रासक्रीडा - गर्गसंहिता अश्वमेधखण्डः

ग्रंथालय  > प्राचीन हिंदू साहित्य Posted at 2016-05-24 15:14:09
गर्गसंहिता अश्वमेधखण्डः – पञ्चचत्वारिंशोऽध्यायः रासक्रीडा – गोप्य ऊचुः अधरबिम्बविडम्बितविद्रुमं  मधुरवेणुनिनादविनोदितम् ॥ कमलकोमलनीलमुखाम्बुजं तमपि गोपकुमारमुपास्महे ॥१॥ श्यामलं विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥ कामदं व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥ तं विसञ्चलितलोचनाञ्चलं सामिकुड्मलितकोमलाधरम् ॥ वंशवल्गितकराङ्गुलीमुखं वेणुनादरसिकं भजामहे ॥३॥ ईषदङ्कुरितदन्तकुड्मलं भूषणं भुवनमङ्गलश्रियः ॥ घोषसौरभमनोहरं हरेर्वेषमेव मृगयामहे वयम् ॥४॥ अस्तु नित्यमरविन्दलोचनः श्रेयसे हि तु सुरार्चिताकृतिः ॥ यस्य पादसरसीरुहामृतं सेव्यमानमनिशं मुनीश्वरैः ॥५॥ गोपकै रचितमल्लसङ्गरं सङ्गरे जितविदग्धयौवनम् ॥ चिन्तयामि मनसा सदैव तं दैवतं निखिलयोगिनामपि ॥६॥ उल्लसन्नवपयोदमेव तं फुल्लतामरसलोचनाञ्चलम् ॥ वल्लवीहृदयपश्यतोहरं पल्लवाधरमुपास्महे वयम् ॥७॥ यद्धनञ्जयरथस्य मण्डनं खण्डनं तदपि सञ्चितैनसाम् ॥ जीवनं श्रुतिगिरां सदाऽमलं श्यामलं मनसि मेऽस्तु तन्महः ॥८॥ गोपिकास्तनविलोललोचनप्रान्तलोचनपरम्परावृतम् ॥ बालकेलिरसलोलसंभ्रमं माधवं तमनिशं विभावये ॥९॥ नीलकण्ठकृतपिच्छशेखरं नीलमेघतुलिताङ्गवैभवम् ॥ नीलपङ्कजपलाशलोचनं नीलकुन्तलधरं भजामहे ॥१०॥ घोषयोषिदनुगीतवैभवं कोमलस्वरितवेणुनिःस्वनम् ॥ सारभूतमभिरामसम्पदां धाम तामरसलोचनं भजे ॥११॥ मोहनं मनसि शार्ङ्गिणं परं निर्गतं किल विहाय मानिनीः ॥ नारदादिमुनिभिश्च सेवितं नन्दगोपतनयं भजामहे ॥१२॥ श्रीहरिस्तु रमणीभिरावृतो यस्तु वै जयति रासमण्डले ॥ राधया सह वने च दुःखितास्तं प्रियं हि मृगयामहे वयम् ॥ १३॥ देवदेव व्रजराजनन्दन देहि दर्शनमलं च नो हरे ॥ सर्वदुःखहरणं च पूर्ववत्संनिरीक्ष्य तेऽशुल्कदासिकाः ॥१४॥ क्षितितलोद्धरणाय दधार यः सकलयज्ञवराहवपुः परम् ॥ दितिसुतं विददार च दंष्ट्रया स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥ मनुमताद्रुचिजो दिविजैः सह वसु दुदोह धरामपि यः पृथुः ॥ श्रुतिमपाद्धृतमत्स्यवपुः परं स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥ अवहदब्धिमहो गिरिमूर्जितं कमठरूपधरः परमस्तु यः ॥ असुहरं नृहरिः तमदण्डयत्स च हरिः परमं शरणं च नः ॥१७॥ नृपबलिं छलयन्दलयन्नरीन्मुनिजनाननुगृह्य चचार यः ॥ कुरुपुरं च हलेन विकर्षयन्यदुवरः स गतिर्मम सर्वथा ॥१८॥ व्रजपशून्गिरिराजमथोद्धरन् व्रजपगोपजनं च जुगोप यः ॥ द्रुपदराजसुतां कुरुकश्मलाद्भवतु तच्चरणाब्जरतिश्च नः ॥१९॥ विषमहाग्निमहास्त्रविपद्गणात्सकलपाण्डुसुताः परिरक्षिताः ॥ यदुवरेण परेण च येन वै भवतु तच्चरणः शरणं च नः ॥२०॥ मालां बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितां शैलेयागुरुक्लृप्तचित्रतिलकां शश्वन्मनोहारिणीम् ॥ लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं वन्दामहे देवताम् ॥२१॥ गर्ग उवाच – इति स्त्रीभिः रुदन्तीभिः रेवतीरमणानुजः आविर्बभूव चाहूतस्तासां मध्ये च भक्तितः ॥२२॥ ||इति श्रीगर्गसंहितायां हयमेधखण्डे रासक्रीडायां पञ्चचत्वारिंशोऽध्यायः ॥

Search

Search here.