रेवा खंड स्कंद पुराण 61 to 90
अध्याय ६१
युधिष्ठिर उवाच -
श्रुत्वा नानाविधान् धर्मास्त्वत्प्रसादान्महामुने ।
नाहं तृप्तिं तु गच्छामि नर्मदाख्यानकीर्तनात् ॥ ६१.१ ॥
मार्कण्डेय उवाच -
गावः पवित्रमतुलं गावः सर्वार्थसाधकाः ।
तस्माद्धि गोप्रदानेन शिवभक्त्या प्रमुच्यते ॥ ६१.२ ॥
यस्मिन् देशे भवेन्नित्यं शिवभक्तिसमन्वितः ।
सोऽपि देशो भवेत्पूतः किं पुनश्च सबान्धवः ॥ ६१.३ ॥
उक्तानि षट्सहस्राणि पुराणे मेकलातटे ।
इत्याह ज्ञानयोगस्य धर्मयोगस्य तत्त्ववित् ॥ ६१.४ ॥
धर्माधर्मगतीनां च स्वरूपमुपवर्णितम् ।
तीर्थाख्यानसमायुक्तं नर्मदाख्यानमुत्तमम् ॥ ६१.५ ॥
कीर्तनाच्छ्रवणात्तस्य मुच्यते भवबन्धनात् ।
विद्यां सिंहासने दिव्ये वस्त्रपुष्पाधिवासिताम् ॥ ६१.६ ॥
पूजयित्वा हरं विष्णुं शृणुयाद्वाचयेत्तथा ।
श्रीमत्सिंहासनं वापि कॢप्तं हैमं सुशोभनम् ॥ ६१.७ ॥
हेमवस्त्रोपरिच्छन्नं नानारत्नविभूषितम् ।
राजतं ताम्रकं कांस्यं ब्रह्मचारिविनिर्मितम् ॥ ६१.८ ॥
तत्तु तारसमुद्भूतं शृङ्गवद्रत्नभूषितम् ।
दिव्यं सिंहासनं वापि पूजां कृत्वा प्रयत्नतः ॥ ६१.९ ॥
गन्धाधिवसितकरः श्रीमदासनसंस्थितः ।
शम्भ्वायतनतीर्थेषु नरेन्द्र भवनेषु च ॥ ६१.१० ॥
बोधयेत्परमं धर्मं गृहग्रामपुरेषु च ।
नर्मदाकीर्तनाच्छ्रोता शिवलोके महीयते ॥ ६१.११ ॥
इदं तीर्थमिदं तीर्थं पर्यटन्नेति वै नरः ।
नर्मदैव परं तीर्थमित्याह भगवान् छिवः ॥ ६१.१२ ॥
अस्मिंस्तीर्थे नरश्रेष्ठ श्राद्धं कार्यं विधानतः ।
स्वागतेन यमः प्रीतश्चासनेन शतक्रतुः ॥ ६१.१३ ॥
पितरः पादशौचेन अत्राद्येन प्रजापतिः ।
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ॥ ६१.१४ ॥
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ।
विद्यावते स्नातकाय भिक्षवे श्रोत्रियाय च ॥ ६१.१५ ॥
तथा परमहंसाय विष्णुव्रतधराय च ।
सर्वोपस्करणं दत्त्वा शिवलोके महीयते ॥ ६१.१६ ॥
अनाहिताग्निं यो विप्रमाहिताग्निं करोति च ।
ब्राह्मणः क्षत्रियो वैश्यः स्ववित्तेनैव कारयेत् ॥ ६१.१७ ॥
अर्धार्धं सफलं तस्य यावज्जीवं न संशयः ।
विष्णुलोकेऽन्तकाले च भोगान् भुङ्क्ते च पुष्कलान् ॥ ६१.१८ ॥
स्वद्रव्येण च यो यज्ञं करोति विधिवद्द्विजः ।
नर्मदातीरमासाद्य ब्रह्मलोके स मोदते ॥ ६१.१९ ॥
धात्रीं हिरण्मयीं कृत्वा ब्राह्मणाय प्रकल्पयेत् ।
कल्पगा तीरमाश्रित्य विष्णुलोके महीयते ॥ ६१.२० ॥
तिलतण्डुलकर्पूरसुसम्भोज्यविमिश्रितैः ।
कुङ्कुमैर्वस्त्रधान्यैश्च निर्मितं शिवसन्निधौ ॥ ६१.२१ ॥
पर्वकाले च यो दद्यात्पर्वते मेकलातटे ।
वसेत्विष्णुलोकेषु नरः स्वर्गे न संशयः ॥ ६१.२२ ॥
प्रत्यक्षधेनुं यो दद्याथेमरत्नविभूषिताम् ।
घृतधेनुं गुडधेनुं शर्कराधेनुमेव च ॥ ६१.२३ ॥
रेवाकपिलयोर्योगे दत्त्वैतान्नरसत्तमः ।
सर्वपापविनिर्मुक्तो लोके क्रीडति वैष्णवे ॥ ६१.२४ ॥
यदि तत्र महाराज भिक्षान्नं च निवेदितम् ।
तस्य संख्या न विद्येत स यावत्संगमो नृप ॥ ६१.२५ ॥
एतत्सर्वं यथान्यायं कथितं तव सुव्रत ।
वैवस्वतेऽन्तरेऽथान्यच्छृणु त्वं नृपसत्तम ॥ ६१.२६ ॥
वीरणस्य तु राजर्षेर्मैत्रेयोऽभूत्पुरोहितः ।
तेन चायतनं विष्णोः कारितं नर्मदातटे ॥ ६१.२७ ॥
पुर्याश्चैवामरावत्या दिशि याम्यां व्यवस्थितम् ।
तदायतनमाहात्म्यान्नर्मदायाः प्रभावतः ॥ ६१.२८ ॥
मोदते वैष्णवे लोके युगस्यार्द्धं द्विजोत्तमः ।
शृणु त्वं यानि तीर्थानि रेवायाः पश्चिमोत्तरे ॥ ६१.२९ ॥
वनं मेघवनं नाम यज्ञपर्वतमाश्रितम् ।
रन्तिदेवः पुरा तत्र चक्रवर्ती युधिष्ठिर ॥ ६१.३० ॥
गवि नीतं कुलं येन स देवासुरमानुषम् ।
पितरो मोचिता येन गोभिर्विनिहताः पुरा ॥ ६१.३१ ॥
चाण्डालैश्च हता ये च प्राप्नुवन्ति परां गतिम् ।
चाण्डालादुदकात्सर्पाद्विद्युतो ब्राह्मणादपि ॥ ६१.३२ ॥
दन्तिभ्यश्च पशुभ्यश्च मरणं पापशालिनाम् ।
विष्णोर्बलिप्रदानेन क्रियाणां करणेन च ॥ ६१.३३ ॥
तीर्थपिण्डप्रदानेन ते यान्ति परमां गतिम् ।
दधीचिर्नाम राजर्षिरवन्त्यधिपतिस्तथा ॥ ६१.३४ ॥
सर्वधर्मभृतां श्रेष्ठः शक्रतुल्यपराक्रमः ।
पुरा देवासुरे युद्धे दैत्यैर्देवा विनिर्जिताः ॥ ६१.३५ ॥
देवानां ब्राह्मणानां च हन्तारो दैत्यकण्टकाः ।
नष्टाः स्वपापदोषेण सभृत्यकुलबान्धवाः ॥ ६१.३६ ॥
देवाः समुदिताः सर्वे लोकपालाः सवासवाः ।
निर्विघ्नं पृथिवीं कृत्वा लोकं चैव चराचरम् ॥ ६१.३७ ॥
विन्ध्यं गिरिं गतास्ते तु यस्मिन् वहति कल्पगा ।
समर्थं भूपतिं ज्ञात्वा दधीचिं कुरुसत्तम ॥ ६१.३८ ॥
दत्तान्यस्त्राणि रक्षार्थं तस्य राज्ञः सुरोत्तमैः ।
वज्रं शक्तिं तथा पाशं दण्डं खड्गं ध्वजं गदाम् ॥ ६१.३९ ॥
त्रिशूलं चेति देवानामायुधानि प्रचक्षते ।
तानि दत्त्वा यथा न्यायं नाकपृष्ठं मुदा ययुः ॥ ६१.४० ॥
पुराणमतमाज्ञाय दधीचिः सत्यविक्रमः ।
शापस्यैव भयाद्भीतो नमस्कृत्य प्रगृह्य च ॥ ६१.४१ ॥
प्रभावात्तोयतां नीत्वा शरीरान्तर्न्यवेशयत् ।
ततः कालान्तरे प्राप्ते दानवा बलदर्पिताः ॥ ६१.४२ ॥
जम्भकुम्भहयग्रीवप्रमुखाः पुनरुत्थिताः ।
दानवानां बलं ज्ञात्वा त्रस्ता देवाः सवासवाः ॥ ६१.४३ ॥
कार्यकाले समुत्पन्ने संस्मृत्यास्त्रायुधानि च ।
नारद प्रेषयामासुः दधीचिं प्रति भारत ॥ ६१.४४ ॥
अवन्तीं स पुरीं प्राप्य देवर्षिर्नारदस्तथा ।
विवेश भवनं राज्ञो मणिकाञ्चनवेदिकम् ॥ ६१.४५ ॥
उत्थितो नृपशार्दूलो मुनिं दृष्ट्वा सुतेजसम् ।
पूजयित्वा यथा न्यायं हेमकासनसंस्थितम् ॥ ६१.४६ ॥
तं तु दृष्ट्वा सुखासीनं राजा वचनमब्रवीत् ।
किमर्थं मानुषे लोके देवलोकात्समागतः ॥ ६१.४७ ॥
नारद उवाच -
युद्धं महत्समुत्पन्नं देवानां दानवैः सह ।
समर्पय त्वं शस्त्राणि क्षीयन्ते दानवा यथा ॥ ६१.४८ ॥
कुरु कार्यं च देवानां सत्यधर्मव्रते स्थितः ।
दधीचिरुवाच -
शृणु कार्यं च देवर्षे देवानां हितकाम्यया ॥ ६१.४९ ॥
अचिरेणैव कालेन क्षयं यास्यन्ति दानवाः ।
मया तान्येव शस्त्राणि रक्षणार्थं महामुने ॥ ६१.५० ॥
आपोभूतानि पीतानि शरीरे सन्ति तानि वै ।
उपायेन हि गृह्णन्तु दास्याम्येतानि वै पुनः ॥ ६१.५१ ॥
इत्युक्त्वा च नृपश्रेष्ठ आजुहाव च गाः पुरा ।
मांसादिभक्षितं गोभिरस्थिवर्जं विशाम्पते ॥ ६१.५२ ॥
अस्त्रग्रामस्ततः प्राप्तो लोकपालैर्यथा तथा ।
गोनर्दं नाम नगरं तत्तु लोकेषु विश्रुतम् ॥ ६१.५३ ॥
दानवा निहता देवैः पुनः सृष्टिः प्रवर्तिता ।
अचिन्तयत्तदा तत्र रन्तिदेवो महीपतिः ॥ ६१.५४ ॥
गोविद्युत्पशुचाण्डालसर्पैर्विनिहता नराः ।
देवलोकं न ते यान्ति न तेषामुदकक्रिया ॥ ६१.५५ ॥
शोचयित्वा चिरं कालं सान्तःपुरपरिग्रहः ।
प्रक्षाल्य नर्मदातोये तदस्थीनि व्यसर्जयत् ॥ ६१.५६ ॥
लिङ्गं ब्रह्मेश्वरं तत्र यज्ञपर्वतसन्निधौ ।
धर्मसंशयमापन्नो रन्तिदेवो महीपतिः ॥ ६१.५७ ॥
पप्रच्छ मुनिशार्दूलान् वशिष्ठप्रमुखान् द्विजान् ।
त्रिःप्रदक्षिणमावृत्य यथा न्यायमिदं वचः ॥ ६१.५८ ॥
के देशाः पर्वताः पुण्या नद्यः काः कीर्तिताः शुभाः ।
नरकस्थान् पितॄन् यत्र तद्वदेयुः समुद्धरेत् ॥ ६१.५९ ॥
अक्षयं च पितृश्राद्धं पितॄणामक्षया गतिः ।
ऋषय ऊचुः॒
मार्कण्डेयाश्रमं गच्छ अस्माभिः सह भूपते ॥ ६१.६० ॥
सोऽपि सर्वं विजानीयात्कल्पगा तीरमाश्रितः ।
तच्छ्रुत्वा रन्तिदेवोऽपि मुनिभिः परिभाषितः ॥ ६१.६१ ॥
जगाम मुनिभिः सार्द्धं कल्पगातीरवासिनम् ।
स राजा ब्राह्मणैः सार्द्धं प्रणिपत्य तथाऽर्चयत् ॥ ६१.६२ ॥
समुत्थायाब्रवीद्वाक्यमुपविष्टः कुशासने ।
मार्कण्डेय उवाच -
कान्न मोचयते घोरान् पितॄन् संसारसागरात् ॥ ६१.६३ ॥
शृण्वन्तु मम वाक्यानि मुनयो विदितात्मनः ।
सर्वतीर्थमयी रेवा सर्वार्थात्ममयी शुभा ॥ ६१.६४ ॥
शिवेनैतत्निगदितं पुराणे स्कन्दकीर्तिते ।
कुब्जारेवासमायोगे विशेषात्सुरपूजिते ॥ ६१.६५ ॥
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ।
तत्र श्राद्धेन योगेन पितॄणां परमा गतिः ॥ ६१.६६ ॥
इदं ते कथितं राजन् कुब्जारेवासमागमे ।
अर्चयित्वा महेशानं तत्र बिल्वाम्रकाह्वयम् ॥ ६१.६७ ॥
सर्वपापविनिर्मुक्तो गाणपत्यमवाप्नुयात् ।
सार्धकोटिस्तु कन्यानां तत्र सिद्धिं परां गताः ॥ ६१.६८ ॥
शप्तास्ताः पूर्वमुनिभिः कामदोषेण भारत ।
विद्याधराश्च यक्षाश्च गन्धर्वाः किन्नरास्तथा ॥ ६१.६९ ॥
शप्तास्तेनैव दोषेण कुबेरपुरवासिनः ।
सर्वे ते सिद्धिमापन्नाः कुब्जारेवासमागमे ॥ ६१.७० ॥
अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि ।
वाराणसी प्रयागश्च पुष्करं नैमिषं तथा ॥ ६१.७१ ॥
एते स्नातुं समायान्ति कुब्जारेवासमागमे ।
श्रवणात्कीर्तनादस्य शिवलोके महीयते ॥ ६१.७२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे रन्तिदेवोपाख्यानं नामैकषष्टितमोऽध्यायः ॥
अध्याय ६२
रन्तिदेव उवाच -
यथा शप्तास्तु ताः कन्यास्तासां नामानि कल्पग ।
श्रोतुमिच्छामि तत्त्वेन केषु स्थानेषु पूजिता ॥ ६२.१ ॥
मार्कण्डेय उवाच -
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।
प्रयागे ललितादेवी कामुका गन्धमादने ॥ ६२.२ ॥
मानसे कुमुदा नाम विश्वयोनिस्तथाम्बरे ।
गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥ ६२.३ ॥
मदोत्कटा चैत्ररथे तपन्ती हस्तिनापुरे ।
कान्यकुब्जे तथा गौरी प्रभा कमलपर्वते ॥ ६२.४ ॥
एकाग्रे कीर्तिमत्याख्या विश्वा विश्वेश्वरे तथा ।
पुष्करे पुरुहूतेति केदारे मार्गदायिनी ॥ ६२.५ ॥
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकार्णिका ।
स्थानेश्वरे भवानीति बिल्वके बिल्वपत्रिका ॥ ६२.६ ॥
श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ।
जया वाराहशैले तु कमला कमलालये ॥ ६२.७ ॥
रुद्रकोट्यां तु रुद्राणी कोटिः कालञ्जरे तथा ।
महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ ६२.८ ॥
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।
मायापुर्यां कुमारी तु सन्ताने ललिता तथा ॥ ६२.९ ॥
उत्पलाख्ये सहस्राक्षी हिरण्याक्षे महोत्पला ।
तीर्थायां मङ्गला नाम विमला पुरुषोत्तमे ॥ ६२.१० ॥
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ।
नारायणी सुपार्श्वे च त्रिकूटे भद्रसुन्दरी ॥ ६२.११ ॥
विपुले विपुला नाम कल्याणी प्रलयाचले ।
कोटीविकोटि तीर्थे तु यमुनायां मृगावती ॥ ६२.१२ ॥
करवीरे महालक्ष्मीरुमादेवी विनायके ।
आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥ ६२.१३ ॥
अभया कृष्णतीर्थे तु अमृता विन्ध्यकन्दरे ।
माण्डव्ये माण्डुका नाम स्वाहा माहेश्वरे पुरे ॥ ६२.१४ ॥
छागलम्बा प्रचण्डे च चण्डिकाऽमरकण्टके ।
सोमेश्वरे वराही तु प्रभासे पुष्करावती ॥ ६२.१५ ॥
देवमाता सरस्वत्यां पारा पारावते तथा ।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ ६२.१६ ॥
संहिता कृतशौचे तु कार्त्तिकेये तु शाङ्करी ।
उत्पला वर्षके लोला सुभद्रा शोणसङ्गमे ॥ ६२.१७ ॥
मालासिद्धतले लक्ष्मीरनन्ता भारताश्रमे ।
जालन्धरे सिद्धमुखी तारा किष्किन्धपर्वते ॥ ६२.१८ ॥
देवदारुवने पुष्टिर्मेधा कश्मीरमण्डले ।
भीमादेवी हिमाद्रौ तु तुष्टिर्वस्त्रेश्वरे तथा ॥ ६२.१९ ॥
कपालमोचने सिद्धिर्माता कायावरोहणे ।
शङ्खोद्धारे धृतिर्नाम ध्वनिः पिण्डारके तथा ॥ ६२.२० ॥
कला तु चन्द्रभागायामक्षोदे शिवधारिणी ।
वैजयन्त्यमृता नाम बदर्यामोषधी तथा ॥ ६२.२१ ॥
ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ।
मन्मथा हिमकूटे तु प्रमते सत्यवादिनी ॥ ६२.२२ ॥
अश्वत्थे वन्दिनी नाम निधिर्वैश्रवणे तथा ।
गायत्री वेदवदने पार्वती शिवसन्निधौ ॥ ६२.२३ ॥
देवलोके तथेन्द्राणी ब्रह्मणास्ये सरस्वती ।
सूर्यबिम्बे प्रभा नाम मातृका वैष्णवी तथा ॥ ६२.२४ ॥
अरुन्धती सतीनां च अप्सरस्सु तिलोत्तमा ।
चितिर्ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ ६२.२५ ॥
एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ।
अष्टोत्तरं तु तीर्थानां शतमेकं ह्युदाहृतम् ॥ ६२.२६ ॥
यः पठेत्प्रातरुत्थाय स याति परमां गतिम् ।
एषु तीर्थेषु ये स्नात्वा एताः पश्यान्ति मानवाः ॥ ६२.२७ ॥
सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् ।
यः करोति तनुत्यागमुमास्थानेषु मानवः ॥ ६२.२८ ॥
स भित्त्वा ब्रह्मसदनं पदमाप्नोति शाङ्करम् ।
नामाष्टकशतं यस्तु श्रावयेच्छिवसन्निधौ ॥ ६२.२९ ॥
तृतीयायां तथाष्टम्यां बहुपुत्रो भवेन्नरः ।
गोदाने श्राद्धकाले च विवाहे मङ्गले तथा ॥ ६२.३० ॥
देवार्चनविधौ वापि पठन् ब्रह्मत्वमाप्नुयात् ।
श्रुत्वैतत्स्तोत्रमतुलं नमस्कृत्य च पर्वतम् ॥ ६२.३१ ॥
राजा स्वपितृमोक्षाय यज्ञार्थं प्राह कल्पगम् ।
कस्मिंस्तीर्थे भवेद्यज्ञः पितॄणां मोक्षदायकः ॥ ६२.३२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे मातृस्तुतिर्नाम द्विषष्टितमोऽध्यायः ॥
अध्याय ६३
मार्कण्डेय उवाच -
रेवातटे महापुण्ये पितॄणां मोक्षणं प्रति ।
कुरु यज्ञं महाभाग मुच्यन्ते पितरो यथा ॥ ६३.१ ॥
इति श्रुत्वा महाराज नमस्कृत्य च कल्पगाम् ।
वशिष्ठप्रमुखैः सार्द्धं जगाम स्वपुरं नृपः ॥ ६३.२ ॥
स वत्सानां च लक्षैकमप्रसूतायुतं तथा ।
विंशतिः श्यामकर्णानां हयानां च दशायुतम् ॥ ६३.३ ॥
मणिमाणिक्यमुक्तादि भूषितोच्चैः श्रवस्त्विषाम् ।
अयुतं च करीन्द्राणां घण्टाभरणशोभिनाम् ॥ ६३.४ ॥
मणिमाणिक्यरत्नानां संख्यां कर्तुं न शक्यते ।
नानादेशनृपैः सार्द्धं ब्राह्मणैर्वेदपारगैः ॥ ६३.५ ॥
वेणुवीणानिनादेन ब्रह्मघोषरवेण च ।
आपूरयन् दिशः सर्वा दिवं भूमिं च संस्पृशन् ॥ ६३.६ ॥
हर्षेण महता युक्तो यज्ञसम्भारसंवृतः ।
रन्तिदेवो महीपालः कल्पगातीरमाश्रितः ॥ ६३.७ ॥
अनेकभक्षभोज्यानां तत्र संख्या न विद्यते ।
अष्टयोजनपर्यन्तं यज्ञयूपाश्च मण्डपाः ॥ ६३.८ ॥
हेमरत्नमयाः स्तम्भा मणिमौक्तिकभूषिताः ।
हिरण्मयानि कुण्डानि वेदिकाश्च सहस्रशः ॥ ६३.९ ॥
स्रुवश्च यज्ञपात्राणि सर्वं स्वर्णमयं तथा ।
समाहूतास्ततो देवा ब्रह्मविष्णुमहेश्वराः ॥ ६३.१० ॥
चन्द्रादित्यौ ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलम् ।
सिद्धा विद्याधरा यक्षाः सुरासुरमहोरगाः ॥ ६३.११ ॥
देवराजश्च देवाश्च बृहस्पतिपुरोगमाः ।
ततो यज्ञः समारब्धो ब्राह्मणैर्वेदपारगैः ॥ ६३.१२ ॥
होमेन तर्पिता देवाः सर्वलोकनिवासिनः ।
निर्धूमश्च ज्वलद्वह्णिः सप्तजिह्वासमन्वितः ॥ ६३.१३ ॥
प्रत्यक्षो हव्यवाहश्च स्वयं यज्ञे नराधिप ।
ततो निवर्तितो यज्ञो ब्राह्मणैराप्तदक्षिणैः ॥ ६३.१४ ॥
घोषणा भ्रामिता राष्ट्रे प्रतीहारैः सहस्रशः ।
यो यं कामयते कामं सोऽत्र तं त्वेत्यसंशयः ॥ ६३.१५ ॥
आहूताः पूर्वजास्तत्र मातृकाः पैतृकास्तथा ।
अपमृत्युवशं प्राप्तास्तिर्यग्योनिगताश्च ये ॥ ६३.१६ ॥
ते सर्वे शुभयोनित्वमापन्ना यज्ञयोगतः ।
अर्चिता नर्मदादेवीं प्रत्यक्षा रूपधारिणी ॥ ६३.१७ ॥
अर्चितो भगवांस्तत्र पार्वत्या सहितो हरः ।
श्रीपतिश्च श्रिया सार्द्धं शङ्खचक्रगदाधरः ॥ ६३.१८ ॥
शक्रादयस्तथा देवाः सपत्नीका अलंकृताः ।
गाश्चाश्वांश्च करीन्द्रांश्च ब्राह्मणेभ्यो न्यवेदयत् ॥ ६३.१९ ॥
यच्चान्यद्विद्यते किंचिद्धनं धान्यं पयो दधि ।
अग्निशौचानि वस्त्राणि सर्वं तेभ्यो न्यवेदयत् ॥ ६३.२० ॥
युगपत्पूजिता देवा ब्रह्मविष्णुमहेश्वराः ।
अर्चिता नर्मदादेवी शैलमूले व्यवस्थिता ॥ ६३.२१ ॥
प्रवाहो निर्गतो यत्र कुब्जारेवासमागमे ।
पितरस्तर्पिता देवाः प्राप्ताश्च परमां गतिम् ॥ ६३.२२ ॥
दिव्ययानसमारूढो दधीचिश्च नृपोत्तमः ।
शतमष्टोत्तरं पूर्वं पश्चिमं तदनन्तरम् ॥ ६३.२३ ॥
देवयानपथे सन्तः शतशोऽथ नृपोत्तम ।
ऊचुश्च देवास्ते सर्वे ब्रह्माद्या रन्तिदेवकम् ॥ ६३.२४ ॥
वृणीष्व भद्रं ते प्रीताः सत्येनानेन भूमिप ।
प्राप्तोऽसि परमं लोकं पितृभिर्मातृभिः सह ॥ ६३.२५ ॥
रन्तिदेवोऽब्रवीद्वाक्यं यूयं मे वरदा यदि ।
कलशः स्थापितो यत्र ब्राह्मणैर्वेदपारगैः ॥ ६३.२६ ॥
चतुर्वेदधरैर्भक्तैः पञ्चब्रह्मतनुः स्वयम् ।
शिवलिङ्गं भवेत्तत्र ज्वालामालासमप्रभम् ॥ ६३.२७ ॥
यज्ञपर्वतमासाद्य प्रवाहो यज्ञनिर्गतः ।
स्नाने विनिर्गता कुब्जा चरुके चरुका तथा ॥ ६३.२८ ॥
चर्मिला चाङ्घ्रिमूले तु शिल्पे शिल्पा विनिर्गता ।
धनदो देवताश्चान्याः सम्पूज्य प्रणिपत्य च ॥ ६३.२९ ॥
कल्पगां च नमस्कृत्य कामिकं यानमाश्रिताः ।
स्तोत्रं चक्रे महाभाग लिङ्गरूपस्य शूलिनः ॥ ६३.३० ॥
लोकनाथो जगत्स्रष्टा प्रणिपत्य यथाविधि ।
ब्रह्मो वाच -
नास्ति रुद्रसमो देवो नास्ति रुद्रसमो गुरुः ॥ ६३.३१ ॥
नित्यदामलकायाय स्वप्रभामलमूर्तये ।
शिवभस्माङ्गरागाय देवेशाय नमोऽस्तु ते ॥ ६३.३२ ॥
नीलकण्ठाय देवाय सर्वायामितमूर्तये ।
बहुरूपाय कान्ताय शाश्वताय नमोऽस्तु ते ॥ ६३.३३ ॥
पराय परमेशाय सर्वज्ञाय नमोऽस्तु ते ।
सर्वप्रणतदेहाय स्वयमप्रणताय च ॥ ६३.३४ ॥
पूज्यानामपि पूज्याय नमस्त्र्यक्षाय शूलिने ।
ब्रह्मेन्द्रविष्णुवेद्याय उत्पत्तिस्थितिहेतवे ॥ ६३.३५ ॥
देवस्तुत नमस्तेऽस्तु भुक्तिमुक्तिप्रदाय च ।
वामाय वामरूपाय वामोमारोपभासिने ॥ ६३.३६ ॥
वामकान्तार्धवेहाय ईशानाय नमोऽस्तु ते ।
श्रुत्वा स्तोत्रमिदं देवो ब्रह्मणः सोऽमितद्युतिः ॥ ६३.३७ ॥
वृणीष्व वाञ्छितं यज्ञे वरमित्याह शङ्करः ।
ददामि ते न सन्देहो यस्त्वया वर ईप्सितः ॥ ६३.३८ ॥
उवाच वचनं ब्रह्मा शङ्करं सर्वगं प्रभुम् ।
पञ्चवक्त्रं पञ्चलिङ्गं ब्रह्मपूज्यं प्रकीर्तितम् ॥ ६३.३९ ॥
बिल्वा निवेदिता यस्मिन्नाम्राश्च विनिवेदिताः ।
बिल्वाम्रकन्नाम लिङ्गं संसारार्णवतारणम् ॥ ६३.४० ॥
प्रसिद्धिं परमां यातु भगवंस्त्वत्प्रसादतः ।
वामना मेकला यत्र यत्रेदं लिङ्गमुत्तमम् ॥ ६३.४१ ॥
तत्र स्नात्वा नरव्याघ्र शिवलोकमवाप्यते ।
इदं वरमहं मन्ये लोकानुग्रहकारकम् ॥ ६३.४२ ॥
शङ्करस्तु तथेत्येवं प्राह ब्रह्माणमव्ययम् ।
एवमुक्त्वा महेशानो गणकोटिसमावृतः ॥ ६३.४३ ॥
स्तूयमानः सुरैः सर्वैः जगाम भवनं स्वकम् ।
ब्रह्माद्या देवताश्चैव गताः स्वं स्वं निवेशनम् ॥ ६३.४४ ॥
रन्तिदेवः प्रतुष्टाव लिङ्गरूपधरं शिवम् ।
निशम्य रन्तिदेवस्य स्तोत्रं प्राह महेश्वरः ॥ ६३.४५ ॥
वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रतं ।
रन्तिदेवोऽब्रवीद्वाक्यं यदि मे वरदः शिवः ॥ ६३.४६ ॥
इदं तीर्थं न मोक्तव्यं महादेव सदा त्वया ।
अघौघसमप्लुता ये तु तिर्यग्योनिगता नराः ॥ ६३.४७ ॥
अस्य तीर्थस्य माहात्म्यात्ते यान्तु परमां गतिम् ।
अत्र यद्दीयते दानं सर्वं भवति चाक्षयम् ॥ ६३.४८ ॥
इदं वरमहं मन्ये यदि तुष्टोऽसि शङ्कर ।
शङ्कर उवाच -
अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि ॥ ६३.४९ ॥
अत्र यद्दीयते दानं तदनन्तं समश्नुते ।
एतत्ते कथितं राजंस्तीर्थं पापप्रणाशनम् ॥ ६३.५० ॥
विश्वेदेवाः परां सिद्धिमस्मिंस्तीर्थे समागताः ।
अगस्त्यशौनकश्चैव पराशरोऽघमर्षणः ॥ ६३.५१ ॥
संसिद्धिं परमां प्राप्ता नाना मुनिगणास्तथा ।
अत्रायुतं मुनीनां च तपसा दिवमारुहत् ॥ ६३.५२ ॥
संक्रमे च व्यतीपाते ग्रहणे चन्द्रसूर्ययोः ।
अमासोमसमायोगे षडशीतिमुखे तथा ॥ ६३.५३ ॥
पुण्यं दशगुणं वृद्धिं सत्यमेतच्छिवोदितम् ।
सपादकोटिस्तीर्थानां कुब्जारेवासमागमे ॥ ६३.५४ ॥
दक्षिणोत्तरभागे तु क्रोशमात्रं प्रतिष्ठितम् ।
अवशः स्ववशो वाऽपि प्राणान् यस्तु परित्यजेत् ॥ ६३.५५ ॥
राजा वर्षसहस्राणि विद्याधरपुरे भवेत् ।
कृमिकीटपतङ्गाद्यास्तीर्थेऽस्मिन् प्राणमोक्षणे ॥ ६३.५६ ॥
दिव्यं वर्षसहस्रं तु राजा विद्याधरे पुरे ।
बिल्वाम्रकं सिद्धलिङ्गं कामभोगफलप्रदम् ॥ ६३.५७ ॥
कुब्जेश्वरं महच्चान्यद्ब्रह्महत्यां व्यपोहति ।
अत्रान्तरे महाराज शिवक्षेत्रं विदुर्बुधाः ॥ ६३.५८ ॥
रेवाकुब्जासमायोगे यवानां सप्ततिस्तथा ।
अमासोमसमायोगे स्नानाच्छान्तिः प्रकीर्तिता ॥ ६३.५९ ॥
वाराणसी कुरुक्षेत्रं प्रयागो नैमिषं तथा ।
पुष्करं च गया चैव केदारं तीर्थमुत्तमम् ॥ ६३.६० ॥
फलमेतेषु सामान्यममासोमसमागमे ।
अक्षयं च फलं प्रोक्तं कुब्जारेवासमागमे ॥ ६३.६१ ॥
तिलोदकप्रदानेन मातृकं पैतृकं सुतः ।
नरकादुद्धरेत्सर्वान् पूर्वानपि परानपि ॥ ६३.६२ ॥
सोऽपि राजा गृहं प्राप्तः सर्वानुद्धृत्य पूर्वजान् ।
अयं ते कथितो राजन् कुब्जारेवासमागमः ॥ ६३.६३ ॥
रन्तिदेवो हरिश्चन्द्रः पुरुहूतः पुरूरवाः ।
अत्रेष्ट्वा विविधैर्यज्ञैर्दिव्यन्ति दिवि देववत् ॥ ६३.६४ ॥
श्रवणात्कीर्तनादस्य तीर्थस्य नरसत्तम ।
सर्वपापविशुद्धात्मा शिवलोके महीयते ॥ ६३.६५ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रिषष्टितमोऽध्यायः ॥
अध्याय ६४
मार्कण्डेय उवाच -
अथान्यत्कथयिष्यामि तीर्थं तीर्थवरं शुभम् ।
याम्यप्रदेशे रेवाया आश्रमः सुरपूजितः ॥ ६४.१ ॥
सुवर्णद्वीपपविख्यातो देवद्रोणीसमावृतः ।
हारीतो गौतमो विष्णुः सावर्णिः कौशिकस्तथा ॥ ६४.२ ॥
एते चान्ये च बहवो मुनयः शंसितव्रताः ।
मासोपवासिनः केचिदन्ये पक्षोपवासिनः ॥ ६४.३ ॥
चान्द्रायणपराश्चान्ये तथान्ये कृच्छ्रचारिणः ।
फलमूलाशिनः केचित्तथान्ये वायुभक्षकाः ॥ ६४.४ ॥
कणधूमं पिबन्त्यन्ये जलाहारास्तथा परे ।
एकपादाः स्थिताः केचिदन्ये चार्धपदाः स्थिताः ॥ ६४.५ ॥
दन्तोलूखलिनः केचिदन्ये सूर्यावलोकिनः ।
ब्राह्मणाश्च ब्रह्मविदः श्रुतिस्मृतिविशारदाः ॥ ६४.६ ॥
इतिहासपुराणानि मोक्षोपायविचिन्तकाः ।
अग्निहोत्रपरा नित्यं जपयज्ञक्रियापराः ॥ ६४.७ ॥
वेदध्वनितनिर्घोषैस्तारयन्ति जगत्त्रयम् ।
न तस्मिन् संचरेत्पापं तमः सूर्योदये यथा ॥ ६४.८ ॥
मेकलादक्षिणे तीरे ब्रह्मलोक इव स्थितः ।
आम्रजम्बूकदम्बैश्च कपित्थैर्बिल्वदाडिमैः ॥ ६४.९ ॥
कदलीबीजपूराद्यैर्जम्बीरैः पनसैस्तथा ।
न्यग्रोधबदरैर्मुख्यैर्बहुवृक्षविभूषितम् ॥ ६४.१० ॥
पुन्नागैर्नागबकुलैरशोकैस्तिलकैस्तथा ।
मन्दारैश्चम्पकैश्चाम्रातकैर्नीलोत्पलोत्पलैः ॥ ६४.११ ॥
पत्रपुष्पफलोपेतैर्वृक्षैः सर्वैरलंकृतम् ।
नानापक्षिगणोपेतं सिद्धगन्धर्वसेवितम् ॥ ६४.१२ ॥
व्याहरत्यण्डजाः सर्वे मानुषाणां गिरा नृप ।
एतद्गुणसमायुक्तं सुवर्णद्वीपमुत्तमम् ॥ ६४.१३ ॥
स्वायम्भुवेऽन्तरे राजन्नादिकल्पे कृते युगे ।
अर्चनाद्देवदेवस्य सुवर्णद्वीपवासिनः ॥ ६४.१४ ॥
अपहाय तमः कृत्स्नं लोके क्रीडन्ति शाङ्करे ।
पितॄणामन्नदानेन तिलतोयप्रदानतः ॥ ६४.१५ ॥
मलापकर्षणं कृत्वा वसन्ति ब्रह्मणः पुरे ।
पुण्यायां भूपकार्तिक्यां सर्वतीर्थफलप्रदः ॥ ६४.१६ ॥
नैतत्पश्यन्ति मनुजाः कलौ मायाविमोहिताः ।
कल्पगा याम्यभागे तु तीर्थकोटिरनेकधा ॥ ६४.१७ ॥
प्रसिद्धं सिद्धमुनिभिर्ज्ञायते केवलं हि तत् ।
नास्तिकैर्भिन्नमर्यादैः पुराणस्मृतिनिन्दकैः ॥ ६४.१८ ॥
तैलाभ्यक्तैर्न वेदोक्तकरै रेवातटे तथा ।
कलिमायाविमूढैश्च स्थानं तन्न प्रदृश्यते ॥ ६४.१९ ॥
हिरण्यगर्भास्थाने तु यस्मिन् वहति कल्पगा ।
यज्ञगर्भेश्वरं नाम शिवलिङ्गं प्रकीर्तितम् ॥ ६४.२० ॥
पूज्यते सिद्धगन्धर्वैः सुरासुरमहोरगैः ।
यत्र वैवस्वतो राजा सूर्यपुत्रो महायशाः ॥ ६४.२१ ॥
तस्य तीर्थस्य माहात्म्याच्चन्द्रबिम्बाननोऽभवत् ।
चैत्रस्यैव तु मासस्य शुक्लपक्षे नराधिप ॥ ६४.२२ ॥
चतुर्दश्यां पौर्णमास्यां यत्र सन्निहितो हरः ।
तिलोदकप्रदानेन पिण्डदानेन भारत ॥ ६४.२३ ॥
पितॄन् समुद्धरेत्तत्र नरकाद्भूरिदक्षिणः ।
निवसेद्वैष्णवे लोके यावच्चन्द्रार्कदर्शनम् ॥ ६४.२४ ॥
तत्र यद्दीयते दानं कुरुक्षेत्रसमं हि तत् ।
