॥ ५.२९ ॥
* आह शून्यागारगुहामुत्सृज्य प्रयोजनाभावात्श्मशाने संक्रान्तिरयुक्तेति चेत् ॥ भाष्य ५.२९:१
* तदुच्यते न ॥ भाष्य ५.२९:२
* योगव्यासङ्गपरिहारार्थत्वात् ॥ भाष्य ५.२९:३
* इहावस्थानादवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रियालाभादयोऽयुतसिद्धा वक्तव्याः ॥ भाष्य ५.२९:४
* तत्रादिधर्मा अप्यस्य तावदायतने वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति ॥ भाष्य ५.२९:५
* तथा असन्मानपरिभवोपदेशादायतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वमिन्द्रियद्वारपिधानं च क्रिया इन्द्रियाणि पिधाय उन्मत्तवदवस्थानं पापक्षयाच्छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते ॥ भाष्य ५.२९:६
* तथा वसत्यर्थः शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययनध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता जितेन्द्रियत्वं चेति ॥ भाष्य ५.२९:७
* तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा ॥ भाष्य ५.२९:८
* यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु सायुज्यम् ॥ भाष्य ५.२९:९
* तथोत्तरत्र ऋषिरिति वसत्यर्थः बलमप्रमादः प्रसाद उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति ॥ भाष्य ५.२९:१०
* तथोक्तं च । पञ्च लाभान्मलान् पञ्च पञ्चोपायान् विशेषतः । यस्तु बुध्यति पञ्चार्थे स विद्वान्नात्र संशयः ॥ भाष्य ५.२९:११
* प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् । योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥ भाष्य ५.२९:१२
* अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च । अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥ भाष्य ५.२९:१३
* वासो ध्यानमखिलकरणनिरोधस्तथा स्मृतिश्चैव । प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥ भाष्य ५.२९:१४
* वासार्थो लोकश्च शून्यागारं तथा श्मशानं च । रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ भाष्य ५.२९:१५
* तस्माद्युक्तमुक्तम् ॥ भाष्य ५.२९:१६
* स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ॥ भाष्य ५.२९:१७
* अत्र श्मशानं नाम यदेतल्लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि परित्यजन्ति तत् ॥ भाष्य ५.२९:१८
* शवसम्बन्धात्श्मशानं तस्मिन्नाकाशे वृक्षमूले यथानभिष्वङ्गमर्यादया जितद्वंद्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम् ॥ भाष्य ५.२९:१९
* वसतिसंयोगात्श्मशानवासी भवति पुलिनवासिवदित्यर्थः ॥ भाष्य ५.२९:२०
* आह किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ॥ भाष्य ५.२९:२१
* तदुच्यते न ॥ भाष्य ५.२९:२२
* यस्मादाह ॥ भाष्य ५.२९:२३
**********************************************
श्मशानवासी ॥ ५.३० ॥
* अत्र धर्मो नाम य एष यमनियमपूर्वकोऽभिव्यक्तो माहात्म्यादिधर्मः स पूर्वोक्तः ॥ भाष्य ५.३०:१
* सोऽस्यात्मनि प्रचितः ॥ भाष्य ५.३०:२
* तेन धर्मेण धर्मात्मा भवतीत्यर्थः ॥ भाष्य ५.३०:३
* आह किमस्य भैक्ष्यमेव वृत्तिः ॥ भाष्य ५.३०:४
* उच्यते न ॥ भाष्य ५.३०:५
* यस्मादाह ॥ भाष्य ५.३०:६
**********************************************
धर्मात्मा ॥ ५.३१ ॥
* अत्र यथा इति समानार्थे अम्लादिषु जितेन्द्रियत्वात् ॥ भाष्य ५.३१:१
* लब्धमासादितमप्रार्थितमित्यर्थः ॥ भाष्य ५.३१:२
* उप इति समीपधारणे ॥ भाष्य ५.३१:३
* तद्यथालब्धमन्नपानं श्मशानादनिर्गच्छता दिवसे दिवसे जीवनाय स्थित्यर्थं तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः ॥ भाष्य ५.३१:४
* आह किं जीवनमेव परो लाभ इति ॥ भाष्य ५.३१:५
* उच्यते न ॥ भाष्य ५.३१:६
* यस्मादाह ॥ भाष्य ५.३१:७
**********************************************
यथालब्धोपजीवकः लभते रुद्रसायुज्यम् ॥ ५.३२ ॥
* अत्र लभते विन्दते आसादयतीत्यर्थः रुद्र इति कारणापदेशे ॥ भाष्य ५.३२:१
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ५.३२:२
* साक्षाद्रुद्रेण सह संयोगः सायुज्यम् ॥ भाष्य ५.३२:३
* भावग्रहणमात्मेश्वराभ्यामन्यत्र प्रतिषेधार्थम् ॥ भाष्य ५.३२:४
* योगस्य सम्यक्त्वं सायुज्यमिति योगपर्यायोऽवगम्यते ॥ भाष्य ५.३२:५
* धर्मात्मवचनादतिगत्यानन्त्यवदित्यर्थः ॥ भाष्य ५.३२:६
* आह तत्केनोपायेन लभते ॥ भाष्य ५.३२:७
* किमध्ययनध्यापनाभ्यामेव ॥ भाष्य ५.३२:८
* तदुच्यते न ॥ भाष्य ५.३२:९
* यस्मादाह ॥ भाष्य ५.३२:१०
**********************************************
सदा रुद्रमनुस्मरेत् ॥ ५.३३ ॥
* अत्र सदा नित्यं सततमव्युच्छिन्नमिति रुद्रमिति कारणापदेशे ॥ भाष्य ५.३३:१
* रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ५.३३:२
* रुद्रमिति द्वितीया कर्मणि ॥ भाष्य ५.३३:३
* अनु पृष्ठकर्मक्रियायाम् ॥ भाष्य ५.३३:४
* पूर्वोक्तो ध्येयोऽर्थः सततमनुस्मर्तव्यः । स्मृतिः चिन्तायाम् ॥ भाष्य ५.३३:५
* ऊष्मवदवस्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततमनुस्मर्तव्यः ॥ भाष्य ५.३३:६
* स्मृतिस्तु देवनित्यतेत्यर्थः ॥ भाष्य ५.३३:७
* ततः क्षीणे कर्मणि तद्दोषहेतुजालमूलविशिष्टस्य प्रत्यासैकनिमित्ताभावात्सायुज्यप्राप्तौ न पुनः संसारः ॥ भाष्य ५.३३:८
* अत्र श्लोको निर्वचनः ॥ भाष्य ५.३३:९
* आह अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात्संदेहः ॥ भाष्य ५.३३:१०
* सूक्ष्मवदवस्थिते कर्मणि क्षीणेऽत्यन्तविशुद्धः सायुज्यमासादयति आहोस्विदविशुद्ध इति ॥ भाष्य ५.३३:११
* उच्यते विशुद्धः ॥ भाष्य ५.३३:१२
* यस्मादाह ॥ भाष्य ५.३३:१३
**********************************************
छित्त्वा दोषाणां हेतुजालस्य मूलम् ॥ ५.३४ ॥
* अत्र व्युत्क्रमाभिधानाच्छेदः क्रमशो योजनीयः ॥ भाष्य ५.३४:१
* यन्त्रणधारणात्मकश्छेदो द्रष्टव्यः ॥ भाष्य ५.३४:२
* किमर्थम् ॥ भाष्य ५.३४:३
* सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं वसत्यर्थादिनिर्देशार्थत्वात् ॥ भाष्य ५.३४:४
* किंच अर्थानामनिर्वचनार्थत्वात्तत्र जप एव केवलोऽभिहितः ॥ भाष्य ५.३४:५
* इह तु यत इन्द्रियाणि जेतव्यानि यो जेता यया जेतव्यानि यथा जेतव्यानि यत्प्रयोजनं जेतव्यानि यस्मिंश्च जिते जितानि भवन्ति तद्वक्ष्यामः ॥ भाष्य ५.३४:६
* तथा यस्यात्मवृत्तिरध्ययनध्यानस्मरणादि च वक्ष्यामः ॥ भाष्य ५.३४:७
* तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं छेदप्रयोजनं छेद्यं छित्तिं यस्मिन् छिन्ने छिन्नं भवति तद्वक्ष्यामः ॥ भाष्य ५.३४:८
* तदुच्यते छित्त्वा ॥ भाष्य ५.३४:९
* अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् ॥ भाष्य ५.३४:१०
* विच्छेदवचनाद्गम्यते ॥ भाष्य ५.३४:११
* त्वा इति शून्यागारगुहावस्थितस्याध्ययनध्यानधारणयन्त्रणादिकं गम्यते ॥ भाष्य ५.३४:१२
* आह किं तत् ॥ भाष्य ५.३४:१३
* केभ्यो वा छेत्तव्यम् ॥ भाष्य ५.३४:१४
* तदुच्यते दोषाणां हेतुजालस्य मूलमिति ॥ भाष्य ५.३४:१५
* अत्र दोषाः शब्दस्पर्शरूपरसगन्धाः ॥ भाष्य ५.३४:१६
* कस्मात् ॥ भाष्य ५.३४:१७
* कामार्जनादिमूलत्वात् ॥ भाष्य ५.३४:१८
* यस्मादुक्तम् । कामः क्रोधस्तथा लोभो भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च ॥ भाष्य ५.३४:१९
* तथा अर्जनरक्षणक्षयसङ्गहिंसादयो दोषाः ॥ भाष्य ५.३४:२०
* अर्जनं नाम प्रतिग्रहजयक्रयविक्रयनिर्वेश्यादिषु वर्णिनां विषयार्जनोपायाः ॥ भाष्य ५.३४:२१
* एतेषु च विषयाणामर्जने वर्ततात्मपीडा परपीडा वा अवर्जनीये भवतः ॥ भाष्य ५.३४:२२
* तत्र यद्यात्मानं पीडयति तेन इहैव लोके दुःखी भवति ॥ भाष्य ५.३४:२३
* स्यात्परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः संचीयते ॥ भाष्य ५.३४:२४
* तच्च दुःखं नान्योऽनुभवति कर्तैवानुभवति ॥ भाष्य ५.३४:२५
* अपि च किम्पाकफलोपमा विषयाः ॥ भाष्य ५.३४:२६
* तद्यथा श्रूयते लवणसागरसंनिकर्षे कालयवनद्वीपे किम्पाका नाम विषवृक्षाः ॥ भाष्य ५.३४:२७
* तत्फलान्यास्वादेनामृतोपमानि च केचिदज्ञानाद्गुडवद्भक्षयन्ति ॥ भाष्य ५.३४:२८
* भक्षितानि च तानि मूर्छां छर्दिं च जनयन्ति ॥ भाष्य ५.३४:२९
* तत्तीव्रदुःखाभिभूताः पञ्चत्वमापुः ॥ भाष्य ५.३४:३०
* श्रुत्वा तु सुहृदां वाक्यं यो नरो ह्यवमन्यते । स दह्यते विपाकान्ते किम्पाकैरिव भक्षितैः ॥ भाष्य ५.३४:३१
* एवं किम्पाकफलोपमा विषयाः सेव्यमानाः सुखं जनयन्ति ॥ भाष्य ५.३४:३२
* परिणामे संसारे जन्मनिमित्तत्वाद्दुःखानि प्रतिपद्यन्ते ॥ भाष्य ५.३४:३३
* इत्येवं विषयाणामर्जने दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्य ५.३४:३४
* तथाऽन्यः कथम् ॥ भाष्य ५.३४:३५
* अस्त्वेष विषयाणामर्जने दोषः ॥ भाष्य ५.३४:३६
* स भवतु तेषाम् ॥ भाष्य ५.३४:३७
* न वयं तत्प्रतिषेधयामः ॥ भाष्य ५.३४:३८
* अयं त्वन्यः कष्टो विषयदोषः ॥ भाष्य ५.३४:३९
* कश्चासाविति ॥ भाष्य ५.३४:४०
* उच्यते रक्षणदोषः ॥ भाष्य ५.३४:४१
* अर्जितानामप्येषामवश्यमेवोद्यतायुधेन रक्षा विधातव्या ॥ भाष्य ५.३४:४२
* कस्मात् ॥ भाष्य ५.३४:४३
* नृपदहनतस्करदायादसाधारणफलत्वात् ॥ भाष्य ५.३४:४४
* तत्रात्मपीडा ॥ भाष्य ५.३४:४५
* परपीडायां च यथोक्तः ॥ भाष्य ५.३४:४६
