शतपथ ब्राह्मणम् 3

ग्रंथालय  > ब्राह्मण ग्रंथ संहिता Posted at 2016-03-12 17:06:47
३.९.४.[२५] अथ निग्राभ्याभ्यो ग्रहान्विगृह्णते । आपो ह वै वृत्रं जघ्नुस्तेनैवैतद्वीर्येणापः स्यन्दन्ते स्यन्दमानानां वै वसतीवरीर्गृह्णाति वसतीवरीभ्यो निग्राभ्या निग्राब्याभ्यो ग्रहान्विगृह्णते तेनैवैतद्वीर्येण ग्रहान्विगृह्णते होतृचमसाद्योषा वा ऋग्घोता योषायै वा इमाः प्रजाः प्रजायन्ते तदेनमेतस्यै योषाया ऋचो होतुः प्रजनयति तस्माद्धोतृचमसात् ४.१.१.[१] प्राणो ह वा अस्योपांशुः । व्यान उपांशुसवन उदान एवान्तर्यामः ४.१.१.[२] अथ यस्मादुपांशुर्नाम । अंशुर्वै नाम ग्रहः स प्रजापतिस्तस्यैष प्राणस्तद्यदस्यैष प्राणस्तस्मादुपांशुर्नाम ४.१.१.[३] तं बहिष्पवित्राद्गृह्णाति । पराञ्चमेवास्मिन्नेतत्प्राणं दधाति सोऽस्यायं पराङेव प्राणो निरर्दति तमंशुभिः पावयति पूतोऽसदिति षड्भिः पावयति षड्वा ऋतव ऋतुभिरेवैनमेतत्पावयति ४.१.१.[४] तदाहुः । यदांशुभिरुपांशु पुनाति सर्वे सोमाः पवित्रपूता अथ केनास्यांशवः पूता भवन्तीति ४.१.१.[५] तानुपनिवपति । यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेति तदस्य स्वाहाकारेणैवांशवः पूता भवन्ति सर्वं वा एष ग्रहः सर्वेषां हि सवनानां रूपम् ४.१.१.[६] देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्ते होचुः संस्थापयाम यज्ञं यदि नोऽसुररक्षकान्यासजेयुः संस्थित एव नो यज्ञः स्यादिति ४.१.१.[७] ते प्रातःसवन एव । सर्वं यज्ञं समस्थापयन्नेतस्मिन्नेव ग्रहे यजुष्टः प्रथमे स्तोत्रे सामतः प्रथमे शस्त्र ऋक्तस्तेन संस्थितेनैवात ऊर्ध्वं यज्ञेनाचरन्त्स एषोऽप्येतर्हि तथैव यज्ञः संतिष्ठत एतस्मिन्नेव ग्रहे यजुष्टः प्रथमे स्तोत्रे सामतः प्रथमे शस्त्र ऋक्तस्तेन संस्थितेनैवात ऊर्ध्वं यज्ञेन चरति ४.१.१.[८] स वा अष्टौ कृत्वोऽभिषुणोति । अष्टाक्षरा वै गायत्री घायत्रं प्रातः सवनम् प्रातःसवनमेवैतत्क्रियते ४.१.१.[९] स गृह्णाति । वाचस्पतये पवस्वेति प्राणो वै वाचस्पतिः प्राण एष ग्रहस्तस्मादाह वाचस्पतये पवस्वेति वृष्णो अंशुभ्यां गभस्तिपूत इति सोमांशुभ्यां ह्येनम् पावयति तस्मादाह वृष्णो अंशुभ्यामिति गभस्तिपूत इति पाणी वै गभस्ती पाणिभ्यां ह्येनं पावयति ४.१.१.[१०] अथैकादश कृत्वोऽभिषुणोति । एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभं माध्यन्दिनं सवनं माध्यन्दिनमेवैतत्सवनं क्रियते ४.१.१.[११] स गृह्णाति । देवो देवेभ्यः पवस्वेति देवो ह्येष देवेभ्यः पवते येषां भागो ऽसीति तेषामु ह्येष भागः ४.१.१.[१२] अथ द्वादश कृत्वोऽभिषुणोति । द्वादशाक्षरा वै जगती जागतं तृतीयसवनं तृतीयसवनमेवैतत्क्रियते ४.१.१.[१३] स गृह्णाति । मधुमतीर्न इषष्कृधीति रसमेवास्मिन्नेतद्दधाति स्वदयत्येवैनमेतद्देवेभ्यस्तस्मादेष हतो न पूयत्यथ यज्जुहोति संस्थापयत्येवैनमेतत् ४.१.१.[१४] अष्टावष्टौ कृत्वः । ब्रह्मवर्चसकामस्याभिषुणुयादित्याहुरष्टाक्षरा वै गायत्री ब्रह्म गायत्री ब्रह्मवर्चसी हैव भवति ४.१.१.[१५] तच्चतुर्विंशतिं कृत्वोऽभिषुतं भवति । चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत्सं स्थापयति ४.१.१.[१६] पञ्चपञ्च कृत्वः । पशुकाम स्याभिषुणुयादित्याहुः पाङ्क्ता पशवः पशून्हैवावरुन्द्धे पञ्च वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत्संस्थापयति सो एषा मीमांसैवेतरं त्वेव क्रियते ४.१.१.[१७] तं गृहीत्वा परिमार्ष्टि । नेद्व्यवश्चोतदिति तं न सादयति प्राणो ह्यस्यैष तस्मादयमसन्नः प्राणः संचरति यदीत्त्वभिचरेदथैनं सादयेदमुष्य त्वा प्राणं सादयामीति तथाह तस्मिन्न पुनरस्ति यन्नानुसृजति तेनो अध्वर्युश्च यजमानश्च ज्योग्जीवतः ४.१.१.[१८] अथो अप्येवैनं दध्यात् । अमुष्य त्वा प्राणमपिदधामीति तथाह तस्मिन्न पुनरस्ति यन्न सादयति तेनो प्राणान्न लोभयति ४.१.१.[१९] स वा अन्तरेव सन्त्स्वाहेति करोति । देवा ह वै बिभयां चक्रुर्यद्वै नः पुरैवास्य ग्रहस्य होमादसुररक्षसानीमं ग्रहं न हन्युरिति तमन्तरेव सन्तः स्वाहाकारेणाजुहवुस्तं हुतमेव सन्तमग्नावजुहवुस्तथो एवैनमेष एतदन्तरेव सन्त्स्वाहाकारेण जुहोति तं हुतमेव सन्तमग्नौ जुहोति ४.१.१.[२०] अथोपनिष्क्रामति । उर्वन्तरिक्षमन्वेमीत्यन्तरिक्षं वा अनु रक्षश्चरत्यमूलमुभयतः परिच्छिन्नं यथायं पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरत्येतद्वै यजुर्ब्रह्म रक्षोहा स एतेन ब्रह्मणान्तरिक्षमभयमनाष्ट्रं कुरुते ४.१.१.[२१] अथ वरं वृणीते । बलवद्ध वै देवा एतस्य ग्रहस्य होमं प्रेप्सन्ति तेऽस्मा एतं वरं समर्धयन्ति क्षिप्रे न इमं ग्रहं जुहवदिति तस्माद्वरं वृणीते ४.१.१.