प्राणत्यागे कृते तत्र न पश्यन्ति यमालयम् ॥ ६४.२५ ॥
रेवाया उत्तरे कूले पर्यङ्को नाम पर्वतः ।
स च विन्ध्यसुतः श्रीमान् सर्वदेवमयः शुभः ॥ ६४.२६ ॥
तत्र पापहरो विष्णुः स्वयं तिष्ठति केशवः ।
नरपापहरो यस्तु नर्मदातटमाश्रितः ॥ ६४.२७ ॥
तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् ।
तर्पिताः पितरस्तस्य तृप्ता यान्ति हरेः पुरम् ॥ ६४.२८ ॥
एकादशीं द्वादशीं वा तत्र यः कुरुते नरः ।
न तस्य पुनरावृत्तिर्मर्त्यलोके दुरासदे ॥ ६४.२९ ॥
क्रोशमात्रप्रमाणं च हरिक्षेत्रं प्रकीर्तितम् ।
अपमृत्युमृता ये च ते यान्ति परमां गतिम् ॥ ६४.३० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुकीर्तनं नाम चतुःषष्टितमोऽध्यायः ॥
अध्याय ६५
मार्कण्डेय उवाच -
नर्मदायाम्यभागे तु तीर्थं पापप्रणाशनम् ।
माण्डव्यस्याश्रमं पुण्यं सिद्धगन्धर्वसेवितम् ॥ ६५.१ ॥
विभाण्डकश्च गार्ग्यश्च ऋष्यशृङ्गादयस्तथा ।
तस्मिन् सहस्रसंख्याता मुनयः शंसितव्रताः ॥ ६५.२ ॥
अशोकवनिकां राजन् छृणु साम्प्रतमुत्तमम् ।
तत्र सन्निहितो देव उमया सहितो हरः ॥ ६५.३ ॥
आविष्टश्चाश्रमे तत्र विशोको विमलः शिवः ।
विशोकया सरिच्छ्रेष्ठा नर्मदा यत्र सङ्गता ॥ ६५.४ ॥
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ।
अशोकेश्वरलिङ्गं च प्रत्यक्षं सिद्धिशङ्करम् ॥ ६५.५ ॥
शापभ्रष्टा द्विजास्तत्र नारदेन विमोचिताः ।
तस्य तीर्थस्य माहात्म्यात्मोदन्ते दिवि देवताः ॥ ६५.६ ॥
नानावृक्षफलैः पुष्पैः सर्वकामसमन्वितैः ।
नाना पक्षिगणैर्जुष्टं नानावृक्षनिषेवितम् ॥ ६५.७ ॥
सिद्धविद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैस्तथा ।
वेणुवीणानिनादेन शङ्खवादित्रनिःस्वनैः ॥ ६५.८ ॥
शोभते सर्वदा राजन्नर्मदा विन्ध्यसङ्गमः ।
अशोका देवता यत्र ब्रह्मशक्रपुरोगमाः ॥ ६५.९ ॥
विश्वेदेवाश्रमं तद्धि सर्वदेवनमस्कृतम् ।
विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥ ६५.१० ॥
अशोकवनिकायां च जनयामास कश्यपः ।
वैवस्वतेऽन्तरे प्राप्ते त्रेतायां नरसत्तम ॥ ६५.११ ॥
पञ्चायुतानि तानि तीर्थानि निवसन्ति शुभानि च ।
तत्र सिद्धा च सावित्री देवमातादितिस्तथा ॥ ६५.१२ ॥
देवयानी तथेन्द्राणी रोहिणी संभरायणी ।
दाक्षायणी लोकवन्द्या लोपामुद्रा महायशा ॥ ६५.१३ ॥
रत्नावली सूर्यभार्या ध्रुवा तारा गणेश्वरी ।
अशोकास्तेन विहितास्तत्रस्थाः शतसंख्यकाः ॥ ६५.१४ ॥
अस्य तीर्थस्य माहात्म्यान्मुच्यते किल्बिषान्नरः ।
शुक्लपक्षे चतुर्दश्यामाश्विने मासि भारत ॥ ६५.१५ ॥
अपुत्रिणी तथा बन्ध्या दुर्भगा भर्तृवर्जिता ।
पञ्चरत्नफलैः स्नाता दिव्यकुम्भैः समर्चयेत् ॥ ६५.१६ ॥
सहस्रजन्म सा भूयः पुत्रिणी सुभगा भवेत् ।
अशोकवनिका क्षेत्रे तत्र गौर्या वरः कृतः ॥ ६५.१७ ॥
यस्मिन् वहति सा देवी नर्मदा सप्तकल्पगा ।
तत्रेष्टं धर्मराजेन वरुणेन महात्मना ॥ ६५.१८ ॥
नैरृत्येन तथान्यैश्च लोकपालैर्यथा विधि ।
प्रत्यक्षो हव्यवाहश्च लोकपालानुपागतः ॥ ६५.१९ ॥
अत्रिर्मरीचिः कश्यपश्चक्रुस्तत्र मखोत्तमम् ।
अन्यक्षेत्राच्छतगुणा तत्र दानादिका क्रिया ॥ ६५.२० ॥
वाराणसी कुरुक्षेत्रं गया वै नैमिषं तथा ।
मायापुरी पुष्करं च प्रयागः शशिभूषणम् ॥ ६५.२१ ॥
काश्यपी सर्वतीर्थानि यत्र तिष्ठति कल्पगा ।
अशोकवनिकायास्तु नान्यत्तीर्थं समं विदुः ॥ ६५.२२ ॥
इष्टं यत्र पुरा राजन् हयमेधं मखोत्तमम् ।
ब्रह्मणा मोचिताः पूर्वं विप्राः कौलेययोनितः ॥ ६५.२३ ॥
अस्य तीर्थस्य माहात्म्यात्पाटलीपुत्रवासिनः ।
युधिष्ठिर उवाच -
हयमेधमखेनेष्टं कथं तात स्वयम्भुवा ॥ ६५.२४ ॥
कथं च मोचिता विप्राः पूर्वं कौलेययोनितः ।
को वा राजा पुरा ब्रह्मन् देवराजसमोऽभवत् ॥ ६५.२५ ॥
एतत्सर्वं यथा न्यायं शंस मे मुनिसत्तम ।
मार्कण्डेय उवाच -
शृणु राजन्महाभाग समाख्यानं पुरातनम् ॥ ६५.२६ ॥
अशोकवनिका तीर्थं कल्पगा तटमाश्रितम् ।
न जानन्ति महामूढा मनुजाः पापमोहिताः ॥ ६५.२७ ॥
गुप्ताद्गुप्ततरं तीर्थं सर्वतीर्थोत्तमोत्तमम् ।
विशोकेश्वरलिङ्गं तु तस्मिन् परमसिद्धिदम् ॥ ६५.२८ ॥
पूज्यते सिद्धगन्धर्वैर्न तत्पश्यन्ति मानुषाः ।
दर्शनात्स्पर्शनात्तस्य ब्रह्महत्यां व्यपोहति ॥ ६५.२९ ॥
स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
रविश्चन्द्रो महाराज चक्रवर्ती महायशाः ॥ ६५.३० ॥
सोमवंशे जनिं प्राप्तः काञ्चीपुरपतिस्तथा ।
शशास पृथिवीं सर्वां यथा शक्रस्त्रिविष्टपम् ॥ ६५.३१ ॥
गतस्तु पृथिवीपालो नानावृक्षसमाकुलम् ।
नानापक्षिगणैर्जुष्टं नानामुनिनिषेवतम् ॥ ६५.३२ ॥
यत्रागस्त्येश्वरं नाम शम्भोरायतनं शुभम् ।
सेव्यते मुनिभिः सर्वैरगस्त्याद्यैस्तपोधनैः ॥ ६५.३३ ॥
राहुसूर्यसमायोगे रविश्चन्द्रो नृपोत्तमः ।
सप्तकल्पवहा यत्र शैलश्चामरकण्टकः ॥ ६५.३४ ॥
हस्त्यश्वरथपादातैः सकोशबलवाहनैः ।
तपस्यन्तं महात्मानं मुनिसङ्घैः समावृतम् ॥ ६५.३५ ॥
मैत्रावरुणिकं नाम ज्वलन्तमिति पावकम् ।
तेषां मध्ये समुत्थाय शाण्डिल्यश्च महातपाः ॥ ६५.३६ ॥
उरसा पृथिवीं गत्वा सोऽगस्तिं परिपृच्छति ।
रविश्चन्द्रो महातेजाः समायातस्तवाश्रमम् ॥ ६५.३७ ॥
पुरोहितोऽहमस्यास्मि जानीहि त्वं तपोनिधे ।
त्वत्पादार्चनमाकाङ्क्षी मन्यसे चेदनुग्रहः ॥ ६५.३८ ॥
अगस्त्य उवाच -
आगच्छतु नृपश्रेष्ठः शीघ्रं सिंहासने स्थितः ।
आगतस्तदनुज्ञातः पादौ जग्राह तस्य च ॥ ६५.३९ ॥
अर्घपाद्यैश्च सम्पूज्य पप्रच्छ कुशलं मुनिः ।
कुशलं ते महाभाग सान्तः पुरपरिच्छदः ॥ ६५.४० ॥
उवाच वचनं राजा मुनीन्द्रं प्रति भारत ।
अद्य मे सफलं जन्म राज्यं जीवनमेव च ॥ ६५.४१ ॥
मुक्तश्च किल्बिषादस्मात्त्वात्पादाम्बुजदर्शनात् ।
सर्वत्र कल्पगा पुण्या सर्वतीर्थमयी शुभा ॥ ६५.४२ ॥
कस्मिन् स्थाने यजे यज्ञं शंस मे मुनिसत्तम ।
यथा संसिद्ध्यते यज्ञः सुराणां तृप्तिरक्षया ॥ ६५.४३ ॥
एतत्सर्वं यथा न्यायं त्रिकालज्ञ निवेदय ।
अगस्त्य उवाच -
शृणु राजन्महाभाग कथ्यमानं निबोध च ॥ ६५.४४ ॥
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ।
ब्रह्मविष्ण्वादिदेवानामन्येषां च दिवौकसाम् ॥ ६५.४५ ॥
मया तत्र श्रुतं राजन्मार्कण्डेन चिरायुषा ।
तत्तेऽहं कथयिष्यामि मेकलातीर्थसम्भवम् ॥ ६५.४६ ॥
शृणुध्वं मुनयः सर्वे यत्प्रष्टव्यावतारणम् ।
कस्य शक्तिर्महाराज वर्जयित्वा महेश्वरम् ॥ ६५.४७ ॥
प्रमाणं सर्वतीर्थानां संख्यां वा कर्तुमादितः ।
उद्देशमात्रवक्ताऽहं मार्कण्डस्य महामुनेः ॥ ६५.४८ ॥
एतत्ते कथितं राजन् यथावृत्तं पुरातनम् ॥ ६५.४९ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये पञ्चषष्टितमोऽध्यायः ॥
अध्याय ६६
मार्कण्डेय उवाच -
एवं श्रुतं पुरा राज्ञा रविश्चन्द्रेण धीमता ।
उवाच वचनं श्रीमानगस्त्यो मुनिसत्तम ॥ ६६.१ ॥
सरस्वती न गङ्गा च यमुना वा न सागराः ।
न चैवान्यानि तीर्थानि प्रयागप्रमुखान्यपि ॥ ६६.२ ॥
एकैव नर्मदा पुण्या सप्तकल्पवहा शुभा ।
लक्षयोजनपर्यन्तं जम्बूद्वीपं प्रकीर्तितम् ॥ ६६.३ ॥
नर्मदातोयपानेन लोकालोके चराचरे ।
तपोहीना नराश्चैव तेऽपि यान्ति शिवालयम् ॥ ६६.४ ॥
योऽयं कामयते कामं स तं प्राप्नोति पुष्कलम् ।
साधु साधु महाभाग पृष्टोऽहं यत्त्वयानघ ॥ ६६.५ ॥
नर्मदा कथिता दिव्या हृद्या कस्य न रोचते ।
सन्ति तीर्थानि यावन्ति दक्षिणोत्तरकूलयोः ॥ ६६.६ ॥
त्वत्प्रीतिदानि तावन्ति कथयामि नृपोत्तम ।
अन्यानि ग्रन्थलक्षेण न च कीर्तयितुं क्षमः ॥ ६६.७ ॥
त्रयो वेदास्त्रयो लोकास्तिस्रः सन्ध्यास्त्रयोऽग्नयः ।
सिद्धगन्धर्वयक्षाश्च सकिन्नरमहोरगाः ॥ ६६.८ ॥
विद्याधरश्चाप्सरसः कल्पगातटमाश्रिताः ।
ओंकारादीनि लिङ्गानि वैदूर्यादिनगाः पुरा ॥ ६६.९ ॥
द्वापरे च कलिं प्राप्य पावनत्वमवाप्नुयुः ।
ब्रह्मविष्ण्वादिदेवानां मर्यादा कथ्यतेऽधुना ॥ ६६.१० ॥
प्रभाभिर्द्योतमानाया रेवाया दक्षिणोत्तरे ।
यज्ञभूमिरियं ख्याता सुरासुरनमस्कृता ॥ ६६.११ ॥
अशोकवनिका तत्र तस्या देवो महेश्वरः ।
तत्र सिद्ध्यति निर्विघ्नो यज्ञ इत्याह शङ्करः ॥ ६६.१२ ॥
उवाच वचनं राजा अगस्त्यं मुनिसत्तमम् ।
स्वस्ति वोऽस्तु गमिष्यामि त्वया सह महामुने ॥ ६६.१३ ॥
अशोकवनिकां प्राप्तः स राजा मुनिभिर्वृतः ।
रेवाया दक्षिणे कूले पुण्यतीर्थेसु शोभने ॥ ६६.१४ ॥
दशयोजनपर्यन्तं यज्ञयूपाश्च मण्डपम् ।
मणिमाणिक्यरत्नौघैः सर्वद्वारेषु शोभिताः ॥ ६६.१५ ॥
पताकाध्वजशोभाड्या नानावस्त्रावगुण्ठिताः ।
विश्वामित्रो भरद्वाजः कश्यपो भार्गवस्तथा ॥ ६६.१६ ॥
ब्रह्मदृश्यो लोमशश्च तथान्ये मुनिसत्तमाः ।
वालखिल्या महाभागा मानसा ब्रह्मणः सुताः ॥ ६६.१७ ॥
एते चान्ये च बहवो मुनयः शंसितव्रताः ।
ततः प्रवर्तितो यज्ञो ब्राह्मणैराप्तदक्षिणैः ॥ ६६.१८ ॥
तृप्ताश्च देवताः सर्वाः प्रतिजग्मुस्त्रिविष्टपम् ।
जग्मुः सर्वे च मुदिता मुनयः स्वाश्रमं प्रति ॥ ६६.१९ ॥
ततो निवर्तितो यज्ञो दुर्वासाः कुपितो गतः ।
नात्र वैवस्वतो नाहं नारदः पर्वतस्तथा ॥ ६६.२० ॥
कथं निवर्तितो यज्ञः पापर्कर्मिनराधमैः ।
आगतस्तु यमस्तत्र नारदः पर्वतस्तथा ॥ ६६.२१ ॥
लेखकश्चित्रगुप्तश्च कालो मृत्युस्तथैव च ।
एते च कुपिताः सर्वे यज्ञभागं विना नृप ॥ ६६.२२ ॥
तान् सर्वान् कुपितान् दृष्ट्वा रविश्चन्द्रोऽब्रवीद्वचः ।
अशोकेश्वरदेवस्य नर्मदायाः प्रसादतः ॥ ६६.२३ ॥
को मे समर्थो विघ्नाय सुरासुरगणेष्वपि ।
तथैव कोऽन्यो जन्तूनां यज्ञविघ्नस्य हेतवे ॥ ६६.२४ ॥
यज्ञकाले च संप्राप्तो य कश्चिदपि मानवः ।
पूजनीयस्तथार्च्यश्च यथा देवश्चतुर्भुजः ॥ ६६.२५ ॥
यथायाता महाभागा ब्रह्मपुत्रा महौजसः ।
ददामि वो न सन्देहो मनसा यदभीप्सितम् ॥ ६६.२६ ॥
दुर्वासा उवाच -
परिपूज्यश्च नः पुत्रो नारदः पर्वतस्तथा ।
एकाकी प्रार्थये नाहं मिलित्वा प्रार्थयामहे ॥ ६६.२७ ॥
रविश्चन्द्र उवाच -
यो यं कामयते कामं तं तस्मै प्रददाम्यहम् ।
इति सर्वेऽपि तेनैव प्रस्तुता मुनिपुङ्गवाः ॥ ६६.२८ ॥
सुप्रीता विहिता राजन्नर्घपाद्यप्रदानतः ।
युधिष्ठिर उवाच -
मुनयः केन कार्येण पाटलीपुत्रवासिनः ॥ ६६.२९ ॥
देव्या शप्ताः श्वयोनिं च गता मुक्ताश्च ते कथम् ।
मार्कण्डेय उवाच -
पुरा तपोधनाः सर्वे जटावल्कलधारिणः ॥ ६६.३० ॥
नैपाले वै पशुपतिं देवदेवं महेश्वरम् ।
पूजयन्ति शिवं भक्त्या गौर्या विरहितं हरम् ॥ ६६.३१ ॥
अर्धनारीश्वरं देवं सुरासुरनमस्कृतम् ।
संशप्तास्तेन कार्येण पार्वत्या लिङ्गभेदिनः ॥ ६६.३२ ॥
वर्षं सहस्रं हि मितं श्वयोनिं च गमिष्यथ ।
निर्माल्यभक्षकाः पापाश्चण्डद्रव्यस्य भक्षकाः ॥ ६६.३३ ॥
तेषां कृते महाराज दुर्वासा नृपमब्रवीत् ।
श्वयोनिं समनुप्राप्तास्तत्र काले मुनीश्वराः ॥ ६६.३४ ॥
मोचय त्वं ततो राजन्नस्मत्प्रियचिकीर्षया ।
पार्वत्या तेऽभिशप्ताश्च नरके मज्जन्ति दारुणे ॥ ६६.३५ ॥
उवाच वचनं राजा मुनिं दुर्वाससं ततः ।
मोचयामि न सन्देहस्तस्मात्पापाद्द्विजोत्तमान् ॥ ६६.३६ ॥
प्रेषिताः किङ्करास्तेन सीदन्तो यत्र ते वने ।
प्रणिपत्य च ते सर्वे तानूचुश्च वनेचरान् ॥ ६६.३७ ॥
स्मारयन्ति पूर्वजातिमादिष्टाः प्रभुणा यथा ।
ततस्तद्वचनात्प्राप्तास्तेऽशोकवनिकां द्रुतम् ॥ ६६.३८ ॥
रविश्चन्द्रश्चक्रवर्ती तान् विलोक्य तपोधनान् ।
मुदा परमया युक्तः प्राह तान् प्रहसन्निव ॥ ६६.३९ ॥
अशोकेश्वरदेवस्य मेकलायाः प्रभावतः ।
मम दानप्रभावेण महर्षीणां प्रसादतः ॥ ६६.४० ॥
त्यक्त्वा श्वयोनिं मुनयः शिवलोकं प्रयान्तु वै ।
एतत्पापं महाघोरं मयि सर्वं निषीदतु ॥ ६६.४१ ॥
तत्क्षणान्मुक्तशापास्ते कामिकं यानमास्थिताः ।
ऊचुर्महर्षयो वाक्यं रविश्चन्द्रं शतक्रतुम् ॥ ६६.४२ ॥
त्वं माता त्वं पितास्माकं गुरुर्मोक्षप्रदायकः ।
एवमुक्त्वा ययुस्ते तु उमामाहेश्वरं परम् ॥ ६६.४३ ॥
साधु साधु महाभाग त्वं तु यज्ञतपोनिधिः ।
नाऽन्यस्त्वया समः कश्चित्सोमवंशे महीपतिः ॥ ६६.४४ ॥
त्वया हि निर्जितं सर्वं त्रैलोक्यं सचराचरम् ।
एवमुक्त्वा सुरश्रेष्ठाः साधुवादैस्तमार्चयन् ॥ ६६.४५ ॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ।
दुर्वासा उवाच -
क्षत्रियेषु त्वया तुल्यो न दृष्टो न श्रुतो मया ॥ ६६.४६ ॥
प्राणत्यागो हि सुकरो धर्मत्यागो हि दुष्करः ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ६६.४७ ॥
प्रहसन्नब्रवीद्वाक्यं राजा दुर्वाससं मुनिम् ।
मम दानप्रभावेण नरा दुष्कृतबुद्धयः ॥ ६६.४८ ॥
प्राप्नुवन् तु परं लोकं वर एष मम प्रियः ।
एवमस्त्विति तस्याग्रेऽभिधाय मुनिपुङ्गवः ॥ ६६.४९ ॥
स मुदा परया युक्तस्तत्रैवान्तरधीयत ।
तद्दृष्ट्वा तादृशं कर्म राज्ञश्चामिततेजसः ॥ ६६.५० ॥
शङ्कया परया युक्तो धर्मराजोऽब्रवीदिदम् ।
वरं ददामि भद्रं ते यज्ञभागबहिष्कृतः ॥ ६६.५१ ॥
श्वयोनित्वं गता विप्रा मोचिताः कर्मबन्धनात् ।
ईदृशं तव सामर्थ्यं जानामि च नृपोत्तम ॥ ६६.५२ ॥
पृथिव्यां दुष्करं कर्म यज्ञश्चैव विशेषतः ।
यो ददाति महाभाग स्वकीयं पुण्यमुत्तमम् ॥ ६६.५३ ॥
यमलोको जितस्तेन देवलोको जितस्तथा ।
वरयोग्योऽसि राजेन्द्र सत्यमेतत्मयोदितम् ॥ ६६.५४ ॥
रविश्चन्द्र उवाच -
यदि तुष्टः सूर्यपुत्र वरं दातुं ममेच्छसि ।
मम यज्ञशतेनैव दानेन तपसा तथा ॥ ६६.५५ ॥
पापयोनिगता ये तु ये च दुष्कृतकारिणः ।
प्रयान्तु त्वत्प्रसादेन धर्मराज शिवालयम् ॥ ६६.५६ ॥
इमं वरमहं मन्ये प्रसादः क्रियतां मयि ।
यम उवाच -
एवं भवतु राजेन्द्र सत्यधर्मपरायण ॥ ६६.५७ ॥
प्राप्नुहि त्वं परं लोकं सत्येनानेन सुव्रत ।
यतस्ते मोचिताः सर्वाः कश्मलात्पापयोनयः ॥ ६६.५८ ॥
क्षत्रियाः शतशो राजन्नन्ये चैव सहस्रशः ।
पापात्समुद्धृता ये च तेषां संख्या न विद्यते ॥ ६६.५९ ॥
एवमुक्त्वा नृपश्रेष्ठं धर्मराजो महाभुजः ।
कामिकं यानमारुह्य सुरासुरनमस्कृतम् ॥ ६६.६० ॥
ययौ स्वभवनं राजन्नारदः पर्वतस्तथा ।
तस्यामशीतिलक्षाणि तीर्थानां नरसत्तम ॥ ६६.६१ ॥
अशोकवनिकायां तु कीर्तितानि तवानघ ।
श्रवणात्कीर्तनात्तेषां गोसहस्रफलं भवेत् ॥ ६६.६२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डेऽशोकवनिकावर्णनो नाम षट्षष्टितमोऽध्यायः ॥
अध्याय ६७
मार्कण्डेय उवाच -
अथातः कथयिष्यामि तीर्थं पापप्रणाशनम् ।
रेवाया उत्तरे कूले पुरं वागीश्वराभिधम् ॥ ६७.१ ॥
वागुर्नाम नदी तत्र रेवया सह संगता ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ ६७.२ ॥
वागीशा तत्र चामुण्डा दानवक्षयकारिणी ।
मणिभद्रो वीरभद्रस्तथाऽन्ये शतशो नृपाः ॥ ६७.३ ॥
बभूवुर्मुक्तशापास्ते तीर्थस्यास्य प्रभावतः ।
तिलपिण्डप्रदानेन पितॄणां परमा गतिः ॥ ६७.४ ॥
ब्रह्मदत्तश्चक्रवर्ती सूर्यवंशे महीपतिः ।
अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः ॥ ६७.५ ॥
धनधान्यसमायुक्तो भयदारिद्र्यवर्जितः ।
प्रजास्तस्मिन्महीपाले सर्वाऽपि मुदान्विताः ॥ ६७.६ ॥
इष्टः क्रतुवरस्तेन नर्मदावागुसङ्गमे ।
ब्रह्माद्या देवताः सर्वाः शक्रविष्णुपुरोगमाः ॥ ६७.७ ॥
प्रत्यक्षश्च महेशानो गणेश्वरसमन्वितः ।
लोकपालाश्च मरुतश्चन्द्रादित्यौ ध्रुवस्तथा ॥ ६७.८ ॥
ऋक्षाणि योगसिद्धाश्च सोममुख्याश्च सर्वशः ।
वशिष्ठो मुनिभिः सार्द्धं विदेहाधिपतिस्तथा ॥ ६७.९ ॥
एवमाद्याः समाहूता मित्रावरुण एव च ।
सर्वे हिरण्मयास्तत्र यज्ञयूपाश्च मण्डपाः ॥ ६७.१० ॥
दशयोजनपर्यन्तं यज्ञभूमिर्महीभृतः ।
स्वारोचिषेऽन्तरे राजन्नादिकल्पे कृते युगे ॥ ६७.११ ॥
गवां शतसहस्राणि हेमभारान्वितानि च ।
हयानां श्यामकर्णानामयुतं साग्रमेव च ॥ ६७.१२ ॥
दन्तिनामयुतं चैव घण्टाभरणभूषितम् ।
मणिमाणिक्यमुक्ताश्च भक्ष्यभोज्यान्यनेकधा ॥ ६७.१३ ॥
एवं राजा ब्रह्मदत्तः सर्वभूपालसत्तमः ।
यज्ञं प्रवर्तयामास सर्वसम्भारसंभृतः ॥ ६७.१४ ॥
वेदनिर्घोषशब्देन गीतवाद्यरवेण च ।
नानायानसमारूढैः स्तूयमानो मरुद्गणैः ॥ ६७.१५ ॥
ब्रह्मदत्तस्य यज्ञेन वागीशस्य प्रसादतः ।
नर्मदायाः प्रसादेन प्रेतास्तृप्तिं परां गताः ॥ ६७.१६ ॥
युधिष्ठिर उवाच -
कथं तु ब्रह्मदत्तस्य कल्पगातीरयाजनम् ।
कथं प्रेता विनिर्मुक्ताः प्रेतास्ते केन कर्मणा ॥ ६७.१७ ॥
एतत्सर्वं यथा न्यायं कथयस्व तपोधन ।
मार्कण्डेय उवाच -
शृणु राजन् यथा न्यायमितिहासं पुरातनम् ॥ ६७.१८ ॥
कार्त्तिक्यामुत्सवं प्राप्य पुष्करे ज्येष्ठपुष्करे ।
अयोगन्धः स्वयंभूश्च पुण्डरीकाक्ष एव च ॥ ६७.१९ ॥
पितामहः स्वयं तत्र सुरासुरगुरुः पिता ।
काव्यश्च होतृसदनौ वेदगर्भः कृतध्वनः ॥ ६७.२० ॥
स्वस्तिकश्चैव सावित्रो वामदेवोऽघमर्षणः ।
एते चान्ये च मुनयो ब्रह्मतेजोऽशसंभवाः ॥ ६७.२१ ॥
तथा ते हि यथाशक्ता ऋतुकालाभिगामिनः ।
गार्हस्थ्ये च स्थिता भार्या भर्तृशुश्रूषणे रताः ॥ ६७.२२ ॥
चीरवल्कलधारिण्यः शाकस्यामाकभक्षिकाः ।
विषण्णास्तेन धर्मेण सत्यस्ता अप्यगर्हयन् ॥ ६७.२३ ॥
द्विजस्य षट्च कर्माणि यजनं याजनं तथा ।
अध्यापनं चाध्ययनं दानं चैव प्रतिग्रहः ॥ ६७.२४ ॥
भूषणं परिधानं च योषितां भर्तृसेवनम् ।
एवं च गर्हिता राजन् योषिद्भिः पतयस्तथा ॥ ६७.२५ ॥
भीतास्ते विस्मिताः सर्वे विषण्णवदनास्तथा ।
हरिश्चन्द्रः पुरा राजा न भूतो न भविष्यति ॥ ६७.२६ ॥
दानेन निर्जितं येन त्रैलोक्यं सचराचरम् ।
राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह ॥ ६७.२७ ॥
त्यक्त्वा ते पुष्करं तीर्थं धनलोभेन मोहिताः ।
सहस्रसंख्यामुनयः सभार्याः ससुताश्च ते ॥ ६७.२८ ॥
यत्र राजा हरिश्चन्द्रः प्रतिग्रहविलिप्सया ।
मुनीनाह हरिश्चन्द्रो मुदा परमया युतः ॥ ६७.२९ ॥
धन्या मे सफला यात्रा कुरुक्षेत्रे रविग्रहे ।
क्षुधार्ता दुःखिताश्चैव बाला वृद्धाः कृशातुराः ॥ ६७.३० ॥
वल्कलाजिनवस्त्राश्च यौवने प्रेतरूपिणः ।
यन्नो यूयमभिप्राप्ताः पत्नीपुत्रैश्च संयुताः ॥ ६७.३१ ॥
उवाच वचनं राजा साष्टाङ्गं प्रणिपत्य च ।
आदेशो दीयतां मह्यं किं करोमि भवत्कृते ॥ ६७.३२ ॥
एवमुक्त्वा ददौ श्रीमानेकैकस्य पृथक्पृथक् ।
लक्षं लक्षं हिरण्यस्य तथा गावः सहस्रशः ॥ ६७.३३ ॥
सहस्रं तुरगाणां च दन्तिनां शतमेव च ।
साप्तभौमान् गृहान् रम्यान् हेमप्राकारतोरणान् ॥ ६७.३४ ॥
नानाविधविलासांश्च यथा धनपतिः स्वयम् ।
कल्पान्तरे मृता जाताः प्रेतरूपा भयङ्कराः ॥ ६७.३५ ॥
लम्बोष्ठा लम्बवृषणा विकृताननसंयुताः ।
प्रतिग्रहप्रभावेण द्विजस्य पतनं ध्रुवम् ॥ ६७.३६ ॥
जातिस्मराः स्वं शोचन्ति एकाकीनास्तु ते बहिः ।
न भार्या न च मे पुत्रा न भृत्या न च बान्धवाः ॥ ६७.३७ ॥
न ते प्रतिग्रहैर्दग्धा यथा पूर्वं तथैव च ।
वयमेकाकिनो दग्धा वृक्षा इव हविर्भुजा ॥ ६७.३८ ॥
राजप्रतिग्रहैर्दग्धा न प्ररोहन्ति मानवाः ।
वैश्वानरेण दग्धानां पुनर्जन्म प्रजायते ॥ ६७.३९ ॥
न माता न पिता पुत्रो द्रविणं न च बान्धवाः ।
यमदूतैर्गृहीतानां धर्म एकः सहानुगः ॥ ६७.४० ॥
शोचित्वा सुचिरं कालं भार्यापुत्रविवर्जिताः ।
भ्रमित्वा च महीं सर्वां पुष्करं तीर्थमागताः ॥ ६७.४१ ॥
प्रेतरूपान्मुनीन् दृष्ट्वा विषादं परमं गतः ।
तानुवाच मुनिश्रेष्ठः कथं प्रेतत्वमागताः ॥ ६७.४२ ॥
प्रेता ऊचुः॒
हरिश्चन्द्रः सत्यधर्म सूर्यवंशे महीपतिः ।
अयोध्याधिपतिः श्रीमान् देवतुल्यपराक्रमः ॥ ६७.४३ ॥
तस्य प्रतिग्रहोऽस्माभिराप्तः सूर्यग्रहे स्थिते ।
तेन प्रेतत्वमापन्नाः सर्वे ब्रह्मर्षयो मुने ॥ ६७.४४ ॥
एतत्ते कथितं ब्रह्मन्मोक्षोऽस्माकं विधीयताम् ।
भविष्यभूततत्त्वज्ञो ब्रह्मपुत्रस्तपोनिधिः ॥ ६७.४५ ॥
उवाच वचनं श्रीमान्नारदस्तांस्तपोधनान् ।
कस्मिन्नवसरे पुण्ये कार्त्तिक्यां दिव्यपर्वणि ॥ ६७.४६ ॥
शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च ।
श्रुतं मयापि तत्रैव पुराणं स्कन्दकीर्तितम् ॥ ६७.४७ ॥
कान्या पापक्षयं कर्तुं शक्ता रेवां विना नृप ।
गङ्गाद्याः सरितो विप्राः पुण्यतीर्थास्तथापि च ॥ ६७.४८ ॥
वागीशं च पुरं तत्र नर्मदातटमाश्रितम् ।
अध्वरे ब्रह्मदत्तस्य मोक्षणं तु भविष्यति ॥ ६७.४९ ॥
उद्देशं तु ततो दत्त्वा नारदस्त्रिदिवं गतः ।
तेऽपि प्रेता महाभाग ध्यात्वा शिवमुमापतिम् ॥ ६७.५० ॥
अभिजग्मुस्तमुद्देशं वागीशपुरमुत्तमम् ।
तत्र स्नात्वाभ्यर्च्य शिवं हरिं भास्करमेव च ॥ ६७.५१ ॥
अध्वरे ब्रह्मदत्तस्य मुक्ताः सर्वेऽपि किल्बिषात् ।
ब्रह्मयानं समारुह्य ब्रह्मलोकं समागताः ॥ ६७.५२ ॥
प्रतपन्ति यथादित्या ब्रह्मतेजोवपुर्धराः ।
तस्योपरि नरेशस्य पुष्पवृष्टिः पपात वै ॥ ६७.५३ ॥
एतत्ते कथितं राजन् यथावृत्तं पुरातनम् ।
श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ ६७.५४ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे वागीश्वराख्यान नाम सप्तषष्टितमोऽध्यायः ॥
अध्याय ६८
मार्कण्डेय उवाच -
प्रतिग्रहग्रहग्रस्ता लोभमोहविमोहिताः ।
मज्जन्ति नरके घोरे यत्र गत्वा न निर्गताः ॥ ६८.१ ॥
सफला वेदयज्ञाश्च तीर्थयात्रा च भारत ।
तथा क्लिश्यन्ति चात्मानं प्रतिग्रहपरा नराः ॥ ६८.२ ॥
दाता च याचकश्चैव कराभ्यामेव सूचितौ ।
अथो गच्छेद्ग्रहीता तु दाता गच्छति चोर्द्ध्वतः ॥ ६८.३ ॥
सहस्रावर्तकं नाम तीर्थं पापप्रणाशनम् ।
तत्र स्नातस्य विधिवद्वृषोत्सर्गफलं भवेत् ॥ ६८.४ ॥
आसप्तमं कुलं चैव पुनीते नाऽत्र संशयः ।
रेवाया उत्तरे कूले सहस्रायुधसंख्यया ॥ ६८.५ ॥
ततश्चान्ते महाभाग काराया वनमुत्तमम् ।
अग्निष्टोमफलं यत्र स्नात्वा स्वर्गं च गच्छति ॥ ६८.६ ॥
रेवाया उत्तरे भागे तीर्थ परमशोभनम् ।
सौगन्धिकं वनं नाम ब्रह्मचारिशुचिव्रताः ॥ ६८.७ ॥
सिषिचुः पितरस्तत्तु ब्रह्माद्याः सुतपोधनाः ।
सिद्धचारणगन्धर्वाः सकिन्नरमहोरगाः ॥ ६८.८ ॥
प्रविश्य तद्वनं मर्त्यः सर्वपापात्प्रमुच्यते ।
ततः सरस्वती चास्ति नदीनामुत्तमा नदी ॥ ६८.९ ॥
लक्ष्या देवसुता राजन्महापुण्या प्रकीर्तिता ।
तत्र स्नानं प्रकुर्वीत मानवो नृपते जले ॥ ६८.१० ॥
तर्पयित्वा पितॄन् देवानश्वमेधफलं लभेत् ।
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् ॥ ६८.११ ॥
तत्र स्नात्वा व्यतीपाते संक्रान्तौ ग्रहणे नरः ।
सहस्रकपिलादाने वाजिमेधे च यत्फलम् ॥ ६८.१२ ॥
सुगन्धां छातकुम्भाश्च पञ्चयज्ञांश्च भारत ।
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ ६८.१३ ॥
त्रिशूलाख्यं तु तत्रैव तीर्थमासाद्य भारत ।
तत्राभिषेकं यः कुर्यादर्चयेत्पितृदैवतम् ॥ ६८.१४ ॥
गणेशत्वं स लभते त्यक्त्वा देहं न संशयः ।
ततो गच्छेन्महाराज ब्रह्मस्थानमनुत्तमम् ॥ ६८.१५ ॥
रेवाया उत्तरे कूले कामभोगफलप्रदम् ।
ब्रह्मोदमिति विख्यातं प्रकाश्यं भुवि भारत ॥ ६८.१६ ॥
तत्र सप्तर्षयः प्राप्ताः स्नानार्थं भरतर्षभ ।
कपिञ्जलो मुनिश्रेष्ठो हव्यवाहश्च भारत ॥ ६८.१७ ॥
भगवान् देवयानश्च विश्वावसुमहामुनिः ।
अस्य तीर्थस्य माहात्म्याद्ब्रह्मलोकमवाप्नुयुः ॥ ६८.१८ ॥
पितरः श्राद्धदानेन प्रयाता ब्रह्मणः पुरम् ।
उदुम्बरस्य कृत्वा तु विधिवद्दर्शनं ततः ॥ ६८.१९ ॥
अन्तर्द्धानमवाप्नोति तपसा दग्धकिल्बिषः ।
ततो गच्छेन्महाराज शङ्करं लोकशङ्करम् ॥ ६८.२० ॥
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ।
लभते सर्वकामांश्च स्वर्गलोकं हि गच्छति ॥ ६८.२१ ॥
नर्मदायाम्यभागे तु गोप्याद्गोप्यतर महत् ।
सिद्धलिङ्गं मणिमयं न तत्पश्यन्ति मानवाः ॥ ६८.२२ ॥
नागेन्द्रसुरसिद्धैश्च नागकन्याभिरर्च्यते ।
सपादकोटिस्तीर्थानां शङ्करे कुरुनन्दन ॥ ६८.२३ ॥
वसूनामाश्रमं पुण्यं मुनीनां ब्रह्मचारिणाम् ।
