शालिग्रामस्तोत्रम्

स्तोत्र - मंत्र  > विष्णु स्तोत्र Posted at 2018-10-27 15:17:06
शालिग्रामस्तोत्रम् श्री गणेशाय नमः । अस्य श्रीशालिग्रामस्तोत्रमन्त्रस्य श्रीभगवान् ऋषिः, नारायणो देवता, अनुष्टुप् छन्दः, श्रीशालिग्रामस्तोत्रमन्त्रजपे विनियोगः ॥ युधिष्ठिर उवाच । श्रीदेवदेव देवेश देवतार्चनमुत्तमम् । तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तम ॥१॥ श्रीभगवानुवाच । गण्डक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे । दशयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥२॥ शालिग्रामो भवेद्देवो देवी द्वारावती भवेत् । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥३॥ शालिग्रामशिला यत्र यत्र द्वारावती शिला । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥४॥ आजन्मकृतपापानां प्रायश्चित्तं य इच्छति । शालिग्रामशिलावारि पापहारि नमोऽस्तु ते ॥५॥ अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥६॥ शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥७॥ स्नानोदकं पिवेन्नित्यं चक्राङ्कितशिलोद्भवम् । प्रक्षाल्य शुद्धं तत्तोयं ब्रह्महत्यां व्यपोहति ॥८॥ अग्निष्टोमसहस्राणि वाजपेयशतानि च । सम्यक् फलमवाप्नोति विष्णोर्नैवेद्यभक्षणात् ॥९॥ नैवेद्ययुक्तां तुलसीं च मिश्रितां विशेषतः पादजलेन विष्णोः । योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥१०॥ खण्डिताः स्फुटिता भिन्ना वन्हिदग्धास्तथैव च । शालिग्रामशिला यत्र तत्र दोषो न विद्यते ॥११॥ न मन्त्रः पूजनं नैव न तीर्थं न च भावना । न स्तुतिर्नोपचारश्च शालिग्रामशिलार्चने ॥१२॥ ब्रह्महत्यादिकं पापं मनोवाक्कायसम्भवम् । शीघ्रं नश्यति तत्सर्वं शालिग्रामशिलार्चनात् ॥१३॥ नानावर्णमयं चैव नानाभोगेन वेष्टितम् । तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥१४॥ नारायणोद्भवो देवश्चक्रमध्ये च कर्मणा । तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥१५॥ कृष्णे शिलातले यत्र सूक्ष्मं चक्रं च दृश्यते । सौभाग्यं सन्ततिं धत्ते सर्व सौख्यं ददाति च ॥१६॥ वासुदेवस्य चिह्नानि दृष्ट्वा पापैः प्रमुच्यते । श्रीधरः सुकरे वामे हरिद्वर्णस्तु दृश्यते ॥१७॥ वराहरूपिणं देवं कूर्माङ्गैरपि चिह्नितम् । गोपदं तत्र दृश्येत वाराहं वामनं तथा ॥१८॥ पीतवर्णं तु देवानां रक्तवर्णं भयावहम् । नारसिंहो भवेद्देवो मोक्षदं च प्रकीर्तितम् ॥१९॥ शङ्खचक्रगदाकूर्माः शङ्खो यत्र प्रदृश्यते । शङ्खवर्णस्य देवानां वामे देवस्य लक्षणम् ॥२०॥ दामोदरं तथा स्थूलं मध्ये चक्रं प्रतिष्ठितम् । पूर्णद्वारेण सङ्कीर्णा पीतरेखा च दृश्यते ॥२१॥ छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः । चिपिटे च महादुःखं शूलाग्रे तु रणं ध्रुवम् ॥२२॥ ललाटे शेषभोगस्तु शिरोपरि सुकाञ्चनम् । चक्रकाञ्चनवर्णानां वामदेवस्य लक्षणम् ॥२३॥ वामपार्श्वे च वै चक्रे कृष्णवर्णस्तु पिङ्गलम् । लक्ष्मीनृसिंहदेवानां पृथग्वर्णस्तु दृश्यते ॥२४॥ लम्बोष्ठे च दरिद्रं स्यात्पिङ्गले हानिरेव च । लग्नचक्रे भवेद्याधिर्विदारे मरणं ध्रुवम् ॥२५॥ पादोदकं च निर्माल्यं मस्तके धारयेत्सदा । विष्णोर्द्दष्टं भक्षितव्यं तुलसीदलमिश्रितम् ॥२६॥ कल्पकोटिसहस्राणि वैकुण्ठे वसते सदा । शालिग्रामशिलाबिन्दुर्हत्याकोटिविनाशनः ॥२७॥ तस्मात्सम्पूजयेद्ध्यात्वा पूजितं चापि सर्वदा । शालिग्रामशिलास्तोत्रं यः पठेच्च द्विजोत्तमः ॥२८॥ स गच्छेत्परमं स्थानं यत्र लोकेश्वरो हरिः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥२९॥ दशावतारो देवानां पृथग्वर्णस्तु दृश्यते । ईप्सितं लभते राज्यं विष्णुपूजामनुक्रमात् ॥३०॥ कोट्यो हि ब्रह्महत्यानामगम्यागम्यकोटयः । ताः सर्वा नाशमायान्ति विष्णुनैवेद्यभक्षणात् ॥३१॥ विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम् । तस्मादष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥३२॥ । इति श्रीभविष्योत्तरपुराणे श्रीकृष्णयुधिष्ठिरसंवादे शालिग्रामस्तोत्रं सम्पूर्णम् ।

Search

Search here.