[२२] स जुहोति । स्वांकृतोऽसीति प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातस्तस्मादाह स्वांकृतोऽसीति विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इति सर्वाभ्यो ह्येष प्रजाभ्यः स्वयं जातो मनस्त्वाष्ट्विति प्रजापतिर्वै मनः प्रजापतिष्ट्वाश्नुतामित्येवैतदाह स्वाहा त्वा सुभव सूर्यायेति तदवरं स्वाहाकारं करोति परां देवताम् ४.१.१.[२३] अमुष्मिन्वा एतमहौषीत् । य एष तपति सर्वं वा एष तदेनं सर्वस्यैव परार्ध्यं करोत्यथ यदवरां देवतां कुर्यात्परं स्वाहाकारं स्यादु हैवामुष्मादादित्यात्परं तस्मादवरं स्वाहाकारं करोति परां देवताम् ४.१.१.[२४] अथ हुत्वोर्ध्वं ग्रहमुन्मार्ष्टि । पराञ्चमेवास्मिन्नेतत्प्राणं दधात्यथोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्टि पराञ्चमेवास्मिन्नेतत्प्राणं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति ४.१.१.[२५] अमुष्मिन्वा एतं मण्डलेऽहौषीत् । य एष तपति तस्य ये रश्मयस्ते देवा मरीचिपास्तानेवैतत्प्रीणाति त एनं देवाः प्रीताः स्वर्गं लोकमभिवहन्ति ४.१.१.[२६] तस्य वा एतस्य ग्रहस्य । नानुवाक्यास्ति न याज्या तं मन्त्रेण जुहोत्येतेनो हास्यैषो ऽनुवाक्यवान्भवत्येतेन याज्यवानथ यद्यभिचरेद्योऽस्यांशुराश्लिष्टः स्याद्बाह्वोर्वोरसि वा वाससि वा तं जुहुयाद्देवांशो यस्मै त्वेडे तत्सत्यमुपरिप्रुता भङ्गेन हतोऽसौ फडिति यथा ह वै हन्यमानानामपधावेदेवमेषो ऽभिषूयमाणानां स्कन्दति तथा ह तस्य नैव धावन्नापधावत्परिशिष्यते यस्मा एवं करोति तं सादयति प्राणाय त्वेति प्राणो ह्यस्यैषः ४.१.१.[२७] दक्षिणार्धे हैके सादयन्ति । एतां ह्येष दिशमनु संचरतीति तदु तथा न कुर्यादुत्तरार्ध एवैनं सादयेन्नो ह्येतस्या आहुतेः का चन परास्ति तं सादयति प्राणाय त्वेति प्राणो ह्यस्यैषः ४.१.१.[२८] अथोपांशुसवनमादत्ते । तं न दशाभिर्न विवित्रेणोपस्पृशति यथा ह्यद्भिः प्रणिक्तमेवं तद्यद्यंशुराश्लिष्टः स्यात्पाणिनैव प्रध्वंस्योदञ्चमुपनिपादयेद्व्यानाय त्वेति व्यानो ह्यस्यैषः ४.१.२.[१] प्राणो ह वा अस्योपांशु । व्यान उपांशुसवन उदान एवान्तर्यामः ४.१.२.[२] अथ यस्मादन्तर्यामो नाम । यो वै प्राणः स उदानः स व्यानस्तमेवास्मिन्नेतत्पराञ्चं प्राणं दधाति यदुपांशु गृह्णाति तमेवास्मिन्नेतत्प्रत्यञ्चमुदानं दधाति यदन्तर्यामं गृह्णाति सोऽस्यायमुदानो ऽन्तरात्मन्यतस्तद्यदस्यैषोऽन्तरात्मन्यतो यद्वैनेनेमाः प्रजा यतास्तस्मादन्तर्यामो नाम ४.१.२.[३] तमन्तःपवित्राद्गृह्णाति । प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति सोऽस्यायमुदानो ऽन्तरात्मन्हित एतेनो हास्याप्युपांशुरन्तःपवित्राद्गृहीतो भवति समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ ह्येतेनो हैवास्यैषोऽपीतरेषु ग्रहेष्वनाक्षिद्भवति ४.१.२.[४] अथ यस्मात्सोमं पवित्रेण पावयति । यत्र वै सोमः स्वं पुरोहितं बृहस्पतिं जिज्यौ तस्मै पुनर्ददौ तेन संशशाम तस्मिन्पुनर्ददुष्यासैवातिशिष्टमेनो यदीन्नूनं ब्रह्म ज्यानायाभिदध्यौ ४.१.२.[५] तं देवाः पवित्रेणापावयन् । स मेध्यः पूतो देवानां हविरभवत्तथो एवैनमेष एतत्पवित्रेण पावयति स मेध्यः पूतो देवानां हविर्भवति ४.१.२.[६] तद्यदुपयामेन ग्रहा गृह्यन्ते । इयं वा अदितिस्तस्या अदः प्रायणीयं हविरसावादित्यश्चरुस्तद्वै तत्पुरेव सुत्यायै सा हेयं देवेषु सुत्यायामपित्वमीषे ऽस्त्वेव मेऽपि प्रसुते भाग इति ४.१.२.[७] ते ह देवा ऊचुः । व्यादिष्टोऽयं देवताभ्यो यज्ञस्त्वयैव ग्रहा गृह्यन्तां देवताभ्यो हूयन्तामिति तथेति सोऽस्या एष प्रसुते भागः ४.१.२.[८] तद्यदुपयामेन ग्रहा गृह्यन्ते । इयं वा उपयाम इयं वा इदमन्नाद्यमुपयच्छति पशुभ्यो मनुष्येभ्यो वनस्पतिभ्य इतो वा ऊर्ध्वा देवा दिवि हि देवाः ४.१.२.[९] तद्यदुपयामेन ग्रहा गृह्यन्ते । अनयैव तद्गृह्यन्तेऽथ यद्योनौ सादयतीयं वा अस्य सर्वस्य योनिरस्यै वा इमाः प्रजाः प्रजाताः ४.१.२.[१०] तं वा एतम् । रेतो भूतं सोममृत्विजो बिभ्रति यद्वा अयोनौ रेतः सिच्यते प्र वै तन्मीयतेऽथ यद्योनौ सादयत्यस्यामेव तत्सादयति ४.१.२.[११] प्राणोदानौ ह वा अस्यैतौ ग्रहौ । तयोरुदितेऽन्यतरं जुहोत्यनुदितेऽन्यतरम् प्राणोदानयोर्व्याकृत्यै प्राणोदानावेवैतद्व्याकरोति तस्मादेतौ समानावेव सन्तौ नानेवाचक्षते प्राण इति चोदान इति च ४.१.२.[१२] अहोरात्रे ह वा अस्यैतौ ग्रहौ । तयोरुदितेऽन्यतरं जुहोत्यनुदिते ऽन्यतरमहोरात्रयोर्व्याकृत्या अहोरात्रे एवैतद्व्याकरोति ४.१.२.[१३] अहः सन्तमुपाशुम् । तं रात्रौ जुहोत्यहरेवैतद्रात्रौ दधाति तस्मादपि सुतमिश्रायामुपैव किंचित्ख्यायते ४.१.२.[१४] रात्रिं सन्तमन्तर्यामम् । तमुदिते जुहोति रात्रिमेवैतदहन्दधाति तेनो हासावादित्य उद्यन्नेवेमाः प्रजा न प्रदहति तेनेमाः प्रजास्त्राताः ४.१.२.[१५] अथातो गृह्णात्येव । उपयामगृहीतोऽसीत्युक्त उपयामस्य बन्धुरन्तर्यच्छ मघवन्पाहि सोममितीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्निति पाहि सोममिति गोपाय सोममित्येवैतदाहोरुष्य राय एषो यजस्वेति पशवो वै रायो गोपाय पशूनित्येवैतदाहेषो यजस्वेति प्रजा वा इषस्ता एवैतद्यायजूकाः करोति ता इमाः प्रजा यजमाना अर्चन्त्यः श्राम्यन्त्यश्चरन्ति ४.