शिवभक्तिपराणांच कन्दमूलफलाशिनाम् ॥ ६८.२४ ॥
पितॄणामक्षया तृप्तिस्तिलतोयप्रदानतः ।
मुदा परमया युक्तो दाता याति शिवालयम् ॥ ६८.२५ ॥
ध्रुवो धरश्च सोमश्च सावित्रश्चानलोऽनिलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिता ॥ ६८.२६ ॥
शङ्करस्य प्रसादेन दिवि देवत्वमागताः ।
कल्पगासौम्यभागे तु सोमतीर्थमनुत्तमम् ॥ ६८.२७ ॥
तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते ।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नृपोत्तम ॥ ६८.२८ ॥
ब्रह्मणा च कृतं स्तोत्रं पुण्यकीर्ते निशामय ।
ब्रह्मोवाचा॒
वाक्पतिर्वचसां नित्यं वासुदेवोऽस्तु मे गतिः ॥ ६८.२९ ॥
हंसः सुरेशो वक्ता वा वसूनामन्तरा वसन् ।
होता दिविषदीशानो वासुदेवोऽस्तु मे गतिः ॥ ६८.३० ॥
स्वाहाकारः स्वधाकारो वषट्कारो हविष्यभुक् ।
ऋङ्मूर्तिर्यजुषां मूर्तिर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३१ ॥
क्षेत्रज्ञः परमः सूक्ष्मो जगतां तारको हरिः ।
ईश्वरो हृदयावासो वासुदेवोऽस्तु मे गतिः ॥ ६८.३२ ॥
श्रवण्यः श्रवणोपायः पुण्यश्लोकः शुचिश्रवाः ।
वरदो वासुदेवोऽग्निर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३३ ॥
पुरुषः पुण्डरीकाक्षः पुराणो भुवनेश्वरः ।
आदित्यान्तर्गतो वह्णिर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३४ ॥
कंसकालियहन्ता च सुबलो बलमर्दनः ।
शिशुपालनिहन्ताऽग्निर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३५ ॥
कालनेमिनिहन्ताऽग्निर्यः काले नियतान्तकः ।
शतासुरशरीरघ्नो वासुदेवोऽस्तु मे गतिः ॥ ६८.३६ ॥
कङ्कासुरनिहन्ता च मधुकैटभनाशनः ।
शङ्खचक्रगदापाणिर्वासुदेवोऽस्तु मे गतिः ॥ ६८.३७ ॥
शुक्लः सलिलशायी च विष्णुः पापक्षयाह्वयः ।
इन्द्रो वचनसत्पालो वासुदेवोऽस्तु मे गतिः ॥ ६८.३८ ॥
हृषीकेशश्चेन्द्रपालोपेन्द्रो गरुडासनः ।
सहस्रनामा धर्मज्ञो वासुदेवोऽस्तु मे गतिः ॥ ६८.३९ ॥
शङ्खी च नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
धीरो वपुष्मान्मेधावी वासुदेवोऽस्तु मे गतिः ॥ ६८.४० ॥
बृहत्संकर्षणः शम्भुः स्वयम्भूर्भूतभावनः ।
निपुणो लक्षणः शुद्धो वासुदेवोऽस्तु मे गतिः ॥ ६८.४१ ॥
त्रैकालिकस्त्रिकालज्ञस्त्रयी कर्ता त्रिलोचनः ।
त्रिसामा देवकीसूनुर्वासुदेवोऽस्तु मे गतिः ॥ ६८.४२ ॥
अव्यक्तात्मा महात्मा च अन्तरात्मा जनार्दनः ।
प्राणश्चेन्द्रियभूतात्मा वासुदेवोऽस्तु मे गतिः ॥ ६८.४३ ॥
परमात्मा परं ब्रह्म परमेशः परा गतिः ।
परमेष्ठी परं ज्योतिर्वासुदेवोऽस्तु मे गतिः ॥ ६८.४४ ॥
विश्वात्मा विश्वकर्ता च विश्वस्य पतिरात्मवान् ।
द्यावापृथिव्योः कर्ता च वासुदेवोऽस्तु मे गतिः ॥ ६८.४५ ॥
सहस्रशीर्षा भगवान् सहस्राक्षः सहस्रपात् ।
सहस्रकोटिधारी वा वासुदेवोऽस्तु मे गतिः ॥ ६८.४६ ॥
इति वागीश्वरो वाग्मी पूजितः परमेश्वरः ।
भक्तस्य भगवान् विष्णुः प्रीयतां मे जनार्दनः ॥ ६८.४७ ॥
जन्मप्रभृति यत्किंचिन्मया सुकृतमर्जितम् ।
तत्समग्रं फलं चास्तु शाश्वतं पुरुषोत्तम ॥ ६८.४८ ॥
इदमभ्यस्यतो नित्यं पूजितः स्यात्सकेशवः ।
विनाशयति पापानि प्रकाशयति तत्फलम् ॥ ६८.४९ ॥
एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।
कुपथं तं विजानीयाद्यत्र नाराध्यते हरिः ॥ ६८.५० ॥
वासुदेवपरा वेदा सुदेवपराक्रिया ।
वासुदेवात्मका विप्रा वासुदेवपराश्रयः ॥ ६८.५१ ॥
सर्वे देवा वासुदेवं यजन्ते सर्वे देवा वासुदेवात्प्रसूताः ।
सर्वेषां वा वासुदेवोऽपि देवो नान्यत्किंचिदवासुदेवातिरिक्तम् ॥ ६८.५२ ॥
नान्यः पुण्यतरो देवो नास्ति विष्णुपरं तपः ।
नास्ति विष्णुपरं ज्ञानं सर्वं विष्णुमयं जगत् ॥ ६८.५३ ॥
ये पठन्ति नरा भक्त्या विष्णुनामाङ्कितस्तवम् ।
ते यान्ति वैष्णवं लोकं परं ब्रह्म सनातनम् ॥ ६८.५४ ॥
मार्कण्डेय उवाच -
श्रुत्वा स्तोत्रमिदं देवो ब्रह्मणः समहात्मनः ।
श्रिया प्रबोधितः कृष्णः शयानो योगनिद्रया ॥ ६८.५५ ॥
दृष्ट्वाऽब्रवीत्सुरान् सर्वान्नानारूपान् भयानकान् ।
किमस्ति वः समुत्पन्नं मां दिदृक्षुरिहागताः ॥ ६८.५६ ॥
उवाच वचनं ब्रह्मा केशवं प्रति भारत ।
त्वां विनात्र जगन्नाथ कस्त्राता देवकण्टकैः ॥ ६८.५७ ॥
दानवैर्वेष्टिता धात्री स्वर्गश्चैव विनाशितः ।
धर्मकामादिका यज्ञा वेदा विप्लावितास्तथा ॥ ६८.५८ ॥
दनुभारभराक्रान्ता रसातततलं गता ।
जटासुरश्च जाबालिर्दैत्यो मयसुतस्तथा ॥ ६८.५९ ॥
दशकोट्यस्तु दैत्यानां समग्रबलशालिनाम् ।
शिवप्रसादयुक्तानां स्वर्गविप्लवकारिणाम् ॥ ६८.६० ॥
तस्मात्प्रवर्तितं चक्रमुद्धर स्ववसुन्धराम् ।
श्रुत्वा वाक्यमिदं देवो भयार्तं प्राणपीडितम् ॥ ६८.६१ ॥
उवाच वचनं देवो भयं त्यजत दैत्यजम् ।
अचिरेणैव कालेन हनिष्यामि महासुरान् ॥ ६८.६२ ॥
वाराहरूपमास्थाय प्रेषितं कल्पगाजले ।
दंष्ट्राग्रेण धृता धात्री दानवानां क्षयः कृतः ॥ ६८.६३ ॥
पुनः प्रवर्तिता सृष्टिर्यथापूर्वं तथैव च ।
ब्रह्माद्या मुदिता देवाः प्रतिजग्मुस्त्रिविष्टपम् ॥ ६८.६४ ॥
एतत्ते कथितं राजन् वाराहं कल्पगातटे ।
श्रवणात्कीर्तनादस्य हयमेधफलं लभेत् ॥ ६८.६५ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहमहिमानुवर्णनो नामाष्टषष्टितमोऽध्यायः ॥
अध्याय ६९
मार्कण्डेय उवाच -
ततो देवपथं तीर्थं सर्वदेवमयं शुभम् ।
तत्र स्नातश्च विधिवत्सर्वयज्ञफलं लभेत् ॥ ६९.१ ॥
मासे मासे कुशाग्रेण सोमयागं करोति यः ।
स रेवाजलपूतस्य कलां नार्हति षोडशीम् ॥ ६९.२ ॥
लिङ्गं देवपथं नाम सुरासुरनमस्कृतम् ।
श्रद्धया तद्दर्शनेन पितॄणां परमा गतिः ॥ ६९.३ ॥
चैत्रे मासे चतुर्दश्या पक्षयोरुभयोरपि ।
स्नानार्थं सर्वतीर्थानि जग्मुः कर्तुं च सत्क्रियाम् ॥ ६९.४ ॥
यद्देवलोके देवानामीप्सितं च नृपध्वज ।
सहस्राणि मुनीन्द्राणां तस्मिंश्शिवमुपासते ॥ ६९.५ ॥
चान्द्रायणपराः केचिद्ब्रह्मकूर्चपरास्तथा ।
कन्दमूलफलाहारा जलाहारा जलप्रियाः ॥ ६९.६ ॥
अग्निहोत्रपरा नित्यं तथा हुतहुताशनाः ।
उपासते देवपथं संसिद्धिं परमां गताः ॥ ६९.७ ॥
अथान्यत्संप्रवक्ष्यामि तीर्थं पापप्रणाशनम् ।
सहस्रयज्ञं परमं सर्वकामफलप्रदम् ॥ ६९.८ ॥
एकादश्यां मार्गशीर्षे पूजयित्वा जनार्दनम् ।
सहस्रयज्ञस्येष्टस्य फलं प्राप्नोति मानवः ॥ ६९.९ ॥
न पश्येद्यमलोकं च तिर्यग्योनिं न गच्छति ।
तीर्थस्यास्य प्रभावेण नरो विगतकल्मषः ॥ ६९.१० ॥
एतत्ते कथितं राजन् पुण्याख्यानमनुत्तमम् ।
श्रवणात्कीर्तनादस्य विष्णुलोके महीयते ॥ ६९.११ ॥
शुक्लतीर्थं ततो गच्छेत्सर्वतीर्थमयं शुभम् ।
यत्र स्नातोऽपि लभते दशधेनुफलं नरः ॥ ६९.१२ ॥
शुक्लीकृतास्तेन देवा ब्रह्मविष्णुमहेश्वराः ।
सपादकोटिस्तीर्थानां शुक्लतीर्थे व्यवस्थिता ॥ ६९.१३ ॥
अष्टहस्तप्रमाणं च शुक्लतीर्थं युधिष्ठिर ।
तत्र कालाग्निरुद्रश्च श्रीकण्ठश्च तथा परः ॥ ६९.१४ ॥
तैस्तैस्तपोभिरुग्रैश्च तत्र सिद्धिं परा गताः ।
शुक्लतीर्थप्रभावेण मोदन्ते दिवि देवताः ॥ ६९.१५ ॥
शक्रोऽपि च पुराध्यक्षं देवदेवमुमापतिम् ।
रेवातोयेन संस्नाप्य बिल्वपत्रैः समार्चयत् ॥ ६९.१६ ॥
पौर्णमास्याममावस्यां सोमः सूर्यः प्रभावतीम् ।
तत्र स्नातो ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलैः ॥ ६९.१७ ॥
तेन देवाश्च दीव्यन्ते शुक्लतीर्थप्रभावतः ।
कश्यपस्याश्रमं पुण्यं सुरसिद्धनिषेवितम् ॥ ६९.१८ ॥
मुनीनामयुतं तत्र स्वयं तिष्ठति भारत ।
कन्दमूलफलाहारा जलाहारास्तथा परे ॥ ६९.१९ ॥
शाकाहारा निराहारा ब्रह्मकूर्चास्तथा परे ।
चान्द्रायणपराः केचिदन्ये मासोपवासिनः ॥ ६९.२० ॥
ऋषिकोट्यस्त्रयस्त्रिंशच्छुक्लेश्वरमुपासते ।
राहुग्रस्ते तथा चन्द्रे पौर्णमास्यां तिथौ तथा ॥ ६९.२१ ॥
आयान्ति सर्वतीर्थानि स्नातुमेतच्छिवोदितम् ।
स्थानेश्वरे यत्फलं स्याद्राहुसूर्यसमागमे ॥ ६९.२२ ॥
तत्फलं प्राप्नुयात्सर्वं शुक्लतीर्थे न संशयः ।
हेमधेनुधरादीनि रूप्यदा गजदास्तथा ॥ ६९.२३ ॥
एतद्दत्त्वा महाराज पुण्यसंख्या न विद्यते ।
धनदेन कुबेरेण देवगन्धर्वदानवैः ॥ ६९.२४ ॥
राहुसूर्यसमायोगे शुक्लतीर्थे महेश्वरः ।
चन्दनागुरुकर्पूरपुष्पमालाभिरर्चितः ॥ ६९.२५ ॥
वितानध्वजमुख्यैश्च दीपमालाप्रबोधनैः ।
अस्य तीर्थप्रभावेण यक्षराजो धनेश्वरः ॥ ६९.२६ ॥
भोगा नानाविधास्तेन सम्प्राप्ता दिवि देवताः ।
सर्वतीर्थमयं तीर्थं सर्वदेवमयं च यत् ॥ ६९.२७ ॥
अपि वर्षसहस्रेण शुक्लतीर्थस्य वर्णनम् ।
न शक्यते सुरैः कर्तुं पुराणे स्कन्दकीर्तिते ॥ ६९.२८ ॥
पापयोनिगतो यश्च तिर्यग्योनिगतश्च यः ।
ब्रह्महा च सुरापश्च शिवनिर्माल्यभक्षकः ॥ ६९.२९ ॥
मुच्यते तेन पापेन तीर्थस्यास्य प्रभावतः ।
तत्र स्नानं नरः कृत्वा पूजयित्वा वृषध्वजम् ॥ ६९.३० ॥
सुरासुरगणैः सर्वैः पूज्यते नरसत्तम ।
एतत्ते कथितं राजन्महापातकनाशनम् ॥ ६९.३१ ॥
पितामहेन यत्रेष्टो यज्ञे यज्ञेश्वरः पुरा ।
स्तोत्रं कृत्वा यथा न्यायं देवदेवस्य शूलिनः ॥ ६९.३२ ॥
पूजयित्वा तु शुक्लेशं ब्रह्मा स्तोत्रमुदाहरत् ।
नमः शिवाय शान्ताय ज्ञानविज्ञानरूपिणे ॥ ६९.३३ ॥
सूक्ष्माय सूक्ष्मरूपाय सर्वसूक्ष्माय हेतवे ।
सूक्ष्माणामपि सूक्ष्माय नमः सूक्ष्मतमाय च ॥ ६९.३४ ॥
दिव्याय दिव्यरूपाय दिव्यदेहाय सेतवे ।
दिव्यानामपि दिव्याय नमो दिव्यतमाय च ॥ ६९.३५ ॥
व्योमप्रभाय भावाय अघोराय नमो नमः ।
व्योमप्रमाणधामाय वामेशाय नमो नमः ॥ ६९.३६ ॥
पराय परमेशाय पारमार्थिकहेतवे ।
पराय परमुक्ताय नमः परतराय च ॥ ६९.३७ ॥
एकजिह्वद्विजह्वाय बहुजिह्वाय ते नमः ।
तथैवासंख्यजिह्वाय त्रिणेत्राय नमो नमः ॥ ६९.३८ ॥
पूज्याय पूज्यपूज्याय सर्वपूज्यैकहेतवे ।
नित्यायानित्यरूपाय नित्यनित्यैकहेतवे ॥ ६९.३९ ॥
नित्यानामपि नित्याय नमो नित्यतमाय च ।
शक्ताय शक्तिरूपाय सर्वशक्त्येकहेतवे ॥ ६९.४० ॥
शक्तानामपि शक्ताय नमः शक्ततमाय च ।
शुद्धाय सर्वशुद्धाय सर्वशुद्ध्येकहेतवे ॥ ६९.४१ ॥
कालाय कालरूपाय सर्वकालैकहेतवे ।
कालानामपि कालाय नमः कालतमाय ते ॥ ६९.४२ ॥
सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे ।
मन्त्राणामपि मन्त्राय नमो मन्त्रतमाय च ॥ ६९.४३ ॥
अप्रमेयमहेशाय ईशानाय नमो नमः ।
योगाय योगरूपाय योगपुरुष ते नमः ॥ ६९.४४ ॥
एककण्ठद्विकण्ठाय बहुकण्ठाय ते नमः ।
असंख्यकण्ठयुक्ताय नीलकण्ठाय ते नमः ॥ ६९.४५ ॥
अनन्ताय महेशाय हर्त्रे कर्त्रे नमोऽस्तु ते ।
नमस्तेऽस्तु महादेव नमस्तेऽस्तु सदाशिव ॥ ६९.४६ ॥
नमस्तेऽस्तु महाशुद्ध नमस्तुभ्यं नमो नमः ।
नमो भस्माङ्गरागाय नमः खट्वाङ्गधारिणे ॥ ६९.४७ ॥
सर्वात्मने नमस्तुभ्यं विश्वेशाय नमो नमः ।
सर्वज्ञाय नमस्तुभ्यं सनाथाय नमो नमः ॥ ६९.४८ ॥
अव्यक्ताय नमस्तुभ्यं शाश्वताय नमो नमः ।
कैलासवासिने तुभ्यं नमः पातालवासिने ॥ ६९.४९ ॥
त्वया व्याप्तमिदं सर्वं लोकालोकं चराचरम् ।
अपि वर्षसहस्रेण कः स्तोतुं शक्तिमान् भवेत् ॥ ६९.५० ॥
इति स्तवेन दिव्येन यः स्तौति परमेश्वरम् ।
विधूय सर्वपापानि रुद्रलोके महीयते ॥ ६९.५१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे शम्भुस्तुतिर्नामैकोनसप्ततितमोऽध्यायः ॥
अध्याय ७०
युधिष्ठिर उवाच -
किमर्थं संस्तुतो देवो ब्रह्मणा तेन तत्र वै ।
शुक्लतीर्थमिदं कस्मादास्ते यत्र महेश्वरः ॥ ७०.१ ॥
एतत्सर्वं समाख्याहि पृच्छतो मे महामुने ।
मार्कण्डेय उवाच -
शृणु राजन् कथां दिव्यां स्वर्गार्हण्यामनुत्तमाम् ॥ ७०.२ ॥
यां श्रुत्वा सर्वपापेभ्यस्तीर्थस्नानेन मुच्यते ।
ययातिर्नाम धर्मात्मा सत्यधर्मपरायणः ॥ ७०.३ ॥
चक्रवर्ती नृपश्रेष्ठः सर्वधर्मभृतां वरः ।
इयाज स महायज्ञैः शतक्रतुरिवापरः ॥ ७०.४ ॥
नदी मधुमती पुण्या रेवया यत्र सङ्गता ।
यत्र यज्ञः समारब्ध ऋत्विग्भिर्ब्राह्मणैः सह ॥ ७०.५ ॥
मध्येश्वरं यत्र लिङ्गं स्वयंदेवो महेश्वरः ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ ७०.६ ॥
चक्रेण विष्णुना तत्र घातितौ मधुकैटभौ ।
अर्चनात्तस्य देवस्य गोसहस्रफलं लभेत् ॥ ७०.७ ॥
तिलतोयप्रदानेन पिण्डदानेन भारत ।
पितरस्तस्य तृप्यन्ति यावदिन्द्राश्चतुर्दश ॥ ७०.८ ॥
तत्र यज्ञः समारब्धो हरिशङ्करवर्जितः ।
जटासुरस्तत्र दैत्यश्छिद्रं दृष्ट्वा समागतः ॥ ७०.९ ॥
ततोविध्वंसितो यज्ञो दानवैर्बलदर्पितैः ।
यज्ञयूपा यज्ञपात्रं दश दिक्षु निपातिताः ॥ ७०.१० ॥
भुक्तो हुतपुरोडाशः सोमपानं च तैः कृतम् ।
प्रणष्टा देवताः सर्वा दानवानां भयेन च ॥ ७०.११ ॥
अष्टोत्तरशतं देवा मृगरूपेण निर्गताः ।
धनदो यक्षरूपेण प्रणष्टः स्वपुरीं गतः ॥ ७०.१२ ॥
महिषारूढो धर्मराजो गजारूढश्शतक्रतुः ।
मेषारूढो हव्यवाहो निर्गता व्रतमास्थिताः ॥ ७०.१३ ॥
वरुणश्च समायातः प्रणष्टः स्वपुरीं गतः ।
मकरासनमारूढो वायुश्च मृगमाश्रितः ॥ ७०.१४ ॥
ईशान ईशरूपेण वृषारूढः पलायितः ।
अस्त्राणि लोकपालानां हृतानि दनुसम्भवैः ॥ ७०.१५ ॥
एकाकी यानमारुह्य कथं यामि स्त्रिया सह ।
चिन्तयित्वा नृपश्रेष्ठश्चास्त्रं जग्राह भारत ॥ ७०.१६ ॥
तिष्ठ तिष्ठेति चोक्त्वा वै दैत्यसिंह दुरासदम् ।
न क्षत्रकुलसंजाता जातु दृष्ट्वा पलायिताः ॥ ७०.१७ ॥
दश द्वादशवर्षाणि विमुखास्तव पूर्वजाः ।
न चात्राह्वानितो रुद्रो रुद्र भागो न कल्पितः ॥ ७०.१८ ॥
यज्ञेऽस्मिन् यज्ञपुरुषो नाहूतो भगवान् हरिः ।
तेन दोषेण मे यज्ञो दानवैश्च विनाशितः ॥ ७०.१९ ॥
एवमुक्त्वा नृपश्रेष्ठो रुद्रं ध्यात्वा महेश्वरम् ।
रौद्ररूपं समास्थाय ज्याघोषं घोषरूपिणम् ॥ ७०.२० ॥
जग्राह कोपान्निस्त्रिंशं निजघान च दानवान् ।
आहूताश्च पुनर्देवाः सर्वे ब्रह्मपुरोगमाः ॥ ७०.२१ ॥
ऊचुस्ते वचनं देवा राजानं प्रति भारत ।
त्वया समोऽत्र राजर्षे न भूतो न भविष्यति ॥ ७०.२२ ॥
देवानां वचनं श्रुत्वा ययातिर्वाक्यमब्रवीत् ।
पुनः प्रवर्तितो यज्ञो हरविष्णुप्रसादतः ॥ ७०.२३ ॥
युक्तं पलायनं चात्र क्षत्रियस्य न विद्यते ।
स्तुतस्तु तेन कार्येण शूलपाणिः पिनाकधृक् ॥ ७०.२४ ॥
पातालादुत्थितं तत्र लिङ्गं कालानलप्रभम् ।
शुक्लीकृतं जगत्सर्वं प्रभया तस्य भारत ॥ ७०.२५ ॥
वरं वृणीष्व भद्रं ते तमुवाच वृषध्वजः ।
ययातिरुवाच -
यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि ॥ ७०.२६ ॥
इदं स्थानं न मोक्तव्यमुमया सह शङ्कर ।
यज्ञदानादिकं सर्वमक्षयं चात्र सर्वदा ॥ ७०.२७ ॥
तपोहीना नरा ये च दानहीनाः सकिल्बिषाः ।
ते सर्वे त्वत्पुरं यान्तु शुक्लतीर्थप्रभावतः ॥ ७०.२८ ॥
तमुवाच महादेवः सत्यमेतत्तवोदितम् ।
यं यं कामयते कामं तं तं प्राप्नोति मानवः ॥ ७०.२९ ॥
अस्य तीर्थस्य महात्म्याल्लिङ्गस्यास्य समर्चनात् ।
नरकं नैव पश्यन्ति जन्मजन्मनि भारत ॥ ७०.३० ॥
एतत्ते कथितं राजन् यथा स्कन्दशिवोदितम् ।
तत्र ये निहता दैत्याः प्राप्तास्तेऽपि शिवालयम् ॥ ७०.३१ ॥
स्वं स्वं यानं समारूढा ययुर्देवास्त्रिविष्टपम् ।
मुदा परमया युक्तः स्तूयमानो नृपोत्तमः ॥ ७०.३२ ॥
ययातिर्नाम राजर्षी राज्यं कृत्वा दिवं गतः ।
श्रवणात्कीर्तनादस्य शिवलोके महीयते ॥ ७०.३३ ॥
अध्याय ७१
मार्कण्डेय उवाच -
दीप्तकेश्वरदेवेशं सिद्धलिङ्गं प्रकीर्तितम् ।
नातः परतरं किंचित्त्रिषु लोकेषु विश्रुतम् ॥ ७१.१ ॥
दर्शनाद्दीप्तदेवस्य स्पर्शनादर्चनात्तथा ।
अनेकभाविकं घोरं क्षणमात्रेण नश्यति ॥ ७१.२ ॥
अर्चयेद्दिनमेकं तु यो मुहूर्तं तु मानवः ।
न तस्य पुनरावृत्तिर्घोरे संसारसागरे ॥ ७१.३ ॥
मोक्षदा नाम चामुण्डा विद्धि गौरीं सरस्वतीम् ।
स्तुतः सहस्रनाम्ना वै विष्णुना ब्रह्मणा स्वयम् ॥ ७१.४ ॥
स्तुतानि तानि लिङ्गानि रेवाया उत्तरे तटे ।
ओंकारश्चाधिदेवश्च बिल्वाम्रकमहेश्वरः ॥ ७१.५ ॥
शुक्लेश्वरो भृगुश्चेति द्वीपेश्वरत्रिलोचनौ ।
वैवस्वतेऽन्तरे प्राप्ते आदिकल्पेकृतेयुगे ॥ ७१.६ ॥
श्रीपतिः परमाद्यश्च द्वितीयश्च पितामहः ।
तृतीयो देवराजश्च चतुर्थः सूर्य एव च ॥ ७१.७ ॥
पञ्चमः कथितः सोमः षष्ठो राहुः प्रकीर्तितः ।
सप्तमश्च शनिश्चैव त्वष्टमः केतुकः स्मृतः ॥ ७१.८ ॥
वैश्वानरश्च नवमो दशमश्च दिगीश्वरः ।
एकादशो वैक्रमश्च द्वादशो वारुणस्तथा ॥ ७१.९ ॥
त्रयोदशश्च वायुर्वै धनदश्च चतुर्दशः ।
नाना पदप्रकारेण स्तुतो देव उमापतिः ॥ ७१.१० ॥
विष्णुना देवनाथेन ब्रह्मणा च सुरासुरैः ।
स्थिरः स्थाणुः प्रभाभानुः प्रवरो वरदो वरः ॥ ७१.११ ॥
हरिश्च हरिणाख्यश्च सर्वभूतहरः प्रभुः ।
प्रवृत्तिश्च निवृत्तिश्च नियमः शाश्वतो ध्रुवः ॥ ७१.१२ ॥
श्मशानवासी भगवान् खेचरो गोचरस्तथा ।
अभिवन्द्यो महाकर्मा तपस्वी भूतभावनः ॥ ७१.१३ ॥
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ।
महारूपो महाकायः सर्वलोकप्रजापतिः ॥ ७१.१४ ॥
परात्मा सर्वभूतानां विरूपो वामनो मनुः ।
लोकपालो पिहितात्मा प्रसन्नो भवनाशनः ॥ ७१.१५ ॥
प्रवृत्तश्च महाङ्गश्च निचयो नियताश्रयः ।
सर्वकामः स्वयम्भूश्च आदिनादिकरो निधिः ॥ ७१.१६ ॥
सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ।
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ॥ ७१.१७ ॥
तपोद्रष्टा बलः स्थातुर्मृगबाणार्पणोऽनघः ।
महातपा दीर्घतपा आदिर्दीनानुकम्पनः ॥ ७१.१८ ॥
सवत्सरकरो मन्त्रः प्रमाणं परमं तपः ।
योगी योगमहावीर्यो महारेता हरो हरः ॥ ७१.१९ ॥
महाचेताश्च सर्वज्ञः सबीजोऽपहरो हरः ।
कमण्डलुधरो धन्वी प्राणहस्तः प्रतापवान् ॥ ७१.२० ॥
अंशोऽनीशस्तथा शूली खट्वाङ्गी पट्टिशी तथा ।
शुचिश्च शुचिरूपश्च तेजस्तेजस्करो निधिः ॥ ७१.२१ ॥
उष्णीषी च सुवक्त्राश्च उदक्यो वितनस्तथा ।
हरिश्च हरिनेत्रश्च सुतीर्थः कृष्ण एव च ॥ ७१.२२ ॥
शृगालरूपी सर्वार्थः शुण्डीशुद्धः कमण्डलुः ।
अजश्च गन्धमाली च मृगरूपी कपालभृत् ॥ ७१.२३ ॥
ऊर्ध्वरेता ऊर्ध्वसाक्षी ऊर्ध्वबाहुर्नभः स्थलः ।
त्रिजटी च निवासश्च रुद्रः सेनापतिर्विभुः ॥ ७१.२४ ॥
अहश्चरो रात्रिचरः सुवासश्च दिशाम्पतिः ।
राजहा दैत्यहा चैव धातारूपगुणात्मकः ॥ ७१.२५ ॥
सिंहशार्दूलरूपश्च आर्द्रचर्मधरो हरः ।
कालयोगी महानादः सर्ववासश्चतुष्पथः ॥ ७१.२६ ॥
दुर्वारप्रेतचारी च भूतचारी महेश्वरः ।
बहुभूतो बहुधनः सर्वार्थो रुचिरा गतिः ॥ ७१.२७ ॥
नृत्यप्रियो नृत्यकर्ता नर्तकश्च बलाहकः ।
घोरो महातपा वासो नित्यो गिरिधरो नभः ॥ ७१.२८ ॥
सहस्रभूतो विज्ञेयो व्यवसायश्च निश्चयः ।
अमर्षो मर्षणो दक्षो दक्षक्रतुविनाशनः ॥ ७१.२९ ॥
दक्षयज्ञापहारी च सुमहो मध्यमस्तथा ।
तेजोऽपहारी बलिहा मुदितश्चार्चितो भवः ॥ ७१.३० ॥
गम्भीरघोषो गम्भीरो गभीरो हव्यवाहनः ।
न्यग्रोधरूपो न्यग्रोधऋक्षवर्णः प्रभुर्विभुः ॥ ७१.३१ ॥
तीक्ष्णबाणश्च हर्यक्षो महेशः कर्मकालवित् ।
दीक्षः प्रसादितो यज्ञः समुद्रो वडवानलः ॥ ७१.३२ ॥
हुताशश्च हृताशास्यः प्रसन्नात्मा हृताशनः ।
महातेजाः सुतेजाश्च विजयो जय एव च ॥ ७१.३३ ॥
ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ।
शिखी दण्डी जटी ज्वाली मूर्तोदो दुर्बलो बहिः ॥ ७१.३४ ॥
वैणवी पापवेतालः कालाग्निः कालदण्डकः ।
नक्षत्रविग्रहो वृद्धिरजो गन्धवहोऽग्रजः ॥ ७१.३५ ॥
प्रजापतिर्हरिर्बाहुर्विभागः सर्वतोमुखः ।
विमोचनः सुरगणो हिरण्यकवचो भवः ॥ ७१.३६ ॥
अरजो धूलिधारी च महाचारी श्रुतश्रवाः ।
अनादिः सर्वभूतादिः सर्वस्याद्यः पिता गुरुः ॥ ७१.३७ ॥
व्यालरूपो महावासी हीनमाली तरङ्गवित् ।
त्रिपदस्त्र्यम्बकोऽव्यक्तः सर्वबन्धविमोचकः ॥ ७१.३८ ॥
सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागश्च तुल्यो यज्ञविभागवित् ॥ ७१.३९ ॥
सर्ववासी सर्वचारी दुर्वासा भैरवो यमः ।
हिमो हिमकरो यज्ञः सर्वधाता बुधोत्तमः ॥ ७१.४० ॥
लोहिताक्षो महाक्षश्च विजयाख्यो विशारदः ।
संग्रहो विग्रहः कर्म सर्प राजविभूषणः ॥ ७१.४१ ॥
मुख्यो विमुक्तदेहश्च देहचारी च कर्दमः ।
सर्वाचारः प्रसादश्च खेचरो बलरूपधृक् ॥ ७१.४२ ॥
आकाशवृत्तिरूपश्च निपात उरगः खलः ।
रौद्ररूपः सुरादित्यो वसुरश्मिः सुवर्चसः ॥ ७१.४३ ॥
वसुवेगो महावेगो मनोवेगो निशाचरः ।
सर्वावासः श्रियावास आपदीशकलो हरः ॥ ७१.४४ ॥
मुनिरात्मगतिर्लोकः सहस्रवदनो विभुः ।
यक्षी च यक्षराजश्च श्येनो दीप्तिर्विशाम्पतिः ॥ ७१.४५ ॥
उन्मदो मदनाकारोऽप्यर्थानर्थकरो महान् ।
सिद्धयोगोऽपहारी च सिद्धः सर्वार्थसाधकः ॥ ७१.४६ ॥
भिक्षुश्च भिक्षुरूपश्च विभुः षण्णां मृदुत्वचः ।
महासेनो विशाखश्च यष्टिभागो गवाम्पतिः ॥ ७१.४७ ॥
वज्रहस्तश्च विष्टम्भिर्विष्ठः स्तम्भन एव च ।
ऋक्षो रिपुकरः कालो मधुर्मधुकलोचनः ॥ ७१.४८ ॥
वाचस्पत्यो वाजसेनो नैष्ठश्चाश्रमसूचकः ।
ब्रह्मचारी लोकचारी सर्वचारी सुरत्नवित् ॥ ७१.४९ ॥
ईशान ईश्वरः कालो निशाचारी त्वमेकधृक् ।
अमितश्चाप्रमेयश्च नदीनदकरोऽव्ययः ॥ ७१.५० ॥
नन्दीश्वरः सुनन्दी च नन्दनो नन्दवर्द्धनः ।
नागहारो विहारी च कालो ब्रह्मविदां वरः ॥ ७१.५१ ॥
चतुर्मुखो महालिङ्गश्चतुर्लिङ्गस्तथैव च ।
लिङ्गाध्यक्षः सुरध्यक्षो कालाध्यक्षो युगावहः ॥ ७१.५२ ॥
उमापतिरुमाकान्तो जाह्नवी धृतिमान् वरः ।
सर्वार्थः सर्वभूतार्थो नित्यः सर्वव्रतः शुचिः ॥ ७१.५३ ॥
यो न ब्रह्मादिभिर्देवो जायते न महर्षिभिः ।
स्तोतव्यः स कथं नाथ परमात्मा परात्परः ॥ ७१.५४ ॥
जिह्वाचापल्यमस्माकं क्षमस्व परमेश्वर ।
शिवं कुरुष्व देवानां स्वर्ग्याणां पुष्टिवर्धनम् ॥ ७१.५५ ॥
मार्कण्डेय उवाच -
श्रुत्वा स्तोत्रमिदं देवः श्रीमान् द्वीपेश्वरः शिवः ।
प्रसन्नब्रवीद्देवान् प्रार्थयध्वं वरं सुराः ॥ ७१.५६ ॥
देवा ऊचुः॒
यदि तुष्टो महेशानो देवानां वरदः प्रभुः ।
तद्विनाशाय दैत्यानां त्राता भव महेश्वर ॥ ७१.५७ ॥
पापकर्माधमश्चैव पञ्चलिङ्गानि योऽर्चयेत् ।
सोऽपि तां गतिमाप्नोति दुर्लभा या महामखैः ॥ ७१.५८ ॥
शक्रेणाभिवृतस्तत्र देवदेव उमापतिः ।
पुरा नाम्नां सहस्रेण सुरासुरनमस्कृतः ॥ ७१.५९ ॥
शिवप्रसादसम्पन्नो देवराजस्ततोऽभवत् ।
धनदेन स्तुतस्तत्र देवो लक्षेश्वरः प्रभुः ॥ ७१.६० ॥
मोक्षदा नाम गौरीं च तां देवीं विद्धि भारत ।
मोक्षेश्वरं सिद्धलिङ्गं सुरासुरनमस्कृतम् ॥ ७१.६१ ॥
सिद्धैर्विद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैर्नरैः ।
देवत्वं समनुप्राप्तं पञ्चलिङ्गसमर्चनात् ॥ ७१.६२ ॥
कुबेरो मारुतश्चैव वरुणो निरृतिस्तथा ।
वैवस्वतो यमश्चैव ततश्च नरकेश्वरः ॥ ७१.६३ ॥
तस्य लिङ्गस्य माहात्म्यात्सूर्यपुत्रो महायशाः ।
अन्यैरभिष्टुतस्तत्र पूर्वं द्वीपेश्वरः प्रभुः ॥ ७१.६४ ॥
भक्त्या नामसहस्रेण स्तुतः पूज्यतमः शिवः ।
सोमेनातोऽभवत्तत्र शम्भोः शिरसि भूषणम् ॥ ७१.६५ ॥
रोहिण्याऽभ्यर्चिता गौरी सुभगा तेन साभवत् ।
ऋक्षैर्योगतरैस्तद्वत्स्तुतो देवः पिनाकधृक् ॥ ७१.६६ ॥
ततस्तैर्भास्करेणैव तभः स्थलमलं कृतम् ।
व्याधयः कालमृत्युश्च चित्रगुप्तश्च लेखकः ॥ ७१.६७ ॥
तथा शक्रः सुरगणैरेतैः परिवृतः प्रभुः ।
पापिष्ठानां महारौद्रो धर्मिष्ठानां प्रसादवान् ॥ ७१.६८ ॥
कोट्योऽष्टौ चोर्ध्वकेशा रौद्राश्च विकृताननाः ।
पतिव्रतासहस्रैश्च तथा मासोपवासिभिः ॥ ७१.६९ ॥
किल्किलारवशब्दैश्च धर्मराजपुरोत्तमम् ।
व्याप्तं तु परितः श्रीमदसंख्यातैर्मनोरमैः ॥ ७१.७० ॥
श्रुत्वा तेषां रवं सार्द्धं धर्मराजः सभासदैः ।
श्वेतवस्त्रपरीधानः श्वेतमाल्यानुलेपनः ॥ ७१.७१ ॥
पादचारी गतः क्षिप्रं यत्र ते यानसंस्थिताः ।
कृताञ्जलिपुटो भूत्वा पप्रच्छ शुभकर्मणः ॥ ७१.७२ ॥
यथा शक्तेन योगेन धर्मं धर्मोत्तरं महत् ।