* उक्तं हि । स्वद्रव्यं पुरुषं चोराः स्वमांसं पिशिताशिनः । क्लेशयन्ति यथा घोरास्तथाहि विषया नरम् ॥ भाष्य ५.३४:४७
* क्लेशं समनुभुङ्क्ते च विषयाणां परिग्रहात् । तेषामेव परित्यागात्सर्वक्लेशक्षयो भवेत् ॥ भाष्य ५.३४:४८
* आत्मदुःखोपघातार्थं त्यागधर्मं समाचरेत् । नापरित्यज्य विषयान् विषयी सुखमेधते ॥ भाष्य ५.३४:४९
* विषयाणामर्जनादौ दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्य ५.३४:५०
* तथा अन्यः कथम् ॥ भाष्य ५.३४:५१
* अस्त्वेष विषयाणामर्जनरक्षणादौ दोषौ भवतस्तेषाम् ॥ भाष्य ५.३४:५२
* न वयं तौ प्रतिषेधयामः ॥ भाष्य ५.३४:५३
* अयं त्वन्यः कष्टतरो विषयाणां दोषः ॥ भाष्य ५.३४:५४
* कश्चासाविति ॥ भाष्य ५.३४:५५
* उच्यते क्षयो दोषः ॥ भाष्य ५.३४:५६
* अर्जितानां सुरक्षितानामप्येषामवश्यमेवाभ्युपगन्तव्यः ॥ भाष्य ५.३४:५७
* विषयक्षये च पुनर्विषयिणां तीव्रदुःखमभिव्यज्यते ॥ भाष्य ५.३४:५८
* मत्स्यादिवद्यथोदकक्षये नदीनां तद्वत्तस्मादशोभनम् ॥ भाष्य ५.३४:५९
* उक्तं हि । त्रय एव ह्रदा दुर्गाः सर्वभूतापहारिणः । स्त्रियोऽन्नपानमैश्वर्यं तेषु जाग्रथ ब्राह्मणाः ॥ भाष्य ५.३४:६०
* नास्ति ज्ञानसमं चक्षुर्नास्ति क्रोधसमो रिपुः । नास्ति लोभसमं दुःखं नास्ति त्यागात्परं सुखम् ॥ भाष्य ५.३४:६१
* इति ॥ भाष्य ५.३४:६२
* एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्य ५.३४:६३
* तथान्यः कथमिति ॥ भाष्य ५.३४:६४
* सन्त्वेते विषयदोषाः ॥ भाष्य ५.३४:६५
* अयमन्यतरः कष्टतरो दोषः कश्चासाविति ॥ भाष्य ५.३४:६६
* उच्यते सङ्गदोषः ॥ भाष्य ५.३४:६७
* यदि तावदर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं च ॥ भाष्य ५.३४:६८
* यदि सङ्गदोषो न स्यात् ॥ भाष्य ५.३४:६९
* कथम् ॥ भाष्य ५.३४:७०
* यावदयमिन्द्रिययुक्तो विषयानभिलषति तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति ॥ भाष्य ५.३४:७१
* भूय एव विषयानन्वेष्टुमारभते ॥ भाष्य ५.३४:७२
* ततः पुनरतृप्त्यादयो भवन्ति तद्वत् ॥ भाष्य ५.३४:७३
* तस्मादशोभनम् ॥ भाष्य ५.३४:७४
* उक्तं हि । न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ भाष्य ५.३४:७५
* यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्तृप्त्यै तस्माद्विद्वान् शमं व्रजेत् ॥ भाष्य ५.३४:७६
* इति ॥ भाष्य ५.३४:७७
* एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्य ५.३४:७८
* तथान्यः कथमिति ॥ भाष्य ५.३४:७९
* सन्त्वेते विषयाणामर्जनादयो दोषाः ॥ भाष्य ५.३४:८०
* ते भवन्तु तेषाम् ॥ भाष्य ५.३४:८१
* न वयं तान् प्रतिषेधयामः ॥ भाष्य ५.३४:८२
* अयं त्वन्यः कष्टतमो विषयाणां दोषः ॥ भाष्य ५.३४:८३
* कश्चासाविति ॥ भाष्य ५.३४:८४
* उच्यते हिंसादोषः ॥ भाष्य ५.३४:८५
* शक्यमेतेषां विषयाणामर्जनादि कर्तुमिन्द्रियलौल्यदोषोऽपि भवतु ॥ भाष्य ५.३४:८६
* यदि हिंसादोषो न स्यात् ॥ भाष्य ५.३४:८७
* कथम् ॥ भाष्य ५.३४:८८
* एतेषामेव विषयाणामुपभोगे वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः ॥ भाष्य ५.३४:८९
* कस्मात् ॥ भाष्य ५.३४:९०
* नानुपहत्य भूतानि विषयोपभोगः शक्यते कर्तुम् ॥ भाष्य ५.३४:९१
* तत्र शब्दनिमित्तं तावदयं क्रियते ॥ भाष्य ५.३४:९२
* तद्यथा वीणानिमित्तं खदिरादीन् छिद्यमानान् दृष्ट्वा तन्त्रीनिमित्तं वा कांश्चिद्धिंस्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः क्रियते कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्य ५.३४:९३
* यदा भिक्षाप्रदगृहेषु रम्यान् शब्दान् श्रोष्यसि तत्र परः परितोषो भविष्यति ॥ भाष्य ५.३४:९४
* तथा सूत्रादिनिमित्तं तावद्भूतवधः क्रियते ॥ भाष्य ५.३४:९५
* तद्यथा कोशकारादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ भाष्य ५.३४:९६
* स वक्तव्योऽत्र ते न शोभनोऽयं यदा भिक्षदगृहेषु मृदुतरस्पर्शानि वासांसि प्राप्स्यसि तत्र ते परः परितोषो भविष्यति ॥ भाष्य ५.३४:९७
* तथा रूपनिमित्तं तावद्भूतवधः क्रियते ॥ भाष्य ५.३४:९८
* तद्यथा अशोकादीन् वृक्षान् छिद्यमानान्दृष्ट्वा हस्तिनश्च दन्तनिमित्तं वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्य ५.३४:९९
* यदा भिक्षदगृहमलंकृतकवाटगोपुरं द्रक्ष्यसि तत्र ते परः परितोषो भविष्यति ॥ भाष्य ५.३४:१००
* तथा रसनिमित्तं तावद्भूतवधः क्रियते ॥ भाष्य ५.३४:१०१
* तद्यथा तित्तिरिमयूरवराहादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः क्रियते ॥ भाष्य ५.३४:१०२
* स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्य ५.३४:१०३
* यदा भिक्षदगृहेषु षड्रसमांसप्रकारैर्भोक्ष्यसे तत्र ते परः परितोषो भविष्यति ॥ भाष्य ५.३४:१०४