१.२.[१६] अन्तस्ते द्यावापृथिवी दधामि । अन्तर्दधाम्युर्वन्तरिक्षं सजूर्देवेभिरवरैः परैश्चेति तदेनं वैश्वदेवं करोति तद्यदेनेनेमाः प्रजाः प्राणत्यश्चोदनत्यश्चान्तरिक्षमनुचरन्ति तेन वैश्वदेवोऽन्तर्यामे मघवन्मादयस्वेतीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्नित्यथ यदन्तरन्तरिति गृह्णात्यन्तस्त्वात्मन्दध इत्येवैतदाह ४.१.२.[१७] तं गृहीत्वा परिमार्ष्टि । नेद्व्यवश्चोतदिति तं न सादयत्युदानो ह्यस्यैष तस्मादयमसन्न उदानः संचरति यदीत्त्वभिचरेदथैनं सादयेदमुष्य त्वोदानं सादयामीति ४.१.२.[१८] स यद्युपांशुं सादयेत् । अथैनं सादयेद्यद्युपांशुं न सादयेन्नैनं सादयेद्यद्युपांशुमपिदध्यादप्येनं दध्याद्यद्युपांशु नापिदध्यान्नैनमपिदध्याद्यथोपांशोः कर्म तथैतस्य समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि ४.१.२.[१९] ता उ ह चरकाः । नानैव मन्त्राभ्यां जुह्वति प्राणोदानौ वा अस्यैतौ नानावीर्यौ प्राणोदानौ कुर्म इति वदन्तस्तदु तथा न कुर्यान्मोहयन्ति ह ते यजमानस्य प्राणोदानावपीद्वा एनं तूष्णीं जुहुयात् ४.१.२.[२०] स यद्वा उपांशु मन्त्रेण जुहोति । तदेवास्यैषोऽपि मन्त्रेण हुतो भवति किमु तत्तूष्णीं जुहुयात्समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि ४.१.२.[२१] स येनैवोपांशुं मन्त्रेण जुहोति । तेनैवैतं मन्त्रेण जुहोति स्वांकृतोऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा सुभव सूर्यायेत्युक्तो यजुषो बन्धुः ४.१.२.[२२] अथ हुत्वावाञ्चं ग्रहमवमार्ष्टि । इदं वा उपांशुं हुत्वोर्ध्वमुन्मार्ष्ट्यथात्रावाञ्चमवमार्ष्टि प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति ४.१.२.[२३] अथ नीचा पाणिना । मध्यमे परिधौ प्रत्यगुपमार्ष्टीदं वा उपांशु हुत्वोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्ट्यथात्र नीचा पाणिना मध्यमे परिधौ प्रत्यगुपमार्ष्टि प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति सोऽसावेव बन्धुः ४.१.२.[२४] तं प्रत्याक्रम्य सादयति । उदानाय त्वेत्युदानो ह्यस्यैष तानि वै संस्पृष्टानि सादयति प्राणोदानावेवैतत्संस्पर्शयति प्राणोदानान्त्संदधाति ४.१.२.[२५] तानि वा अनिङ्ग्यमानानि शेरे । आ तृतीयसवनात्तस्मादिमे मनुष्याः स्वपन्ति तानि पुनस्तृतीयसवने प्रजुज्यन्ते तस्मादिमे मनुष्याः सुप्त्वा प्रबुध्यन्ते ते ऽनिशिताश्चराचरा यज्ञस्यैवैतद्विधामनु वय इव ह वै यज्ञो विधीयते तस्योपांश्वन्तर्यामावेव पक्षावात्मोपांशुसवनः ४.१.२.[२६] तानि वा अनिङ्ग्यमानानि शेरे । आ तृतीयसवनात्तायते यज्ञ एति वै तद्यत्तायते तस्मादिमानि वयांसि विगृह्य पक्षावनायुवानानि पतन्ति तानि पुनस्तृतीयसवने प्रयुज्यन्ते तस्मादिमानि वयांसि समासं पक्षावायुवानानि पतन्ति यज्ञस्यैवैतद्विधामनु ४.१.२.[२७] इयं ह वा उपांशुः । प्राणो ह्युपांशुरिमां ह्येव प्राणन्नभिप्राणित्यसावेवान्तर्याम उदानो ह्यन्तर्यामोऽमुं ह्येव लोकमुदनन्नभ्युदनित्यन्तरिक्षमेवोपांशुसवनो व्यानो ह्युपांशुसवनो ऽन्तरिक्षं ह्येव व्यनन्नभिव्यनिति ४.१.३.[१] वाग्घ वा अस्यैन्द्रवायवः । एतन्न्वध्यात्ममिन्द्रो ह यत्र वृत्राय वज्रम् प्रजहार सोऽबलीयान्मन्यमानो नास्तृषीतीव बिभ्यन्निलयां चक्रे तदेवापि देवा अपन्यलयन्त ४.१.३.[२] ते ह देवा ऊचुः । न वै हतं वृत्रं विद्म न जीवं हन्त न एको वेत्तु यदि हतो वा वृत्रो जीवति वेति ४.१.३.[३] ते वायुमब्रुवन् । अयं वै वायुर्योऽयं पवते वायो त्वमिदं विद्धि यदि हतो वा वृत्रो जीवति वा त्वं वै न आशिष्टोऽसि यदि जीविष्यति त्वमेव क्षिप्रम् पुनरागमिष्यसीति ४.१.३.[४] स होवाच । किं मे ततः स्यादिति प्रथमवषट्कार एव ते सोमस्य राज्ञ इति तथेत्येयाय वायुरेद्धतं वृत्रं स होवाच हतो वृत्रो यद्धते कुर्यात तत्कुरुतेति ४.१.३.[५] ते देवा अभ्यसृज्यन्त । यथा वित्तिं वेत्स्यमाना एवं स यमेकोऽलभत स एकदेवत्योऽभवद्यं द्वौ स द्विदेवत्यो यं बहवः स बहुदेवत्यस्तद्यदेनम् पात्रैर्व्यगृह्णत तस्माद्ग्रहा नाम ४.१.३.[६] स एषामापूयत् । स एनाञ्छुक्तः पूतिरभिववौ स नालमाहुत्या आस नालं भक्षाय ४.१.३.[७] ते देवा वायुमब्रुवन् । वायविमं नो विवाहीमं नः स्वदयेति स होवाच किं मे ततः स्यादिति त्वयैवैतानि पात्राण्याचक्षीरन्निति तथेति होवाच यूयं तु मे सच्युपवातेति ४.१.३.[८] तस्य देवाः । यावन्मात्रमिव गन्धस्यापजघ्नुस्तं पशुष्वदधुः स एष पशुषु कुणपगन्धस्तस्मात्कुणपगन्धान्नापिगृह्णीत सोमस्य हैष राज्ञो गन्धः ४.१.३.[९] नो एव निष्ठीवेत् । तस्माद्यद्यप्यासक्त इव मन्येताभिवातं परीयाच्रीर्वै सोमः पाप्मा यक्ष्मः स यथा श्रेयस्यायति पापीयान्प्रत्यवरोहेदेवं हास्माद्यक्ष्मः प्रत्यवरोहति ४.