कस्माद्देशात्समायाताः कथं पुण्यमुपार्जितम् ॥ ७१.७३ ॥
विमानारूढा ऊचुः॒
कुरुक्षेत्रे तपस्तप्तं गङ्गायां च विशेषतः ।
सर्वेषामेव लोकानां द्वारं तद्धि प्रतिष्ठितम् ॥ ७१.७४ ॥
धर्माधर्मं तव बलं कारणं चेति तत्त्वतः ।
वाराणसी प्रयागश्च गङ्गासागरसङ्गमः ॥ ७१.७५ ॥
पितृतीर्थं महापुण्यं पुष्करं नैमिषं तथा ।
केदारं भैरवं चैव तथा रुद्रमहालयम् ॥ ७१.७६ ॥
सरस्वतीरुद्रकोटिः प्रभासं शशिभूषणम् ।
नानातीर्थसहस्रेषु दानयज्ञतपः कृतम् ॥ ७१.७७ ॥
एतत्ते कथितं सर्वं सूर्यपुत्रमहायशः ।
अन्ये दृष्ट्वा यथा न्यायं धर्मराजं ततस्तथा ॥ ७१.७८ ॥
ऊचुः सर्वे वचः श्लक्ष्णं धर्मराजं यथोदितम् ।
न त्वं प्रभुः सुकृतिनां ब्रह्मा विष्णुः शिवः प्रभुः ॥ ७१.७९ ॥
पापकर्मरता ये तु तेषां शास्ता यमः स्वयम् ।
यम उवाच -
गत्वा कैलासमायामि यावत्तावत्प्रतीक्षताम् ॥ ७१.८० ॥
एवमुक्त्वा ययौ राजन् कैलासं स नगोत्तमम् ।
यस्मिन् शिवाद्यास्ते सर्वे पार्वती षण्मुखस्तथा ॥ ७१.८१ ॥
स्तुवन्ति देवताः सर्वादेवदेवमुमापतिम् ।
नृत्यन्ति चाग्रतः केचिदुत्पत्य निपतन्ति च ॥ ७१.८२ ॥
तं दृष्ट्वा तादृशं शम्भुं स्तुवन्तं दीप्ततेजसम् ।
स्तुवन्नामसहस्रेण देवदेवं पिनाकिनम् ॥ ७१.८३ ॥
साष्टाङ्गं च नमस्कृत्य धर्मराजोऽब्रवीदिदम् ।
येऽस्मत्पुरीं समायातास्तेषां का गतिरुच्यते ॥ ७१.८४ ॥
प्रहसन्नब्रवीद्देवो धर्मराजं युधिष्ठिर ।
अत्र प्रयान्तु ते सर्वे ये रेवातीरवासिनः ॥ ७१.८५ ॥
अन्यतीर्थनिवासा ये भोगान् भुञ्जन्तु ते दिवि ।
शिववाक्यं ततः श्रुत्वा ब्रह्माविष्णुर्यथातथम् ॥ ७१.८६ ॥
तुष्टा देवस्य वाक्येन सर्वदेवगणेश्वरुः ।
आगतः क्षणमात्रेण धर्मराजः पुरोत्तमम् ॥ ७१.८७ ॥
शिवोक्ताः प्रेषिताः सर्वे शिवलोकं युधिष्ठिर ।
यथा यथा समादिष्टास्ततोऽन्येऽपि शूभान्विताः ॥ ७१.८८ ॥
पुराकल्पे मया दृष्टं कार्त्तिक्यां देवतागमे ।
ततो गच्छेन्महाराज वैष्णवं तीर्थमुत्तमम् ॥ ७१.८९ ॥
कोकिला नाम विख्यातं सर्वपापविमोक्षणम् ।
वैष्णवं क्षेत्रमित्याह देवदेवो जनार्दनः ॥ ७१.९० ॥
सपादकोटिस्तीर्थानां तत्रास्ते चैव भारत ।
उपोष्यैकादशीं पुण्यां दीपमालां प्रबोधयेत् ॥ ७१.९१ ॥
न तस्य पुनरावृत्तिर्मर्त्यलोके दुरासदे ।
सर्वकामसमृद्धेन विमानाग्रेण भारत ॥ ७१.९२ ॥
असंख्यकालिका तृप्तिः पितॄणां नात्र संशयः ।
विप्रे च तोषिते तत्र दानसङ्ख्या न विद्यते ॥ ७१.९३ ॥
अत्रान्तरे त्यजेत्प्राणानवशः स्ववशोऽपि वा ।
दशवर्षसहस्राणि राजा वैद्याधरे पुरे ॥ ७१.९४ ॥
ध्रुवो ध्रुवत्वं स्वर्गे तु तारातेजः समुज्ज्वलन् ।
मर्त्ययोनिषु सम्भूता भूतग्रामा तथापरे ॥ ७१.९५ ॥
अर्चन्राड्देवदेवस्य दिवि देवत्वमाप्नुवन् ।
देवपुण्यक्षये मर्त्या भक्त्या पुण्यैश्च देवताः ॥ ७१.९६ ॥
स्वर्गमर्त्यप्रभेदोऽयं धर्माधर्मप्रभेदतः ।
केनापि तत्प्रकारेण पूजनीयो महेश्वरः ॥ ७१.९७ ॥
यद्वा तद्वा शिवे देयं भक्तियुक्तेन चेतसा ।
अरुन्धत्या सा भरण्या सावित्र्या च तथा तथा ॥ ७१.९८ ॥
अहल्यया मेनकया मरुत्वत्या च रम्भया ।
अप्सरोगणसङ्घैश्च सुरसिद्धगणैस्तथा ॥ ७१.९९ ॥
नर्मदातटमाश्रित्य पूजितो येन शङ्करः ।
तेन वै विपुला भोगाः प्राप्ता मोक्षश्च भारत ॥ ७१.१०० ॥
न पूजयेद्धरं यस्तु शिवमायाविमोहितः ।
न तस्य स्वर्गमोक्षौ च कैलासं प्रति का कथा ॥ ७१.१०१ ॥
न च स्वर्गस्य राज्यस्य भाजनं च नराधिप ।
सर्वतीर्थमयी रेवा सर्वदेवमयो हरः ॥ ७१.१०२ ॥
सर्वधर्ममयी बुद्धिः क्षमासत्यमयं तपः ।
ब्रह्मचर्यं तपोमूलं पञ्चेन्द्रियविनिग्रहः ॥ ७१.१०३ ॥
क्षमा सत्यं जपोऽधीतं तपः संयमलक्षणम् ।
एतत्ते कथितं राजं शिवेन कथितं पुरा ॥ ७१.१०४ ॥
मया च तव राजेन्द्र भ्रातॄणां च विशेषतः ।
न सामान्यतरा देवी कथिता या मया तव ॥ ७१.१०५ ॥
द्वीपेश्वरः कपिलेश्वरस्तथा वै नरकेश्वरः ।
एतान् देवान् समुत्थाय यथावत्परिकीर्तयेत् ॥ ७१.१०६ ॥
सर्वतीर्थफलं प्राप्य शिवलोके महीयते ।
अघौघे च परिक्षीणे प्राप्यते सप्तकल्पगा ॥ ७१.१०७ ॥
शिवः संनिहितो यस्यां शिवक्षेत्रं ततः परम् ।
श्रवणात्कीर्तनादस्य शिवलोके महीयते ॥ ७१.१०८ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे द्वीपेश्वरवर्णनो नामैकसप्ततितमोऽध्यायः ॥
अध्याय ७२
मार्कण्डेय उवाच -
नर्मदासङ्गमं पुण्यं सुरसिद्धनिषेवितम् ।
तत्र स्नात्वा दिवं यान्ति पूजयित्वा महेश्वरम् ॥ ७२.१ ॥
आगच्छन्ती पुरा लोके नर्मदा भरतर्षभ ।
स्तुता पूर्वं नमस्कृत्य देवैर्ब्रह्मर्षिभिस्तथा ॥ ७२.२ ॥
त्वया पवित्रितं पुण्यं मर्त्यलोकं चराचरम् ।
अपां रूपगता रेवा हरस्य परमा कला ॥ ७२.३ ॥
उमा कात्यायनी गङ्गा यमुना च सरस्वती ।
चामुण्डा चर्चिका देवी रेवा त्वं सप्तकल्पगा ॥ ७२.४ ॥
शिवजा प्रवहा पुण्या मेकलाद्रिसुता स्तुता ।
यज्ञयूपा च मूर्धा च स्वर्गमोक्षप्रदा तथा ॥ ७२.५ ॥
तारिणी सर्वभूतानां पापघ्नी च तरङ्गिणी ।
लक्ष्मीः स्वाहा स्वधा चैव पुरुहूता यशस्विनी ॥ ७२.६ ॥
त्वया व्याप्तं जगत्कृत्स्नमपां रूपेण सुव्रते ।
सङ्गमं सिद्धलिङ्गं च सुरासुरनमस्कृतम् ॥ ७२.७ ॥
अत्र दत्तं हुतं सर्वमेतद्भवति चाक्षयम् ।
अत्यद्भुतं महाराज नर्मदास्नानमर्चनम् ॥ ७२.८ ॥
अनेकानि सहस्राणि विमानानि युधिष्ठिर ।
नानारत्नप्रभाजालैः सूर्यकोटिसमानि च ॥ ७२.९ ॥
गतानि धर्मराजस्य पुरीं वीणादिनिः स्वनैः ।
नादयन्ति दिवं भूमिं वेदनिर्घोषणादिभिः ॥ ७२.१० ॥
एकस्मिन् समये दृष्ट्वाश्चर्यं वैवस्वतो नृपः ।
अत्रिश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ ७२.११ ॥
इत्याद्याः सप्त मुनयो धर्माधर्मविचारकाः ।
शिवेन स्थापिताः पूर्वं हरिणा ब्रह्मणा तथा ॥ ७२.१२ ॥
युधिष्ठिर उवाच -
अक्षीणकर्मबन्धुस्तु पुरुषो मुनिसत्तम ।
परं पदमवाप्नोति तन्मे कथय कल्पग ॥ ७२.१३ ॥
मार्कण्डेय उवाच -
विष्णुना कथितं पूर्वं ब्रह्मणे च महात्मने ।
प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम् ॥ ७२.१४ ॥
लोकनाथं सहस्राक्षमक्षरं परमं पदम् ।
भगवन्तं प्रपद्येऽहं भूतभव्यभवत्प्रभुम् ॥ ७२.१५ ॥
स्रष्टारं सर्वभूतानामनन्तबलपौरुषम् ।
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमव्ययम् ॥ ७२.१६ ॥
हिरण्यगर्भं भूगर्भममृतं विश्वतोमुखम् ।
अनश्वरमनाथं च प्रपद्ये भास्करद्युतिम् ॥ ७२.१७ ॥
सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ ७२.१८ ॥
नारायणं हरिं चैव योगात्मानं सनातनम् ।
शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम् ॥ ७२.१९ ॥
यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् ।
यः संहारकरो देवः स मे विष्णुः प्रसीदतु ॥ ७२.२० ॥
यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः प्रजापतिः ।
प्रसीदतु स मे विष्णुः पितामहपरः प्रभुः ॥ ७२.२१ ॥
पुरा लये तु संप्राप्ते नष्टे लोके चराचरे ।
एकस्तिष्ठति योगात्मा स मे विष्णुः प्रसीदतु ॥ ७२.२२ ॥
जयेद्यः पृथिवीं सत्यं कालो धर्मः क्रियाफलम् ।
गणाकारः स तां वाचो वासुदेवः प्रसीदतु ॥ ७२.२३ ॥
योगावास नमस्तुभ्यं सर्वावास वरप्रद ।
यज्ञभोगिन् पञ्चभोगिन्नारायण नमोऽस्तु ते ॥ ७२.२४ ॥
चतुर्मूर्ते जगद्धाम लक्ष्मीवास वरप्रद ।
विश्वावास नमस्तेऽस्तु साक्षीभूत जगत्पते ॥ ७२.२५ ॥
अजेयः षड्विभागैकविश्वमूर्तिर्वृषाकपिः ।
मृगाधिपश्च कालश्च नमस्ते ज्ञानसागर ॥ ७२.२६ ॥
अव्यक्तादण्डमुत्पन्नमव्यक्तादपरः प्रभुः ।
यस्मात्परतरं नास्ति तमस्मि शरणं गतः ॥ ७२.२७ ॥
चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् ।
एकांशेन जगत्सर्वं यो विष्टभ्य विभुः स्थितः ॥ ७२.२८ ॥
अग्राह्यो निर्गुणः शास्ता तमस्मि शरणं गतः ।
दिवाकरस्य सोमस्य मध्ये ज्योतिरिव स्थितम् ॥ ७२.२९ ॥
क्षेत्रज्ञ इति यं प्राहुः स महात्मा प्रसीदतु ।
सांख्ययोगेन ये चान्ये सिद्धाश्चैव महर्षयः ॥ ७२.३० ॥
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ।
नमस्ते सर्वतोभद्र सर्वतोऽक्षिशिरोमुख ॥ ७२.३१ ॥
निर्विकार नमस्तेऽस्तु आदिकल्प हृदि स्थित ।
अतीन्द्रिय नमस्तुभ्यं परमात्मन्नमोऽस्तु ते ॥ ७२.३२ ॥
ये च त्वामभिजानन्ति संसारे न वसन्ति ते ।
रागद्वेषविनिर्मुक्ता लोभमोहविवार्जिताः ॥ ७२.३३ ॥
अशरीरः सुगुप्तः सन् सर्वदेहेषु तन्मयः ।
अव्यक्तबुद्ध्यहंकारमहाभूतेन्द्रियाणि च ॥ ७२.३४ ॥
त्वयि तानि न तेषु त्वं ते च तानि न तु स्वयम् ।
अव्यक्तो नातिकूटस्थो गुणानां प्रभुरीश्वरः ॥ ७२.३५ ॥
आवर्तो हेतुरहितः प्रभुः स्वात्मव्यवस्थितः ।
नमस्ते पुण्डरीकाक्ष वासुदेव नमोऽस्तु ते ॥ ७२.३६ ॥
ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ।
भक्तानां मुक्तिदस्त्वं च गुरुश्च त्रिदशेश्वरः ॥ ७२.३७ ॥
समे भूतपतिस्त्वं हि प्रभुर्जन्मनि जन्मनि ।
अहंकारेण बद्धो वा तथा सत्त्वादिभिर्गणैः ॥ ७२.३८ ॥
पृथिवीं यातु मे घ्राणं यातु मे रसनाजलम् ।
चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम् ॥ ७२.३९ ॥
शब्दश्चाकाशमायातु मनो वै कारणं तथा ।
अहंकारश्च मे बुद्धिं त्वयि बुद्धिर्ममास्त्विति ॥ ७२.४० ॥
वियोगः सर्वकरणैर्गुणैर्भूतैस्तथाऽस्तु मे ।
सत्त्वं रजस्तमश्चैव प्रकृतिं स्वां विशन्तु मे ॥ ७२.४१ ॥
प्रभोः प्रभुमनवद्यं प्रपद्येऽहं नरः प्रभुम् ।
सहस्रशिरसं देवं महर्षिं भूतभावनम् ॥ ७२.४२ ॥
ब्रह्मयोनिश्च विश्वस्य स मे विष्णुः प्रसीदतु ।
ब्रह्मपत्न्यां प्रलीयन्ते नष्टे स्थावरजङ्गमे ॥ ७२.४३ ॥
आहूतसंप्लवे चैव लीयते प्रकृतौ महत् ।
हूयते च पुनस्ताभ्यां स मे विष्णुः प्रसीदतु ॥ ७२.४४ ॥
अग्निसोमार्कदेवानां ब्रह्मरुद्रेन्द्रयोगिनाम् ।
यस्ते जयति तेजांसि स मे विष्णुः प्रसीदतु ॥ ७२.४५ ॥
अजस्त्वं जगतः पन्था अमूर्तिर्वीश्वमूर्तिजित् ।
नवं प्रधानं च महान् पुरुषश्चेतनोऽलसः ॥ ७२.४६ ॥
अगोप्यो यः परतरस्तमेव शरणं गतः ।
सोमसूर्योपमस्तेजो योऽवतारयति स्वयम् ॥ ७२.४७ ॥
विजायन्ते दिशो यस्मात्स महात्मा प्रसीदतु ।
गुणवान्निर्गुणश्चैव चेतनोऽचेतनो स्वगः ॥ ७२.४८ ॥
सूक्ष्मः सर्वगतो देहः स महात्मा प्रसीदतु ।
सूर्यमध्ये स्थितः सोमस्तस्य मध्ये तु संस्मृतः ॥ ७२.४९ ॥
भूतत्वाद्योऽचलो दीप्तः स महात्मा प्रसीदतु ।
एकत्वात्तव नानात्वं ये विदुर्यान्ति ते परम् ॥ ७२.५० ॥
समः सर्वेषु भूतेषु प्रद्वेष्यात्मजनप्रियः ।
समं भजत्यनाकाङ्क्षी भजते नान्यचेतसः ॥ ७२.५१ ॥
योऽयं सर्वात्मना ज्ञेयः स मे विष्णुः प्रसीदतु ।
चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् ॥ ७२.५२ ॥
त्वयि तं तन्तुवत्प्रोतं सूत्रे मणिगणा इव ।
न ते धर्मो ह्यधर्मोऽस्ति न गर्भो जन्म वा पुनः ॥ ७२.५३ ॥
जराजन्मविमोक्षार्थं तमेव शरणं गतः ।
इन्द्रियाणि गुणश्चैव श्वासोच्छ्वासश्च योनिषु ॥ ७२.५४ ॥
केवलं दारुवद्देहं नश्यं यत्परमापदम् ।
स्वयमेकाकिभावो मे जन्मतोऽत्र पुनर्भवः ॥ ७२.५५ ॥
त्वद्बुद्धिस्त्वद्गतप्राणा त्वद्भक्तस्त्वत्परायणः ।
त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते ॥ ७२.५६ ॥
पूर्वदेहे कृता ये तु व्याधयः प्रविशन्तु माम् ।
वातादयश्च दुःखानि ऋणं तन्मुञ्चतात्प्रभो ॥ ७२.५७ ॥
श्रेयसां च परं श्रेयस्त्वन्येषां च यशस्विनाम् ।
सर्वपापविशुद्ध्यर्थं पुण्यं यत्परमं पदम् ॥ ७२.५८ ॥
प्रातरुत्थाय सततं मध्याह्ने च दिनक्षये ।
अजस्रं च तथा जप्यं सर्वपापोपशान्तिदम् ॥ ७२.५९ ॥
हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् ।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥ ७२.६० ॥
गोवर्धनधरं देवं गोब्राह्मणहिते रतम् ।
प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ॥ ७२.६१ ॥
शङ्खिनं चक्रिणं विष्णुं शार्ङ्गिणं मधुसूदनम् ।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥ ७२.६२ ॥
दामोदरं मुदा युक्तं पुण्डरीकाक्षमव्ययम् ।
प्रणतोऽस्मि स्थितं स्थित्यै स मे पापं व्यपोहतु ॥ ७२.६३ ॥
नारायणं नरं सौम्यं माधवं च जनार्दनम् ।
श्रीवत्सं श्रीवपुः श्रीमच्छ्रीधरं श्रीनिकेतनम् ॥ ७२.६४ ॥
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ।
यमीशं सर्वभूतानां ध्यायन्ति च तमक्षरम् ॥ ७२.६५ ॥
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ।
सर्वबन्धविनिर्मुक्तो यं प्रविश्य पुनर्भवम् ॥ ७२.६६ ॥
पुरुषो नैव प्राप्नोति तमस्मि शरणं गतः ।
कृत्वा ब्रह्मवपुः सर्वं सदेवासुरमानुषम् ॥ ७२.६७ ॥
यः करोति पुनः सृष्टिं तमस्मि शरणं गतः ।
ब्रह्मरूपधरं देवं योनिरूपं जनार्दनम् ॥ ७२.६८ ॥
सृष्टित्वे संस्थितं नित्यं प्रणतोऽस्मि जनार्दनम् ।
यस्मान्नान्यत्परं किंचिद्यस्मिन् सर्वमिदं जगत् ॥ ७२.६९ ॥
यः सर्वमध्यगोऽनन्तः सर्वगं तं नमाम्यहम् ।
योऽस्ति भूतेषु सर्वेषु स्थावरे जङ्गमेषु च ॥ ७२.७० ॥
विष्णुरेव स वै पापं ममाशेषं प्रणश्यतु ।
न वृत्तं निर्वृतं कर्म विष्णोर्यत्कर्म वा कृतम् ॥ ७२.७१ ॥
अनेकजन्मकर्मोत्थं पापं नश्यति मे तथा ।
निशायां च तथा प्रातर्मध्याह्णे चापराह्णयोः ॥ ७२.७२ ॥
अज्ञानाच्च कृतं पापं कर्मणा मनसा गिरा ।
यत्कृतं चाशुभं किंचित्तत्सर्वं नश्यतु क्षणात् ॥ ७२.७३ ॥
तत्सर्वं विलयं यातु तोयेषु लवणं यथा ।
परपीडां च निन्दां च कुर्वतो जन्म नार्जितम् ॥ ७२.७४ ॥
परद्रव्यपरक्षेत्रवाञ्छा क्रोधोद्भवं च यत् ।
तत्सर्वं विलयं यातु तोयेषु लवणं यथा ॥ ७२.७५ ॥
विष्णवे वासुदेवाय हरये केशवाय च ।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥ ७२.७६ ॥
नाभागो नाम राजर्षिर्नर्मदातीरसङ्गमे ।
चकार स्तोत्रमतुलं वैष्णवं तु प्रजापतिः ॥ ७२.७७ ॥
ब्रह्मणोऽङ्गिरसा प्राप्तं तस्मादिन्द्रेण भारत ।
वशिष्ठः श्रावयामास नाभागं राजसत्तमम् ॥ ७२.७८ ॥
स्नात्वा च नर्मदातोये दत्त्वा दानान्यनेकशः ।
कामिकं यानमारुह्य नाभागः स्वपुरीं ययौ ॥ ७२.७९ ॥
स्तौति नामसहस्रेण यः स्तवेन जनार्दनम् ।
न तस्य पुनरावृत्तिर्घोरे संसारसागरे ॥ ७२.८० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुस्तुतिर्नाम द्विसप्ततितमोऽध्यायः ॥
अध्याय ७३
मार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र मेघनादमिति स्मृतम् ।
जलमध्ये महादेवो यत्र तिष्ठत्यदर्शितः ॥ ७३.१ ॥
युधिष्ठिर उवाच -
जलमध्ये महादेवस्तिष्ठते केन हेतुना ।
उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम ॥ ७३.२ ॥
मार्कण्डेय उवाच -
एतदाख्यानमतुलं पुण्यं श्रुतिसुखावहम् ।
पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः ॥ ७३.३ ॥
पुरा त्रेतायुगे तात पौलस्त्यो देवकण्टकः ।
त्रिलोकविजयी रौद्रः सुरासुरभयंकरः ॥ ७३.४ ॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
अवध्यो वरदानेन यत्र पर्यटते महीम् ॥ ७३.५ ॥
तत्र देवगिरौ रम्ये दानवो बलदर्पितः ।
मयो नामेति विख्यातो महानासीन्नृपेश्वर ॥ ७३.६ ॥
रावणस्तं ततो गत्वा विनयावनतः स्थितः ।
पूजितो दानसंमानैर्मयं वचनमब्रवीत् ॥ ७३.७ ॥
कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना ।
किं नामधेया तपते तप उग्रं कथं विभो ॥ ७३.८ ॥
मय उवाच -
दानवानां पतिः श्रेष्ठो मयोऽहं नामनामतः ।
भार्या तेजवती नाम ममेयं तनया शुभा ॥ ७३.९ ॥
मन्दोदरीति विख्याता तपते पतिकारणात् ।
श्रुत्वा तु वचनं तस्य रावणो मददर्पितः ॥ ७३.१० ॥
प्रश्रितः प्रणतो भूत्वा मयं वचनमब्रवीत् ।
पौलस्त्यो नाम राजाहं देवदानवदर्पहा ॥ ७३.११ ॥
प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि ।
ज्ञात्वा पैतामहं वंशं मयेनापि महात्मना ॥ ७३.१२ ॥
सुता दत्ता रावणाय कृत्वा विधिविधानतः ।
गृहीत्वा तां तदा रक्षः पूज्यमानो निशाचरैः ॥ ७३.१३ ॥
दिव्यैर्यानैर्विमानैश्च क्रीडते तु तया सह ।
पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत ॥ ७३.१४ ॥
तेनैव जातमात्रेण रवो मुक्तो महात्मना ।
संवर्तकस्य मेघस्य येन लोको जडीकृतः ॥ ७३.१५ ॥
श्रुत्वा तन्निनदं घोरं त्रस्तो लोकपितामहः ।
नाम चक्रे तदा तस्य मेघनादो भविष्यति ॥ ७३.१६ ॥
एतन्नामकृतं सोऽपि परमं व्रतमास्थितः ।
भावयामास देवेशमुमया सह शङ्करम् ॥ ७३.१७ ॥
व्रतैर्नियमदानैश्च होमैर्जाप्यैर्विधानतः ।
कृच्छ्रचान्द्रायणैर्दिव्यैः क्लिश्यते च कलेवरम् ॥ ७३.१८ ॥
एवमन्यद्दिने तात कैलासं धरणीधरम् ।
गत्वा लिङ्गमयं प्राप्य प्रस्थितो दक्षिणामुखः ॥ ७३.१९ ॥
नर्मदातटमाश्रित्य स्नातुकामो महाबलः ।
निक्षिप्यापूजयद्देवं कृत्वा जाप्यं जनेश्वरः ॥ ७३.२० ॥
गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम ।
एकं समुद्धृतं लिङ्गं गृहितं सव्यपाणिना ॥ ७३.२१ ॥
प्रथमं च द्वितीयं च भक्त्या पौलस्त्यनन्दनः ।
तदा देवमहालिङ्गं पतितं नर्मदाम्भसि ॥ ७३.२२ ॥
पाहि पाहीति तेनोक्तो लिङ्गेन परमेष्ठिना ।
द्वितीयं पतितं तावदुत्तरे नर्मदातटे ॥ ७३.२३ ॥
मेघनादेति विख्यातं लिङ्गं तत्र सुशोभनम् ।
मध्यमेश्वरनामेति जलमध्ये व्यवस्थितम् ॥ ७३.२४ ॥
यावदुद्धर्तुकामोऽसौ सप्तपातालमागमत् ।
देवयोर्निश्चयं ज्ञात्वा निवृत्तोऽसौ निशाचरः ॥ ७३.२५ ॥
जगामाकाशमाविश्य पूज्यमानो निशाचरैः ।
तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम् ॥ ७३.२६ ॥
मेघारवेति विख्यातमुत्तरे खेटकः शुभः ।
पूर्वे तु गर्जनं नाम सर्वपापक्षयंकरम् ॥ ७३.२७ ॥
तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत् ।
अहोरात्रोषितो भूत्वा स लभेच्छाश्वतं शुभम् ॥ ७३.२८ ॥
पिण्डदानं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
तेन द्वादश वर्षाणि पितरस्तर्पिता दिवि ॥ ७३.२९ ॥
यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ।
यत्फलं योगिनां तत्र लभते नात्र संशयः ॥ ७३.३० ॥
अग्निवेशं जले वापि अथवापि ह्यनाशकम् ।
अनिवर्तिका गतिस्तस्य स्यादिदं शङ्करोऽब्रवीत् ॥ ७३.३१ ॥
एवं ते नरशार्दूल गर्जितेश्वरमुत्तमम् ।
कथितं स्मरणादेव सर्वपापक्षयं करम् ॥ ७३.३२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे मेघनादेश्वरमहिमानुवर्णनो नाम त्रिसप्ततितमोऽध्यायः ॥
अध्याय ७४
मार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र दारुतीर्थमनुत्तमम् ।
दारुको यत्र संसिद्धिमिन्द्रस्य दयितः सखा ॥ ७४.१ ॥
युधिष्ठिर उवाच -
दारुकेण कथं तात तपश्चीर्णं पुराऽनघ ।
विधानं श्रोतुमिच्छामि सर्वपापक्षयं करम् ॥ ७४.२ ॥
मार्कण्डेय उवाच -
अहं ते कथयिष्यामि विचित्रं यत्पुरातनम् ।
वृत्तं समभवत्तत्र ऋषीणां भावितात्मनाम् ॥ ७४.३ ॥
सूतो वज्रधरस्यासीत्मातलिर्नामनामतः ।
स पुत्रं शप्तवान् पूर्वं कथंचित्कारणान्तरे ॥ ७४.४ ॥
शापहेतोर्वेपमान इन्द्रस्य चरणौ शुभौ ।
प्रपीड्य तत्र देवेन्द्रं विज्ञापयति भारत ॥ ७४.५ ॥
मम ताताभिशप्तस्य अनाथस्य सुरेश्वर ।
कर्मणा केन शापस्य घोरस्यान्तो भविष्यति ॥ ७४.६ ॥
शक्र उवाच -
नर्मदातटमाश्रित्य तोषय त्वं महेश्वरम् ।
तिष्ठ यावद्युगस्यान्तं पुनर्जननमाप्स्यसि ॥ ७४.७ ॥
पुनर्भूत्वा यदुकुले दारुको नाम नामतः ।
आरोहयित्वा देवेशं शङ्खचक्रगदाधरम् ॥ ७४.८ ॥
मानुषं तत्र सम्पन्नं ततः सिद्धिमवाप्स्यसि ।
एवमुक्तस्तु देवेन सहस्राक्षेण भारत ॥ ७४.९ ॥
प्रणम्य शिरसा भूमिमागतोऽसौ हतप्रभः ।
नर्मदा तटमाश्रित्य कर्शितस्वकलेवरः ॥ ७४.१० ॥
व्रतोपवार्सैर्विविधैर्जपहोमपरायणः ।
महादेवं महात्मानं वरदं शूलपाणिनम् ॥ ७४.११ ॥
अभजत्परया भक्त्या यावदाहूतसम्प्लवम् ।
अंशावतरणे विष्णोस्ततो भूत्वा महामतिः ॥ ७४.१२ ॥
तोषयित्वा जगन्नाथं ततो यातः स सद्गतिम् ।
एष ते सम्भवस्तात दारुतीर्थस्य सुव्रत ॥ ७४.१३ ॥
कथितस्तु मया पूर्वं यथा मे शङ्करोऽब्रवीत् ।
ततो युधिष्ठिरो राजा विस्मयाविष्टचेतनः ॥ ७४.१४ ॥
भ्रान्तोऽवलोकयामास स्तब्धरोमा मुहुर्मुहुः ।
तस्मिंस्तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर ॥ ७४.१५ ॥
उपास्य सभ्यां तत्रैव संतर्प्य पितृदेवताः ।
देहत्यागं च तत्रैव यः करोति समाहितः ॥ ७४.१६ ॥
सोऽश्वमेधफलं प्राप्य रमते शिवसन्निधौ ।
तस्मिंस्तीर्थे तु यो भक्त्या भोजयेद्ब्राह्मणं शुचिः ॥ ७४.१७ ॥
स तु विप्रसहस्रस्य लभते फलमुत्तमम् ।
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥ ७४.१८ ॥
यत्कृतं तु शुभं तत्र तत्सर्वं लभतेऽक्षयम् ॥ ७४.१९ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे दारुतीर्थतमहिमानुवर्णनो नाम चतुःसप्ततितमोऽध्यायः ॥
अध्याय ७५
मार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र देवतीर्थमनुत्तमम् ।
यत्र देवास्त्रयस्त्रिंशत्तप्त्वा सिद्धिं परां गताः ॥ ७५.१ ॥
पुरा देवासुरे युद्धे दानवैर्बलदर्पितैः ।
इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो भृशम् ॥ ७५.२ ॥
हस्त्यश्वरथयानौघैर्मर्दयित्वा च वाहिनीम् ।
विशक्ता भेजिरे मार्गं प्रहारैर्जर्जरीकृताः ॥ ७५.३ ॥
जम्भशुम्भनिशुम्भाद्यैस्तु हुण्डग्रहकैः सह ।
बलिभिर्बाधिताः सर्वे ब्रह्माणमुपतस्थिरे ॥ ७५.४ ॥
प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम् ।
व्यज्ञापयन्त देवेशमिन्द्राग्निकपुरोगमाः ॥ ७५.५ ॥
पश्य पश्य महाभाग दानवैराकुलीकृताः ।
बाधिताः पुत्रदाराभ्यां त्वामेव शरणं गताः ॥ ७५.६ ॥
परित्रायस्व देवेश सर्वलोकपितामह ।
नान्या गतिः सुरेशान मुक्त्वा त्वां परमेष्ठिनम् ॥ ७५.७ ॥
ब्रह्मोवाच -
दानवानां विघातार्थं नर्मदातटमाश्रिताः ।
तपः कुरुत भो देवास्तपो हि परमं बलम् ॥ ७५.८ ॥
नान्योपायो न वै मन्त्रो न विद्या न च विक्रमः ।
विना रेवाजलं पुण्यं सर्वपापक्षयं करम् ॥ ७५.९ ॥
दारिद्र्यव्याधिमरणबन्धनव्यसनानि च ।
एतानि चैव पापस्य फलानीति मतिर्मम ॥ ७५.१० ॥
एवं ज्ञात्वा विधानेन तपः कुरुत दुष्करम् ।
पूज्यते शाम्भवं सर्वैः प्राप्नुयाताभयं ततः ॥ ७५.११ ॥
तच्छ्रुत्वा वचनं देवा ब्रह्मणः परमेष्ठिनः ।
नर्मदामागताः सर्वे तदेन्द्राग्निपुरोगमाः ॥ ७५.१२ ॥
विचेरुस्तत्र विपुलं तपः परमदुःसहम् ।
सकल्पैः परमां राजंस्तत्ते सिद्धिमवाप्नुवन् ॥ ७५.१३ ॥
तदा प्रभृति तत्तीर्थं देवतीर्थमिति श्रुतम् ।
गीयते सर्वलोकेषु सर्वपापक्षयंकरम् ॥ ७५.१४ ॥
तत्र श्रद्धात्मना योऽपि विधिनापि समन्वितः ।
स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम् ॥ ७५.१५ ॥
यस्तमर्चयते देवं सर्वदेवैस्तु पूजितम् ।
लभते चाश्वमेधस्य फलं यागस्य चोत्तमम् ॥ ७५.१६ ॥
यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ।
तत्र देवशिला रम्या महापुण्याद्रिर्वधिनी ॥ ७५.१७ ॥
संन्यासेन मृतानां तु नराणामक्षया गतिः ।
अग्निप्रवेशं यः कुर्याद्देवतीर्थे युधिष्ठिर ॥ ७५.१८ ॥
रुद्रलोके वसेत्तावद्यावदाहूतसम्प्लवम् ।
एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम् ॥ ७५.१९ ॥
सुकृतं दुष्कृतं वापि तत्र तीर्थेऽक्षयं भवेत् ।
एतावद्विधिरुद्दिष्टा उत्पत्तिश्चैव भारत ॥ ७५.२० ॥
देवतीर्थस्य चरितं सर्वतीर्थेष्वनुत्तमम् ॥ ७५.२१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे देवतीर्थमहिमानुवर्णनो नाम पञ्चसप्ततितमोऽध्यायः ॥
अध्याय ७६
मार्कण्डेय उवाच -
ततोगच्छेच्च राजेन्द्र गुहावासीति चोत्तमम् ।
यत्र सिद्धो महादेवो गुहावासीति शङ्करः ॥ ७६.१ ॥
युधिष्ठिर उवाच -
केन कार्येण विप्रेन्द्र गुहावासीति शङ्करः ।
एतद्विस्तरतः सर्व कथयस्व ममानघ ॥ ७६.२ ॥