* तथा गन्धनिमित्तं तावद्भूतवधः क्रियते । तद्यथा पञ्चनखादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ भाष्य ५.३४:१०५
* स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्य ५.३४:१०६
* यदा भिक्षदगृहेषु सुगन्धान् गन्धान् प्राप्स्यसि तत्र ते परितोषो भविष्यति ॥ भाष्य ५.३४:१०७
* एवम् । कामः क्रोधश्च लोभश्च भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च । इति ॥ भाष्य ५.३४:१०८
* अर्जनरक्षणक्षयसङ्गहिंसादिमूलत्वादतोऽत्र शब्दादयो विषया दोषाः ॥ भाष्य ५.३४:१०९
* दोषाश्च कथम् ॥ भाष्य ५.३४:११०
* चित्तवैचित्ये ॥ भाष्य ५.३४:१११
* दूषयन्तीति दोषाः ॥ भाष्य ५.३४:११२
* दूषयन्ति यस्मादध्ययनध्यानादिनिष्ठं साधकं विचित्तं कुर्वन्तीति दोषाः ॥ भाष्य ५.३४:११३
* दोषाणामिति षष्ठीबहुवचनम् ॥ भाष्य ५.३४:११४
* आह किं दोषाणामेव दोषेभ्य एव वा छेत्तव्यमुक्तम् ॥ भाष्य ५.३४:११५
* न ॥ भाष्य ५.३४:११६
* यस्मादाह हेतुः ॥ भाष्य ५.३४:११७
* अत्र हेतुरधर्मः ॥ भाष्य ५.३४:११८
* कस्मात् ॥ भाष्य ५.३४:११९
* चित्तच्युतिहेतुत्वात्यस्मात्तेनाविष्टः साधकोऽध्ययनस्मरणादिभ्यश्च्यवतीत्यतोऽत्राधर्मो हेतुः धर्मस्तु स्थित्यादिहेतुः ॥ भाष्य ५.३४:१२०
* आह कस्यायं हेतुः ॥ भाष्य ५.३४:१२१
* उच्यते जालस्य ॥ भाष्य ५.३४:१२२
* अत्र यदा अधर्मः कूटस्थोऽनारब्धकार्यस्तदा हेतुरित्युच्यते ॥ भाष्य ५.३४:१२३
* यदा त्वज्ञानवासनावशाद्धृत्या स्थित्यादिभावमापन्नस्तदा जालाख्यां लभते ॥ भाष्य ५.३४:१२४
* कस्मात् ॥ भाष्य ५.३४:१२५
* जालादिवत्समूहस्येत्यर्थः ॥ भाष्य ५.३४:१२६
* अन्यस्य तन्मयकारणस्याभावात् ॥ भाष्य ५.३४:१२७
* जालस्येति षष्ठी छेदनशेषत्वे वर्तते ॥ भाष्य ५.३४:१२८
* अतश्छिन्नमेव भवति ॥ भाष्य ५.३४:१२९
* कस्मात् ॥ भाष्य ५.३४:१३०
* दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः ॥ भाष्य ५.३४:१३१
* आह किं प्रतिसम्बन्धि दोषहेतुजालसंश्लिष्टं भवति ॥ भाष्य ५.३४:१३२
* तदा कथमभिलप्यते ॥ भाष्य ५.३४:१३३
* तदुच्यते मूलम् ॥ भाष्य ५.३४:१३४
* अत्र मूलमित्युक्ते कस्येति भवति ॥ भाष्य ५.३४:१३५
* दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः प्रवृत्तेरित्यतोऽवगम्यते संयोगमूलमेवात्र मूलमिति ॥ भाष्य ५.३४:१३६
* आह केनायं छेत्ता मूलच्छेदं करोति ॥ भाष्य ५.३४:१३७
* तदुच्यते ॥ भाष्य ५.३४:१३८
**********************************************
बुद्ध्या ॥ ५.३५ ॥
* अन्तःकरणाख्या बुद्धिरित्युक्ता ॥ भाष्य ५.३५:१
* तया धर्मस्मृतिचोदनादिसहितया विद्यागृहीतया बुद्ध्या छेद्यं स्थाप्यं चेत्यर्थः ॥ भाष्य ५.३५:२
* आह किं दोषादिसहगतवधादिविश्लिष्टमपि तत्परतन्त्रमुच्यते ॥ भाष्य ५.३५:३
* न ॥ भाष्य ५.३५:४
* यस्मादाह मूलाख्यायां निवृत्तायाम् ॥ भाष्य ५.३५:५
**********************************************
संचित्तम् ॥ ५.३६ ॥
* अत्र समिति दोषादिविश्लिष्टं स्वयमेव स्वगुणत्वेन परिगृह्यते अग्न्युष्णत्ववदित्यानुबन्धित्वाच्चेत्यर्थः ॥ भाष्य ५.३६:१
* आह किं तदिति ॥ भाष्य ५.३६:२
* उच्यते चित्तम् ॥ भाष्य ५.३६:३
* अत्र चिती संज्ञाने चेतयति चिनोति वा अनेनेति चित्तम् ॥ भाष्य ५.३६:४
* चेतयति सुखं दुःखं पदार्थान् चिनोति धर्माधर्मौ अर्जयतीत्यतः चेतयति चिनोति वा अनेनेति चित्तम् ॥ भाष्य ५.३६:५
* चित्तं मनोऽन्तःकरणमित्यर्थः ॥ भाष्य ५.३६:६
* अत्र त्वेतेभ्यो दोषहेतुत्वादिभ्यो युगपच्छेत्तव्यं विद्यमानेभ्यस्तु क्रमशः क्षपणमिति ॥ भाष्य ५.३६:७
* आह छित्त्वा तच्चित्तं किं कर्तव्यम् ॥ भाष्य ५.३६:८
* उच्यते रुद्रस्थम् ॥ भाष्य ५.३६:९
* यस्मादाह ॥ भाष्य ५.३६:१०
**********************************************
स्थापयित्वा च रुद्रे ॥ ५.३७ ॥
* अत्र ष्ठा गतिनिवृत्तौ ॥ भाष्य ५.३७:१
* चित्तस्य रुद्रादव्यवधानं स्थितिरित्युच्यते ॥ भाष्य ५.३७:२
* वा इति श्मशानाद्यवस्थस्य स्मृतिकर्मणो निष्ठा ॥ भाष्य ५.३७:३
* चशब्दः समुच्चये ॥ भाष्य ५.३७:४
* न केवलं छित्त्वा स्थेयं किंतु स्थापयितव्यं चेत्यर्थः ॥ भाष्य ५.३७:५
* रुद्रे इति कारणापदेशे ॥ भाष्य ५.३७:६
* रुद्रस्य रुद्रत्वं पूर्वोक्तं रुद्र इत्यौपश्लेषिकं संनिधानम् ॥ भाष्य ५.३७:७
* रुद्रे चित्तमुपश्लेषयितव्यं नान्यत्रेत्यर्थः ॥ भाष्य ५.३७:८
* एवं विषयेभ्य इन्द्रियाणां जयः कर्तव्यः ॥ भाष्य ५.३७:९
* अत्र यो जेता आत्मा ॥ भाष्य ५.३७:१०
* यया जेतव्यानि बुद्ध्या ॥ भाष्य ५.३७:११
* यथा जेतव्यानि क्रमशश्च ॥ भाष्य ५.३७:१२
* यत्प्रयोजनं जेतव्यानि चित्तस्थित्यर्थम् ॥ भाष्य ५.३७:१३