१.३.[१०] अथेतरं वायुर्व्यवात् । तदस्वदयत्ततोऽलमाहुत्या आसालं भक्षाय तस्मादेतानि नानादेवत्यानि सन्ति वायव्यानीत्याचक्षते सोऽस्यैष प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते ४.१.३.[११] इन्द्रो ह वा ईक्षां चक्रे । वायुर्वै नोऽस्य यज्ञस्य भूयिष्ठभाग्यस्य प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते हन्तास्मिन्नपित्वमिच्छा इति ४.१.३.[१२] स होवाच । वायवा मास्मिन्ग्रहे भजेति किं ततः स्यादिति निरुक्तमेव वाग्वदेदिति निरुक्तं चेद्वाग्वदेदा त्वा भजामीति तत एष ऐन्द्रवायवो ग्रहोऽभवद्वायव्यो हैव ततः पुरा ४.१.३.[१३] स इन्द्रोऽब्रवीत् । अर्धं मेऽस्य ग्रहस्येति तुरीयमेव त इति वायुरर्धमेव म इतीन्द्रस्तुरीयमेव त इति वायुः ४.१.३.[१४] तौ प्रजापतिं प्रतिप्रश्नमेयतुः । स प्रजापतिर्ग्रहं द्वेधा चकार स होवाचेदं वायोरित्यथ पुनरर्धं द्वेधा चकार स होवाचेदं वायोरितीदं तवेतीन्द्र तुरीयमेव भाजयां चकार यद्वै चतुर्थं तत्तुरीयं तत एष ऐन्द्रतुरीयो ग्रहो ऽभवत् ४.१.३.[१५] तस्य वा एतस्य ग्रहस्य । द्वे पुरोरुचौ वायव्यैव एव पूर्व ऐन्द्रवायव उत्तरो द्वे अनुवाक्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरा द्वौ प्रैषौ वायव्य एव पूर्व ऐन्द्रवायव उत्तरो द्वे याज्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरैवमेनं तुरीयं तुरीयमेव भाजयां चकार ४.१.३.[१६] स होवाच । तुरीयंतुरीयं चेन्मामबीभजुस्तुरीयमेव तर्हि वाङ्निरुक्तं वदिष्यतीति तदेतत्तुरीयं वाचो निरुक्तं यन्मनुष्या वदन्त्यथैतत्तुरीयं वाचो ऽनिरुक्तं यत्पशवो वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यद्वयांसि वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यदिदं क्षुद्रं सरीसृपं वदति ४.१.३.[१७] तस्मादेतदृषीणाभ्यनूक्तम् । चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्तीति ४.१.३.[१८] अथातो गृह्णात्येव । आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयं वायवे त्वेति ४.१.३.[१९] अथापगृह्य पुनरानयति । इन्द्रवायू इमे सुता उप प्रयोभिरागतमिन्द्रवो वामुशन्ति हि उपयामगृहीतोऽसि वायव इन्द्रवायुभ्यां त्वैष ते योनिः सजोषोभ्यां त्वेति सादयति स यदाह सजोषोभ्यां त्वेति यो वै वायुः स इन्द्रो य इन्द्रः स वायुस्तस्मादाहैष ते योनिः सजोषोभ्यां त्वेति ४.१.४.[१] क्रतूदक्षौ ह वा अस्य मित्रावरुणौ । एतन्न्वध्यात्मं स यदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदस्मै तत्समृध्यते स दक्षो मित्र एव क्रतुर्वरुणो दक्षो ब्रह्मैव मित्रः क्षत्रं वरुणोऽभिगन्तैव ब्रह्म कर्ता क्षत्रियः ४.१.४.[२] ते हैते अग्रे नानेवासतुः । ब्रह्म च क्षत्रं च ततः श शाकैव ब्रह्म मित्र ऋते क्षत्राद्वरुणात्स्थातुम् ४.१.४.[३] न क्षत्रं वरुणः । ऋते ब्रह्मणो मित्राद्यद्ध किं च वरुणः कर्म चक्रे ऽप्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समानृधे ४.१.४.[४] स क्षत्रं वरुणः । ब्रह्म मित्रमुपमन्त्रयां चक्र उप मावर्तस्व संसृजावहै पुरस्त्वा करवै त्वत्प्रसूतः कर्म करवा इति तथेति तौ समसृजेतां तत एष मैत्रावरुणो ग्रहोऽभवत् ४.१.४.[५] सो एव पुरोधा । तस्मान्न ब्राह्मणः सर्वस्येव क्षत्रियस्य पुरोधां कामयेत सं ह्येतौ सृजेते सुकृतं च दुष्कृतं च नो एव क्षत्रियः सर्वमिव ब्राह्मणम् पुरोदधीत सं ह्येवैतौ सृजेते कुकृतं च दुष्कृतं च स यत्ततो वरुणः कर्म चक्रे प्रसूतं ब्रह्मणा मित्रेण सं हैवास्मै तदानृधे ४.१.४.[६] तत्तदवकॢप्तमेव । यद्ब्राह्मणोऽराजन्यः स्याद्यद्यु राजानं लभेत समृद्धं तदेतद्ध त्वेवानवकॢप्तं यत्क्षत्रियोऽब्राह्मणो भवति यद्ध किं च कर्म कुरुते प्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समृध्यते तस्मादु क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः सं हैवास्मै तद्ब्रह्मप्रसूतं कर्मर्ध्यते ४.१.४.[७] अथातो गृह्णात्येव । अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ममेदिह श्रुतं हवमुपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेति ४.१.४.[८] तं पयसा श्रिणाति । तद्यत्पयसा श्रीणाति वृत्रो वै सोम आसीत्तं यत्र देवा अघ्नंस्तम् मित्रमब्रुवंस्त्वमपि हंसीति स न चकमे सर्वस्य वा अहं मित्रमस्मि न मित्रं सन्नमित्रो भविष्यामीति तं वै त्वा यज्ञादन्तरेष्याम इत्यहमपि हन्मीति होवाच तस्मात्पशवोऽपाक्रामन्मित्रं सन्नमित्रोऽभूदिति स पशुभिर्व्यार्ध्यत तमेतद्देवाः पशुभिः समार्धयन्यत्पयसाश्रीणंस्तथो एवैनमेष एतत्पशुभिः समर्धयति यत्पयसा श्रीणाति ४.१.४.[९] तदाहुः । शश्वद्ध नैव चकमे हन्तुमिति तद्यदेवात्र पयस्तन्मित्रस्य सोम एव वरुणस्य तस्मात्पयसा श्रीणाति ४.१.४.