श्रोतुमिच्छाम्यहं देव सर्वं कौतूहलं हि मे ।
मार्कण्डेय उवाच -
महाप्रश्नः कृतो मां यो महाप्राज्ञ नरेश्वर ॥ ७६.३ ॥
पुराणे विस्तरोऽप्यस्य न शक्यो हि मयाधुना ।
वृद्धभावात्कथयितुमहं च बहुकालिकः ॥ ७६.४ ॥
पूर्व दारुवने विप्रा वसन्ति स्म सुरैः समाः ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥ ७६.५ ॥
स्वधर्मनिरतानां च कथितं परमं पदम् ।
तावद्वसन्तसमये कस्मिंश्चित्कारणान्तरे ॥ ७६.६ ॥
विमानस्थो महादेवो गम्यमानोमया सह ।
ददर्श च जनावासं वेदध्वनिनिनादितम् ॥ ७६.७ ॥
अगतागतसंवासं सर्वपापक्षयं करम् ।
तद्दृष्ट्वा मुदितां देवीं हर्षगद्गदया गिरा ॥ ७६.८ ॥
उवाच वचनं देवो दृष्ट्वा तापसयोषितः ।
नान्यं देवं न वै धर्मं ध्यायन्ति हिमनन्दिनि ॥ ७६.९ ॥
एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम् ।
कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत् ॥ ७६.१० ॥
यत्त्वयोक्तं महादेव पतिधर्मपरास्त्रियः ।
तासामनङ्गो भूत्वा त्वं चरित्रं क्षोभय प्रभो ॥ ७६.११ ॥
महादेव उवाच -
त्वयोक्तं वचनं देवि न चैतद्रोचते प्रिये ।
ब्राह्मणा हि महाभागा न तेषां विप्रियं चरेत् ॥ ७६.१२ ॥
मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ।
चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥ ७६.१३ ॥
न ते देवा न ते लोकास्ते नागा नासुरास्तथा ।
दृश्यन्ते च त्रिभिर्लोकैरेतैरुष्टैर्न वञ्चिताः ॥ ७६.१४ ॥
तेषां क्षोभकरः प्रायः स्वर्गभोगफलच्युतः ।
येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः ॥ ७६.१५ ॥
तेषां धर्मस्तथार्थश्च कामो मोक्षो न संशयः ।
एवं ज्ञात्वा महाभागे आग्रहस्त्यज्यतामयम् ॥ ७६.१६ ॥
एतल्लोकविरुद्धं हि यदीच्छसि वशे सुखम् ।
देव्युवाच -
नाहं ते दयिता देव नाहं ते वशवर्तिनी ॥ ७६.१७ ॥
अन्यायधर्षणां चात्र सर्वासां कुरु सुव्रत ।
लोकालोके महादेव अशक्यं नास्ति ते विभो ॥ ७६.१८ ॥
क्रियतां मम देवैतत्परं कौतूहलं प्रभो ।
एवमुक्तो महादेवो देव्याः प्रियहिते रतः ॥ ७६.१९ ॥
कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति ।
महाहिनां जटाजूटं नियम्य शशिभूषणः ॥ ७६.२० ॥
कङ्कत्राणं परं कृत्वा तथा सौवर्णकुण्डले ।
व्याघ्रचर्मपरीधानो हारकेयूरभूषितः ॥ ७६.२१ ॥
नूपुरारावनिर्घोषैः कम्पयंश्च वसुन्धराम् ।
महाडमरुघोषेण वीरघण्टानिनादिना ॥ ७६.२२ ॥
प्रभातसमये प्राप्ते तत्र दारुवनं गत ।
तावद्विप्रजनः सर्वः पुष्पमूलफलाशनः ॥ ७६.२३ ॥
निर्गतो बहुभिः सार्धं पठ्यमान इतस्ततः ।
तद्दृष्ट्वा महदाश्चर्यरूपं देवस्य भारत ॥ ७६.२४ ॥
युवतीजनः प्रमत्तश्च कामेन कलुषीकृतः ।
सुरूपं परमं दृष्ट्वा सर्वास्ताश्च वराननाः ॥ ७६.२५ ॥
क्लेशभावं तदागच्छन् याश्च दारुवने स्त्रियः ।
विकारा बहवस्तासां देवं दृष्ट्वा मनोजवम् ॥ ७६.२६ ॥
संजाता विप्रपत्नीनां तां शृणुष्व नृपोत्तम ।
परिधानं न जानन्ति परिभ्रष्टं करोद्यताः ॥ ७६.२७ ॥
दातुकामा तथा भैक्ष्यं चेष्टितुं नैव शक्यते ।
काचिद्दृष्ट्वा महादेवं रूपयौवनगर्विता ॥ ७६.२८ ॥
उत्सङ्गे संस्थितं वालं पतितं व्यस्मरत्ततः ।
कामबाणहता चान्या बाहुभ्यां पीडति स्तनौ ॥ ७६.२९ ॥
निःश्वसन्ती तथा चान्या न किंचित्परिजल्पते ।
एवमक्षोभयत्सर्वा महेशः पतिदेवताः ॥ ७६.३० ॥
चालितास्ता विदित्वा तु निर्जग्मुर्द्वारिसत्वराः ।
संचिताः परमं कृत्वा सर्वा देवो महेश्वरः ॥ ७६.३१ ॥
क्षोभयित्वा गणं स्त्रीणां गतश्चादर्शनं च तम् ।
ततो विप्रगणः सर्वः समायातो ददर्श ह ॥ ७६.३२ ॥
क्षोभितं स्त्रीजनं सर्वं हरेण क्रोधमाविशत् ।
क्रोधाविष्टो द्विजः कश्चिद्दण्डमुद्यम्य धावति ॥ ७६.३३ ॥
कुठारहस्तो ह्यपरस्तथान्यो दर्भमुष्टिमान् ।
इतश्चेतश्च ते सर्वे भ्रमित्वा तच्च काननम् ॥ ७६.३४ ॥
एकीभूता महात्मानो व्याजहुश्च रुषा गिरम् ।
यदि दत्तं हुतं किंचिद्गुरवस्तोषिता यदि ॥ ७६.३५ ॥
तेन सत्येन देवस्य लिङ्गं पततु भूतले ।
एवं सत्यप्रभावेण वचनेन द्विजन्मनाम् ॥ ७६.३६ ॥
देवस्य पश्यतो लिङ्गं पतितं धरणीतले ।
हाहाकारो महानासील्लोकालोके तु भारत ॥ ७६.३७ ॥
देवस्य पतितं लिङ्गं जगत्येव महाक्षयम् ।
पतमानस्य लिङ्गस्य शब्दोऽभूत्तत्र दारुणः ॥ ७६.३८ ॥
पतन्ति पर्वताग्राणि शोषमायान्ति सागराः ।
देवस्य पतिते लिङ्गे विमानैर्देवदानवाः ॥ ७६.३९ ॥
समेत्य सहिताः सर्वे ब्रह्मणा परमेष्ठिना ।
कृताञ्जलिपुटा देवं स्तुवन्ति विविधैः स्तवैः ॥ ७६.४० ॥
ततस्तुष्टो जगन्नाथो देवानां वरदोऽभवत् ।
देवोऽपि पतिते लिङ्गे शापेन धरणीतले ॥ ७६.४१ ॥
गत्वा दारुवनं विप्रांस्तोषयामास भारत ।
विश्वामित्रो वशिष्ठाद्या जाबालिरथ काश्यपः ॥ ७६.४२ ॥
समेत्य सहिताः सर्वे तमूचुस्त्रिपुरान्तकम् ।
महाजनोऽपि बलवान्नावज्ञेयः सुरेश्वरः ॥ ७६.४३ ॥
क्षान्तियुक्तोऽपि भूत्वा च भविष्यसि गतक्लमः ।
विध्वंसिता विप्रदारा यदेतल्लिङ्गमुत्तमम् ॥ ७६.४४ ॥
पतितं ते महादेव एतत्पुण्यं भविष्यति ।
तत्पुण्यं नाग्निहोत्रेण अग्निष्टोमैर्न लभ्यते ॥ ७६.४५ ॥
यच्छर्म रुद्र प्राप्स्यन्ति मानवा लिङ्गपूजया ।
देवानां चैव यक्षाणां गन्धर्वोरगरक्षसाम् ॥ ७६.४६ ॥
वचनेन तु विप्राणामेतत्पुण्यं भविष्यति ।
ब्रह्मविष्ण्विन्द्ररुद्राणां दर्शनेन च यत्फलम् ॥ ७६.४७ ॥
तत्फलं तस्य लिङ्गस्य दर्शने सकलं लभेत् ।
एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान् ॥ ७६.४८ ॥
मुदा परमया युक्तस्तांश्चैव प्रत्यभाषत ।
ब्राह्मणा जङ्गमं तीर्थं निर्जलं सर्वकामिकम् ॥ ७६.४९ ॥
येषां वाक्योदयेनैव शुद्ध्यन्ति मलना जनाः ।
किंचित्तीर्थं न हि क्षेत्रमूषरं गह्वराणि च ॥ ७६.५० ॥
ब्राह्मणाच्छ्रेष्ठमुद्दिष्टं यत्र गत्वा विशुद्ध्यति ।
पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस्तथा ॥ ७६.५१ ॥
एकस्या विप्रवाक्यस्य कला नार्हन्ति षोडशीम् ।
अभिनन्द्य द्विजान् सर्वाननुज्ञातो महानृषिः ॥ ७६.५२ ॥
ततोऽगाच्च महादेवो नर्मदातटमुत्तमम् ।
परम व्रतमास्थाय गुहावासं महार्बुदम् ॥ ७६.५३ ॥
मौनं चचार भगवाञ्जपध्यानरतः सदा ।
समाप्ते नियमे तात स्थापयित्वा महेश्वरम् ॥ ७६.५४ ॥
वन्द्यमानः सुरैः सार्धं कैलासमगमत्प्रभुः ।
नर्मदायास्तटे येन स्थापितः परमेश्वरः ॥ ७६.५५ ॥
तेनैव कारणेनासौ नर्मदेश्वरमुत्तमम् ।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥ ७६.५६ ॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।
तत्र तीर्थे नरः स्नात्वा विधिना सुजितेन्द्रियः ॥ ७६.५७ ॥
अर्चयित्वा महादेवमश्वमेधफलं लभेत् ।
पितृभ्यो ददते यस्तु तिलपुष्पकुशोदकम् ॥ ७६.५८ ॥
त्रिसप्तपुरुषास्तस्य स्वर्गे पाण्डव मोदन्ते ।
यस्तु भोजयते विप्रान् यथाशक्त्या नरोत्तमः ॥ ७६.५९ ॥
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ।
सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर ॥ ७६.६० ॥
ददते तोयमास्पृश्य सोऽग्निष्टोमफलं लभेत् ।
अष्टम्यां च चतुर्दश्यां पूजयेच्च विशेषतः ॥ ७६.६१ ॥
नर्मदेश्वरमासाद्य अवाप्तं जन्मनः फलम् ।
अग्निवेशे जले वापि अनाशकमृतश्च यः ॥ ७६.६२ ॥
अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ।
एतत्कीर्तयते यस्तु नर्मदेश्वरमुत्तमम् ॥ ७६.६३ ॥
भक्त्या शृणोति यो राजन्नश्वमेधफलं लभेत् ॥ ७६.६४ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे दारुवनप्रसङ्गे नर्मदेश्वरकीर्तनं नाम षट्सप्ततितमोऽध्यायः ॥
अध्याय ७७
ततो गच्छेच्च राजेन्द्र कपिलातीर्थमुत्तमम् ।
स्नानमात्रः प्रसङ्गेन नर्मदेश्वरकीर्तनम् ॥ ७७.१ ॥
तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।
यावन्ति रोमकूपानि तत्प्रसूतिकुलेषु च ॥ ७७.२ ॥
तावन्त्यब्दसहस्राणि विष्णुलोके महीयते ।
जले वाग्निप्रवेशे वा अथवानशके नरः ॥ ७७.३ ॥
तत्र तीर्थे मृतो यस्तु न गर्भे जायते क्वचित् ।
एव हि विधिरुद्दिष्टः सकलो नृपसत्तम ॥ ७७.४ ॥
तीर्थस्य च फलं पुण्यं किमन्यत्परिपृच्छसि ।
धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् ॥ ७७.५ ॥
एतच्छ्रुत्वा नरो राजन् सर्वपापैः प्रमुच्यते ।
ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरमुत्तमम् ॥ ७७.६ ॥
तत्र सिद्धो महाभाग दैत्यो वै लोकविश्रुतः ।
युधिष्ठिर उवाच -
कोऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः ॥ ७७.७ ॥
कस्य पुत्रोऽथ किंकार्यं कालः कः कथय द्विज ।
मार्कण्डेय उवाच -
पुरा चादियुगे राजन्मानसो ब्रह्मणः सुतः ॥ ७७.८ ॥
वेदवेदाङ्गतत्त्वज्ञो मरीचिर्नाम नामतः ।
तस्याऽपि कश्यपो राजन् कालेन महतानघ ॥ ७७.९ ॥
पुत्रोऽथ मानसो जातः साक्षाद्ब्रह्मेव चापरः ।
क्षमा दमा दया दानं सत्यं शौचमथार्जवम् ॥ ७७.१० ॥
मरीचेस्तु गुणास्त्वेते सन्ति भान्ति च भारत ।
एवं गुणगणाः कीर्तिः कश्यपे द्विजसत्तमे ॥ ७७.११ ॥
ज्ञात्वा प्रजापतिर्दक्षो भार्यार्थे स्वसुतां ददौ ।
अदितिर्वै दनुश्चैव तथा ह्येकादशा पराः ॥ ७७.१२ ॥
यासां पुत्राश्च पौत्राश्च जाता भ्रातरसंख्यकाः ।
अदितिर्जनयामास पुत्रानिन्द्रपुरोगमान् ॥ ७७.१३ ॥
नागान् प्रेतपिशाचांश्च पतत्रीन् यक्षराक्षसान् ।
सिंहव्याघ्रवराहांश्च अन्या इत्येवमादयः ॥ ७७.१४ ॥
जातास्तस्य महाबाहो कश्यपस्य प्रजापतेः ।
यैस्तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत् ॥ ७७.१५ ॥
तथान्यश्च महाभागो दनोः पुत्रो व्यजायत ।
सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः ॥ ७७.१६ ॥
बलेरिव महाभाग चचार सुमहत्तपः ।
वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः ॥ ७७.१७ ॥
भोः करञ्ज महासत्त्व परितुष्टोऽस्मि तेऽनघ ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ७७.१८ ॥
करञ्ज उवाच -
यदि तुष्टोऽसि मे देव त्रिपुरान्तकर प्रभो ।
ततः पुत्रैश्च पौत्रैश्च सहितं मे धनं कुरु ॥ ७७.१९ ॥
तथेत्युक्त्वा महादेव उमया सहितस्तदा ।
वृषारूढो गणैः सार्धं तत्रैवान्तरधीयत ॥ ७७.२० ॥
गते चादर्शनं देवे सोऽपि दैत्यो मुदान्वितः ।
स्वनाम्ना च महादेवं स्थापयित्वा गृहं ययौ ॥ ७७.२१ ॥
तदा प्रभृति तत्तीर्थं करञ्जेश्वरमुत्तमम् ।
स्नानमात्रो नरो राजन्मुच्यते ब्रह्महत्यया ॥ ७७.२२ ॥
तस्मिंस्तीर्थे महाराज तर्पयेत्पितृदेवताः ।
सोऽग्निष्टोमस्य यत्पुण्यं फलं प्राप्नोत्यसंशयम् ॥ ७७.२३ ॥
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नरोत्तम ॥ ७७.२४ ॥
अथाग्नौ च जले प्राणान् भूतले वापि यस्त्यजेत् ।
स्वर्गे स तु वसेन्नूनं वर्षाणामयुतद्वयम् ॥ ७७.२५ ॥
धनवान् सुकुले चान्ते जायते विपुले कुले ।
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ ७७.२६ ॥
राजा वा राजतुल्यो वा जायते नात्र संशयः ।
पुत्रपौत्रसमायुक्तः सर्वव्याधिविवर्जितः ॥ ७७.२७ ॥
एतत्ते सर्वमाख्यातं यत्त्वं मां परिपृच्छसि ।
तीर्थस्य तु फलं युक्त्या सर्वदानेषु भारत ॥ ७७.२८ ॥
एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् ।
पठतां शृण्वतां चैव तीर्थमाहात्म्यमुत्तमम् ॥ ७७.२९ ॥
यस्तु श्रावयते श्राद्धे स तत्पितृपरायणः ।
अक्षयं तस्य सर्वं स्याच्छङ्करस्त्विदमब्रवीत् ॥ ७७.३० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे करञ्जेश्वरमहिमानुवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥
अध्याय ७८
अथ अष्टसप्ततितमोऽध्यायः
मार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम् ।
यत्र सिद्धिं गतो देवः कुण्डधारो नृपोत्तम ॥ ७८.१ ॥
तपः कृत्वा तु विपुलं सुरासुरभयं करम् ।
कुण्डधारो मन्दरस्थः क्रीडते स नृपोत्तम ॥ ७८.२ ॥
युधिष्ठिर उवाच -
कस्यान्वये समुत्पन्नः कस्य पुत्रो महामतिः ।
तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः ॥ ७८.३ ॥
एतद्विस्तरतस्तात कथयस्व ममानघ ।
मार्कण्डेय उवाच -
पुरा त्रेतायुगे राजन् पौलस्त्यो नाम विश्रवाः ॥ ७८.४ ॥
उपये मे महाभाग भरद्वाजसुतां नृप ।
पुत्रः पुत्रगुणैर्युक्तस्तस्यां जातो धनं जयः ॥ ७८.५ ॥
जातमात्रं सुतं ज्ञात्वा ब्रह्मा लोकपितामहः ।
चकार नाम सुप्रीत ऋषिदेवसमन्वितः ॥ ७८.६ ॥
यस्माद्विश्रवसो जातो मम पौत्रत्वमागतः ।
तस्माद्वैश्रवणो नाम मया दत्तं तवानघ ॥ ७८.७ ॥
यः स्वयं सर्वदेवानां धनगोप्ता भविष्यति ।
चतुर्थो लोकपालानामक्षयो यक्षपोऽपि वा ॥ ७८.८ ॥
यक्षो यक्षाधिपः श्रेष्ठः कुण्डधारोऽभवत्सुतः ।
सुस्वंरूपवयः प्राप्य मातापित्रोरनुज्ञया ॥ ७८.९ ॥
तपश्चकार विपुलं नर्मदातीरमाश्रितः ।
यत्र व्याघ्रेश्वरं लिङ्गं व्याघ्रखेटकमुत्तमम् ॥ ७८.१० ॥
कुण्डधारेण तत्रैव तपस्तप्तं सुदारुणम् ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षास्वासारथारणः ॥ ७८.११ ॥
शिशिरे जलमध्यस्थो वायुभक्षः शतं समाः ।
एवं वर्षशते पूर्णे एकाङ्गुष्ठोऽभवत्ततः ॥ ७८.१२ ॥
चक्रवद्भ्रमते सूर्यमभितो भरतर्षभ ।
चतुर्थे पञ्चमे तावत्तुतोष वृषवाहनः ॥ ७८.१३ ॥
वरं वृणीष्व हे वत्स यत्ते मनसि रोचते ।
तद्ददामि न सन्देहस्तपसा तोषितो ह्यहम् ॥ ७८.१४ ॥
कुण्डधार उवाच -
यदि तुष्टोऽसि मे देव वरदित्सुरिहागतः ।
ततो मन्नामकं लिङ्गं तीर्थं चैतद्भवत्विति ॥ ७८.१५ ॥
तथेत्युक्त्वा महादेवः सोमोऽन्तर्धानमागमत् ।
जगामा काशमाविश्य कैलासं धरणिधरम् ॥ ७८.१६ ॥
गते चादर्शन देव सोऽपि यक्षो मुदान्वितः ।
स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम् ॥ ७८.१७ ॥
अलंकृत्वा गजं धेनुं धूपपुष्पविलेपनैः ।
वितानैश्चामरैश्छत्रैस्तथैव लिङ्गपूजनैः ॥ ७८.१८ ॥
तर्पयित्वा द्विजान् सम्यगन्नपानादि भूषणैः ।
प्रीणयित्वा महादेवं ततः स्वभवनं ययौ ॥ ७८.१९ ॥
तदा प्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
युधिष्ठिर परं पुण्यं कुण्डलेश्वरसंज्ञकम् ॥ ७८.२० ॥
तत्र तीर्थे तु यः कश्चिदुपवासपरायणः ।
अर्चयेद्देवमीशानं सर्वपापैः प्रमुच्यते ॥ ७८.२१ ॥
सुवर्णं रजतं वापि मणिं मौक्तिकमेव च ।
ब्राह्मणेभ्यो ददात्यत्र स मुख्यो मोदते दिवि ॥ ७८.२२ ॥
तत्र तीर्थे नरः स्नात्वा ऋग्यजुः सामसु द्विजः ।
ऋचमेकां जपित्वा च चतुर्वेदफलं लभेत् ॥ ७८.२३ ॥
तस्मिंस्तीर्थे तु गोदानमन्नदानमथापि वा ।
यः प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव ॥ ७८.२४ ॥
यावन्ति तस्य रोमाणि तत्प्रसूतिकुलेषु च ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ७८.२५ ॥
स्वर्गवासो भवेत्तस्य पुत्रपौत्रसमन्वितः ।
तस्मिंस्तीर्थे महाभाग व्याघ्रश्चैव पिपासितः ॥ ७८.२६ ॥
निषादानां भयेनैव अटव्यामटति स्वयम् ।
निषादानां भर्यैर्नष्टः पतितो नर्मदाजले ॥ ७८.२७ ॥
जलप्लुतो महाभाग लिङ्गरूपधरोऽभवत् ।
उक्तश्चाकाशवाण्या वै व्याघ्रेश्वरमनुत्तमम् ॥ ७८.२८ ॥
पूज्यं वै त्रिषु लोकेषु ख्यातिं यास्यत्यसंशयम् ।
तत्र तीर्थे नरः स्नात्वा तल्लिङ्गमर्चयेत्तु यः ॥ ७८.२९ ॥
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः ।
एतत्ते कथितं राजन् कुण्डलेश्वरमुत्तमम् ॥ ७८.३० ॥
श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ ७८.३१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कुण्डलेश्वरमहिमा अनुवर्णनोनाम अष्टसप्ततितमोऽध्यायः ॥
अध्याय ७९
मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम् ।
यत्र सिद्धो महायोगी पिप्पलादो महातपाः ॥ ७९.१ ॥
युधिष्ठिर उवाच -
पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं प्रभो ।
माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः ॥ ७९.२ ॥
कस्य पुत्रो महाभाग किमर्थं तप्तवांस्तपः ।
एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ ७९.३ ॥
मार्कण्डेय उवाच -
मिथिलास्थो महाभाग वेदवेदाङ्गपारगः ।
याज्ञवल्क्यश्च पुरतश्चचार विपुलं तपः ॥ ७९.४ ॥
तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः ।
चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः ॥ ७९.५ ॥
ततस्त्वेकस्मिन् समये स्नाताहनि रजस्वला ।
अन्तर्वासं कृतवती दृष्ट्वा कर्कटकं रहः ॥ ७९.६ ॥
याज्ञवल्क्योऽपि तद्रात्रौ परिधानेन तेन वै ।
स्वप्नं दृष्ट्वात्यजच्छुक्रं प्रभातेऽन्वैषयत्पुनः ॥ ७९.७ ॥
तत सा ब्राह्मणी तात किमन्वेष्यसि भारत ।
केन कार्यं तव विभो वदस्व मम तत्त्वतः ॥ ७९.८ ॥
याज्ञवल्क्य उवाच -
अपवित्रो मया भद्रे स्वप्नो दृष्टोऽद्य वै निशि ।
शुक्लं मे चात्र वस्त्रं स्वं निक्षिप्तं तन्न दृश्यते ॥ ७९.९ ॥
तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीताभवन्नृप ।
तद्वस्त्रं तु मया ब्रह्मन् स्नात्वान्तर्धानकं कृतम् ॥ ७९.१० ॥
तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महातपाः ।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ ७९.११ ॥
किमेतदिति जल्पन्तमाकाशाद्वाग्विनिर्गता ।
तोषयन्ती च तं विप्रं प्रोवाच नृपते तदा ॥ ७९.१२ ॥
नास्य दोषो मया दृष्टस्तव चैव शुभव्रते ।
तव गर्भोदयो येन तत्र दैवं परायणम् ॥ ७९.१३ ॥
न विनाशोऽस्य कर्तव्यो यावत्कालस्य पर्ययः ।
तथेति व्रीडिता सा च दुर्मनेति विमानतः ॥ ७९.१४ ॥
पालयामास तं गर्भं यावत्पुत्रो व्यजायत ।
जातमात्रं तु तं गर्भं कथयित्वा न कंचन ॥ ७९.१५ ॥
अश्वस्थवृक्षमासाद्य सोत्ससर्ज महीतले ।
यानि सत्त्वानि लोकेषु स्थावराणि चराणि वै ॥ ७९.१६ ॥
तानि वै पालयन्त्वेनं बालकं त्यजति स्म सा ।
एवमुक्त्वा ततः साध्वी ब्राह्मणी नृपसत्तम ॥ ७९.१७ ॥
यथागतं जगामाथ सावस्थाय मुहूर्तकम् ।
पादौ पाणी विनिक्षिप्य विमृज्य नयने शूभे ॥ ७९.१८ ॥
आस्यं च विकृतं कृत्वा रुरोदोच्चैरनाथवत् ।
तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये ॥ ७९.१९ ॥
अकम्पयत्महीं तात सशैलवनकन्दराम् ।
ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम् ॥ ७९.२० ॥
न जहाति नगश्छायामार्पयच्च ततः पयः ।
आप्यायितस्ततस्तेन अमृतेनैव भारत ।
ततः स चिन्तयाविष्टो निर्ममे ग्रहगोचरम् ॥ ७९.२१ ॥
तेन क्रूरसमाचारः क्रूरदृष्ट्या निरीक्षितः ।
पपात सहसा भूमौ शनैश्चारी शनैश्चरः ॥ ७९.२२ ॥
शनैश्चरं बालकोऽपि पादेनैव परामृशत् ।
पीडितः सोऽपि बालेन उवाच वचनं तदा ॥ ७९.२३ ॥
किं मयाऽपकृतं विप्र पिप्पलाद महामुने ।
निष्क्रामन् गगने चैव पातितो धरणीतले ॥ ७९.२४ ॥
सौरिणाप्येवमुक्तस्तु पिप्पलादो महामुनिः ।
क्रोधरूपोऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप ॥ ७९.२५ ॥
पितृमातृविहीनस्य बालभावस्य दुर्मते ।
पीडां करोषि कस्मात्त्वं सौरे त्वमवशेषितः ॥ ७९.२६ ॥
शनैश्चर उवाच -
क्रूरस्वभावसंजाता मम दृष्टि द्विजोत्तम ।
मुञ्च त्वं मां च कर्ताहं यद्ब्रवीषि न संशयः ॥ ७९.२७ ॥
पिप्पलाद उवाच -
अद्य प्रभृतिबालानां जन्मतः षोडशीः समाः ।
पीडा त्वया न कर्तव्या एष ते समयः परः ॥ ७९.२८ ॥
एवमस्त्विति तं चोक्त्वा प्रजगाम यथागतः ।
देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम् ॥ ७९.२९ ॥
ततश्चादर्शनं तत्र गतवान् स महाग्रहः ।
विचिन्तयानश्चैकाकी क्रोधेन कलुषीकृतः ॥ ७९.३० ॥
आग्नेयीं हि दिशं ध्यात्वा जनयामास पावकम् ।
कृत्त्वा मांसं जुहावाग्नौ क्रियासम्भवतत्त्वतः ॥ ७९.३१ ॥
तावच्च जनिता कृत्या ज्वालामालाविभूषिता ।
हुतभुक्सदृशाकारा किंकरोमीति चाब्रवीत् ॥ ७९.३२ ॥
शोषयामि समुद्रं किं चूर्णयामि च पर्वतम् ।
भूमिं च वेष्टयामीह पातयित्वा नभस्तलम् ॥ ७९.३३ ॥
कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज ।
शीघ्रमादिश मे कार्यं न कालातिक्रमो भवेत् ॥ ७९.३४ ॥
तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः ।
क्रोधरक्तान्तनयन इदं वचनमब्रवीत् ॥ ७९.३५ ॥
महता क्रोधवेगेन मया त्वं चिन्तिता शुभे ।
पिता मे याज्ञवल्क्यस्तु तं त्वं घातय माचिरम् ॥ ७९.३६ ॥
एवमुक्ता तु सा शीघ्रं स्फुटन्तीव नभस्तलम् ।
मिथिलास्थो महाप्राज्ञो यत्र तेपे महातपाः ॥ ७९.३७ ॥
यावत्पश्यति दिङ्मार्गं ज्वलनार्कसमप्रभम् ।
याज्ञवल्क्यो महातेजास्तद्भूतं समुपस्थितम् ॥ ७९.३८ ॥
तां दृष्ट्वा सहसायान्तीं भीतभीतो महामुनिः ।
भूतेनाक्रमितो विप्रो जनकं नृपतिं ययौ ॥ ७९.३९ ॥
शरणार्थमनुप्राप्तं विद्धि मां नृपसत्तम ।
महाभूताच्च मां रक्ष यदि शक्नोषि मानद ॥ ७९.४० ॥
राजोवाच -
ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम् ।
प्रभुर्नैवाद्य शक्नोमि अन्यं गच्छ महामते ॥ ७९.४१ ॥
ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः ।
जगाम तेन चैवोक्त इन्द्रस्य शरणं ययौ ॥ ७९.४२ ॥
देवराज नमस्तेऽस्तु महाभूताच्च रक्ष माम् ।
तस्य तद्वचनं श्रुत्वाब्रवीदिन्द्रस्तदा वचः ॥ ७९.४३ ॥
न च शक्तः परित्रातुं ब्रह्मतेजो हि दुःसहम् ।
ततश्च ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः ॥ ७९.४४ ॥
जगाम विष्णुभवनं शक्तोऽपि त्यक्तवान् भयात् ।
ततः स परमोद्विग्नो निराशो जीविते नृप ॥ ७९.४५ ॥
अनुगम्यमानो भूतेन अगच्छच्च महेश्वरम् ।
तस्य योगबलोपेतो महादेवस्य पाण्डव ॥ ७९.४६ ॥
नखमांसान्तरे लुप्तो यथा देवो न पश्यति ।
अदृष्टमगमद्भूतं ज्वलनार्कसमप्रभम् ॥ ७९.४७ ॥
मुञ्च मुञ्चेति पुरुष मुञ्चेश्वरमुवाच ह ।
एवमुक्तो महादेवस्तेन भूतेन भारत ॥ ७९.४८ ॥
योगीन्द्रं दर्शयामास नखमांसान्तरे स्थितम् ।
संस्थाप्य कृत्यां भूतेशो ज्वलत्कालानलप्रभाम् ॥ ७९.४९ ॥
उवाच मा भैस्त्वं विप्र मा च गच्छ महामुने ।
ततस्तं सूक्ष्मदेहस्थं महादेवोऽब्रवीदिदम् ॥ ७९.५० ॥
किमस्य त्वं महाभूत कर्ता कृत्य वदस्व मे ।
कृत्योवाच -
क्रोधदीप्तेन देवेश पिप्पलादेन चिन्तिता ॥ ७९.५१ ॥
अस्य देहे पतिष्यामि अहिंस्यां विद्धि मां प्रभो ।
एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम् ॥ ७९.५२ ॥
वरिष्ठं बन्धयामास याज्ञवल्क्यस्य घातकम् ।
योगीश्वरं तं विप्रेन्द्रं दत्त्वाभीतिं युधिष्ठिर ॥ ७९.५३ ॥
विसर्जयित्वा देवस्तं तत्रैवान्तरधीयत ।
प्रेषयित्वा तु तं भूतं पिप्पलादोऽपि दुर्मनाः ॥ ७९.५४ ॥
मातापितृविहीनस्तु नर्मदातटमाश्रितः ।
एकनिष्ठो निराहारो वर्षाणि षोडशैव तु ॥ ७९.५५ ॥
तोषयामास देवेशमुमया सह शङ्करम् ।
हर उवाच -
परितुष्टोऽस्मि ते विप्र तपसानेन सुव्रत ॥ ७९.५६ ॥
वरं वृणीष्व ते दद्यां मनसाभीप्सितं शुभम् ।
पिप्पलाद उवाच -
यदि मे भगवांस्तुष्टो यदि देयो वरो मम ॥ ७९.५७ ॥
अत्र सन्निहितो देव मम नाम्ना च शङ्कर ।
एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम् ॥ ७९.५८ ॥
जगामादर्शनं देवो भूतसङ्घैर्निषेवितः ।
पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि ॥ ७९.५९ ॥
स्थापयित्वा महदेवं जगामोत्तरपर्वतम् ।
तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतो नृप ॥ ७९.६० ॥
तर्पयित्वा पितॄन् देवान् पूजयित्वा महेश्वरम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ ७९.६१ ॥
मृतो रुद्रपुरं याति पिप्पलेश्वरसन्निधौ ।
अथवा भोजयेद्विप्रान् पितॄनुद्दिश्य भक्तितः ॥ ७९.६२ ॥
द्वादशाब्दसहस्राणि तृप्ता गच्छन्ति सद्गतिम् ।
संन्यासेन तु यः कश्चित्तत्र तीर्थे तनुं त्यजेत् ॥ ७९.६३ ॥
अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ।
एतत्सर्वं समाख्यातं यत्त्वं मां परिपृष्टवान् ॥ ७९.६४ ॥
माहात्म्यं पिप्पलादस्य पिप्पलेश्वरमुत्तमम् ।
एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् ॥ ७९.६५ ॥
पठतां शृण्वतां चैव सर्वपापप्रमोचनम् ॥ ७९.६६ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे पिप्पलेश्वरमहिमानुवर्णनो नामैकोनाशीतितमोऽध्यायः ॥
अध्याय ८०
मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र विमलेश्वरमुत्तमम् ।
तत्र देवशिला रम्या महादेवेन भाषिता ॥ ८०.१ ॥
गर्जनं खेटकं नाम तत्र देवशिला शुभा ।
तत्र स्नात्वा तु यो भक्त्या तर्पयेत्पितृदेवताः ॥ ८०.२ ॥
तस्य ते द्वादशाब्दानि सुतृप्ता दिवि मोदिताः ।
तस्मिंस्तीर्थे तु यो भक्त्या ब्राह्मणान् पूजयेन्नृप ॥ ८०.३ ॥
स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते ।
युधिष्ठिर उवाच -
कानि दानानि विप्रेन्द्र शस्तानि धरणीतले ॥ ८०.४ ॥
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वकिल्बिषैः ।
मार्कण्डेय उवाच -
सुवर्णं रजतं ताम्रं मणिं मौक्तिकमेव च ॥ ८०.५ ॥
भूमिदानं तथा गावो मोचयन्त्यंशुमान्नरम् ।
तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम् ॥ ८०.६ ॥
रुद्रलोके वसेत्तावद्यावदाहूतसंप्लवम् ।
ततः पुष्करिणीं गच्छेत्कुरुक्षेत्रसमां नृप ॥ ८०.७ ॥
पूर्वं पुष्करिणी नाम कुरुक्षेत्रं कलौ स्मृतम् ।
तत्र स्नात्वा यजेद्देवं तेजोराशिं दिवाकरम् ॥ ८०.८ ॥
ऋचमेकां जपेत्सौम्यः सामवेदफलं लभेत् ।
यजुर्वेदस्य जपनं ऋग्वेदस्य तथैव च ॥ ८०.९ ॥
त्र्यक्षरं वा जपेन्मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः ॥ ८०.१० ॥
तत्र तीर्थे तु यः स्नात्वा विधिना पूजयेद्द्विजान् ।
तस्य कोटिगुणं दानं जायते नात्र संशयः ॥ ८०.११ ॥
कार्तिक्यां च तथा माध्यां वैशाख्यां तु विशेषतः ।
अमावास्यां व्यतीपाते संक्रमे वैधृतौ रवौ ॥ ८०.१२ ॥
कुरुक्षेत्रे नरः स्नात्वा रुद्रस्यानुचरो भवेत् ।
अनाशके जले ह्यग्नौ पञ्चाग्नौ वा तथापि वा ॥ ८०.१३ ॥
तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम ॥ ८०.१४ ॥
विहितं कर्मकुर्वाणः स गच्छति सतां गतिम् ।
युधिष्ठिर उवाच -
किं जपन्मुच्यते व्याधेर्ज्ञात्वा वर्णं द्विजोत्तम ॥ ८०.१५ ॥
किं कुर्वन्मुच्यते प्राणी याति लोकमनामयम् ।
मार्कण्डेय उवाच -
शृणु राजन्नवहित इतिहासं पुरातनम् ॥ ८०.१६ ॥
गुह्यतीर्थे समासाद्य ब्राह्मणो मुक्तवान् यथा ।
पुरा द्विजवरश्चासीद्गोविन्दो नाम नामतः ॥ ८०.१७ ॥
तस्य भार्या सुसम्पन्ना ब्राह्मणी च पतिव्रता ।
तस्यां संजनयामास पुत्रमेकं च सुन्दरम् ॥ ८०.१८ ॥
स बाल एव भवने क्रीडते शिशुलीलया ।
कदाचिद्ब्राह्मणश्रेष्ठः काष्ठमानयितुं गतः ॥ ८०.१९ ॥
वनान्नीत्वा काष्ठभारं गृहे पश्चाच्च क्षिप्तवान् ।
क्रीडन्नास्ते शिशुस्तत्र काष्ठभारेण पीडितः ॥ ८०.२० ॥
ममार बालकस्तत्र द्विजो न ज्ञातवांस्तदा ।
ब्राह्मण्यपि तदा तस्मै न शशंस भयात्तथा ॥ ८०.२१ ॥
पुर्नद्विजः स गोविन्दो विपिनं संजगाम ह ॥ ८०.२२ ॥
ब्राह्मण्युवाच -
रावणो ब्रह्मणः पौत्रस्त्रैलोक्यं यस्य शङ्कते ।
स हतो रामचन्द्रेण सपुत्रामात्यबान्धवः ॥ ८०.२३ ॥
एवं पुत्रं विना सौख्यं मर्त्ये नाके न विद्यते ।
यश आख्यायितं यस्य स्वर्गार्थं यस्य भारती ॥ ८०.२४ ॥
मिष्टान्नं ब्राह्मणस्यार्थे स्वर्गवासोऽपि विद्यते ।
पुत्रोत्पत्तिविनाशाभ्यां नापरं सुखदुःखयोः ॥ ८०.२५ ॥
ब्रह्महत्याश्वमेधाभ्यां नापरं पापपुण्ययोः ।
किं ब्रवीमीति हे वत्स नानुसौख्यं सुतं विना ॥ ८०.२६ ॥
एवं बहुविधं दुःखं प्रलपित्वा पुनः पुनः ।
बालं गृहगते विप्रे संगोप्य ब्राह्मणी तथा ॥ ८०.२७ ॥
एवं तस्यां विलपन्त्यां गता रात्रिर्युधिष्ठिर ।
भूम्यां प्रसुप्तं गोविन्दं पुत्रशोकेन पीडिता ॥ ८०.२८ ॥
यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम् ।
कृमिराशिमयं तावद्गोविन्दं नृपसत्तम ॥ ८०.२९ ॥
दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् ।
एवं दुःखनिमग्नायाः शर्वरी विगता तदा ॥ ८०.३० ॥
पुनः प्रातस्तु गोविन्दो दर्भाय च वनं गतः ।
एवं न ज्ञातवान् विप्रः काष्ठेन च हतं सुतम् ॥ ८०.३१ ॥
गताश्च दिवसाः पञ्चब्राह्मण्या गोपितं च यत् ।
पशुपालः पञ्चमेऽह्नि महिषीरुत्तमाश्च गाः ॥ ८०.३२ ॥
अरण्ये महिषीर्मुक्त्वा गाश्च भोक्तुं गृहं गतः ।
विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः ॥ ८०.३३ ॥
यावद्भक्षाम्यहं स्वामिन्महिषीर्गाश्च रक्षय ।
ततः स त्वरितो गाश्च ब्राह्मणो महिषीः प्रति ॥ ८०.३४ ॥
जगाम महिषीर्गाश्च विप्रस्य तस्य रक्षतः ।
धावमानस्य गावश्च महिष्यः सङ्गमं गताः ॥ ८०.३५ ॥
तत्र प्रविष्टास्तु जले नद्या रेवासुसङ्गमे ।
तज्जलं पीतमात्रं तु त्वरया तेन वारिताः ॥ ८०.३६ ॥
अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे ।
आजगाम ततः पश्चाद्भवनं दिनसंक्षये ॥ ८०.३७ ॥
भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ ।
निद्राभिभूतो दुःखेन श्रमेणैव तु खेदितः ॥ ८०.३८ ॥
पुनस्तं चार्धरात्रे तु तस्य भार्या निरीक्षते ।
कृमिभिर्वेष्टितं गात्रं क्वचित्पश्यत्यवेष्टितम् ॥ ८०.३९ ॥
पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता ।
उवाच दुष्कृतं तस्य साध्वसाविष्टचेतना ॥ ८०.४० ॥
भार्योवाच -
अतीते पञ्चमे चाह्णि इन्धनं क्षिपता तु ते ।
गृहे पश्चात्स्थितो बालस्त्वज्ञातो घातितस्त्वया ॥ ८०.४१ ॥
मया तत्पातकं घोरं त्वत्कृतं न प्रकाशितम् ।
तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम् ॥ ८०.४२ ॥
न सुखं तव गात्रस्य न च पश्यामि चात्मनः ।
निद्रा प्रणष्टा मे नाथ रतिश्चैव त्वया सह ॥ ८०.४३ ॥
श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः ।
स्मृत्वा स्मृत्वा च तं रात्रौ परितापो न शाम्यति ॥ ८०.४४ ॥
कीर्तनान्नश्यतेऽधर्मो वर्धतेऽसौ च गूहनात् ।
इह लोके परे चैव पापस्यान्तो न विद्यते ॥ ८०.४५ ॥
एवं संचिन्त्यमानाहं स्थिता रात्रौ भयातुरा ।
कृमिराशिमयं त्वां तु पश्यामि कथयामि किम् ॥ ८०.४६ ॥
पुनश्च कान्त त्वद्देहं भ्रूणहत्याकृमिप्लुतम् ।
क्वचित्तुदन्ति ते चैव क्वचिन्नष्टाः समन्ततः ॥ ८०.४७ ॥
एतत्संस्मृत्य संस्मृत्य विमृशन्ती पुनः पुनः ।
न जाने कारणं किंचित्पृच्छामि कथयस्व मे ॥ ८०.४८ ॥
तडागं वापि सरितं तीर्थं वा देवतालयम् ।
यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे मतिः ॥ ८०.४९ ॥
एवमुक्तस्त्वसौ विप्रः कथयामास भारत ।
भार्यया पूर्ववृत्तान्तं रममाणो नृपोत्तम ॥ ८०.५० ॥
गोलुलायी निवृत्त्यर्थं नर्मदा सङ्गमं गतः ।
नाभिमात्रे जले मग्नस्तोयं पीतं यथेष्टतः ॥ ८०.५१ ॥
नान्यत्तीर्थं विजानामि नर्मदा च सरिद्वरा ।
एवं श्रुत्वा च तत्सर्वमुपवासः कृतः क्षणात् ॥ ८०.५२ ॥
भर्त्रा सह गता तत्र सङ्गमे वरवर्णिनी ।
स्नात्वा विधिप्रयुक्तेन सङ्गमे सुरपूजिते ॥ ८०.५३ ॥
तर्पयामास देवेशं शङ्करं च सहोमया ।
पञ्चामृतैः स्नापयित्वा ब्राह्मण्या सहितो द्विज ॥ ८०.५४ ॥
गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः ।
अपूजयत्तत्र लिङ्गं देवीं कात्यायनीं शुभाम् ॥ ८०.५५ ॥
रात्रौ जागरणं कृत्वा भर्त्रा तेन सहैव सा ।
ततः प्रभाते विमले द्विजं सम्पूज्य यत्नतः ॥ ८०.५६ ॥
गोदानेन हिरण्येन वस्त्रेणान्नेन भारत ।
गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणं शुभम् ॥ ८०.५७ ॥
उक्तश्चाकाशवाण्या तु तीर्थं गुह्यावती त्विदम् ।
गुह्येश्वरं तत्र लिङ्गं पातालादुत्थितं तदा ॥ ८०.५८ ॥
गुह्यावतीनर्मदयोः सङ्गमो गुणवानभूत् ।
मुक्तपापो गृहं यातः स्वभार्यासहितो द्विजः ॥ ८०.५९ ॥
एतत्तीर्थं पापहरं बालहत्याप्रणाशनम् ।
तत्र स्नात्वा च जप्त्वा च दत्त्वा ब्राह्मणभोजनम् ॥ ८०.६० ॥
उपास्य श्राद्धकरणात्तिलोदकप्रदानतः ।
निवसेच्छिवलोके हि यावदाहूत संप्लवम् ॥ ८०.६१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे गुह्यावतीतीर्थमहिमानुवर्णनो नामाशीतितमोऽध्यायः ॥
अध्याय ८१
मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे ।
मेघनादसमीपे तु विश्वरूपा सरिद्वरा ॥ ८१.१ ॥
निर्गता विश्वरूपस्य शरीरादुपकुर्वतः ।
पुरा दारुवने देवो लिङ्गहीनः कृतो द्विजैः ॥ ८१.२ ॥
नर्मदातटमाश्रित्य तपः कुर्वंस्तदा नृप ।
विश्वरूपोऽभवद्देवो निर्गता सरितां वरा ॥ ८१.३ ॥
गता सा नर्मदातोयं सङ्गमो गुणवानभूत् ।
तस्मिंस्तीर्थे नरः स्नात्वा स भवे न पुनर्भवेत् ॥ ८१.४ ॥
तत्र यत्क्रियते कर्म सर्वं तदक्षयं भवेत् ।
सारिका सिद्धिमायाता पतिता तीर्थसङ्गमे ॥ ८१.५ ॥
पूर्वमप्सरसां श्रेष्ठा शक्रशापादकामतः ।
चित्राङ्गदेन रमिता काचित्कष्टमवाप ह ॥ ८१.६ ॥
सारिका भव कल्याणि वर्षाणां साऽग्रविंशतिम् ।
मृत्वा त्वं नर्मदातोये विश्वरूपा सुसङ्गमे ॥ ८१.७ ॥
विचित्रा बहुचार्वङ्गी सञ्जाता सारिका नृप ।
जातिस्मरा सुराभावा नर्मदातटमाश्रिता ॥ ८१.८ ॥
ततः काले च संप्राप्ते प्रज्वाल्य पावकं शुभम् ।
प्रविष्टा सा शुभाचारा विश्वरूपा सुसङ्गमे ॥ ८१.९ ॥
दिव्यदेहधरी राजन् प्राप्ता शक्रस्य मन्दिरम् ।
एतदन्तरमासाद्य सारिकातीर्थमुच्यते ॥ ८१.१० ॥
तत्र यत्क्रियते कर्म श्राद्धं यज्ञः शिवार्चनम् ।
सर्वं कोटिगुणं विद्यान्मेघनादस्य दर्शनात् ॥ ८१.११ ॥
अवशः स्ववशो वापि यस्तु प्राणान् परित्यजेत् ।
न तस्य पुनरावृत्तिर्घोरे संसारसागरे ॥ ८१.१२ ॥
ख्यातानि पञ्चलिङ्गानि यानि दृष्ट्वा शिवं व्रजेत् ।
मानवो मनुजश्रेष्ठ शृणु तानि युधिष्ठिर ॥ ८१.१३ ॥
मेघनादं च गोष्ठेशं वागीशं काकडेश्वरम् ।
लक्षेश्वरं पञ्चलिङ्गान्येकाहे यस्तु पूजयेत् ॥ ८१.१४ ॥
अनेनैव शरीरेण स नरो हि शिवं व्रजेत् ।
कोटियज्ञफलं प्राप्य पश्चान्मोक्षमवाप्नुयात् ॥ ८१.१५ ॥
आख्यानं कथयिष्यामि पुरावृत्तं तवानघ ।
धर्मसेनः पुरा राजा अयोध्याधिपतिर्बली ॥ ८१.१६ ॥
धर्मेण राज्यं कृतवान् यज्ञांश्च बहुदक्षिणान् ।
शृण्वन् स धर्मशास्त्राणि नर्मदाचरितं तथा ॥ ८१.१७ ॥
श्रुत्वा विनिर्गतो राजा रेवाया उत्तरे तटे ।
मेघनादं समभ्यर्च्य स्नात्वा वै नर्मदाजले ॥ ८१.१८ ॥
उद्गच्छति दिनकरे अश्वारूढो नरेश्वरः ।
उत्तरां दिशमाश्रित्य गतो गोष्ठेश्वरं शिवम् ॥ ८१.१९ ॥
यथाविधानं सम्पूज्य वागीश्वरं गतस्ततः ।
तत्र स्नात्वा विधानेन पूजयित्वा शिवं नृपः ॥ ८१.२० ॥
चन्दनागुरुकर्पूरैर्धूपैर्दीपैर्विधानकैः ।
अश्वारूढो नृपश्रेष्ठः काकडेश्वरमागतः ॥ ८१.२१ ॥
तं प्रपूज्य ततो राजा गत्वा वै नार्मदे जले ।
लक्षेश्वरं पूजयित्वा स्थितं वै विधिपूर्वकम् ॥ ८१.२२ ॥
मेघनादं ततो गत्वा सूर्यश्चास्तमुपागमत् ।
ध्यात्वा स्वयं कालरूपं यावत्तिष्ठति वै नृपः ॥ ८१.२३ ॥
तावद्घोरोऽपि तुरगो ह्यन्तरिक्षचरस्तदा ।
दिव्यदेहधरः सश्चाप्यप्सरोभिः समावृतः ॥ ८१.२४ ॥
विमाने देवराजस्य ययाविन्द्रपुरीं स्थितः ।
शुनी पृष्ठे तु या राज्ञस्तीर्थयात्रां प्रकुर्वती ॥ ८१.२५ ॥
दिव्यदेहधरा सापि विमानेन गता दिवि ।
धर्मसेनोऽपि तां दृष्ट्वा विस्मयाविष्टचेतनः ॥ ८१.२६ ॥
अश्वरूपं जगादाथ किमेतदिति भारत ।
उवाचाकाशगो वाचं कथं त्वं खिद्यसे नृप ॥ ८१.२७ ॥
शरीरजेन कष्टेन तपः साध्या विभूतयः ।
पादचारी हि गच्छ त्वं परपादैर्गतो ह्यसि ॥ ८१.२८ ॥
भूयो यात्रां प्रकुरुषे तदा सिद्धिमवाप्स्यसि ।
ततो राजा च तस्याथ श्रुत्वा तद्वचनं तदा ॥ ८१.२९ ॥
पुनर्द्वितीयदिवसे प्रस्थितो लिङ्गपूजनम् ।
पञ्चलिङ्गान् समभ्यर्च्य समायातस्तु नर्मदाम् ॥ ८१.३० ॥
मेघनादं यदापश्यद्द्वारे देवं च दृष्टवान् ।
पञ्चवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम् ॥ ८१.३१ ॥
वृषारूढं जगद्गर्भं शशाङ्ककृतशेखरम् ।
दृष्ट्वा तं देवदेवेशं तुष्टाव परमेश्वरम् ॥ ८१.३२ ॥
जय देव महादेव महापातकनाशन ।
संसारसागरे मग्नं मां समुद्धर साम्प्रतम् ॥ ८१.३३ ॥
हर उवाच -
वरं वृणु महाभाग यत्ते मनसि वर्तते ।
तद्ददामि न सन्देहश्श्विभक्तो हि पुत्रक ॥ ८१.३४ ॥
यदि तुष्टोऽसि मे देव तन्मां सहचरं कुरु ।
एकाहे पञ्चलिङ्गानि पूजयिष्यति यो नरः ॥ ८१.३५ ॥
स तवानुचरो देव भवत्वेष वरो मम ।
धर्मसेनवचः श्रुत्वा भवत्वेवं हरोऽब्रवीत् ॥ ८१.३६ ॥
तं गृहीत्वा तु राजानं कैलासं स जगाम ह ।
स्वदेहस्थं चकारासौ धर्मसेनं नृपं नृप ॥ ८१.३७ ॥
एतत्ते कथितं राजन्नितिहासं पुरातनम् ।
श्रवणात्कीर्तनादस्य अश्वमेधफलं लभेत् ॥ ८१.३८ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमहिमानुवर्णनो नामैकाशीतितमोऽध्यायः ॥
अध्याय ८२
मार्कण्डेय उवाच -
अथान्यत्कथयिष्यामि तीर्थं पापप्रणाशनम् ।
मयूरकुक्कुटं नाम ब्रह्महत्या व्यपोहनम् ॥ ८२.१ ॥
मृकण्डस्याश्रमं पुण्यं नर्मदादक्षिणे तटे ।
मृकण्डो नाम भूपाल ऋषिः परमधार्मिकः ॥ ८२.२ ॥
तपस्तेपे महाभाग दिव्यैर्वर्षसहस्रकैः ।
तस्याश्रमपदे रम्ये मुनयः शंसितव्रताः ॥ ८२.३ ॥
वसन्ति स्म जलाहाराः शुष्कपत्रकृताशनाः ।
केचित्तन्न निराहारा मोक्षोपायविचिन्तकाः ॥ ८२.४ ॥
एतस्मिन्नन्तरे राजन् गन्धर्वौ शक्रगायनौ ।
हेतिप्रहेतिनामानौ गतौ शक्रसभां नृप ॥ ८२.५ ॥
वधूरप्सरसां श्रेष्ठा दृष्टा ताभ्यां युधिष्ठिर ।
दृष्टमात्रौ तु गन्धर्वौ कामबाणप्रपीडितौ ॥ ८२.६ ॥
हेतिः कुक्कुटशब्देन प्रहेतिर्बर्हिणस्तथा ।
घोष्यमाणौ सुमधुरं सादयामास तु च ताम् ॥ ८२.७ ॥
वृत्रहा तदभिप्रायं ज्ञात्वा शापं ददौ तवा ॥ ८२.८ ॥
पूर्णे दिव्यशते वर्षे पश्चादत्रागमिष्यथः ।
तिर्यग्योनौ तु संप्राप्तौ गन्धर्वौ हि युधिष्ठिर ॥ ८२.९ ॥
जातिस्मरौ दुराचारौ पक्षिणौ प्रियदर्शीनौ ।
सर्वतीर्थान्युत्तरन् तौ नारदं च ददर्शतुः ॥ ८२.१० ॥
गन्धर्वावूचतुः॒
भविष्यावः शुभाचार ब्रह्मपुत्र तपोधन ।
कर्मणा केन चावां हि मुक्तावेतौ वदस्व तत् ॥ ८२.११ ॥
नारद उवाच -
नर्मदा दक्षिणे तीरे मृकण्डस्याश्रमं शुभम् ।
तिर्यग्योनिविमोक्षं च तीर्थं हि परमं मतम् ॥ ८२.१२ ॥
जलाप्लुतौ नर्मदायाः सर्वं तत्र भविष्यति ।
ततो हेतिः प्रहेतिश्च सुस्नातौ दिव्यरूपिणौ ॥ ८२.१३ ॥
एकेन स्नानमात्रेण पक्षिणौ दिव्यतां गतौ ।
स्नात्वा तु विधिनाऽनेन ध्यात्वा देवं सदाशिवम् ॥ ८२.१४ ॥
उच्चार्य्याघोरमन्त्रं तौ सदा ध्यानस्थितौ नृप ।
एतस्मिन्नन्तरे राजन् पातालादुत्थितं शुभम् ॥ ८२.१५ ॥
शतसूर्यप्रकाशं हि लिङ्गं तत्र युधिष्ठिर ।
कुक्कुटेश्वरमेकं तु मयूरेश्वरमेव च ॥ ८२.१६ ॥
गन्धर्वौ तु विमानस्थौ गतौ शक्रस्य मन्दिरम् ।
तस्मिंस्तीर्थे नरः स्नात्वा भवे नैव पुनर्भवेत् ॥ ८२.१७ ॥
स्नात्वा तिलोदकं दत्त्वा पितॄणां परमा गतिः ।
अवशः स्ववशोऽवापि यस्तु प्राणान् परित्यजेत् ॥ ८२.१८ ॥
न तस्य पुनरावृत्तिर्घोरे संसारसागरे ।
तत्र कीटाः पतङ्गाश्च पक्षिणोऽथ सरीसृपाः ॥ ८२.१९ ॥
मण्डूकाः पापवृक्षाश्च मृता यान्ति शिवं पदम् ॥ ८२.२० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे मृकण्डाश्रमकीर्तनो नाम द्व्यशीतितमोऽध्यायः ॥
अध्याय ८३
मार्कण्डेय उवाच -
ततोऽन्यत्परमं तीर्थं चन्द्रमत्यास्तु सङ्गमे ।
चन्द्रेश्वरं सिद्धलिङ्गं तथा सिद्धेश्वरं पुनः ॥ ८३.१ ॥
घण्टेश्वरं महिषेशमश्वतीर्थमतः परम् ।
वृषसेनं हयग्रीवं शुकतीर्थमतः परम् ॥ ८३.२ ॥
रमेश्वरं ततो गच्छेत्तीर्थं पापप्रणाशनम् ।
मेकलायास्तटे राजन्महापातकनाशनम् ॥ ८३.३ ॥
यदा दारुवने पूर्वं महादेवेन मोहिताः ।
ब्राह्मणानां स्त्रियस्तत्र रममाणाः समागताः ॥ ८३.४ ॥
चिन्तयन्त्यश्च ता मोक्षं मेकलातीरमाश्रिताः ।
ताभिश्च रममाणाभिरावृतं शिवपूजनम् ॥ ८३.५ ॥
नीलोत्पलदलैर्बिल्वैर्मल्लिकाजातिकुन्दकैः ।
शून्यं प्रपूजितं यावत्तावल्लिङ्गं समुत्थितम् ॥ ८३.६ ॥
पातालादागतं लिङ्गं ज्वलत्कालानलप्रभम् ।
रमेश्वरेति विख्यातं रममाणात्समुत्थितम् ॥ ८३.७ ॥
स्त्रीणां उवाच देवेशः शापमोक्षो भवत्विति ।
गच्छन्तु सर्वाः स्वगृहं साम्प्रतं गतकल्मषाः ॥ ८३.८ ॥
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।
तस्मिंस्तीर्थे नरः स्नात्वा स भवे न पुनर्भवेत् ॥ ८३.९ ॥
अनाशकेन चाग्नौ हि ये मृता न पुनर्भवाः ।
तिलोदकं पितॄणां तु पिण्डदानं यथाविधि ॥ ८३.१० ॥
श्राद्धेनैव च दानेन पितॄणां परमा गतिः ।
इन्द्रेण ब्रह्मणा पूर्वं विष्णुना धनदेन च ॥ ८३.११ ॥
रक्षसा रावणेनाथ तथा चेन्द्रजिता नृप ।
जपो जप्तस्तपस्तप्तं यज्ञानि विविधानि च ॥ ८३.१२ ॥
कृतानि नृपशार्दूल गता हि परमां गतिम् ।
अन्यच्च कथयिष्यामि हारिणं तीर्थमुत्तमम् ॥ ८३.१३ ॥
हरिणेशं सिद्धलिङ्गं तथा वै धनुरीश्वरम् ।
बाणेश्वरं परविद्धि तथा वै लुब्धकेश्वरम् ॥ ८३.१४ ॥
लिङ्गरूपाणि पूजयित्वा शिवं व्रजेत् ।
आख्यानं कथयिष्यामि पुरावृत्तं युधिष्ठिर ॥ ८३.१५ ॥
अर्जुनो लुब्धको नाम मन्दजातिसमुद्भवः ।
पर्यटन्मृगयां राजन्नर्मदातीरमागतः ॥ ८३.१६ ॥
दृष्ट्वा यूथं मृगाणां तु धावमानः पुनः पुनः ।
पलायमानाः सर्वे ते एकः पश्चात्स्थितो मृगः ॥ ८३.१७ ॥
हतो मध्यदिने सोऽद्य कुरङ्गो नर्मदातटे ।
पतितोऽसौ गतप्राणो दिव्यदेहधरः पुनः ॥ ८३.१८ ॥
विमाने हंसयुक्ते वै ब्रह्मलोकं जगाम ह ।
गते तु हरिणे सोऽथ लुब्धकश्चिन्तयान्वितः ॥ ८३.१९ ॥
महापापान्यनेकानि कृतानि तु मया पुनः ।
का गतिं याम्यहं चाथ श्रेयसे मरणं मम ॥ ८३.२० ॥
चिन्तयित्वा ततो राजन् पतितो नर्मदाजले ।
तत्क्षणाद्दिव्यदेहोऽसौ गन्धर्वपुरमाययौ ॥ ८३.२१ ॥
गते तस्मिन् देवलोके धनुर्बाणौ जले स्थितौ ।
चत्वार्येतानि लिङ्गानि ख्यातानि भुवनत्रये ॥ ८३.२२ ॥
हरिणेश्वरं च बाणेशं लुब्धेशं धनुरीश्वरम् ।
रमेश्वरं पञ्चमं तु पञ्चलिङ्गानि कीर्तयेत् ॥ ८३.२३ ॥
न तस्य पुनरावृत्तिर्घोरे संसारसागरे ।
तस्मिंस्तीर्थे नरो राजन् स्नात्वा शिवपुरं व्रजेत् ॥ ८३.२४ ॥
ब्रह्महत्यादि पापानि विलयं यान्ति पार्थिव ।
अनाशके चार्धजले मृतः शिवमवाप्नुयात् ॥ ८३.२५ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे रमेश्वरहरिणेश्वरलुब्धकेश्वरधनुरीश्वरबाणेश्वरकथनो नाम त्र्यशीतितमोऽध्यायः ॥
अध्याय ८४
मार्कण्डेय उवाच -
तत्र स्नात्वा तु भक्त्या य उपवासपरायणः ।
क्षपाजागरणं कुर्याद्दद्याद्दानं च यत्नतः ॥ ८४.१ ॥
देवस्य स्नपनं कुर्यादमृतैः पञ्चभिस्तथा ।
समालभेद्यथाशक्त्या पूजां कृत्वा विधानतः ॥ ८४.२ ॥
पात्रं परीक्ष्य दातव्यमात्मनः श्रेय इच्छता ।
पितरस्तस्य तृप्यन्ति द्वादशाब्दं न संशयः ॥ ८४.३ ॥
गच्छति तत्र दाता च यत्र देवो निरञ्जनः ।
गृहमध्ये प्रविष्टस्तु स्मरन्नामास्य शक्तितः ॥ ८४.४ ॥
नीलाद्रौ तु च यत्पुण्यं तत्समस्तं लभेत सः ।
शूलभेदे च यः कुर्याच्छ्राद्धं पर्वणि पर्वणि ॥ ८४.५ ॥
विशेषाच्चैव मासान्ते तस्य पुण्यफलं शृणु ।
केदारे चैव यत्पुण्यं कुब्जायां च तथा नृप ॥ ८४.६ ॥
कनखले चैव यत्पुण्यं गङ्गासागरसङ्गमे ।
सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः ॥ ८४.७ ॥
अर्बुदे चैव यत्पुण्यं पुण्यं चामरपर्वते ।
गङ्गाद्यैः सर्वतीर्थैश्च फलं प्राप्नोति मानवः ॥ ८४.८ ॥
अस्मिंस्तीर्थे तथा पुण्यं लभते नात्र संशयः ।
विधिमन्त्रसमायुक्तं तर्पयेत्पितृदेवताः ॥ ८४.९ ॥
कुलानि तारयत्येव दश पूर्वापराणि सः ।
दक्षिणां चैव मर्त्यश्च शुचिर्भूत्वा समाहितः ॥ ८४.१० ॥
न्यासं कृत्वा तु पूर्वोक्तं प्रदद्यादष्टपुष्पकम् ।
शास्त्रोक्तैरष्टभिर्मन्त्रैर्मानसैः शृणु तांस्तथा ॥ ८४.११ ॥
वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः ।
वानस्पत्यं भवेत्पुष्पं प्राजापत्यं तु सप्तमम् ॥ ८४.१२ ॥
अष्टमं शिवपुष्पं च शृण्वेतेषां विनिर्णयम् ।
वारिजं सलिलं ज्ञेयं सौम्यं मधुयुतं पयः ॥ ८४.१३ ॥
आग्नेयं धूपदीपं च वायव्यं चन्दनादिकम् ।
पार्थिवं कन्दमूलाद्यं वानस्पत्यफलात्मकम् ॥ ८४.१४ ॥
प्राजापत्यमन्नाद्यं च शिवपुष्पमुपासनम् ।
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥ ८४.१५ ॥
तृतीयं च दयापुष्पमेभिस्तुष्यन्ति देवताः ।
तपसा चार्चयेद्भक्त्या अत्र तीर्थे नराधिप ॥ ८४.१६ ॥
छत्रं च चामरं दद्याच्छय्यां चोपानहौ तथा ।
तेन पूजनमात्रेण पूजिताः पुरुषास्त्रयः ॥ ८४.१७ ॥
स्वर्गलोके वसेत्तावद्यावदाहुत संप्लवम् ।
शूलपाणेस्तु यो भक्त्या स्नपनं चैव कारयेत् ॥ ८४.१८ ॥
पञ्चामृतेन यश्चैव यक्षकर्दमकुंकुमैः ।
समालभेच्च देवेशं श्रीखण्डैरगरादिभिः ॥ ८४.१९ ॥
नानाविधैश्च पुष्पैश्चार्चां कुर्वन्ति ये द्विजाः ।
रुद्रं पुरुषसूक्तं च लोके यः स्वस्वसूत्रकम् ॥ ८४.२० ॥
इषे त्वादिकमन्त्रादि ज्योतिर्ब्राह्मणमेव च ।
गायत्री च मधुश्चैव मण्डलब्राह्मणमेव च ॥ ८४.२१ ॥
एतज्जपं तु ये भक्त्या यजुर्वेदसमुद्भवम् ।
देवव्रतं नाम दैव्यं पुरुषास्तत्पुरं ययुः ॥ ८४.२२ ॥
आसीत्पुरा महाराज अन्धको नाम दुर्जय ।
आराधयामास शिवं चिरकालमुपस्थितः ॥ ८४.२३ ॥
प्रसन्नो भगवान् देवो वरं याचस्व सुव्रत ।
वरं लब्ध्वा तदा दैत्योऽधावत्सहर्षतोऽन्धकः ॥ ८४.२४ ॥
पुरे जनाश्च दृश्यन्ते भाजनैर्रत्नपूरितैः ।
साक्षतैर्भाजनैस्तस्य शतसाहस्रयोषितः ॥ ८४.२५ ॥
मन्त्रान् पठन्ति विप्राश्च माङ्गल्यनिस्वनेन च ।
भूपं चामात्यभृत्यैश्च राज्याश्वरथदन्तिभिः ॥ ८४.२६ ॥
वर्धापयन्ति ते सर्वे ये केचित्पुरवासिनः ।
हृष्टः पुष्टो वसंस्तत्र स सुरैर्नाभिभूयते ॥ ८४.२७ ॥
वरलब्धं तु तं ज्ञात्वा गीर्वाणाः शङ्कितास्तदा ।
एकीभूताश्च ते सर्वे शक्रस्य शरणं ययुः ॥ ८४.२८ ॥
समागतान् सुरान् दृष्ट्वा शक्रो वचनमब्रवीत् ।
कथं समागतास्सर्वे यूयं च त्रिदिवौकसः ॥ ८४.२९ ॥
कथं च भयमुत्पन्नं कथयध्वं महासुराः ॥ ८४.३० ॥
देवा ऊचुः॒
मृत्युलोकेऽभवत्पापस्त्वन्धको नाम दुर्मदः ॥ ८४.३१ ॥
तस्माच्च भयमापन्ना भवच्छरणमागताः ।
एतस्मिन्नन्तरे रौद्रो दानवो बलदार्पितः ॥ ८४.३२ ॥
एकाकी स्यन्दनारूढ आयुधैर्विविधैर्युतः ।
अन्धको राजशार्दूल ययौ शक्रपुरीं ततः ॥ ८४.३३ ॥
स्वर्णप्राकारसंयुक्तां शोभितां विविधैर्गृहैः ।
दुर्गमां शत्रुवर्गस्य सदा पार्थिवसत्तम ॥ ८४.३४ ॥
प्रविवेशासुरस्तत्र लीलया स्वगृहं यथा ।
समुत्थाय ततः शक्रः स्वकीयंचासनं ददौ ॥ ८४.३५ ॥
उपविष्टोऽन्धकस्तत्र शक्रस्यैवासने शुभे ।
शक्र उवाच -
किं वो ह्यागमनं चात्र किं कार्यं कथयस्व मे ॥ ८४.३६ ॥
यदस्मदीयं वित्तं च तत्ते दास्यामि दानव ।
अन्धक उवाच -
न चाहं कामये वित्तं न गजान्न तुरंगमान् ॥ ८४.३७ ॥
स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूमिकम् ।
ऐरावतं महानागं सैन्धवोच्चैः श्रवोहयम् ॥ ८४.३८ ॥
उर्वश्यादीनि सर्वाणि वादित्रत्रितयानि च ।
अन्याः स्वीया विभूतीश्च दर्शयस्व शचीपते ॥ ८४.३९ ॥
तस्यैतद्वचनं श्रुत्वा शक्रोऽपि भयविह्वलः ।
सर्वाणि च पदार्थानि दर्शयामास चान्धकम् ॥ ८४.४० ॥
तदागत्य सुरैः सार्धं यक्षगन्धर्वकिन्नरैः ।
नृत्यन्त्यप्सरसस्तत्र वादित्रैर्विविधैर्नृप ॥ ८४.४१ ॥
तत्तस्य विभ्रमच्चित्तं दृष्ट्वाप्यप्सरसस्तदा ।
तेन देवगणास्सर्वे त्रस्ताः पार्थिवसत्तम ॥ ८४.४२ ॥
संग्रामैर्विविधैस्तत्र चक्रवज्रारिभीषणैः ।
सन्तापिताः सुरास्सर्वे क्षयं नीता ह्यनेकशः ॥ ८४.४३ ॥
आदित्य मरुताद्याश्च भग्नास्संग्राममण्डले ।
यथा सिंहकराक्रान्ताः श्वापदा व्यचरन् वने ॥ ८४.४४ ॥
तद्वदेकेन ते देवाः कृतास्सर्वे पराङ्मुखाः ।
बलाद्देशेषु ग्रामेषु प्रजाः पीडयतेऽनिशम् ॥ ८४.४५ ॥
आकम्प्य गृह्यते क्षीरं शाकं वासस्तथैव च ।
न सम्माने वचस्तेषां प्रजासन्तापने रतः ॥ ८४.४६ ॥