* यस्मिंश्च जिते जितानि भवन्ति चित्तमित्येतदपि व्याख्यातम् ॥ भाष्य ५.३७:१४
* एवं जपयन्त्रणधारणात्मकच्छेदादिष्वपि योज्यम् ॥ भाष्य ५.३७:१५
* तथान्तःकरणवृत्तिमास्थाय कालविशेषनिमित्तरश्मिमणिदीपवत्तथात्मवृत्तिरध्ययनध्यानस्मरणादीनि चित्तस्थितिश्च व्याख्याता ॥ भाष्य ५.३७:१६
* श्लोको निर्वचनः ॥ भाष्य ५.३७:१७
* आह कार्यकरणं च तच्चित्तस्थितिसमकालमेव रुद्रे स्थितानि तानि युक्तानि ॥ भाष्य ५.३७:१८
* अथ किं तान्येव युक्तस्य लक्षणानि इति ॥ भाष्य ५.३७:१९
* उच्यते न ॥ भाष्य ५.३७:२०
* यस्मादाह ॥ भाष्य ५.३७:२१
**********************************************
एकः क्षेमी सन् वीतशोकः ॥ ५.३८ ॥
* अत्र धर्माधर्मयोर्वृत्त्योरुपरमे अवसितप्रयोजनत्वात्पक्वफलवत्सर्पकञ्चुकवद्गतप्रायेषु कार्यकरणेषु रुद्रे स्थितचित्तो निष्कल एक इत्यभिधीयते ॥ भाष्य ५.३८:१
* तथा योगव्यासङ्गकरेऽधर्मे निवृत्ते दोषादिविश्लिष्टो निस्तीर्णकान्तारवदवस्थितो रुद्रे स्थितचित्तः क्षेमी इत्यभिधीयते ॥ भाष्य ५.३८:२
* तथा सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणासु क्रियासु विनिवृत्तासु रुद्रे स्थितचित्तो निष्क्रियः सनित्यभिधीयते ॥ भाष्य ५.३८:३
* आह अथ निष्क्रियोऽयमिति कथमवगम्यते ॥ भाष्य ५.३८:४
* किं चात्र युक्तस्य लक्षणत्रयमेव ॥ भाष्य ५.३८:५
* उच्यते न ॥ भाष्य ५.३८:६
* यस्मादाह वीतशोकः ॥ भाष्य ५.३८:७
* अत्र शोकश्चिन्तेत्यनर्थान्तरम् ॥ भाष्य ५.३८:८
* सा च चिन्ता द्विविधा भवति ॥ भाष्य ५.३८:९
* कुशला चाकुशला च ॥ भाष्य ५.३८:१०
* तत्र कुशला नाम अध्ययनध्यानस्मरणाद्या ॥ भाष्य ५.३८:११
* अकुशला नाम अनध्ययनाध्यानास्मरणाद्या ॥ भाष्य ५.३८:१२
* एवं जपयन्त्रणधारणादींश्च करिष्यामि न करिष्यामीत्येवमनेकविधायामपि चिन्तायां विनिवृत्तायां व्यपगतशोको वीतशोक इत्यभिधीयते ॥ भाष्य ५.३८:१३
* एवमत्र योगपदार्थः समाप्तः ॥ भाष्य ५.३८:१४
* कस्मात् ॥ भाष्य ५.३८:१५
* अर्थानां निर्वचनत्वात् ॥ भाष्य ५.३८:१६
* यस्मादस्याध्यायस्यादावुद्दिष्टा ये पदार्थास्ते दोषच्छेदासङ्गस्थित्यादिषु व्याख्याताः ॥ भाष्य ५.३८:१७
* एवमनेन युक्तेन ब्रह्मादयो देवा विशेषिता भवन्ति ॥ भाष्य ५.३८:१८
* तदसङ्गादिवचनात् ॥ भाष्य ५.३८:१९
* आह अथ सांख्ययोगमुक्ताः किं न विशेषिताः ॥ भाष्य ५.३८:२०
* उच्यते विशेषिताः ॥ भाष्य ५.३८:२१
* कथम् ॥ भाष्य ५.३८:२२
* तज्ज्ञानातिशयात् ॥ भाष्य ५.३८:२३
* कथम् ॥ भाष्य ५.३८:२४
* सांख्ययोगमुक्ताः कैवल्यगताः स्वात्मपरात्मज्ञानरहिताः संमूर्छितवत्स्थिताः ॥ भाष्य ५.३८:२५
* अस्य तु ज्ञानमस्ति ॥ भाष्य ५.३८:२६
* यस्मादाह ॥ भाष्य ५.३८:२७
**********************************************
अप्रमादी गच्छेद्दुःखानामन्तमीशप्रसादात् ॥ ५.३९ ॥
* इति ॥ भाष्य ५.३९:१
* एवं कुर्वन् सर्वज्ञोऽस्यासंमोहं ज्ञापयति ॥ भाष्य ५.३९:२
* उक्तम् । कार्यकरणाञ्जनेभ्यो निरञ्जनेभ्यश्च सर्वपुरुषेभ्यः । अप्राप्तान्तं पुरुषं योऽभ्यधिकं वर्णयेत्स बुधः ॥ भाष्य ५.३९:३
* आह गतं यद्गन्तव्यम् ॥ भाष्य ५.३९:४
* अथ किमयमुपचारः ॥ भाष्य ५.३९:५
* उच्यते न ॥ भाष्य ५.३९:६
* अपरिज्ञानान्नास्माकं योगनिष्ठं तन्त्रम् ॥ भाष्य ५.३९:७
* अपितु तत्कैवल्यव्यतिरिक्तोऽपि सर्वज्ञेनोच्यते ॥ भाष्य ५.३९:८
* अप्रमादाद्गच्छेद्दुःखानामन्तमीशप्रसादात् ॥ भाष्य ५.३९:९
* अत्र प्रमादशब्दोऽनागतानवधानगतत्वं पारतन्त्र्यं च ख्यापयतीत्यर्थः ॥ भाष्य ५.३९:१०
* तदङ्कुरपरिरक्षणवदनागतकालप्रतीकारकरणेन चैवायमप्रमादीशब्दो द्रष्टव्यः ॥ भाष्य ५.३९:११
* तस्माद्युक्तेनैवाप्रमादिना स्थेयम् ॥ भाष्य ५.३९:१२
* तथा वर्तमानेन माहेश्वरमैश्वर्यं प्राप्तमेवेत्युक्तम् ॥ भाष्य ५.३९:१३
* गच्छेदिति गतिः प्राप्तिर्भवति ॥ भाष्य ५.३९:१४
* गमॢ सृपॢ गतौ ॥ भाष्य ५.३९:१५
* प्राप्नोतीत्यात्मेति पत्त्रपाण्डुताफलपाकवत् ॥ भाष्य ५.३९:१६
* कथम् ॥ भाष्य ५.३९:१७
* तस्मिन्नेव प्रवर्ततो योऽयं दुःखापोहो गुणस्तत्रेयं गतिरिति संज्ञा क्रियत इत्यर्थः ॥ भाष्य ५.३९:१८
* दुःखानामित्यत्र प्रसिद्धानि दुःखान्याध्यात्मिकाधिभौतिकाधिदैविकानि ॥ भाष्य ५.३९:१९
* तत्राध्यात्मिकं द्विविधं दुःखं शारीरं मानसं च ॥ भाष्य ५.३९:२०
* तत्र मनसि भवं मानसं क्रोधलोभमोहभयविषादेर्ष्यासूयाद्वेषमदमानमात्सर्यारत्याद्यविशेषदर्शनादिनिमित्तं तद्दुःखम् ॥ भाष्य ५.३९:२१
* तथा शारीरमपि शिरोरोगदन्तरोगाक्षिरोगज्वरप्रतिमत्स्यातिसारकासश्वासोदरामयादिनिमित्तोत्पन्नं दुःखम् ॥ भाष्य ५.३९:२२
* तथान्यदपि पञ्चविधं दुःखं भवति ॥ भाष्य ५.३९:२३