[१०] स श्रीणाति । राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः तां धेनुम् मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीमेष ते योनिर्ऋतायुभ्यां त्वेति सादयति स यदाहर्तायुभ्यां त्वेति ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्मो ह्यृतं वरुण एवायुः संवत्सरो हि वरुणः संवत्सर आयुस्तस्मादाहैष ते योनि ऋतायुभ्यां त्वेति ४.१.५.[१] श्रोत्रं ह वा अस्याश्विनः । तस्मात्सर्वतः परिहारं भक्षयति सर्वतो ह्यनेन श्रोत्रेण शृणोति यत्र वै भृगवो वाङ्गिरसो वा स्वर्गं लोकं समाश्नुवत तच्च्यवनो वा भार्गवश्च्यवनो वाङ्गिरसस्तदेव जीर्णिः कृत्यारूपो जहे ४.१.५.[२] शर्यातो ह वा इदं मानवो ग्रामेण चचार । स तदेव प्रतिवेशो निविविशे तस्य कुमाराः क्रीडन्त इमं जीर्णिं कृत्यारूपमनर्थ्यं मन्यमाना लोष्टैर्विपिपिषुः ४.१.५.[३] स शार्यातेभ्यश्चुक्रोध । तेभ्योऽसंज्ञां चकार पितैव पुत्रेण युयुधे भ्राता भ्रात्रा ४.१.५.[४] शर्यातो ह वा ईक्षां चक्रे । यत्किमकरं तस्मादिदमापदीति स गोपालांश्चाविपालांश्च संह्वयितवा उवाच ४.१.५.[५] स होवाच । को वोऽद्येव किंचिदद्राक्षीदिति ते होचुः पुरुष एवायं जीर्णिः कृत्यारूपः शेते तमनर्थ्यं मन्यमानाः कुमारा लोष्टैर्व्यपिक्षन्निति स विदां चकार स वै च्यवन इति ४.१.५.[६] स रथं युक्त्वा । सुकन्यां शार्यातीमुपाधाय प्रसिष्यन्द स आजगाम यत्रर्षिरास तत् ४.१.५.[७] स होवाच । ऋषे नमस्ते यन्नावेदिषं तेनाहिंसिषमियं सुकन्या तया तेऽपह्नुवे संजानीतां मे ग्राम इति तस्य ह तत एव ग्रामः संजज्ञे स ह तत एव शर्यातो मानव उद्युयुजे नेदपरं हिनसानीति ४.१.५.[८] अश्विनौ ह वा इदं भिषज्यन्तौ चेरतुः । तौ सुकन्यामुपेयतुस्तस्याम् मिथुनमीषाते तन्न जज्ञौ ४.१.५.[९] तौ होचतुः । सुकन्ये कमिमं जीर्णिं कृत्यारूपमुपशेष आवामनुप्रेहीति सा होवाच यस्मै मां पितादान्नैवाहं तं जीवन्तं हास्यामीति तद्धायमृषिराजज्ञौ ४.१.५.[१०] स होवाच । सुकन्ये किं त्वैतदवोचतामिति तस्मा एतद्व्याचचक्षे स ह व्याख्यात उवाच यदि त्वैतत्पुनर्ब्रुवतः सा त्वं ब्रूतान्न वै सुसर्वाविव स्थो न सुसमृद्धाविवाथ मे पतिं निन्दथ इति तौ यदि त्वा ब्रवतः केनावमसर्वौ स्वः केनासमृद्धाविति सा त्वं ब्रूतात्पतिं नु मे पुनर्युवाणं कुरुतमथ वां वक्ष्यामीति तां पुनरुपेयतुस्तां हैतदेवोचतुः ४.१.५.[११] सा होवाच । न वै सुसर्वाविव स्थो न सुसमृद्धाविवाथ मे पतिं निन्दथ इति तौ होचतुः केनावमसर्वौ स्वः केनासमृद्धाविति सा होवाच पतिं नु मे पुनर्युवाणं कुरुतमथ वां वक्ष्यामीति ४.१.५.[१२] तौ होचतुः । एतं ह्रदमभ्यवहर स येन वयसा कमिष्यते तेनोदैष्यतीति तं ह्रदमभ्यवजहार स येन वयसा चकमे तेनोदेयाय ४.१.५.[१३] तौ होचतुः । सुकन्ये केनावमसर्वौ स्वः केनासमृद्धाविति तौ हर्षिरेव प्रत्युवाच कुरुक्षेत्रेऽमी देवा यज्ञं तन्वते ते वां यज्ञादन्तर्यन्ति तेनासर्वौ स्थस्तेनासमृद्धाविति तौ ह तत एवाश्विनौ प्रेयतुस्तावाजग्मतुर्देवान्यज्ञं तन्वानान्त्स्तुते बहिष्पवमाने ४.१.५.[१४] तौ होचतुः । उप नौ ह्वयध्वमिति ते ह देवा ऊचुर्न वामुपह्वयिष्यामहे बहु मनुष्येषु संसृष्टमचारिष्टं भिषज्यन्ताविति ४.१.५.[१५] तौ होचतुः । विशीर्ष्णा वै यज्ञेन यजध्व इति कथं विशीर्ष्णेत्युप नु नौ ह्वयध्वमथ वो वक्ष्याव इति तथेति ता उपाह्वयन्त ताभ्यामेतमाश्विनं ग्रहमगृह्णस्तावध्वर्यू यज्ञस्याभवतां तावेतद्यज्ञस्य शिरः प्रत्यधत्तां तददस्तद्दिवाकीर्त्यानां ब्राह्मणे व्याख्यायते यथा तद्यज्ञस्य शिरः प्रतिदधतुस्तस्मादेष स्तुते बहिष्पवमाने ग्रहो गृह्यते स्तुते हि बहिष्पवमान आगच्छताम् ४.१.५.[१६] तौ होचतुः । मुख्यौ वा आवां यज्ञस्य स्वो यावध्वर्यू इह नाविमम् पुरस्ताद्ग्रहं पर्याहरताभि द्विदेवत्यानिति ताभ्यामेतं पुरस्ताद्ग्रहम् पर्याजह्रुरभि द्विदेवत्यांस्तस्मादेष दशमो ग्रहो गृह्यते तृतीय एव वषट्क्रियतेऽथ यदश्विनावितीमे ह वै द्यावापृथिवी प्रत्यक्षमश्विनाविमे हीदं सर्वमाश्नुवातां पुष्करस्रजावित्यग्निरेवास्यै पुष्करमादित्योऽमुष्यै ४.१.५.[१७] अथातो गृह्णात्येव । या वां कशा मधुमत्यश्विना सूनृतावती तया यज्ञम् मिमिक्षतमुपयामगृहीतोऽस्यश्विभ्यां त्वैष ते योनिर्माध्वीभ्यां त्वेति सादयति तं वै मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति तद्यन्मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति ४.१.५.[१८] दध्यङ्ह वा आभ्यामाथर्वणः । मधु नाम ब्राह्मणमुवाच तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छात तस्मान्मधुमत्यर्चा गृह्णाति माध्वीभ्यां त्वेति सादयति ४.१.५.[१९] तानि वा एतानि । श्लक्ष्णानि पात्राणि भवन्ति रास्नावमैन्द्रवायवपात्रं तत्तस्य द्वितीयं रूपं तेन तद्द्विदेवत्यमजकावं मैत्रावरुणपात्रं तत्तस्य द्वितीयं रूपं तेन तद्द्विदेवत्यमौष्ठमाश्विनपात्रं तत्तस्य द्वितीयं रूपं तेन तद्द्विदेवत्यमथ यदश्विनाविति मुख्यौ वा अश्विनावौष्ठमिव वा इदं मुखं तस्मादौष्ठमाश्विनपात्रं भवति ४.