गृहीत्वा शक्रभार्यां च दानवोऽपि गृहं गतः ।
ततः सुराश्च शक्रश्च ब्रह्माणं शरणं ययुः ॥ ८४.४७ ॥
गजैश्च पर्वताकारैरश्वैश्चैव गजोपमैः ।
स्यन्दनैर्गगनाकारैः सिंहशार्दूलयोजितैः ॥ ८४.४८ ॥
कच्छपैर्मकरैश्चापि मृगमेषैस्तथोरगैः ।
ब्रह्मलोकमनुप्राप्ता देवाश्चेन्द्रपुरोगमाः ॥ ८४.४९ ॥
दृष्ट्वा पद्मोद्भवं देवं प्रणम्येशं प्रतुष्टुवुः ।
जयदेव जगन्नाथ जयसंभूति कारक ॥ ८४.५० ॥
पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः ।
सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम् ॥ ८४.५१ ॥
मेघगम्भीरया वाचा ब्रह्मा प्रोवाच वासवम् ।
किं वो ह्यागमनं देवास्सर्वेषां वै विवर्णता ॥ ८४.५२ ॥
केनावमानितास्सर्वे तत्सर्वं मे निवेद्यताम् ।
देवा ऊचुः॒
अन्यको नाम नाम्नेति दानवो बलदर्पितः ॥ ८४.५३ ॥
तेन देवगणास्सर्वे धनरत्नैर्विवर्जिताः ।
हत्वा देवगणान्नाथ पर्शुचक्रासितोमरैः ॥ ८४.५४ ॥
गृहीत्वा शक्रभार्यां वै दानवो विगतो बलात् ।
ततः श्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ॥ ८४.५५ ॥
चिन्तयामास भगवान् वधं तस्य तु रक्षसः ।
अवध्यो दानवः पापः सर्वैरपि सुरासुरैः ॥ ८४.५६ ॥
ततः प्रतुष्टुवुः सर्वे देवाः शक्रपुरोगमाः ।
जय त्वं देव देवेश लक्ष्म्या चार्धशरीरवान् ॥ ८४.५७ ॥
आशु रक्षय देवेश तस्मात्ते शरणं गताः ।
जनार्दन उवाच -
स्वागतं वो महाभागा ब्रुवतां चैव स्वागतम् ॥ ८४.५८ ॥
किं कार्यं प्रोच्यतां सर्वं कारणं यन्मयेप्सितम् ।
पराभवः कृतो येन स गच्छतु यमालयम् ॥ ८४.५९ ॥
एवमुक्तास्सुरास्सर्वे कथयन्ति स्म तत्त्वतः ।
प्रदर्शयन्ति चाङ्गानि वेपमानास्त्वधोमुखाः ॥ ८४.६० ॥
हृतराज्याः कृता नाथ अन्धकेन पराजिताः ॥ ८४.६१ ॥
पितेव पुत्रान् परिरक्ष देव जहीह शत्रुं सह पुत्रगोत्रैः ।
तथेति चोक्त्वा कमलासनं प्रभुः सुरासुरैर्वन्दितपादपीठः ॥ ८४.६२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डेऽन्धकोपाख्याने चतुरशीतितमोऽध्यायः ॥
अध्याय ८५
मार्कण्डेय उवाच -
शङ्खं चक्रं गदां पाशं संगृह्य परमेश्वरः ।
उत्थितः शयनात्तूर्णं देवानां च जयप्रदः ॥ ८५.१ ॥
केशव उवाच -
पाताले यदि वा स्वर्गे मर्त्ये वा यदि वा सुराः ।
अन्धकं तं वधिष्यामि येन सन्तापितास्सुराः ॥ ८५.२ ॥
गच्छन्तु स्वगृहं देवास्सन्तोषे भावितात्मनः ।
विष्णोस्तु वचनं श्रुत्वा ब्रह्माद्यास्तु सवासवाः ॥ ८५.३ ॥
स्वं स्वं यानं समारुह्य हृदि तुष्टा दिवं ययुः ।
ततो देवो माधवस्तु यत्र तिष्ठति चान्धकः ॥ ८५.४ ॥
तत्र गत्वा हृषीकेश आग्नेयास्त्रं मुमोच ह ।
दृष्ट्वा ज्वलन्तं चाग्नेयं केशवेन विसर्जितम् ॥ ८५.५ ॥
विसर्जयामास तदा वारुणं चास्त्रमुत्तमम् ।
वारुणास्त्रेण बाणेन आग्नेय शोषितं तदा ॥ ८५.६ ॥
अन्धकश्चिन्तयामास केन बाणो विसर्जितः ।
कस्येयं पौरुषी शक्तिः को यास्यति यमालयम् ॥ ८५.७ ॥
ततोऽन्धकः कोपयुक्तो बाणमार्गस्य संचरन् ।
दृष्ट्वा युद्धपथे प्राप्तं देवं तं चान्धकोऽब्रवीत् ॥ ८५.८ ॥
न शर्म प्राप्नुषे चात्र मम दृष्ट्या निरीक्षितः ।
तथा न शक्नुषे त्वं तु शार्दूलाद्गवयो हरे ॥ ८५.९ ॥
आगतं च यथाभक्षं मार्जारस्य च मूषकम् ।
तथा न शक्नुषे त्वं तु संस्थितोऽपि ममाग्रतः ॥ ८५.१० ॥
ततस्तु देव देवेशं शङ्खचक्रगदाधरम् ।
चतुर्भुजावदात्तं च द्वन्द्वयुद्धप्रदायिनम् ॥ ८५.११ ॥
दृष्ट्वा गदाधरं देवं साष्टाङ्गं प्रणतो भुवि ।
अन्धक उवाच -
जय कृष्ण परस्त्वं हि विष्णो जिष्णो नमो नमः ॥ ८५.१२ ॥
हृषीकेशाय केशाय जगद्धात्रेऽच्युताय च ।
नमः पङ्कजनाभाय नमः पङ्कजमालिने ॥ ८५.१३ ॥
जनार्दनाय देवाय पीताम्बरधराय च ।
गोविन्दाय नमो नित्यं नमश्चोदधिशायिने ॥ ८५.१४ ॥
नमः करालवक्त्राय नृसिंहाय निनादिने ।
शार्ङ्गिणे स्मितवक्त्राय शङ्खचक्रगदाभृते ॥ ८५.१५ ॥
नमो वामनरूपाय क्रान्तलोकत्रयाय च ।
नमो वराहरूपाय यज्ञरूपाय ते नमः ॥ ८५.१६ ॥
वासुदेव नमस्तुभ्यं नमः कैटभनाशिने ।
वसुदेवसुतश्चेश नमस्ते सुरनायक ॥ ८५.१७ ॥
विष्णो देवाधिदेवेश जगद्धातः प्रजापते ।
प्रणामं येऽपि कुर्वन्ति तेभ्यश्चापि नमो नमः ॥ ८५.१८ ॥
समस्तभूतदेवाय वासुदेवाय धीमते ।
तस्मै यज्ञवराहाय विष्णवेऽमिततेजसे ॥ ८५.१९ ॥
गुणानां हि विधानाय नमस्तेऽस्तु पुनः पुनः ।
देव उवाच -
तुष्टो ह्यहं दानवेन्द्र वरं वृणु यथेप्सितम् ॥ ८५.२० ॥
ददामि ते वरं चाद्य याचमानस्य साम्प्रतम् ।
अन्धक उवाच -
यदि तुष्टोऽसि मे देव वरं दातुमिहेच्छसि ॥ ८५.२१ ॥
तदा ददस्व मे देव युद्धं परमशोभनम् ।
श्रीभगवानुवाच -
कथं ददामि ते युद्धं तोषितोऽहं त्वया पुनः ॥ ८५.२२ ॥
न त्वां प्रति भवेत्कोपः कथं युध्येऽहमन्धक ।
यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः ॥ ८५.२३ ॥
तर्हि त्वं गच्छ शीघ्रं वै देवं प्रति महेश्वरम् ।
अन्धक उवाच -
प्रसादात्तस्य देवस्य विजयी भुवनत्रये ॥ ८५.२४ ॥
कथं युद्धं चरे तेन शङ्करेण वदस्व नः ।
एतच्छ्रुत्वा दानवस्य भगवानब्रवीदिदम् ॥ ८५.२५ ॥
अहं ते कथयिष्यामि येन युद्धं त्वया सह ।
कैलासशिखरं गत्वा धुनु तं च पुनः पुनः ॥ ८५.२६ ॥
धुनिते पर्वते तस्मिन् कम्पितं भुवनत्रयम् ।
पतन्ति शिखराग्राणि शीर्यमाणान्यनेकशः ॥ ८५.२७ ॥
चत्वारः सागरा राजन्नेकीभूताः समन्ततः ।
उमया सहितो रुद्रो विषयासक्तचेतनः ॥ ८५.२८ ॥
कम्पमानश्च पतितः पार्वत्या सह शङ्करः ।
गाढमालिङ्ग्य देवेशमुमा वचनमब्रवीत् ॥ ८५.२९ ॥
किमर्थं कम्पते शैलः कथं वै कम्पते धरा ।
पातालानि तु सप्तैव कम्पते स्वर्गसप्तकम् ॥ ८५.३० ॥
किं वा युगक्षयो देव तन्ममाख्यातुमर्हसि ।
महेश्वर उवाच -
कस्यैषा दुर्मतिर्जाताऽपि पार्श्वचरस्य नु ॥ ८५.३१ ॥
ललाटे चेदयं भग्नः प्रयास्यति यमालयम् ।
कैलासे संस्थितो ध्याने सुप्तोऽहं प्रतिबोधितः ॥ ८५.३२ ॥
वधिष्ये तं न सन्देहः षण्मुखो वा भवेद्यदि ।
ततः स चिन्तयामास जानातीत्यन्धकोऽप्ययम् ॥ ८५.३३ ॥
उपायं चिन्तयामास येनासौ वध्यते क्षणात् ।
ततस्समागता देवा इन्द्रब्रह्मपुरोगमाः ॥ ८५.३४ ॥
रथं देवमयं कृत्वा सर्वलक्षणसंयुतम् ।
केचिद्देवाः स्थिताश्चक्रे केचित्तुण्डाग्रसंस्थिताः ॥ ८५.३५ ॥
केचिदक्षे स्थिता राजन् युगरश्मिषु संस्थिताः ।
रथस्तम्भे ध्वजाग्रे तु केचिदन्यत्र संस्थिताः ॥ ८५.३६ ॥
एवं देवमयं कृत्वा समारूढो जगत्प्रभुः ।
निर्ययौ दानवो यत्र क्रोधेनाऽपि महेश्वरः ॥ ८५.३७ ॥
दानवानर्दयामास आकाशं चाशुमानिव ।
न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः ॥ ८५.३८ ॥
ततो दानवराजेन आग्नेयास्त्रं सुयोजितम् ।
दह्यमानं शरैस्तत्र सर्वं गीर्वाणमण्डलम् ॥ ८५.३९ ॥
दह्यमानाः शरैश्चैवं देवं शरणमाययुः ।
ततो देवाधिदेवेन वारुणास्त्रं विसर्जितम् ॥ ८५.४० ॥
वारुणास्त्रेण तेनैव आग्नेयास्त्रं प्रशामितम् ।
दानवेन ततो मुक्तं वायव्यास्त्रं नृपोत्तम ॥ ८५.४१ ॥
पन्नगास्त्रं च देवोऽपि कोपाविष्टः प्रमुक्तवान् ।
मारुतो भक्षितः सर्पैः क्रोधाविष्टैर्न संशयः ॥ ८५.४२ ॥
दानवेन तदा मुक्तं गरुडास्त्रं बलीयसा ।
तेन तच्छतधा नीतं पन्नगास्त्रं न दृश्यते ॥ ८५.४३ ॥
ततो देवाधिदेवेन नारसिंहं विसर्जितम् ।
अस्त्रैरस्त्राणि संवार्य युध्येते च परस्परम् ॥ ८५.४४ ॥
समं युद्धमभूत्तात सुरासुरभयङ्करम् ।
चक्रेणालीकनाराचैस्तोमरैः खड्गमुद्गरैः ॥ ८५.४५ ॥
वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः ।
एवं न शक्यते हन्तुं दानवैर्विविधायुधैः ॥ ८५.४६ ॥
ततो दंष्ट्राकरालेन खड्गनाराचतोमरैः ।
श्वश्रून् दृष्ट्वा यथा याति लज्जमाना ह्यधोमुखी ॥ ८५.४७ ॥
न संस्पृशन्ति गात्राणि शस्ता गौडवधूर्यथा ।
आयुधानि ततस्त्यक्त्वा बाहुयुद्धमुपस्थितौ ॥ ८५.४८ ॥
करैः करांस्तु संगृह्य प्रहरन्तौ हि मुष्टिभिः ।
बन्धैः करप्रहाराद्यैर्युध्येते स्म परस्परम् ॥ ८५.४९ ॥
दानवोऽपि च तं देवं कक्षान्तरमपीडयत् ।
निश्चेष्टश्च तदा देवो मूर्छितस्तु महेश्वरः ॥ ८५.५० ॥
मूर्च्छागतं तु तं ज्ञात्वा चिन्तयामास दानवः ।
हा हा कष्टं कृतं वाद्य पापेन च दुरात्मना ॥ ८५.५१ ॥
किं नु कार्यं मया चात्र कथं वापि व्रजाम्यहम् ।
तं गृहीत्वाथ देवेशं गतः कैलासपर्वतम् ॥ ८५.५२ ॥
मुक्त्वा शयानम्मुच्चेतमन्धकोऽपि ययौ क्षणात् ।
ततस्स चेतनो भूत्वा देवदेवो महेश्वरः ॥ ८५.५३ ॥
यावत्पश्यति चात्मानं स्वकीये भवने स्थितम् ।
तावत्स चिन्तयामास पराभूतो दुरात्मना ॥ ८५.५४ ॥
क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति ।
आयसं लगुडं धृत्वा प्रभुर्भारसहस्रकम् ॥ ८५.५५ ॥
दानवं दृष्टवान् देवः प्राक्षिपत्तस्य मूर्धनि ।
खड्गेन ताडयामास दानवः प्रहसन् रणे ॥ ८५.५६ ॥
गृहीत्वा देव देवेशः कौवेरं बाणमुत्तमम् ।
हृदये ताडयामास ज्वलितेन च तत्क्षणात् ॥ ८५.५७ ॥
ततस्स दानवस्तत्र रुधिरोद्गारमुद्गिरन् ।
अधोमुखस्ततो भूत्वा शूलेन विदलीकृतः ॥ ८५.५८ ॥
शूलाग्रविक्षतः पापश्चक्रवद्भ्रमते तदा ।
ये तु भूमौ पतन्ति स्म देहतो रक्तबिन्दवः ॥ ८५.५९ ॥
तेभ्य उदभवन् पापा दानवाः शस्त्रपाणयः ।
व्याकुलश्च ततो देवो दानवैश्च पुनः पुनः ॥ ८५.६० ॥
देवेन संस्मृता दुर्गा चामुण्डा भीषणा तदा ।
आगता भीषणा देवी आयुधायुतसंयुता ॥ ८५.६१ ॥
महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका ।
उवाच देवी देवेशं समादिश महेश्वर ॥ ८५.६२ ॥
देव उवाच -
पिब त्वं रुधिरं भद्रे यथेष्टं दानवस्य च ।
पतितं च पृथिव्यां तु दुर्गे यत्नाद्गृहाण तत् ॥ ८५.६३ ॥
दानवस्य वधे चाद्य सहायं कर्तुमर्हसि ।
ततो हताश्च ते सर्वे खड्गेनापि सहस्रशः ॥ ८५.६४ ॥
अन्धकोऽपि च तान् दृष्ट्वा दानवान्निधनं गतान् ।
ततो वाग्भिः सुपुष्टाभिः स्तुवन् देवं महेश्वरम् ॥ ८५.६५ ॥
तिष्ठ तिष्ठेति देवेशं चण्डीं प्रति महाबलः ।
शूलविक्षतरन्ध्रेण रक्तं वै स्रावयन् बहु ॥ ८५.६६ ॥
पृथिवीं पूरयामास चतुः सागरमेखलाम् ।
अन्तरिक्षे स्थितेनापि शूलाग्रे संस्थितेन च ॥ ८५.६७ ॥
स्कन्धे धृतेन देवेन रुधिरौघप्रवर्षिणा ।
पृथिवी पूरिता तेन सशैलवनकानना ॥ ८५.६८ ॥
रुधिरेण कटिं यावद्वारितोऽपि महेश्वरः ।
ततो हृदयपर्यन्तं देवस्य च समागमत् ॥ ८५.६९ ॥
व्याकुलाश्च ततो देवाः प्रणष्टाश्च दिशं गताः ।
स तु स्वस्य शरीरस्य अङ्गान्यष्टौ व्यमर्दयत् ॥ ८५.७० ॥
अष्टौ भैरवरूपाश्च समुत्पन्ना महेश्वरात् ।
दंष्ट्राकरालिनः सर्वे हाहाकारं प्रकुर्वतः ॥ ८५.७१ ॥
खर्पराग्रकरास्सर्वे खड्गिनः कर्तिनस्तथा ।
पिबन्तु रुधिरं सर्वमित्याह परमेश्वर ॥ ८५.७२ ॥
पीतं तु तैश्च रुधिरं क्षीणं रक्तं स्थितं स्थलम् ।
शरीरं शोषितं तस्य अस्थिचर्मावशेषितम् ॥ ८५.७३ ॥
दानवश्चान्धकः प्राह अन्तरिक्षचरस्तथा ।
अन्धक उवाच -
जयदेव जगन्नाथ उमाङ्गार्धशरीरभृत् ॥ ८५.७४ ॥
वृषभासनमारूढ शशाङ्ककृतशेखर ।
जयखट्वाङ्गहस्ताय गङ्गां शिरसि धारिणे ॥ ८५.७५ ॥
स्मरप्रमथनायेह ईश्वराय नमोऽस्तु ते ।
पूष्णोदन्तविनाशाय गणनाथ नमो नमः ॥ ८५.७६ ॥
जय सुरूपदेहाय अरूपाय नमो नमः ।
ब्रह्मोत्तमाङ्गनाशाय विश्वेश्वर सनातन ॥ ८५.७७ ॥
श्मशानवासिने नित्यं नित्यं भैरवरूपिणे ।
त्वं सर्वगश्च कर्ता त्वं त्वं हर्ता नान्य एव च ॥ ८५.७८ ॥
त्वं भूमिस्त्वं दिशश्चैव ज्योतिस्त्वं तेजसस्तथा ।
त्वं वायुः सर्वभूतानां जन्तुरूपो महेश्वरः ॥ ८५.७९ ॥
त्वं सोमस्त्वं बुधश्चैव त्वं गुरुर्भार्गवस्तथा ।
सौरिस्त्वं देवदेवेश भूमिपुत्रस्तथैव च ॥ ८५.८० ॥
ऋक्षाणि यानि दृश्यन्ते गगने शशिभास्करौ ।
एतान्येव च सर्वाणि त्वत्प्रसादान्महेश्वर ॥ ८५.८१ ॥
एवं बहुविधं स्तुत्वा देवदेवं स दानवः ।
संहताभ्यां च हस्ताभ्यां तं प्रणम्य महेश्वरम् ॥ ८५.८२ ॥
शङ्कर उवाच -
साधु साधु महासत्त्व वरं याचस्व दानव ।
दाताहं याचकस्त्वं तु ददामीति यथेप्सितम् ॥ ८५.८३ ॥
अन्धक उवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
तदात्मनः समीपेऽहं स्थापितव्यो हि नान्यथा ॥ ८५.८४ ॥
भस्मी जटी त्रिशूली च त्रिनेत्री च चतुर्भुजः ।
व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः ॥ ८५.८५ ॥
एतदिच्छाम्यहं सर्वं यदि दास्यसि शङ्कर ।
शूलाग्रस्थो वदद्यावत्तावत्तुष्टो महेश्वरः ॥ ८५.८६ ॥
ईश्वर उवाच -
ददामि ते वरं चाद्य यस्त्वया परिभाषितः ।
मया त्वमुदितः पूर्वं भृङ्गिरीटिर्भविष्यसि ॥ ८५.८७ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डेऽन्धकवरप्रदानो नाम पञ्चाशीतितमोऽध्यायः ॥
अध्याय ८६
मार्कण्डेय उवाच -
अन्धकस्य वरं दत्त्वा तेनैव सह शङ्करः ।
उमया सहितश्चापि कैलासं पर्वतं गतः ॥ ८६.१ ॥
ततस्समागता देवा ब्रह्माद्यास्सह वासवाः ।
हृष्टपुष्टाश्च ते सर्वे महेश तं प्रणेमिरे ॥ ८६.२ ॥
देव उवाच -
स्वागतं वो महाभागा ये केचित्त्विह चागताः ।
निहतो दानवस्तत्र भवदर्थे न संशयः ॥ ८६.३ ॥
रक्तेन तस्य मे शूलं निर्मलं च न दृश्यते ।
कर्तव्यं किं मया चाद्य कथ्यतां हि पितामह ॥ ८६.४ ॥
सुतस्तु भवतो ब्रह्मन् यश्चाऽसौ निहतो मया ।
कर्तुमिच्छाम्यहं सम्यक्तीर्थयात्रां न संशयः ॥ ८६.५ ॥
उत्थाय गम्यतां सर्वे ये केचित्त्विह चागताः ।
ततस्सर्वैः सुरैः सार्धं प्रभासं प्रति निर्ययौ ॥ ८६.६ ॥
प्रभासाद्यानि तीर्थानि गङ्गासागरसङ्गमे ।
अवगाह्य तु सर्वाणि निर्मलत्वं न विद्यते ॥ ८६.७ ॥
नीलीभूतं यथावस्त्रं सितत्वं नैव गच्छति ।
तथा कृष्णत्रिशूलस्य निर्मलत्वं न जायते ॥ ८६.८ ॥
नर्मदा तु ततो गत्वा देवो देवैः समन्वितः ।
उत्तरं दक्षिणं कूलमवगाह्य प्रयत्नतः ॥ ८६.९ ॥
गत्वा तु दक्षिणे कूले पर्वते भृगुसंज्ञिते ।
तत्र स्थित्वा महादेवो देवैः सह धरापते ॥ ८६.१० ॥
मनोहरं तु तत्स्थानं सर्वेषां हि दिवौकसाम् ।
ज्ञात्वा तीर्थविशेषं तु स्थितो देवो महेश्वरः ॥ ८६.११ ॥
गिरिं बिभेद शूलेन तेन भिन्नं रसातलम् ।
निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित् ॥ ८६.१२ ॥
पातालान्निःसृता गङ्गा नाम्ना भोगवतीति सा ।
तत्र तीर्थं समुत्पन्नं शूलभेदेति विश्रुतम् ॥ ८६.१३ ॥
सूर्ये राहुगते तत्र महापुण्या सरस्वती ।
द्वितीयं सङ्गमं तत्र यथा वेणी सितासितम् ॥ ८६.१४ ॥
तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गमुत्तमम् ।
यस्य याम्यदिशाभागे स्वयं देवो जनार्दनः ॥ ८६.१५ ॥
विद्यते च स्वयं तत्र विष्णुः पीठेषु संस्थितः ।
शूलेन च कृता रेखा तत्र तोयवहा नृप ॥ ८६.१६ ॥
तत्तोयं च गतं तत्र यत्र रेवा नदीजलम् ।
तत्र लिङ्गं महापुण्यं चक्रतीर्थेति विश्रुतम् ॥ ८६.१७ ॥
शूलभेदे च देवेशः स्नानं कृत्वा यथा विधि ।
आत्मानं मन्यते शुद्धं न किंचित्कलुषं तनौ ॥ ८६.१८ ॥
तस्य चैवोत्तरे भागे देव देवं जगद्गुरुम् ।
शूलपाणिं ततः प्राप्य पूजयामास यत्नतः ॥ ८६.१९ ॥
सर्वतीर्थमयं तीर्थं सर्वतीर्थाधिकं परम् ।
सर्वपुण्याधिकं पुण्यं सर्वद्रुःखघ्नमुत्तमम् ॥ ८६.२० ॥
तत्र तीर्थं प्रतिष्ठाप्य देवदेवो जगद्गुरुः ।
रक्षकांस्तु ततो मुक्त्वा तत्र स्थाप्य विनायकम् ॥ ८६.२१ ॥
क्षेत्रपालशतं चाष्टौ तीर्थं रक्षन्ति यत्नतः ।
विघ्नानि तस्य कुर्वन्ति यस्तत्र स्थातुमिच्छति ॥ ८६.२२ ॥
केचित्कुटुम्बचिन्तां तु केचिच्चिन्तां कृषीषु च ।
सेवां च कुर्वते केचिद्द्रव्यार्जनपरायणाः ॥ ८६.२३ ॥
परोक्षवादं कुर्वन्ति अन्ये हिसारता जनाः ।
परदारान् प्रसर्पन्ति अन्ये च वित्तचिन्तकाः ॥ ८६.२४ ॥
अन्येऽपि च वदन्त्येवं कथं तीर्थेषु गम्यते ।
क्षुधया पीड्यते भार्या ह्यपत्यानि तथैव च ॥ ८६.२५ ॥
मोहजाले निपतिताः पापाचाराश्च ये नराः ।
तेभ्यो रक्षन्ति तत्तीर्थं देवस्य च गणाः शुभम् ॥ ८६.२६ ॥
पुण्या जनाः स्थिरा ये च स्नानं तेषां च जायते ।
पयोष्ण्यां देवनद्यां च भोगवत्यां विशेषतः ॥ ८६.२७ ॥
एतच्च सङ्गमं पुण्यं यथा वेण्यां सितासिते ।
दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टमानसाः ॥ ८६.२८ ॥
देवस्य सन्निधो भूत्वा वर्णयन्ति परस्परम् ।
इदं तीर्थं च देवेश गयातीर्थसमं विदुः ॥ ८६.२९ ॥
गुह्याद्गुह्यतरं तीर्थं न भूतं न भविष्यति ।
शूलपाणिं समभ्यर्च्य ब्रह्माद्याश्च सुरैः सह ॥ ८६.३० ॥
ये गणाश्चैव गन्धर्वा यमो वरुणवासवौ ।
नृत्यगीतैस्तथा स्तोत्रैः सर्वे चैव सुरासुराः ॥ ८६.३१ ॥
देवेन भोदितो यत्र शूलाग्रेण नृपोत्तम ।
त्रयो गर्तास्तु संजातास्तोयपूर्णा नराधिप ॥ ८६.३२ ॥
आर्यावर्ता नरश्रेष्ठ महाकुलिशलाञ्छिताः ।
सर्वपापक्षयकराः सर्वदुःखापहारकाः ॥ ८६.३३ ॥
तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ।
दीक्षामन्त्रविहीनोऽपि मुच्यते भवबन्धनात् ॥ ८६.३४ ॥
यः पुनर्विधिवत्स्नात्वा मन्त्रैः पञ्चभिरेव च ।
वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यैर्घटैस्तथा ॥ ८६.३५ ॥
अक्षरैर्दशभिश्चैव पञ्चाक्षरैस्त्रिभिस्तथा ।
पृथग्भूतैर्द्विजातीनां तीर्थं शस्तं नराधिप ॥ ८६.३६ ॥
ब्रह्मक्षत्रविशां वापि शूद्रस्याथ स्त्रियास्तथा ।
ध्यात्वा देवत्रयं राजन् स्नानं चैव यथाविधि ॥ ८६.३७ ॥
दशाक्षरेण मन्त्रेण तोयं पिबति यो नरः ।
केदारे च यथा पीतं तथा कुण्डे न संशयः ॥ ८६.३८ ॥
पञ्चरेफसमायुक्तं क्षकाराक्षरभूषितम् ।
ओंकारद्वयसंयुक्तमेतदत्रानुकीर्तनम् ॥ ८६.३९ ॥
यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रिय ।
तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ॥ ८६.४० ॥
कुलं तारयते विंशद्दशपूर्वान् दशापरान् ।
गङ्गायां पञ्चतीर्थे च श्राद्धं वै कुरुते तु यः ॥ ८६.४१ ॥
स तत्र फलमाप्नोति शूलभेदे न संशयः ।
यस्तत्र विधिना युक्तो दानं दद्याच्च भक्तितः ॥ ८६.४२ ॥
तदक्षयं फलं तत्र कृतस्य सुकृतोऽथवा ।
गयाक्षेत्रे यथापुण्यं सर्वकार्येषु चैव हि ॥ ८६.४३ ॥
शूलभेदे तथा पुण्यं स्नानदानादितर्पणैः ।
भक्त्या च यो ददात्यत्र कांचनं गां महीं जलम् ॥ ८६.४४ ॥
अन्नं कृषीभवं शय्यां वासांसि भूषणानि च ।
अन्नादिभिर्धनैश्चैव गृहं पूर्णं च सर्वतः ॥ ८६.४५ ॥
युग्ययुग्लाङ्गलं मुख्यं नवं चैव धुरन्धरौ ।
दानान्येतानि यो दद्याद्ब्राह्मणे वेदपारगे ॥ ८६.४६ ॥
श्रोत्रियं च कुलीनं च शुचिं च विजितेन्द्रियम् ।
ज्ञात्वा दानं च यो दद्यात्तस्यान्तो नैव विद्यते ॥ ८६.४७ ॥
त्रयोदशदिनेष्वेकं त्रयोदशगुणं भवेत् ॥ ८६.४८ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदोत्पत्तिर्नाम षडशीतितमोऽध्यायः ॥
अध्याय ८७
मार्कण्डेय उवाच -
उत्तानपादो राजेन्द्र पृच्छति स्म महेश्वरम् ।
सिद्धाश्च कीदृशा देव अपूज्याश्चैव कीदृशाः ॥ ८७.१ ॥
श्राद्धे चैवाह्निके यज्ञे दाने चैव विशेषतः ।
एतदाख्याहि मे देव कस्य दानं न दीयते ॥ ८७.२ ॥
ईश्वर उवाच -
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ ८७.३ ॥
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्णः कुण्डगोलौ श्राद्धे दाने न शुद्ध्यति ॥ ८७.४ ॥
माहिष्यो वृषलः स्तेनो वार्धक्योऽथ विशेषतः ।
एते विप्राः सदा त्याज्याः पश्चान्मानं प्रशंसति ॥ ८७.५ ॥
प्रतिग्रहं तु गृह्णाति कालज्ञानं विना द्विजः ।
तस्य दानं न दातव्यं वृथा भवति निष्फलम् ॥ ८७.६ ॥
दरिद्रान् देहि राजंस्त्वं मा समृद्धान् कदाचन ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधम् ॥ ८७.७ ॥
उत्तानपाद उवाच -
विधिश्च कीदृशी देव कथं श्राद्धस्य च क्रिया ।
दानं च दीयते येन तन्ममाख्यातुमर्हसि ॥ ८७.८ ॥
देव उवाच -
श्राद्धं कृत्वा गृहे भक्त्या सुस्नातो विजितेन्द्रियः ।
वाग्यतस्तर्पयेत्तावद्यावत्संख्यामलङ्घयन् ॥ ८७.९ ॥
शूलभेदं ततो गत्वा स्नानं कृत्वा यथाविधि ।
पञ्चस्थानेषु यः श्राद्धं हव्यकव्यादिभिश्चरेत् ॥ ८७.१० ॥
पिण्डदानं च य कुर्यात्पायसैर्मधुसर्पिषा ।
तस्य तत्फलमाप्नोति तस्मिंस्तीर्थे न संशयः ॥ ८७.११ ॥
उपानहौ च यो दद्याद्ब्राह्मणेभ्यो विशेषतः ।
गच्छेद्विमानमारूढस्त्वमरैः परिवारितः ॥ ८७.१२ ॥
उत्तमं च गृहं दद्यात्सप्तधान्यैश्च पूरितम् ।
स स्वर्गलोके वसति काञ्चने भवनोत्तमे ॥ ८७.१३ ॥
तिलधेनुं च यो दद्यात्सवत्सां विधिपूर्वकम् ।
नाकपृष्ठे वसेत्तावद्यावदाहूतसंप्लवम् ॥ ८७.१४ ॥
गृहे वा यदि वारण्ये तीर्थे वा कुपथेषु च ।
तोयमन्नं च यो दद्याद्यमलोकं न पश्यति ॥ ८७.१५ ॥
अक्षयं चान्नदानं च तोयभूमिस्तथैव च ।
अन्नदानात्परं दानं न भूतो न भविष्यति ॥ ८७.१६ ॥
उत्तानपाद उवाच -
कन्यादानं कथं देव कर्तव्यं कथयस्व तत् ।
प्रतिग्रहं तथा तोष्यं कन्योद्वाहमुपस्करम् ॥ ८७.१७ ॥
दातव्यं कस्य वै दानं दत्तं भवति चाक्षयम् ।
उत्तमं मध्यमं वापि कनीयांसं कथंचन ॥ ८७.१८ ॥
राजसं तामसं वापि निःश्रेयसमथापि वा ।
ईश्वर उवाच -
सर्वेषामेव दानानां कन्यादानं विशिष्यते ॥ ८७.१९ ॥
यो दद्यात्परया भक्त्या अभिगम्य च यत्नतः ।
कुलीनस्य स्वरूपस्य गुणज्ञस्य विशेषतः ॥ ८७.२० ॥
सुलग्ने च मुहूर्ते च दद्यात्कन्यामलंकृताम् ।
अश्वान्नागांश्च वासांसि यो दद्याच्चैव भक्तितः ॥ ८७.२१ ॥
तस्य वासो भवेत्तत्र पदं यत्र निरामयम् ।
येन सा दुहिता दत्ता प्राणेभ्योऽपि गरीयसी ॥ ८७.२२ ॥
तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम् ।
धनं कन्यार्थतः कल्प्यो न रोचयति दुर्मतिः ॥ ८७.२३ ॥
स भवेत्कर्मचाण्डालः कोशकारो भवेन्मृतः ।
कन्यार्थं याचते यस्तु स धनी निर्धनोऽपि वा ॥ ८७.२४ ॥
अभोज्यो भवते मर्त्यः सर्ववस्तुषु वर्जितः ।
गृहे तस्य च योऽश्नीयाज्जिह्वालम्पटको नृप ॥ ८७.२५ ॥
चान्द्रायणेन शुद्धः स्यात्तप्तकृच्छ्रमथापि वा ।
राजोवाच -
वित्तं न विद्यते यस्य कन्योद्वाहेऽवतिष्ठति ॥ ८७.२६ ॥
कथं चोद्वाहनं कुर्यादेतदाचक्ष्व मे प्रभो ।
देव उवाच -
स्ववित्तेनानुकर्तव्यं कन्योद्वाहनमेव च ॥ ८७.२७ ॥
कन्या नाम समुच्चार्य न दोषो याचकस्य च ।
अभिगम्योत्तमं दानमाहूतं चैव मध्यमम् ॥ ८७.२८ ॥
अधमं प्रोच्यमानं तु सेवादानं च निष्फलम् ।
असमर्थे न दातव्यं कन्यादानं तथैव च ॥ ८७.२९ ॥
समर्थस्तारयेद्विद्वान् काष्ठं क्षिप्तं यथा जले ।
यथा नौका तथा विद्वांस्तारयेत्परमं तटम् ॥ ८७.३० ॥
आहिताग्निस्तु यो भूत्वा गृह्नञ्शूद्रप्रतिग्रहम् ।
इह जन्मनि शूद्रत्वं मृतः श्वा चोपजायते ॥ ८७.३१ ॥
वृथा क्लेशाश्च जायन्ते ब्राह्मणस्याग्निहोत्रिणः ।
असत्प्रतिग्रहं गृह्णन्नापदं च विना द्विजः ॥ ८७.३२ ॥
तत्सर्वं नाशयेत्तस्य भिन्ना नौका यथाम्भसि ।
अतिक्लेशवशार्जितं विनाशयति तत्क्षणात् ॥ ८७.३३ ॥
एवं दुःखार्जितं पुण्यं शूद्रे गच्छति नान्यथा ।
लक्षदाक्षिण्यलाभाय प्रदानं चापराधकम् ॥ ८७.३४ ॥
कीर्तिपात्रेषु यद्दत्तं वृथा भवति पार्थिव ॥ ८७.३५ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे दानमहिमानुवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥
अध्याय ८८
उत्तानपाद उवाच -
कस्मिन् काले च क्रियते श्राद्धं दानं च शङ्कर ।
तीर्थयात्रा कथं कार्या आतिथ्यं कथयस्व नः ॥ ८८.१ ॥
शङ्कर उवाच -
पितुरर्थं यथा पुण्यं सार्वकालिकमुत्तमम् ।
इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः ॥ ८८.२ ॥
विशेषेण च कुर्वन्ति श्राद्धं चतुर्युगादिषु ।
मन्वन्तरादयो वत्स श्रूयतां च चतुर्दश ॥ ८८.३ ॥
आश्विने नवमी शुक्ला द्वादशी कार्तिकस्य च ।
तृतीया चैत्रमासे तु तथा भाद्रपदस्य च ॥ ८८.४ ॥
आषाढदशमी तथा माघस्यैव चसप्तमी ।
श्रावणस्याष्टमी कृष्णा तथाषाढी तु पूर्णिमा ॥ ८८.५ ॥