* तद्यथा गर्भजन्माज्ञानजरामरणमिति ॥ भाष्य ५.३९:२४
* तत्र गर्भे तावद्यदायं पुरुषो मातुरुदरे न्यस्तगात्रः खण्डशकटस्थ इव पुमान्नियमश्रममनुभवमानोऽवकाशरहितः आकुञ्चनप्रसारणादिष्वपर्याप्तावकाशः सर्वक्रियासु निरुद्ध इत्येवमद्वारके अन्धतमसि मूढो बन्धनस्थ इव पुमानवश्यं समनुभवति ॥ भाष्य ५.३९:२५
* कस्मात् ॥ भाष्य ५.३९:२६
* चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च न तु कार्यकरणानि ॥ भाष्य ५.३९:२७
* कस्मात् ॥ भाष्य ५.३९:२८
* अचेतनावादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:२९
* तथा जन्मदुःखमपि ॥ भाष्य ५.३९:३०
* यदायं पुरुषो जायमानः पुरीषपङ्कमग्नवदनो मूत्रधाराभिरभिषिच्यमानो देहे संवृतद्वारके योनिनिःसरणसंकटेऽत्यर्थं पीड्यमानोऽस्थिमर्मबन्धनैः प्रघृष्यमाणो विक्रोशन्निनदंश्च जायते ॥ भाष्य ५.३९:३१
* पश्चात्पुनस्तस्यानुचितेन बाह्येन वायुना जननावर्तेन स्पृष्टस्य तीव्रं दुःखमभिव्यज्यते ॥ भाष्य ५.३९:३२
* राजपुष्टकादिवत् ॥ भाष्य ५.३९:३३
* तेन चास्य जात्यन्तरादिस्मृतिहेतुसंस्कारलोपो भवति ॥ भाष्य ५.३९:३४
* एव जन्मदुःखं पुरुष एवानुभवति ॥ भाष्य ५.३९:३५
* कस्मात् ॥ भाष्य ५.३९:३६
* चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्य ५.३९:३७
* न तु कार्यकरणानि ॥ भाष्य ५.३९:३८
* कस्मात् ॥ भाष्य ५.३९:३९
* अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:४०
* तथा अज्ञानदुःखमपि अहंकारसत्कृतगात्रो न जानन् कोऽहं कुतोऽहं कस्याहं केन वा बन्धनेन बद्धोऽहमिति किं कारणं किमकारणं किं भक्ष्यं किमभक्ष्यं किं पेयं किमपेयं किं सत्यं किमसत्यं किं ज्ञानं किमज्ञानमित्यज्ञानदुःखं पुरुष एवानुभवति ॥ भाष्य ५.३९:४१
* कस्मात् ॥ भाष्य ५.३९:४२
* चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्य ५.३९:४३
* न तु कार्यकरणानि ॥ भाष्य ५.३९:४४
* कस्मात् ॥ भाष्य ५.३९:४५
* अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:४६
* तथा जरादुःखमपि ॥ भाष्य ५.३९:४७
* यदायं पुरुषो जराजर्जरितः कृशशरीरः शिथिलीकृतनयनकपोलनासिकाभ्रूदशनावरणः क्रौञ्चजानुरिव निर्विण्णोऽक्षिदूषिकादिष्वपकर्षणादिष्वसमर्थो विहंग इव लूनपक्षो लङ्घनप्लवनधावनादिष्वसमर्थः पूर्वातीतानि भोगव्यायामशिल्पकर्माण्यनुस्मरमाणः स्मृतिवैकल्यमापन्नोऽवश्यं क्लेशमनुभवति ॥ भाष्य ५.३९:४८
* कस्मात् ॥ भाष्य ५.३९:४९
* चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्य ५.३९:५०
* न तु कार्यकरणाणि ॥ भाष्य ५.३९:५१
* कस्मात् ॥ भाष्य ५.३९:५२
* अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:५३
* तथा मृत्युदुःखमपि ॥ भाष्य ५.३९:५४
* यदायं पुरुषो मरणसमये श्लथकरणः शिरोधरमवलम्बमानः श्वासनोच्छ्वसनतत्परः खुरुखुरायमाणकण्ठः स्वोपार्जितमणिकनकधनधान्यपत्नीपुत्रपशुसंघातः कस्य भविष्यतीत्यनुतप्यमानः विषयाननु दोदूयमानः सलिलादि याचमानो विरक्तवदनो मर्मभिश्छिद्यमानैरवश्यं क्लेशमनुभवति ॥ भाष्य ५.३९:५५
* कस्मात् ॥ भाष्य ५.३९:५६
* चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्य ५.३९:५७
* न तु कार्यकरणानि ॥ भाष्य ५.३९:५८
* कस्मात् ॥ भाष्य ५.३९:५९
* अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:६०
* उक्तं हि । गर्भे प्रविशन् दुःखं निवसन् दुःखं विनिष्क्रमन् दुःखम् । जातश्च दुःखमृच्छति तस्मादपुनर्भवः श्रेयान् ॥ भाष्य ५.३९:६१
* इति ॥ भाष्य ५.३९:६२
* तथान्यदपि पञ्चविधं दुःखं भवति ॥ भाष्य ५.३९:६३
* तद्यथा इहलोकभयं परलोकभयमहितसंप्रयोगः हितविप्रयोगः इच्छाव्याघातश्चेति ॥ भाष्य ५.३९:६४
* तथान्यदपि त्रिविधं दुःखं भवति ॥ भाष्य ५.३९:६५
* आध्यात्मिकमज्ञानं पुरुषे आधिभौतिकं विषयित्वमाधिदैविकं च पशुत्वं त्रिविधमपरं प्राहुः ॥ भाष्य ५.३९:६६
* इत्येवमादीनि बाधनाया अप्रीतिफलाया जन्मनिमित्तत्वाद्दुःखानीत्युपचर्यन्ते ॥ भाष्य ५.३९:६७
* आह चरणाधिकारेऽनतिप्रसादादशिवत्वसंज्ञके सर्वाण्यनतिप्रसादबीजत्वात्कुतो नात्यन्तनिवृत्तानि भवन्ति ॥ भाष्य ५.३९:६८
* कस्मात् ॥ भाष्य ५.३९:६९
* संहारं प्राप्तस्य निगडमुक्ताधिकारवन्मुक्तावतिशयितगुणप्राप्त्यर्थमुच्यते गच्छेद्दुःखानामन्तम् ॥ भाष्य ५.३९:७०
* दुःखानामत्यन्तं परमापोहो गुणावाप्तिश्च परं भवतीति ॥ भाष्य ५.३९:७१
* तदुभयमपि इत एव भवतीति ॥ भाष्य ५.३९:७२
* तदाह ईशप्रसादात् ॥ भाष्य ५.३९:७३
* अत्रेश इत्येतद्भगवतो नामधेयम् ॥ भाष्य ५.३९:७४
* ईशः कस्मात् ॥ भाष्य ५.३९:७५
* विद्यादिकार्यस्येशनादीशः ॥ भाष्य ५.३९:७६
* प्रसादो नाम सम्प्रदानेच्छा ॥ भाष्य ५.३९:७७