२.१.[१] चक्षुषी ह वा अस्य शुक्रामन्थिनौ । तद्वा एष एव शुक्रो य एष तपति तद्यदेष एतत्तपति तेनैष शुक्रश्चन्द्रमा एव मन्थी ४.२.१.[२] तं सक्तुभिः श्रीणाति । तदेनं मन्थं करोति तेनो एष मन्थ्येतौ ह वा आसाम् प्रजानां चक्षुषी म यद्धैतौ नोदियातां न हैवेह स्वौ चन पाणी निर्जानीयुः ४.२.१.[३] तयोरत्तैवान्यतरः । आद्योऽन्यतरोऽत्तैव शुक्र आद्यो मन्थी ४.२.१.[४] तयोरत्तैवान्यतरमनु । आद्योऽन्यतरमन्वत्तैव शुक्रमन्वाद्यो मन्थिनमनु तौ वा अन्यस्मै गृह्येते अन्यस्मै हूयेते शण्डामर्कावित्यसुररक्षसे ताभ्यां गृह्येते देवताभ्यो हूयेते तद्यत्तथा ४.२.१.[५] यत्र वै देवाः । असुररक्षसान्यपजघ्निरे तदेतावेव न शेकुरपहन्तुं यद्ध स्म देवाः किं च कर्म कुर्वते तद्ध स्म मोहयित्वा क्षिप्र एव पुनरपद्रवतः ४.२.१.[६] ते ह देवा ऊचुः । उपजानीत यथेमावपहनामहा इति ते होचुर्ग्रहावेवाभ्यां गृह्णाम तावभ्यवैष्यतस्तौ स्वीकृत्यापहनिष्यामह इति ताभ्यां ग्रहौ जगृहुस्तावभ्यवैतां तौ स्वीकृत्यापाघ्नत तस्माच्छण्डामर्काभ्यामिति गृह्येते देवताभ्यो हूयेते ४.२.१.[७] अपि होवाच याज्ञवल्क्यः । नो स्विद्देवताभ्य एव गृह्णीयामा विजितरूपमिव हीदमिति तद्वै स तन्मीमांसामेव चक्रे नेत्तु चकार ४.२.१.[८] इमामु हैके शुक्रस्य पुरोरुचं कुर्वन्ति । अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमान इति तदेतस्य रूपं कुर्मो य एष तपतीति यदाह ज्योतिर्जरायुरिति ४.२.१.[९] इमां त्वेव शुक्रस्य पुरोरुचं कुर्यात् । तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदमित्यत्ता ह्येतमन्वत्ता हि ज्येष्ठस्तस्मादाह ज्येष्ठतातिं बर्हिषदं स्वर्विदं प्रतीचीनं वृजनं दोहसे धुनिमाशुं जयन्तमनु यासु वर्धसे उपयामगृहीतोऽसि शण्डाय त्वैष ते योनिर्वीरतां पाहीति यादयत्यत्ता ह्येतमन्वत्ता हि वीरस्तस्मादाहैष ते योनिर्वीरतां पाहीति दक्षिणार्धे सादयत्येतां ह्येष दिशमनु संचरति ४.२.१.[१०] अथ मन्थिनं गृह्णाति । अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति उपयामगृहीतोऽसि मर्काय त्वेति ४.२.१.[११] तं सक्तुभिः श्रीणाति । तद्यत्सक्तुभिः श्रीणाति वरुणो ह वै सोमस्य राज्ञोऽभीवाक्षि प्रतिपिपेष तदश्वयत्ततोऽश्वः समभवत्तद्यच्वयथात्समभवत्तस्मादश्वो नाम तस्याश्रु प्रास्कन्दत्ततो यवः समभवत्तस्मादाहुर्वरुण्यो यव इति तद्यदेवास्यात्र चक्षुषोऽमीयत तेनैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मात्सक्तुभिः श्रीणाति ४.२.१.[१२] स श्रीणाति । मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तावेष ते योनिः प्रजाः पाहीति सादयत्याद्यो ह्येतमन्वाद्या हीमाः प्रजा विशस्तस्मादाहैष ते योनिः प्रजाः पाहीति ४.२.१.[१३] द्वौ प्रोक्षितौ यूपशकलौ भवतः । द्वावप्रोक्षितौ प्रोक्षितं चैवाध्व्र्युरादत्तेऽप्रोक्षितं चैवमेव प्रतिप्रस्थाता प्रोक्षितं चैवादत्ते प्रोक्षितं च शुक्रमेवाध्वर्युरादत्ते मन्थिनं प्रतिप्रस्थाता ४.२.१.[१४] सोऽध्वर्युः । अप्रोक्षितेन यूपशकलेनापमार्ष्ट्यपमृष्टः शण्ड इत्येवमेव प्रतिप्रस्थातापमृष्टौ मर्क इति तदाददानावेवासुररक्षसे अपहतो देवास्त्वा शुक्रपाः प्रणयन्त्वित्येवाध्वर्युर्निष्क्रामति देवास्त्वा मन्थिपाः प्रणयन्त्विति प्रतिप्रस्थाता तदेतौ देवताभ्य एव प्रणयतः ४.२.१.[१५] तौ जघनेनाहवनीयमरत्नी संधत्तः । ता उत्तरवेदौ सादयतो दक्षिणायामेव श्रोणावध्वर्युः सादयत्युत्तरायां प्रतिप्रस्थाताननुसृजन्तावेवानाधृष्टासीति तद्रक्षोभिरेवैतदुत्तरवेदिमनाधृष्टां कुरुतो विपर्येष्यन्तौ वा एतावग्निम् भवतोऽत्येष्यन्तौ तस्मा एवैतन्निह्नुवाते तथो हैनौ विपरियन्तावग्निर्न हिनस्ति ४.२.१.[१६] सोऽध्वर्युः पर्येति । सुवीरो वीरान्प्रजनयन्परीहीत्यत्ता ह्येतमन्वत्ता हि वीरस्तस्मादाह सुवीरो वीरान्प्रजनयन्परीहीत्यभि रायस्पोषेण यजमानमिति तद्यजमानायाशिषमाशास्ते यदाहाभि रायस्पोषेण यजमानमिति ४.२.१.[१७] अथ प्रतिप्रस्थाता पर्येति । सुप्रजाः प्रजाः प्रजनयन्परीहीत्याद्यो ह्येतमन्वाद्या हीमाः प्रजा विशस्तस्मादाह सुप्रजाः प्रजाः प्रजनयन्परीहीत्यभि रायस्पोषेण यजमानमिति तद्यजमानायाशिषमाशास्ते यदाहाभि रायस्पोषेण यजमानमिति ४.२.१.[१८] तावपिधाय निष्क्रामतः । तिर एवैनावेतत्कुरुतस्तस्मादिमौ सूर्याचन्द्रमसौ प्राञ्चौ यन्तौ न कश्चन पश्यति तौपुरस्तात्परीत्यापोर्णुतः पुरस्तात्तिष्ठन्तौ जुहुत आविरेवैनावेतत्कुरुतस्तस्मादिमौ सूर्याचन्द्रमसौ प्रत्यञ्चौ यन्तौ सर्व एव पश्यति तस्मात्पराग्रेतः सिच्यमानं न कश्चन पश्यति तदु पश्चात्प्रजायमानं सर्व एव पश्यति ४.२.१.