फाल्गुनस्य अमावास्या पौषस्यैकादशी शुभा ।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥ ८८.६ ॥
मन्वन्तरादयश्चैव ह्यनन्तफलदाः स्मृताः ।
अयने तूत्तरे चैव दक्षिणे च तथैव हि ॥ ८८.७ ॥
कार्त्तिक्यां च तथा माध्यां वैशाख्यां च तृतीयया ।
चैत्र्यां चैव तथा षष्ठ्यां प्रौष्ठपद्यां तथैव च ॥ ८८.८ ॥
श्राद्धकालाश्च ते सर्वे दत्तं भवति चाक्षयम् ।
मधुमासे सिते पक्ष एकादश्यामुपोषितः ॥ ८८.९ ॥
क्षपाजागरणं कुर्याद्विष्णोः पदसमीपतः ।
दद्याद्दानं तथा शक्त्या हिरण्यं गोऽम्बराणि च ॥ ८८.१० ॥
धूपं दीपं च नैवेद्यं स्रक्पुष्पचन्दनानि च ।
अर्चां करोति यो विष्णोः कथां पौराणकीर्तनम् ॥ ८८.११ ॥
ऋग्यजुःसामाथर्वाणां सूक्तं तज्जपति द्विजः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८८.१२ ॥
प्रभाते कुरुते श्राद्धं द्विजान् भोज्य प्रयत्नतः ।
ददेद्दानं यथा शक्त्या हिरण्यं गोऽम्बराणि च ॥ ८८.१३ ॥
पितरस्तस्य तृप्यन्ति यावदाहूतसंप्लवम् ।
श्राद्धदश्च वसेत्तत्र यत्र देवो जनार्दनः ॥ ८८.१४ ॥
त्रयोदश्यां ततो गच्छेद्गुहावासीति तिष्ठति ।
दृष्ट्वा मार्कण्डमीशानं सर्वपापैः प्रमुच्यते ॥ ८८.१५ ॥
उत्तानपाद उवाच -
गुहामध्ये यथा देव लिङ्गं परमशोभनम् ।
प्रतिष्ठा येन देवस्य तन्ममाख्यातुमर्हसि ॥ ८८.१६ ॥
ईश्वर उवाच -
त्रिषु लोकेषु विख्यातं मार्कण्डेश्वरसंज्ञिकम् ।
बृहद्रथान्तरं यच्च सामवेदं द्विजोत्तमः ॥ ८८.१७ ॥
अथर्वाथर्वशीर्षाणि तथा हृच्च वृषाकपिम् ।
शिवसंकल्पितं जप्त्वा मुच्यते सर्वपातकैः ॥ ८८.१८ ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ।
पादशौचं तथा तस्य कुर्वते ये च भक्तितः ॥ ८८.१९ ॥
गोदानेनैव यत्पुण्यं लभन्ते नाऽत्र संशयः ।
ब्राह्मणान् भोजयेत्तत्र पायसैर्मधुसर्पिषा ॥ ८८.२० ॥
एकेन भोजितेनापि सहस्रं तेन भोजितम् ।
सुवर्णं रजतं वस्त्रं दद्याद्भक्त्या द्विजातिषु ॥ ८८.२१ ॥
तेन तृप्यन्ति ते देवा मनुष्याः पितरस्तथा ।
चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः ॥ ८८.२२ ॥
देवार्चनं च यः कुर्याज्जपं होमं विशेषतः ।
दह्याद्दानं यथाशक्त्या ब्राह्मणे वेदपारगे ॥ ८८.२३ ॥
अश्वरत्नं गजरत्नं तूलापुरुषमेव च ।
यो दद्याच्छकटं तत्र सप्तधान्यप्रपूरितम् ॥ ८८.२४ ॥
युक्तं च लाङ्गलं दद्याद्युवानौ तु धुरन्धरौ ।
गोभूतिलहिरण्यं च पात्रे दातव्यमीप्सितम् ॥ ८८.२५ ॥
अपात्रे विदुषा किंचित्न देयं श्रेय इच्छता ।
सर्वभूतानि चात्मैव यतो धारयते मही ॥ ८८.२६ ॥
ततो विप्राय सा देया सर्वसस्यानुशालिनी ।
अन्यच्च शृणु राजेन्द्र गोदानस्य च यत्फलम् ॥ ८८.२७ ॥
यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ ८८.२८ ॥
येन केनाप्युपायेन ब्राह्मणाय समर्पयेत् ।
पृथ्वी दत्ता भवेत्तेन सशैलवनकानना ॥ ८८.२९ ॥
तारयन्ती च सा दत्ता कुलानामेकविंशतिम् ।
रौप्यखुरीं कांस्यदोहां सवत्सां च पयस्विनीम् ॥ ८८.३० ॥
प्रयच्छन्ति जनाः पुण्या राहुग्रस्ते निशाकरे ।
सर्वस्यैव तु दानस्य संख्या चास्ति नराधिप ॥ ८८.३१ ॥
चन्द्रसूर्योपरागे च दानसंख्या न विद्यते ।
यत्र गावः प्रदृश्यन्ते सर्वतीर्थानि तत्र वै ॥ ८८.३२ ॥
तत्र यज्ञं विजानीयात्नात्र कार्या विचारणा ।
पुनः स्मृत्वा तु तत्तीर्थं गमनं कुरुते नरः ॥ ८८.३३ ॥
अथवा श्रूयते यस्तु रुद्रस्यानुचरो भवेत् ॥ ८८.३४ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदमहिमानुकथनं नामाष्टाशीतितमोऽध्यायः ॥
अध्याय ८९
ईश्वर उवाच -
अन्यच्चाख्यानकं वक्ष्ये पुरावृत्तं नराधिप ।
सकुटुम्बो गतः स्वर्गमृषिर्दीर्घतपा महान् ॥ ८९.१ ॥
शङ्कर उवाच -
काशिराजेति विख्यातश्चित्रसेनो महाबलः ।
तस्य पुर्यां स वसते सर्वकामसमन्वितः ॥ ८९.२ ॥
सा पुरी जनसम्पूर्णा नानारत्नोपशोभिता ।
वाराणासीति विख्याता गङ्गातीरे समाश्रिता ॥ ८९.३ ॥
इन्द्रप्रस्थसमप्रख्या गौरीगोकुलसंयुता ।
बहुद्विजसमाकीर्णा वेदध्वनितनिःस्वना ॥ ८९.४ ॥
वणिग्जनैर्बहुविधैः क्रयविक्रयसंयुतैः ।
अट्टाट्टालैः प्रतोलीभिरुत्सवाद्यैस्तु मण्डिता ॥ ८९.५ ॥
देवतायतनैर्दिव्यैरारामैरुपशोभिता ।
नानापुष्पफलैर्रम्यैः कदलीषण्डमण्डिता ॥ ८९.६ ॥
तस्या उत्तरदिग्भागे आरामश्चोत्तमः शुभः ।
समन्दारवनं नाम त्रिषु लोकेषु विश्रुतम् ॥ ८९.७ ॥
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ।
बहुमन्दारसंयुक्तं तेन मन्दारकं वनम् ॥ ८९.८ ॥
विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति ।
तपस्तपति सोऽत्यर्थं तेन दीर्घतपाः स्मृतः ॥ ८९.९ ॥
स तिष्ठते सपत्नी कस्तिष्ठते पुत्रसंयुतः ।
शुश्रूषयन्ति तं सर्वे सुताः पञ्च समीपगाः ॥ ८९.१० ॥
तस्य पुत्रः कनीयांस्तु ऋष्यशृङ्गो महातपाः ।
वेदाध्ययनसंयुक्तो ब्रह्मचारी गुणान्वितः ॥ ८९.११ ॥
योगाभ्यासरतो नित्यं कन्दमूलफलाशनः ।
तिष्ठते मृगरूपेण मृगमध्ये वसन् सदा ॥ ८९.१२ ॥
दिनारम्भे दिनान्ते च मातापित्रग्रतः स्थितः ।
अभिवादयते नित्यं भाक्तमानृषिपुत्रकः ॥ ८९.१३ ॥
पुनर्जगाम तत्रैव कानने गिरिगह्वरे ।
क्रीडन् बालमृगैः सार्धं राजबाणमृतस्तु सः ॥ ८९.१४ ॥
राजोवाच -
आश्रमे वसतस्तत्र सुदीर्घतपसस्तदा ।
सूनुस्तस्य कनीयांस्तु कथं मृत्युवशं गतः ॥ ८९.१५ ॥
श्रीभगवानुवाच -
शृणुष्वैकमना भूत्वा कथां चित्रां महीपते ।
श्रवणादेव तस्या हि सर्वपापैः प्रमुच्यते ॥ ८९.१६ ॥
काशिराजो महाराजा महाबलपराक्रमः ।
चित्रसेन इति ख्यातो वाराणस्यां वसत्यसौ ॥ ८९.१७ ॥
एवं वसंस्तत्र राज्ये मन्त्रिणो वाक्यमब्रवीत् ।
मृगया च गमिष्यामि यूयं राज्ये प्रतिष्ठिताः ॥ ८९.१८ ॥
गम्यतां मन्त्रिभिः प्रोक्तो गतोऽसौ वसुधाधिपः ॥ ८९.१९ ॥
छत्रैश्छत्राणि दृश्यन्ते गच्छन्तं काननं प्रति ।
रजस्तत्रोत्थितं भूरि गजवाजिपदाहतम् ॥ ८९.२० ॥
तेनैवाच्छादितं सर्वं सादित्यं भूमिमण्डलम् ।
न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः ॥ ८९.२१ ॥
पादपाश्च न दृश्यन्ते गिरिसातूनि सर्वशः ।
तत्रापि च महाराज मृगयूथमदृश्यत ॥ ८९.२२ ॥
अधावन् पुरुषाः सर्वे सराजाराजपुत्रकाः ।
वृन्दलोपोऽभवत्तेषां शीघ्रं जग्मुर्दिशो दश ॥ ८९.२३ ॥
एकमार्गं गतो राजा चित्रसेनो महीपतिः ।
एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः ॥ ८९.२४ ॥
प्रविष्टस्तु ततो दुर्गे कानने पक्षिवर्जिते ।
वल्मीगुल्मलताकीर्णे प्रविष्टो नैव दृश्यते ॥ ८९.२५ ॥
एकाक्यपश्यदात्मानं न चाश्वं न पदातिकान् ।
न कोऽपि चात्र जानाति नाहं वेद्मि दिशो दश ॥ ८९.२६ ॥
एवं कष्टं गतो राजा चित्रसेनो नराधिपः ।
छायां समाश्रितस्तत्र विश्रम्य च पुनः पुनः ॥ ८९.२७ ॥
क्षुत्तृषार्तो भ्रमन् दुर्गे कानने गिरिगह्वरे ।
ततोऽपश्यत्सरो दिव्यं पद्मिनीषण्डमण्डितम् ॥ ८९.२८ ॥
हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम् ।
सरो दृष्ट्वा तु राजेन्द्रः संप्रहृष्टतनूरुहः ॥ ८९.२९ ॥
कुमुदानि गृहीत्वा तु तत्र स्नानं समाचरत् ।
तर्पयित्वा पितॄन् देवान्मनुष्यांश्च यथा विधि ॥ ८९.३० ॥
पपौ पानीयममलं यथावत्समभीप्सितम् ।
उत्तीर्य स जलात्तीरे दृष्ट्वा वृक्षं समीपतः ॥ ८९.३१ ॥
चिन्तयाऽनुपविष्टोऽसौ किं तु कर्म करोम्यहम् ।
ततश्छायाश्रितान् पश्यन् वनोद्देशे मृगान् बहून् ॥ ८९.३२ ॥
केचित्पूर्वमुखास्तत्र अपरे दक्षिणामुखा ।
वारुण्यभिमुखाः केचित्केचित्कौबेरमाश्रिताः ॥ ८९.३३ ॥
केचिन्निद्रां प्रकुर्वन्ति ऊर्ध्वकर्णाः स्थिताः परे ।
मृगमध्ये स्थितो योगी ऋष्यशृङ्गो महातपाः ॥ ८९.३४ ॥
मृगान् दृष्ट्वा ततो राजा प्रहारार्थमचिन्तयत् ।
वधित्वा च मृगं चैकं भक्षयामि यदृच्छया ॥ ८९.३५ ॥
स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् ।
काशीं प्रति गमिष्यामि मार्गमन्वेषयंस्ततः ॥ ८९.३६ ॥
विचिन्त्यैवं ततो राजा वृक्षमूलं समाश्रितः ।
चापं धृत्वा कराग्रेण प्राक्षिपत्तच्छरं विभुः ॥ ८९.३७ ॥
क्षिप्तमात्रे शरे तस्मिन् सर्वे नष्टा मृगास्ततः ।
तेषां मध्ये स चैवेक ऋष्यशृङ्गो महातपाः ॥ ८९.३८ ॥
शरेण विद्धः पतितः कृष्ण कृष्णेति चाब्रवीत् ।
हाहा शब्दं कृतं तेन केनाहं पातितोऽधुना ॥ ८९.३९ ॥
कस्यैषा दुर्मतिर्जाता यया बुद्धिर्ममोपरि ।
मृगमध्ये स्थितश्चाहं न किंचदपराद्धवान् ॥ ८९.४० ॥
वाचां तां मानुषीं श्रुत्वा स राजा विस्मयान्वितः ।
शीघ्रं गत्वा ततोऽपश्यद्ब्राह्मणं ब्रह्मवर्चसम् ॥ ८९.४१ ॥
हा हा कष्टं कृतं मेऽद्य येनासौ घातितो मया ।
ब्राह्मण उवाच -
न ते सिद्धिर्भवेत्किंचिन्मयि पञ्चत्वमागते ॥ ८९.४२ ॥
तवैव विहिता हत्या मयि पञ्चत्वमागते ।
जननी मे पिता वृद्धौ भ्रातरो हि तपस्विनः ॥ ८९.४३ ॥
भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वमागते ।
एता हत्या भविष्यन्ति तव शुद्धिः कथं भवेत् ॥ ८९.४४ ॥
उपायं कथयिष्यामि कर्तुं त्वं यदि मन्यसे ॥ ८९.४५ ॥
राजोवाच -
उपायः कथ्यतां मेऽद्य यस्ते मनसि वर्तते ।
करिष्ये तदहं सर्वं प्रयत्नेन महामुने ॥ ८९.४६ ॥
शृङ्ग्युवाच -
पृच्छामि त्वां कुतः को वा कथं त्वमिह चागतः ।
ब्रह्मक्षत्रविशां मध्येऽन्त्यजः शूद्रोऽथवा पुनः ॥ ८९.४७ ॥
राजोवाच -
नाहं विप्रो न वैश्योऽहं न शूद्रः क्षत्रियो ह्यहम् ।
शृङ्ग्युवाच -
मां गृहीत्वाश्रमं पुण्यं यत्र तौ पितरौ मम ॥ ८९.४८ ॥
आवेदयस्व दयस्व चात्मानं पुत्रपापिनमागतम् ।
तौ दृष्ट्वा मां करिष्येते कारुण्यं च तवोपरि ॥ ८९.४९ ॥
उपायं वा करिष्येते येन शान्तिर्भविष्यति ।
तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तमः ॥ ८९.५० ॥
स्कन्धे कृत्वा च तं विप्रं जगामाश्रमकं प्रति ।
न शक्नोति च तं वोढुं विश्रम्य च पुनः पुनः ॥ ८९.५१ ॥
तावत्पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम् ।
मुमोच चित्रसेनस्तु छायां न्यग्रोधकस्य च ॥ ८९.५२ ॥
विश्रामं च ततः कृत्वा वाचं कुर्वन्मुहुर्मुहुः ।
पश्यतस्तस्य राजेन्द्र ऋष्यशृङ्गो महातपाः ॥ ८९.५३ ॥
पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित् ।
दाहयामास तं विप्रं विधिदृष्टेन कर्मणा ॥ ८९.५४ ॥
स्नानं कृत्वा तु शोकार्तो रुरोद च मुमोह च ।
ततश्चानन्तरं राजा उद्वेगं परमं गतः ॥ ८९.५५ ॥
कथं यास्ये गृहानद्य वाराणस्यां हतो ह्यहम् ।
ब्रह्महत्या समाविष्टो जुहोम्यग्नौ कलेवरम् ॥ ८९.५६ ॥
अथवा ऋषिवाक्येन गच्छाम्येवाश्रमं प्रति ।
कथयामि यथावृत्तं गत्वा तस्य महा ऋषेः ॥ ८९.५७ ॥
एवं विचिन्त्य राजासौ जगामाश्रमसन्निधौ ।
ऋष्यशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः ॥ ८९.५८ ॥
दृष्टिमार्गे स्थितस्तस्य ब्रह्मर्षेर्भावितात्मनः ।
दीर्घतपा उवाच -
आगच्छ स्वागतं तेऽद्य आसने उपविश्यताम् ॥ ८९.५९ ॥
दीर्घतपास्म्यहं तेऽद्य मधुपर्कः सविष्टरः ।
राजोवाचा॒
अर्घस्यैव न योग्योऽहं महर्षेर्भावितात्मनः ॥ ८९.६० ॥
मृगमध्ये स्थितो विप्र तव पुत्रो मया हतः ।
पुत्रघ्नं शाधि मां विप्र तीव्रदण्डेन दण्डय ॥ ८९.६१ ॥
मृगभ्रान्त्या हतो विप्र ऋष्यशृङ्गो महातपाः ।
इति ज्ञात्वा च मां विप्र कुरुष्व च यथोचितम् ॥ ८९.६२ ॥
माता तस्य वचः श्रुत्वा गृहान्निर्गत्य विह्वला ।
हा हतास्मीत्युवाचाथ पतिता च महीतले ॥ ८९.६३ ॥
विललाप सुदुःखार्ता पुत्रशोकेन पीडिता ।
हा पुत्र पुत्रेति वदन् करुणं कुररी यथा ॥ ८९.६४ ॥
श्रुत्यध्ययनसम्पूर्णो जपहोमपरायणः ।
आगतं त्वां गृहद्वारे कदा पृच्छामि पुत्रक ॥ ८९.६५ ॥
त्रिलोक्यामपि श्रूयते चन्दनं किल शीतलम् ।
पुत्रगातपरिष्वङ्गश्चन्दनादपि शीतलः ॥ ८९.६६ ॥
परिष्वजितुमिच्छामि त्वामहं पुत्रसुप्रियम् ।
पञ्चत्वं च गमिष्यामि त्वद्विहीना सुदुःखिता ॥ ८९.६७ ॥
एवं विलपती दीना पुत्रशोकेन पीडिता ।
मूर्छिता विह्वला दीना निपपात महीतले ॥ ८९.६८ ॥
भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडितः ।
चुकोप मुनिश्रेष्ठश्चित्रसेनं नृपं तदा ॥ ८९.६९ ॥
दीर्घतपा उवाच -
याहि याहि महापाप मा मुखं दर्शयस्व मे ।
किं त्वया घातितो विप्र ह्यकामाच्च सुतो मम ॥ ८९.७० ॥
ब्रह्महत्या भविष्यन्ति बहवस्ते नराधिप ।
सकुटुम्बस्य मे त्वं हि मृत्युरेवमुपागतः ॥ ८९.७१ ॥
एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनः पुनः ।
क्रोधं परित्यज्य ततो मुनिमार्गं जगाम ह ॥ ८९.७२ ॥
ऋषिरुवाच -
उद्वेगं त्यज भो राजन् दुरुक्तं गदितं मया ।
पुत्रशोकाभिभूतेन दुःखमाप्तेन मानद ॥ ८९.७३ ॥
किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः ।
प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ ८९.७४ ॥
अनेनैव प्रकारेण यत्त्वया लिखितं मम ।
परं तव भविष्यन्ति विप्रहत्या न संशयः ॥ ८९.७५ ॥
ब्रह्मक्षत्रविशां मध्ये शूद्रो वा चान्त्यजादिषु ।
कस्त्वं कथय सत्यं मे कस्माच्च निहतः सुतः ॥ ८९.७६ ॥
चित्रसेन उवाच -
विज्ञापयामि विप्रर्षे क्षन्तव्यं च ममोपरि ।
नाहं विप्रोऽस्मि भो तात न शूद्रो नैव वैश्यजः ॥ ८९.७७ ॥
नचापि चान्त्यजातीयः क्षत्रियोऽहं द्विजोत्तम ।
काशिराजो मृगान् हन्तुमागतो वनमुत्तमम् ॥ ८९.७८ ॥
भ्रमता पातितस्तत्र मृगरूपधरो मुनिः ।
किं कर्तव्यं मया विप्र उपायं कथयस्व मे ॥ ८९.७९ ॥
दीर्घतपा उवाच -
ब्रह्महत्या न शक्येत एकेन तरितुं विभो ।
देशे काले यथाशक्त्या तच्छृणुष्व नराधिप ॥ ८९.८० ॥
चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः ।
मया सह न जीवन्ति ऋष्यशृङ्गस्य कारणे ॥ ८९.८१ ॥
उपायं शोभनं तात कथयामि शृणुष्व भोः ।
शक्यते यदि चेत्कर्तुं सुखोपायं नरेश्वर ॥ ८९.८२ ॥
सकुटुम्बसमस्तान्नो दाहयस्वानले नृप ।
अस्थीनि नर्मदातोये शूलभेदे विनिक्षिपेः ॥ ८९.८३ ॥
नर्मदादक्षिणे कूले शूलभेदेति विश्रुतम् ।
सर्वपापहरं तीर्थं सर्वतीर्थोत्तमोत्तमम् ॥ ८९.८४ ॥
शुचिर्भूत्वा ममास्थीनि क्षिप त्वं शूलभेदके ।
मुच्यते सर्वपापेभ्यो मम वाक्यात्न संशयः ॥ ८९.८५ ॥
राजोवाच -
आदेशो दीयतां तात करिष्यामि न संशयः ।
सर्वस्वमपि यत्किंचिद्राज्यं कोशः स्त्रियः सुताः ॥ ८९.८६ ॥
तव दानं प्रयच्छामि विप्र मां त्वं प्रसीद च ।
परस्परं विवदतोर्मुनिराज्ञोस्तदा नृप ॥ ८९.८७ ॥
स्फुटित्वा हृदयं शीघ्रं मुनेर्भार्या मृता तदा ।
पुत्रशोकसमाक्रान्ता निर्जीवा पतिता क्षितौ ॥ ८९.८८ ॥
पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः ।
स्नुषाश्चैव तु ताः सर्वा मृताश्च सह भर्तृभिः ॥ ८९.८९ ॥
पञ्चत्वं तु गतान् सर्वान्मुनिमुख्यान्निरीक्ष्य तान् ।
विप्राश्चाह्वानितास्तेन ते तत्राश्रमवासिनः ॥ ८९.९० ॥
तेभ्यो निवेदयामास यथा वृत्तं नरोत्तमः ।
संहतैस्तैरनुज्ञातः कथंचिद्दह्य यत्नतः ॥ ८९.९१ ॥
देहं स्वं पावनं कृत्वास्थीनि प्रगृह्य यत्नतः ।
याम्यां हि प्रस्थितो राजा पादचारी महीपतिः ॥ ८९.९२ ॥
न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति ।
विश्रम्य च पुनर्गच्छन् विश्रम्य च पुनः पुनः ॥ ८९.९३ ॥
सचैलं कुरुते स्नानमस्थीन् वोढा पदे पदे ।
विना जलं निराहारः सोऽगच्छद्दक्षिणामुखः ॥ ८९.९४ ॥
अचिरेणैव कालेन स गतो नर्मदातटे ।
आश्रमस्थान् द्विजान् सर्वान् पप्रच्छ राजसत्तमः ॥ ८९.९५ ॥
कथ्यतां मे द्विजश्रेष्ठाः शूलभेदस्य मार्गकः ॥ ८९.९६ ॥
विप्रा ऊचुः॒
नर्मदादक्षिणे कूले गतो द्रक्ष्यसि नान्यथा ॥ ८९.९७ ॥
ऋषिवाक्येन वै राजा गतोऽथ हि नरेश्वरः ।
स ददर्श ततस्तीर्थं बहुद्विजसमाकुलम् ॥ ८९.९८ ॥
बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् ।
बहुमूलफलोपेतं बहुश्वापदशोभितम् ॥ ८९.९९ ॥
ऋषिसङ्घैः समाकीर्णं नानाव्रतधरैः शुभैः ।
एकपादस्थिताः केचिदपरे सूर्यवर्चसः ॥ ८९.१०० ॥
एकदृष्टिस्थिताः केचिदूर्ध्वबाहुस्थिताः परे ।
चान्द्रायणपरा केचित्केचित्पक्षोपवासिनः ॥ ८९.१०१ ॥
मासोपवासिनः केचित्केचिदृतुमुपोषिताः ।
शीर्णपर्णाशिनः केचित्केचिन्मारुतभोजनाः ॥ ८९.१०२ ॥
योगाभ्यासरताः केचिद्ध्यायन्तः परमं पदम् ।
गार्हस्थमास्थिताः केचित्केचिच्चैवाग्निहोत्रिणः ॥ ८९.१०३ ॥
एवं विधान् द्विजान् दृष्ट्वा जानुभ्यामवनीं गतः ।
प्रणम्य शिरसा राजन् राजा वचनमब्रवीत् ॥ ८९.१०४ ॥
कस्मिन् देशे तु तत्तीर्थं कथयध्वं द्विजोत्तमाः ।
सर्वेषां वाञ्छितां सिद्धिं दद्याच्च फलमीप्सितम् ॥ ८९.१०५ ॥
ऋषिरुवाच -
धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि ।
कुण्डं द्रक्ष्यसि विस्तीर्णं तोयपूर्णं सुशोभनम् ॥ ८९.१०६ ॥
तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य मूर्धनि ।
दृष्ट्वा हि चैव तत्तीर्थं भ्रान्तिर्जाता नृपस्य हि ॥ ८९.१०७ ॥
वीक्ष्य कुण्डं महाभागं गङ्गां चैव विशेषतः ।
प्राचीं सरस्वतीं दृष्ट्वा भ्रान्तिर्जाता नृपस्य हि ॥ ८९.१०८ ॥
ततो विस्मयमापन्नश्चिन्तयानो मुहुर्मुहुः ।
आकाशसंस्थितं दृष्ट्वा सामिषं कुररं तथा ॥ ८९.१०९ ॥
भ्रममाणं गृहीत्वा तं वध्यमानं निरामिषैः ।
परस्परं हि युध्यन्ते सर्वे चामिषभक्षकाः ॥ ८९.११० ॥
हतश्चञ्चुप्रहारैस्तु कुररः पतितोऽम्भसि ।
शूलेन शूलिना यत्र भूभागं भेदितं पुरा ॥ ८९.१११ ॥
तत्तीर्थस्य प्रभावेण स सद्यः पुरुषोऽभवत् ।
विमानस्थं तु तं दृष्ट्वा क्रौंच वै दिव्यरूपिणम् ॥ ८९.११२ ॥
अप्सरोभिर्गीयमानं नृपस्तत्तीर्थमागतः ।
अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथा विधि ॥ ८९.११३ ॥
तिलमिश्रेण तोयेन तर्पयित्वेष्टदेवताः ।
धृत्वास्थीनि ततो राजा निक्षिप्यान्तर्जले तथा ॥ ८९.११४ ॥
क्षणमेकं ततो वीक्ष्य राजा ऊर्ध्वमुखः स्थितः ।
तां ददर्श ततः सर्वान् देवमूर्तिधरान् शुभान् ॥ ८९.११५ ॥
दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् ।
विमानैः काञ्चनैर्दिव्यैरप्सरोगणसेवितैः ॥ ८९.११६ ॥
पृथग्भूताश्च तान् सर्वान् विमानेषु व्यवस्थितान् ।
उत्पततः समालोक्य स राजा हर्षितोऽभवत् ॥ ८९.११७ ॥
ऋषिर्विमानमारूढश्चित्रसेनमथाब्रवीत् ।
भो भोः साधु महाराज चित्रसेन महामते ॥ ८९.११८ ॥
त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममाद्य वै ।
इदं च यत्त्वया किंचित्कृतं परमदुष्करम् ॥ ८९.११९ ॥
स्वसुतोऽपि न शक्नोति पितॄणां कर्तुमीदृशम् ।
मदीयवचनाद्राजन्निष्पापस्त्वं भविष्यसि ॥ ८९.१२० ॥
यत्त्वं द्रक्ष्यसि राजेन्द्र कामिकं मनसेप्सितम् ।
आशीर्वादं ततो दत्त्वा चित्रसेनाय धीमते ॥ ८९.१२१ ॥
स्वर्गं जगाम स्वसुतैस्ततो दीर्घतपा मुनिः ॥ ८९.१२२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे दीर्घतपाख्यानो नामैकोननवतितमोऽध्यायः ॥
अध्याय ९०
उत्तानपाद उवाच -
दृष्ट्वा तत्तीर्थमाहात्म्यं चित्रसेनो नरेश्वरः ।
विपुलं तीक्ष्णधारं च कण्ठे चासि नृपोत्तम ॥ ९०.१ ॥
देवान् सर्वान् हृदि ध्यायन् ब्रह्मविष्णुमहेश्वरान् ।
विनिक्षिपन्नथात्मानौ प्रत्यक्षौ विष्णुशङ्करौ ॥ ९०.२ ॥
करे धृत्वा तु राजानं रुद्रो वचनमब्रवीत् ।
हर उवाच -
प्राणत्यागं महाराज अकाले मा कुरुष्व ह ॥ ९०.३ ॥
अद्यापि तु युवासि त्वं न युक्तं मरणं तव ।
स्वस्थानं गच्छ वै शीघ्रं भोगान् भुङ्क्ष्व यथेप्सितान् ॥ ९०.४ ॥
भुङ्क्ष्व निष्कण्टकं राज्यं नाकं शक्र इवापरः ।
चित्रसेन उवाच -
न राज्यं कामये देव न पुत्रान्न च बान्धवान् ॥ ९०.५ ॥
न भार्यां न च कोशं च न गाश्च न तुरङ्गमान् ।
मुञ्चस्व मां महादेव अविघ्नं क्रियतां मम ॥ ९०.६ ॥
स्वर्गप्राप्तिर्ममाद्यैव त्वत्प्रसादान्महेश्वर ।
देव उवाच -
यस्याग्रतो भवेद्विष्णुर्ब्रह्मा रुद्रस्तथैव च ॥ ९०.७ ॥
स्वर्गेण तस्य किं कार्यं गतोऽसौ किं करिष्यति ।
तुष्टाव त्वां त्रयो देवा वृणीष्व वरमुत्तमम् ॥ ९०.८ ॥
यथेप्सितं महाराज सत्यमेतन्न संशयः ।
चित्रसेन उवाच -
यदि तुष्टास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ ९०.९ ॥
अद्य प्रभृति युष्माभिः स्थातव्यमिह सर्वदा ।
गयाशिरं यथा पुण्यं कृतं युष्माभिरेव च ॥ ९०.१० ॥
तथैवेदं तु कर्तव्यं शूलभेदं च पावनम् ।
यत्र यत्र स्थिता यूयं तत्र तत्र वसाम्यहम् ॥ ९०.११ ॥
गणानामिह सर्वेषामवध्योऽहं सुरेश्वर ।
ईश्वर उवाच -
अद्य प्रभृति तिष्ठाम शूलभेदे नरेश्वर ॥ ९०.१२ ॥
कलांशेन त्रयो देवास्त्रिकालं निवसामहे ।
नन्दिसंज्ञो गणश्च त्वं भविष्यसि न संशय ॥ ९०.१३ ॥
भविष्यत्यग्रपूजा ते मत्समीपे सदा नृप ।
प्रक्षिप्य च निजास्थीनि यथा दीर्घतपा ययौ ॥ ९०.१४ ॥
सकुटुम्बो विमानस्थः स्वर्गे तिष्ठति तत्कुरु ।
एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव ॥ ९०.१५ ॥
कुण्डमूर्धनि यास्यामस्त्रयो देवास्तदा स्थिताः ।
परस्परं वदन्त्येवमिदं तीर्थं तथा शुभम् ॥ ९०.१६ ॥
यथा गयाशिरं पुण्यं सर्वमासि च पठ्यते ।
तथा रेवातटे पुण्यं शूलभेदं न संशयः ॥ ९०.१७ ॥
ब्रह्मोवाच -
इदं तीर्थं महाराज यथापुण्यं गयाशिरः ।
स्नात्वा चैवोदके तस्मिन्नरो निर्मलतां व्रजेत् ॥ ९०.१८ ॥
एकं गयाशिरं मुक्त्वा सर्वतीर्थानि शङ्कर ।
शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम् ॥ ९०.१९ ॥
कुण्डस्य दक्षिणे भागे दशहस्तप्रमाणतः ।
ऐन्द्रवारुणवायव्यां प्रमाणन्त्वेकविंशतिः ॥ ९०.२० ॥
एतत्प्रमाणं तीर्थस्य पिण्डदानादिकर्मसु ।
नराः पुण्याश्च ते सर्वे अत्र दानं कृतं च यैः ॥ ९०.२१ ॥
विष्णुस्त्रिनेत्ररूपेण ब्रह्मरूपी पितामहः ।
तस्मिंस्तीर्थे स्थिता नित्यं पूजां गृह्णन्ति भक्तितः ॥ ९०.२२ ॥
जातं जातं निरीक्ष्यन्ते स्वपुत्रं हि पितामहाः ।
कदा यास्यति पुत्रोऽसौ कदा दाता भविष्यति ॥ ९०.२३ ॥
पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान्नरः ।
स्वकुलानि तु सर्वाणि प्रेतभूतानि तारयेत् ॥ ९०.२४ ॥
एकविंशत्पितृपक्षे मातृपक्षैकविंशतिम् ।
भार्याया एकादशैवेति सर्वाण्येतानि तारयेत् ॥ ९०.२५ ॥
द्विजदेवप्रसादेन पितॄणां च तथैव हि ।
श्राद्धदो वसते तत्र यत्र देवो महेश्वरः ॥ ९०.२६ ॥
आत्मनो घातका ये च गोघ्नाः स्त्रैणहताश्च ये ।
दंष्ट्रिभिर्जलपातेन विद्युत्पातेन ये हताः ॥ ९०.२७ ॥
न तेषामग्निसंस्कारो न शौचं नोदकक्रिया ।
तत्र तीर्थे तु यः श्राद्धं तेषां कुर्यात्स्वभक्तितः ॥ ९०.२८ ॥
मोक्षप्राप्तिर्भवेत्तेषां त्रिस्थानेषु न संशयः ।
तृप्तिस्तु जायते तेषां वर्षमेकं न संशयः ॥ ९०.२९ ॥
अजानता कृतं पापं बालभावेषु यत्कृतम् ।
तत्सर्वं नश्यति क्षिप्रं सकृत्स्नानेन भूपते ॥ ९०.३० ॥
रजकेन यथा धौतवस्त्रं निर्मलतां व्रजेत् ।
पापोपलिप्तस्तीर्थेऽस्मिन् स्नातो निर्मलतां व्रजेत् ॥ ९०.३१ ॥
संन्यासं कुरुते यस्तु तस्मिंस्तीर्थे नराधिप ।
ध्यायमानो महादेवं स गच्छेत्परमं पदम् ॥ ९०.३२ ॥
क्रीडित्वा च यथा कामं स्वेच्छया शिवमन्दिरे ।
वेदवेदाङ्गतत्त्वज्ञो जायते विपुले कुले ॥ ९०.३३ ॥
रूपवान् सुभगश्चैव सर्वव्याधिविवर्जितः ।
सर्वधर्मसमोपेतः सर्वाचारसमन्वितः ॥ ९०.३४ ॥
एतत्ते कथितं राजंस्तीर्थस्य फलमुत्तमम् ।
तच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वपातकैः ॥ ९०.३५ ॥
यश्चैनं श्रावयेद्भक्त्या आख्यानं द्विजसन्निधौ ।
श्राद्धे देवगृहे चैव पठेत्पर्वणि पर्वणि ॥ ९०.३६ ॥
गीर्वाणास्तस्य तुष्यन्ति मनुष्याः पितृभिः सह ।
पठतां शृण्वतां चैव नश्येद्वै पापसंचयः ॥ ९०.३७ ॥
लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः ।
जातिस्मरं स लभते प्राप्नोत्यभिमतं फलम् ॥ ९०.३८ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे चित्रसेनकथावर्णनो नाम नवतितमोऽध्यायः ॥
Search
Search here.