रेणुका अष्टोत्तरशतनाम स्तोत्र

नामावली  > देवी नामावली Posted at 2018-11-07 12:18:31
॥ श्रीरेणुका अष्टोत्तरशतनामस्तोत्रम् ॥ ॥ श्री गणेशाय नमः ॥ ॥ श्री भगवत्यै रेणुकाजगदम्बायै नमोनमः ॥ ॐ अस्य श्री रेणुका देव्यष्टोत्तरशत नामस्तोत्रमहामन्त्रस्य शाण्डिल्य महर्षिः , अनुष्टुप् छन्दः , श्रीजगदम्बा रेणुका देवता , ॐ बीजं , नमः शक्तिः , ॐ महादेवीति कीलकं , श्री जगदम्बा रेणुका प्रसादसिद्ध्यर्थं सर्वं पापक्षय द्वारा श्रीजगदम्बारेणुकाप्रीत्यर्थं सर्वाभीष्ट फल प्राप्त्यर्थं च जपे विनियोगः । अथ करन्यासः ॐ ह्रां रेणुकायै नमः अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं राममात्रे नमः तर्जनीभ्यां नमः । ॐ ह्रूं महापुरुषवासिन्यै नमः मध्यमाभ्यां नमः । ॐ ह्रैं एकवीरायै नमः अनामिकाभ्यां नमः । ॐ ह्रौं कालरात्र्यै नमः कनिष्ठिकाभ्यां नमः । ॐ ह्रः एककाल्यै नमः करतलकरपृष्ठाभ्यां नमः । अथ षडङ्गन्यासः ॐ ह्रां रेणुकायै नमः हृदयाय नमः । ॐ ह्रीं राममात्रे नमः शिरसे स्वाहा । ॐ ह्रूं महापुरुषवासिन्यै नमः शिखायै वषट् । ॐ ह्रैं एकवीरायै नमः कवचाय हुं । ॐ ह्रौं कालरात्र्यै नमः नेत्रत्रयाय वौषट् । ॐ ह्रः एककाल्यै नमः अस्त्राय फट् । अथ देहन्यासः ॐ ह्रां रेणुकायै नमः शिरसे स्वाहा । ॐ ह्रीं राममात्रे नमः मुखे । ॐ ह्रूं महापुरुषवासिन्यै नमः हृदये । ॐ ह्रैं एकवीरायै नमः गुह्ये । ॐ ह्रौं कालरात्र्यै नमः पादयोः । ॐ ह्रः एककाल्यै नमः सर्वाङ्गे । ॐ भूर्भुवः स्वः इति दिग्बन्धः । ध्यानम् -- ध्यायेन्नित्यमपूर्ववेशललितां कन्दर्प लावण्यदां देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् ॥ लीलाविग्रहणीं विराजितभुजां सच्चन्द्रहासादिभिर्- भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥ ॐ जगदम्बा जगद्वन्द्या महाशक्तिर्महेश्वरी । महादेवी महाकाली महालक्ष्मीः सरस्वती ॥ महावीरा महारात्रिः कालरात्रिश्च कालिका । सिद्धविद्या राममाता शिवा शान्ता ऋषिप्रिया ॥ नारायणी जगन्माता जगद्बीजा जगत्प्रभा । चन्द्रिका चन्द्रचूडा च चन्द्रायुधधराशुभा ॥ भ्रमराम्बा तथानन्दा रेणुका मृत्युनाशिनी । दुर्गमा दुर्लभा गौरी दुर्गा भर्गकुटुम्बिनी ॥ कात्यायनी महामाता रुद्राणी चाम्बिका सती । कल्पवृक्षा कामधेनुः चिन्तामणिरूपधारिणी ॥ सिद्धाचलवासिनी च सिद्धवृन्दसुशोभिनी । ज्वालामुखी ज्वलत्कान्ता ज्वालाप्रज्वलरूपिणी ॥ अजा पिनाकिनी भद्रा विजया विजयोत्सवा । कुष्ठरोगहरा दीप्ता दुष्टासुरगर्वमर्दिनी ॥ सिद्धिदा बुद्धिदा शुद्धा नित्यानित्यतपःप्रिया । निराधारा निराकारा निर्माया च शुभप्रदा ॥ अपर्णा चान्नपूर्णा च पूर्णचन्द्रनिभानना । कृपाकरा खड्गहस्ता छिन्नहस्ता चिदम्बरा ॥ चामुण्डी चण्डिकानन्ता रत्नाभरणभूषिता । विशालाक्षी च कामाक्षी मीनाक्षी मोक्षदायिनी ॥ सावित्री चैव सौमित्री सुधा सद्भक्तरक्षिणी । शान्तिश्च शान्त्यतीता च शान्तातीततरा तथा ॥ जमदग्नितमोहन्त्री धर्मार्थकाममोक्षदा । कामदा कामजननी मातृका सूर्यकान्तिनी ॥ मन्त्रसिद्धिर्महातेजा मातृमण्डलवल्लभा । लोकप्रिया रेणुतनया भवानी रौद्ररूपिणी ॥ तुष्टिदा पुष्टिदा चैव शाम्भवी सर्वमङ्गला । एतदष्टोत्तरशत नामस्तोत्रं पठेत् सदा ॥ सर्वं सम्पत्करं दिव्यं सर्वाभीष्टफलप्रदम् । अष्टसिद्धियुतं चैव सर्वपापनिवारणम् ॥ दिग्बन्धन शान्तिमन्त्राः इन्द्रादि दिग्पालकाः स्वस्थस्थानेषु स्थिरी भवन्तु । ॐ शान्तिः शान्तिः शान्तिः । इति श्री शाण्डिल्यमहर्षिविरचिता श्रीरेणुकादेव्यष्टोत्तरशतनामावलिः सम्पूर्णा ।

Search

Search here.