* तस्मात्प्रसादात्सर्वदुःखापोहो गुणावाप्तिश्चदिमुपाध्यन्तरात्परपरिवादादिवचनात्शुद्धिरिव युगपदित्यर्थः ॥ भाष्य ५.३९:७८
* एवमयमथशब्दः ॥ भाष्य ५.३९:७९
* पशुपतेरित्युद्दिष्टयोर्दुःखान्तप्रसादयोर्गच्छेद्दुःखानामन्तमीशप्रसादादिति दुःखान्तं परिसमाप्तमिति ॥ भाष्य ५.३९:८०
* एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य ५.३९:८१
**********************************************
अत्रेदं ब्रह्म जपेत् ॥ ५.४० ॥
* इति ॥ भाष्य ५.४०:१
* अस्य पूर्वोक्तोऽर्थः ॥ भाष्य ५.४०:२
* विधिनैव पूर्वोक्तेन विधिना जप्तव्यम् ॥ भाष्य ५.४०:३
* न तु दुःखान्तगतेन गणपतिवदित्यर्थः ॥ भाष्य ५.४०:४
* आह कामित्वात्कृपया भगवता दुःखान्तो दत्तः स्वेच्छयैव न पुनरदुःखान्तं करिष्यति ॥ भाष्य ५.४०:५
* अथाशक्तस्तथाप्यस्य शक्तिव्याघातः पाचकवदकर्मापेक्षत्वं चोच्यते ॥ भाष्य ५.४०:६
* अत्र यथा नित्यो दुःखान्तस्तथा वक्ष्यामः ॥ भाष्य ५.४०:७
* यथा च काङ्क्षतो लिप्सतश्च साधकाधिकारनिवृत्तिस्तथा वक्ष्यामः ॥ भाष्य ५.४०:८
* पदार्थनिगमनार्थे चोच्यते ॥ भाष्य ५.४०:९
**********************************************
ईशानः सर्वविद्यानाम् ॥ ५.४१ ॥
* अत्र ईशनादीशानः ॥ भाष्य ५.४१:१
* अत्रेशनादीशान इत्युक्तं कारणम् ॥ भाष्य ५.४१:२
* ईशानः प्रभुः धातेत्यर्थः ॥ भाष्य ५.४१:३
* आह कस्यायमीशानः ॥ भाष्य ५.४१:४
* तदुच्यते सर्वस्येशानः । सर्वशब्दो विद्याप्रकृतेर्निरवशेषवाची द्रष्टव्यः ॥ भाष्य ५.४१:५
* विद्यानां धर्मार्थकामकैवल्यतत्साधनपराणामीशानः विद्यानामिति षष्ठीबहुवचनम् ॥ भाष्य ५.४१:६
* आह किं विद्यानामेवेशानः न तु विद्याभिर्ये विदन्ति ॥ भाष्य ५.४१:७
* उच्यते ॥ भाष्य ५.४१:८
**********************************************
ईश्वरः सर्वभूतानाम् ॥ ५.४२ ॥
* अत्र निरतिशय ऐश्वर्येण ईश्वरः ॥ भाष्य ५.४२:१
* पुरुषः चैतन्यवदित्यर्थः ॥ भाष्य ५.४२:२
* आह कस्यायमीश्वरः ॥ भाष्य ५.४२:३
* तदुच्यते सर्वभूतानाम् । अत्र चेतनाचेतनेषु सर्वशब्दः न केवलं पृथिव्यादिषु किंतु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतप्रकृतेर्निरवशेषवाची सर्वशब्दो द्रष्टव्यः ॥ भाष्य ५.४२:४
* कस्माद्भूतानि ॥ भाष्य ५.४२:५
* भावनत्वाद्भूतानीत्युक्तं भूतानामिति षष्ठीबहुवचनम् ॥ भाष्य ५.४२:६
* आह अत्र केचिद्विद्याभूतव्यतिरिक्तं ब्रह्माणमिच्छन्ति ॥ भाष्य ५.४२:७
* तस्यायं किं प्रभुर्भवति नेति ॥ भाष्य ५.४२:८
* उच्यते प्रभुः ॥ भाष्य ५.४२:९
* यस्मादाह ॥ भाष्य ५.४२:१०
**********************************************
ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ५.४३ ॥
* अत्र योऽयं विरिञ्चिः परमः पतिः सर्वचेतनव्यतिरिक्तः क्षेत्रज्ञः तस्मिन् ब्रह्मसंज्ञा ॥ भाष्य ५.४३:१
* न तु प्रधानादिषु ॥ भाष्य ५.४३:२
* कस्मात् ॥ भाष्य ५.४३:३
* अधिपतिवचनविरोधात् ॥ भाष्य ५.४३:४
* ब्रह्म च कस्मात् ॥ भाष्य ५.४३:५
* बृंहणत्वाद्बृहत्त्वाद्ब्रह्मा ॥ भाष्य ५.४३:६
* बृंहयते यस्माद्विद्याकलाभूतानि बृहच्च तेभ्य इत्यतोऽधिपतिर्ब्रह्मा ॥ भाष्य ५.४३:७
* ब्रह्मण इति षष्ठी ॥ भाष्य ५.४३:८
* अधिरधिष्ठातृत्वे ॥ भाष्य ५.४३:९
* तत्स्वाभाव्यात्संहृते चासंहृते च कार्य इत्यर्थः ॥ भाष्य ५.४३:१०
* पत्युः पतिः अधिपतिः ॥ भाष्य ५.४३:११
* राजराजवत् ॥ भाष्य ५.४३:१२
* पतिः पालने पतिर्दर्शने भोगे च ॥ भाष्य ५.४३:१३
* पालयते यस्माद्ब्रह्मादीनीश्वरः ॥ भाष्य ५.४३:१४
* पाति ब्रह्मादिकार्यम् । अधिपतिः ब्रह्मा ॥ भाष्य ५.४३:१५
* अधिपतिरीश्वरः ॥ भाष्य ५.४३:१६
* एवं बृंहयते यस्माद्विद्यादिकार्यं बृहच्च तेभ्य इत्यतोऽधिपतिर्ब्रह्मा भगवानिति ॥ भाष्य ५.४३:१७
* आह अत्र कार्यकरणमहाभाग्यमेवात्र ब्रह्मणि चिन्त्यते न तु साधकस्य लिप्सा लाभो वेति ॥ भाष्य ५.४३:१८
* उच्यते न ॥ भाष्य ५.४३:१९
* यस्मादाह ॥ भाष्य ५.४३:२०
**********************************************
शिवो मे अस्तु ॥ ५.४४ ॥
* अत्र येषां साधिकारत्वादनतिप्रसन्नस्तेषामशिवत्वं दृष्ट्वा दुःखान्तं गतेषु च शिवत्वं दृष्ट्वा आह शिवो मे अस्तु इति ॥ भाष्य ५.४४:१
* मे इत्यात्मापदेशे ममेत्यर्थः ॥ भाष्य ५.४४:२
* अस्त्विति काङ्क्षायाम् ॥ भाष्य ५.४४:३
* काङ्क्षति लिप्सति मृगयतीत्यर्थः ॥ भाष्य ५.४४:४
* आह कियन्तं कालं भगवानस्य शिवो भवति ॥ भाष्य ५.४४:५
* तदुच्यते नित्यम् ॥ भाष्य ५.४४:६
* यस्मादाह ॥ भाष्य ५.४४:७
**********************************************
सदा ॥ ५.४५ ॥
* अत्र सदा नित्यं संततमव्युच्छिन्नमित्यर्थः ॥ भाष्य ५.४५:१