[१९] तौ जघनेन यूपमरत्नी संधत्तः । यद्यग्निर्नोद्बाधेत यद्यु अग्निरुद्बाधेताप्यग्रेणैव यूपमरत्नी संदध्यातां संजग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषेत्येवाध्वर्युः संजग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषेति प्रतिप्रस्थाता चक्षुषोरेवैते आरमणे कुरुतश्चक्षुषी एवैतत्संधत्तस्तस्मादिमे अभितोऽस्थिनी चक्षुषी संहिते ४.२.१.[२०] सोऽध्वर्युः । अप्रोक्षितं यूपशकलं निरस्यति निरस्तः शण्ड इत्येवमेव प्रतिप्रस्थाता निरस्तो मर्क इति तत्पुराहुतिभ्योऽसुररक्षसे अपहतः ४.२.१.[२१] अथाध्वर्युः । प्रोक्षितं यूपशकलमाहवनीये प्रास्यति शुक्रस्याधिष्ठानमसीत्येवमेव प्रतिप्रस्थाता मन्थिनोऽधिष्ठानमसीति चक्षुषोरेवैते समिधौ चक्षुषी एवैतत्समिन्द्धे तस्मादिमे समिद्धे चक्षुषी ४.२.१.[२२] तत्र जपति । अच्छिन्नस्य ते देव सोम सवीर्यस्य रायस्पोषस्य ददितारः स्यामेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते ४.२.१.[२३] अथाश्राव्याह । प्रातःप्रातः सवस्य शुक्रवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्येति वषट्कृतेऽध्वर्युर्जुहोति तदनु प्रतिप्रस्थाता तदनु चमसाध्वर्यवः ४.२.१.[२४] तौ वै पुरस्तात्तिष्ठन्तौ जुहुतः । चक्षुषी वा एतौ तत्पुरस्तादेवैतच्चक्षुषी धत्तस्तस्मादिमे पुरस्ताच्चक्षुषी ४.२.१.[२५] अभितो यूपं तिष्ठन्तौ जुहुतः । यथा वै नासिकैवं यूपस्तस्मादिमे अभितो नासिकां चक्षुषी ४.२.१.[२६] तौ वै वषट्कृतौ सन्तौ मन्त्रेण हूयते । एतेनो हैतौ तदुदश्नुवाते यदेनौ सर्वं सवनमनुहूयते यद्वेवैतौ सर्वं सवनमनुहूयत एतौ वै प्रजापतेः प्रत्यक्षतमां चक्षुषी ह्येतौ सत्यं वै चक्षुः सत्यं हि प्रजापतिस्तस्मादेनौ सर्वं सवनमनुहूयते ४.२.१.[२७] स जुहोति । स प्रथमा संस्कृतिर्विश्ववारा स प्रथमो वरुणो मित्रो अग्निः स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोत स्वाहेति ४.२.१.[२८] स यज्जुहोति । सा प्रथमा स प्रथम इति शश्वद्ध वै रेतसः सिक्तस्य चक्षुषी एव प्रथमे सम्भवतस्तस्माज्जुहोति सा प्रथमा इति ४.२.१.[२९] अथ सम्प्रेष्यति । प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य प्रयन्तु सदस्यानां होत्राणां चमसाध्वर्यव उपावर्तध्वं शुक्रस्याभ्युन्नयध्वमिति सम्प्रैष एवैष पर्येत्य प्रतिप्रस्थाताध्वर्योः पात्रे संस्रवमवनयत्यत्त्र एवैतदाद्यं बलिं हारयति तमध्वर्युर्होतृचमसे ऽवनयति भक्षाय वषट्कर्तुर्हि भक्षः प्राणो वै वषट्कारः सो ऽस्मादेतद्वषट्कुर्वतः पराङिवाभूत्प्राणो वै भक्षस्तत्प्राणं पुनरात्मन्धत्ते ४.२.१.[३०] अथ यदेते प्रतीची पात्रे न हरन्ति । हरन्त्यन्यान्ग्रहांश्चक्षुषी ह्येते संस्रवमेव होतृचमसेऽवनयति ४.२.१.[३१] अथ होत्राणां चमसानभ्युन्नयन्ति । हुतोच्छिष्टा वा एते संस्रवा भवन्ति नालमाहुत्यै तानेवैतत्पुनराप्याययन्ति तथालमाहुत्यै भवन्ति तस्माद्धोत्राणां चमसानभ्युन्नयन्ति ४.२.१.[३२] अथ होत्राः संयाजयन्ति । होत्रा ह वै युक्ता देवेभ्यो यज्ञं वहन्ति ता एवैतत्संतर्पयन्ति तृप्ताः प्रीता देवेभ्यो यज्ञं वहानिति तस्माद्धोत्राः संयाजयन्ति ४.२.१.[३३] स प्रथमायां वा होत्रायाम् । इष्टायामुत्तमायां वानुमन्त्रयते तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत्स्वाहेति होत्राणामेवैषा तृप्तिरथेत्य प्रत्यङ्ङुपविशत्ययाडग्नीदित्यग्नीद्ध्यत्र यजतामुत्तमः संयजति तस्मादाहायाडग्नीदिति ४.२.२.[१] आत्मा ह वा अस्याग्रयणः । सोऽस्यैष सर्वमेव सर्वं ह्ययमात्मा तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णाति सर्वं वा इयं सर्वमेष ग्रहस्तस्मादनया गृह्णाति ४.२.२.[२] पूर्णं गृह्णाति । सर्वं वै पूर्णं सर्वमेष ग्रहस्तस्मात्पूर्णं गृह्णाति ४.२.२.[३] विश्वेभ्यो देवेभ्यो गृह्णाति । सर्वं वै विश्वे देवाः सर्वमेष ग्रहस्तस्माद्विश्वेभ्यो देवेभ्यो गृह्णाति ४.२.२.[४] सर्वेषु सवनेषु गृह्णाति । सर्वं वै सवनानि सर्वमेष ग्रहस्तस्मात्सर्वेषु सवनेषु गृह्णाति ४.२.२.[५] स यदि राजोपदस्येत् । तमत एव तन्वीरन्नतः प्रभावयेयुरात्मा वा आग्रयण आत्मनो वा इमानि सर्वाण्यङ्गानि प्रभवन्त्येतस्मादन्ततो हारियोजनं ग्रहं गृह्णाति तदात्मन्येवास्यां प्रतिष्ठायामन्ततो यज्ञः प्रतितिष्ठति ४.२.२.[६] अथ यस्मादाग्रयणो नाम । यां वा अमूं ग्रावाणमाददानो वाचं यच्छत्यत्र वै साग्रेऽवदत्तद्यत्सात्राग्रेऽवदत्तस्मादाग्रयणो नाम ४.२.२.[७] रक्षोभ्यो वै तां भीषा वाचमयच्छन् । षड्वा अतः प्राचो ग्रहान्गृह्णात्यथैष सप्तमः षड्वा ऋतवः संवत्सरस्य सर्वं वै संवत्सरः ४.२.२.[८] तां देवाः । सर्वस्मिन्विजितेऽभयेऽनाष्ट्रेऽत्राग्रे वाचमवदंस्तथो एवैष एतां सर्वस्मिन्विजितेऽभयेऽनाष्ट्रेऽत्राग्रे वाचं वदति ४.२.२.[९] अथातो गृह्णात्येव । ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वमुपयामगृहीतोऽस्याग्रयणोऽसि स्वाग्रयण इति वाचमेवैतदयातयाम्नीं करोति तस्मादनया समानं सद्विपर्यासं वदत्यजामितायै जामि ह कुर्याद्यदाग्रयणोऽस्याग्रयणोऽसीति गृह्णीयात्तस्मादाहाग्रयणोऽसि स्वाग्रयण इति ४.