* आह कमेवमाह ॥ भाष्य ५.४५:२
* को वास्य शिवो भवतीति ॥ भाष्य ५.४५:३
* उच्यते ॥ भाष्य ५.४५:४
**********************************************
शिवः ॥ ५.४६ ॥
* अत्र शिव इत्येतदपि भगवतो नाम ॥ भाष्य ५.४६:१
* शिवः कस्मात् ॥ भाष्य ५.४६:२
* परिपूर्णपरितृप्तत्वाच्छिवः ॥ भाष्य ५.४६:३
* तस्मात्सदाशिवोपदेशान्नित्यो दुःखान्तः ॥ भाष्य ५.४६:४
* कारणाधिकारनिवृत्तिः ॥ भाष्य ५.४६:५
* तदर्थं नित्यो दुःखान्त इति सिद्धम् ॥ भाष्य ५.४६:६
* एवमेते पञ्च पदार्थाः कार्यकारणयोगविधिदुःखान्ताः समासविस्तरविभागविशेषोपसंहारनिगमनतश्च व्याख्याताः ॥ भाष्य ५.४६:७
* उक्तं हि ॥ भाष्य ५.४६:८
* आदौ यद्भवति समासोक्तं मध्ये तस्य विस्तरतश्च विभागतश्चोपनयनिगमनेन सतामप्येष निश्चयः ॥ भाष्य ५.४६:९
* इति ॥ भाष्य ५.४६:१०
* अत्र तावत्पतिरिति कारणपदार्थस्योपदेशः समासेन ॥ भाष्य ५.४६:११
* विस्तरस्तु वामो देवो ज्येष्ठो रुद्रः कामः शंकरः कालः कलविकरणो बलविकरणोऽघोरो घोरतरः सर्वः शर्व तत्पुरुषो महादेव ओंकार ऋषिर्विप्रो महानीश ईशान ईश्वरोऽधिपतिर्ब्रह्मा शिव इत्येवमाद्यो विस्तरः ॥ भाष्य ५.४६:१२
* विभागोऽपि अन्यत्पतित्वमन्यदजातत्वमन्यद्भवोद्भवत्वमित्याद्यो विभागः ॥ भाष्य ५.४६:१३
* विशेषः अन्येषां प्रधानादीनि अस्माकं तद्व्यतिरिक्तो भगवानीश्वरः ॥ भाष्य ५.४६:१४
* कारणाधिकारे यस्मादाह ईश्वरः सर्वभूतानामिति ॥ भाष्य ५.४६:१५
* एष उपसंहारः सार्वकामिक इत्याचक्षते ॥ भाष्य ५.४६:१६
* निगमनमीश ईशान ईश्वरोऽधिपतिर्ब्रह्मा शिव इति ॥ भाष्य ५.४६:१७
* तथा पशुरिति कार्यपदार्थस्योद्देशः ॥ भाष्य ५.४६:१८
* तस्य विस्तरो विद्या कला पशवः ॥ भाष्य ५.४६:१९
* उत्पाद्या अनुग्राह्यास्तिरोभाव्यकाल्प्यविकार्यमस्पदस्य बोध्यधिष्ठेयत्वे चेत्येवमाद्यः सूत्रविद्याधर्मार्थकामैर्भेदैर्दुःखान्तः विद्या ॥ भाष्य ५.४६:२०
* कला द्विविधाः ॥ भाष्य ५.४६:२१
* कार्याख्याः करणाख्याश्च ॥ भाष्य ५.४६:२२
* तत्र कार्याख्याः पृथिव्याद्याः ॥ भाष्य ५.४६:२३
* करणाख्या बुद्ध्याद्याः ॥ भाष्य ५.४६:२४
* पशवश्च त्रिविधाः ॥ भाष्य ५.४६:२५
* देवा मनुष्यास्तिर्यञ्चः ॥ भाष्य ५.४६:२६
* तत्र देवा अष्टविधा ब्रह्माद्याः ॥ भाष्य ५.४६:२७
* मानुष्यं चानेकविधं ब्राह्मणाद्यम् ॥ भाष्य ५.४६:२८
* तिर्यग्योनि च पञ्चविधं पशुमृगाद्यम् ॥ भाष्य ५.४६:२९
* पशवः साञ्जना निरञ्जनाश्च ॥ भाष्य ५.४६:३०
* एवमाद्यो विस्तरः ॥ भाष्य ५.४६:३१
* विभागोऽपि अन्या विद्या अन्याः कलाः अन्ये च पशव इत्येवमाद्यो विभागः ॥ भाष्य ५.४६:३२
* विशेषः अन्येषां प्रधानादीनि कारणानि तानीह शास्त्रे कार्यत्वेन व्याख्यातानि ॥ भाष्य ५.४६:३३
* तत्र प्रधानं कारणमन्येषां तदिह शास्त्रे पश्यनात्पाशकत्वात्कार्यत्वेन व्याख्यातम् ॥ भाष्य ५.४६:३४
* तथा पुरुषः कारणमन्यत्र इह शास्त्रे पशुत्वात्कार्यत्वेन व्याख्यातः ॥ भाष्य ५.४६:३५
* तथा कर्ममध्यत्वात्कालः स्वभावः उपसंहारवत् ॥ भाष्य ५.४६:३६
* भूतानि विकार्यत्वात्कार्यत्वेन व्याख्यातानि ॥ भाष्य ५.४६:३७
* इत्येष विशेषः ॥ भाष्य ५.४६:३८
* उपसंहारः सार्वकामिक इत्यर्थः ॥ भाष्य ५.४६:३९
* निगमनं विद्याकलाभूतानि ब्रह्मेति ॥ भाष्य ५.४६:४०
* तथा योगमिति योगपदार्थस्योद्देशः ॥ भाष्य ५.४६:४१
* तस्यैवं चरतः योगः प्रवर्तते उभयथा यष्टव्यः अत्यागतिं गमयते नान्यभक्तिस्तु शंकरे एवं देवनित्यतानित्ययुक्तता अध्ययनं ध्यानं स्मरणं नित्यसायुज्यमिति विस्तरः विभागः क्रियालक्षणं क्रियोपरमलक्षणं दूरदर्शनश्रवणमननविज्ञानानि गणपतिः भूयिष्ठं सम्प्रवर्तते सिद्धः गच्छेद्दुःखानामन्तमित्येवमाद्यो विभागः ॥ भाष्य ५.४६:४२
* ज्ञानशक्तिः क्रियाशक्तिश्च ॥ भाष्य ५.४६:४३
* तत्र ज्ञानशक्तिः श्रवणाद्या ॥ भाष्य ५.४६:४४
* क्रियाशक्तिः मनोजवित्वाद्या ॥ भाष्य ५.४६:४५
* इत्येवमाद्यो विभागः ॥ भाष्य ५.४६:४६
* विशेषः अन्येषां कैवल्यमिह तु विशेषो विकरणमिति ॥ भाष्य ५.४६:४७
* प्रतिकरण इति कैवल्यधर्मातिशक्तिर्निष्कलमैश्वर्यमित्येष विशेषः ॥ भाष्य ५.४६:४८
* उपसंहारः इत्येभिर्गुणैर्युक्त इति ॥ भाष्य ५.४६:४९
* अतो यावन्ति वाक्यविशेषाणि संनिकृष्टविप्रकृष्टानि निर्वचनानि तानि च सर्वनिर्वचनानीति कृत्वा युक्तमुक्तम् ॥ भाष्य ५.४६:५०
* एवमत्र श्रीभगवत्कौण्डिन्यविरचिते श्रीमद्योगपाशुपतशास्त्रसूत्रव्याख्याने पञ्चार्थभाष्ये पञ्चमोऽध्यायः सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥ भाष्य ५.४६:५१
* शुभम् ॥ भाष्य ५.४६:५२
**********************************************
Search
Search here.