२.२.[१०] पाहि यज्ञं पाहि यज्ञपतिमिति । वाचमेवैतदुत्सृष्टामाह गोपाय यज्ञमिति पाहि यज्ञपतिमिति वाचमेवैतदुत्सृष्टामाह गोपाय यजमानमिति यजमानो हि यज्ञपतिर्विष्णुस्त्वामिन्द्रियेण पातु विष्णुं त्वं पाहीति वाचमेवैतदुत्सृष्टामाह यज्ञो वै विष्णुर्यज्ञस्त्वां वीर्येण गोपायत्विति विष्णुं त्वं पाहीति वाचमेवैतदुत्सृष्टामाह यज्ञं त्वं गोपायेत्यभि सवनानि पाहीति तदेतं ग्रहमाह सर्वाणि ह्येष सवनानि प्रति ४.२.२.[११] अथ दशापवित्रमुपगृह्य हिङ्करोति । सा हैषा वागनुद्यमाना तताम तस्यां देवा वाचि तान्तायां हिङ्कारेणैव प्राणमदधुः प्राणो वै हिङ्कारः प्राणो हि वै हिङ्कारस्तस्मादपिगृह्य नासिके न हिङ्कर्तुं शक्नोति सैतेन प्राणेन समजिहीत यदा वै तान्तः प्राणं लभतेऽथ स संजिहीते तथो एवैष एतद्वाचि तान्तायां हिङ्कारेणैव प्राणं दधाति सैतेन प्राणेन संजिहीते त्रिष्कृत्वो हिङ्करोति त्रिवृद्धि यज्ञः ४.२.२.[१२] अथाह सोमः पवत इति । स यामेवामूं भीषासुररक्षसेभ्यो न निरब्रुवंस्तामेवैतत्सर्वस्मिन्विजितेऽभयेऽनाष्ट्रेऽत्र निराह तामाविष्करोति तस्मादाह सोमः पवत इति ४.२.२.[१३] अस्मै ब्रह्मणेऽस्मै क्षत्रायेति । तद्ब्रह्मणे च क्षत्राय चाहास्मै सुन्वते यजमानाय पवत इति तद्यजमानायाह ४.२.२.[१४] तदाहुः । एतावदेवोक्त्वा सादयेदेतावद्वा इदं सर्वं यावद्ब्रह्म क्षत्रं विडिन्द्राग्नी वा इदं सर्वं तस्मादेतावदेवोक्त्वा सादयेदिति ४.२.२.[१५] तदु ब्रूयादेव भूयः । इष ऊर्जे पवत इति वृष्ट्यै तदाह यदाहेष इत्यूर्ज इति यो वृष्टादूर्ग्रसो जायते तस्मै तदाहाद्भ्य ओषधीभ्यः पवत इति तदद्भ्यश्चौषधीभ्यश्चाह द्यावापृथिवीभ्यां पवत इति तदाभ्यां द्यावापृथिवीभ्यामाह ययोरिदं सर्वमधि सुभूताय पवत इति साधवे पवत इत्येवैतदाह ४.२.२.[१६] तदु हैक आहुः । ब्रह्मवर्चसाय पवत इति तदु तथा न ब्रूयाद्यद्वा आहास्मै ब्रह्मण इति तदेव ब्रह्मवर्चसायाह विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति तं वै मध्ये सादयत्यात्मा ह्यस्यैष मध्य इव ह्ययमात्मा दक्षिणोक्थ्यस्थाली भवत्युत्तरादित्यस्थाली ४.२.३.[१] अयं ह वा अस्यैषोऽनिरुक्त आत्मा यदुक्थ्यः । सोऽस्यैष आत्मैवात्मा ह्ययमनिरुक्तः प्राणः सोऽस्यैष आयुरेव तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णात्यजरा हीयममृताजरं ह्यमृतमायुस्तस्मादनया गृह्णाति ४.२.३.[२] तं वै पूर्णं गृह्णाति । सर्वं वै तद्यत्पूर्णं सर्वं तद्यदायुस्तस्मात्पूर्णं गृह्णाति ४.२.३.[३] तस्यासावेव ध्रुव आयुः । आत्मैवास्यैतेन संहितः पर्वाणि संततानि तद्वा अगृहीत एवैतस्मादच्छावाकायोत्तमो ग्रहो भवति ४.२.३.[४] अथ राजानमुपावहरति । तृतीयं वसतीवरीणामवनयति तत्पर्व समैति प्रथममहोत्तरस्य सवनस्य करोत्युत्तमं पूर्वस्य स यदुत्तरस्य सवनस्य तत्पूर्वं करोति यत्पूर्वस्य तदुत्तमं तद्व्यतिषजति तस्मादिमानि पर्वाणि व्यतिषक्तानीदमित्थमतिहानमिदमित्थम् ४.२.३.[५] एवमेव माध्यन्दिने सवने । अगृहीत एवैतस्मादच्छावाकायोत्तमो ग्रहो भवत्यथ तृतीयं वसतीवरीणामवनयति तत्पर्व समैति प्रथममहोत्तरस्य सवनस्य करोत्युत्तमं पूर्वस्य स यदुत्तरस्य तत्पूर्वं करोति यत्पूर्वस्य तदुत्तमं तद्व्यतिषजति तस्मादिमानि पर्वाणि व्यतिषक्तानीदमित्थमतिहानमिदमित्थं तद्यदस्यैतेनात्मा संहितस्तेनास्यैष आयुः ४.२.३.[६] सैषा कामदुघैवेन्द्रस्योद्धारः । त्रिभ्य एवैनं प्रातःसवन उक्थेभ्यो विगृह्णाति त्रिभ्यो माध्यन्दिने सवने तत्षट्कृत्वः षड्वा ऋतव ऋतवो वा इमान्त्सर्वान्कामान्पचन्त्येतेनो हैषा कामदुघैवेन्द्रस्योद्धारः ४.२.३.[७] तं वा अपुरोरुक्कं गृह्णाति । उक्थं हि पुरोरुगृग्घि पुरोरुगृग्घ्युक्थं साम ग्रहोऽथ यदन्यज्जपति तद्यजुस्ता हैता अभ्यर्ध एवाग्र ऋग्भ्य आसुरभ्यर्धो युजुर्भ्योऽभ्यर्धः सामभ्यः ४.२.३.[८] ते देवा अब्रुवन् हन्तेमा यजुःषु दधाम तथेयं बहुलतरेव विद्या भविष्यतीति ता यजुःष्वदधुस्तत एषा बहुलतरेव विद्याभवत् ४.२.३.[९] तं यदपुरोरुक्कं गृह्णाति । उक्थं हि पुरोरुगृग्घि पुरोरुगृग्घ्युक्थं स यदेवैनमुक्थेभ्यो विगृह्णाति तेनो हास्यैष पुरोरुङ्मान्भवति तस्मादपुरोरुक्कं गृह्णाति ४.२.३.[१०] अथातो गृह्णात्येव । उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयस्वत इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय त्वेति बृहद्वते वयस्वत इति वीर्यवत इत्येवैतदाह यदाह बृहद्वते वयस्वत इत्युक्थाव्यं गृह्णामीत्युक्थेभ्यो ह्येनं गृह्णाति यत्त इन्द्र बृहद्वय इति यत्त इन्द्र वीर्यमित्येवैतदाह तस्मै त्वा विष्णवे त्वेति यज्ञस्य ह्येनमायुषे गृह्णाति तस्मादाह तस्मै त्वा विष्णवे त्वेत्येष ते योनिरुक्थेभ्यस्त्वेति सादयत्युक्थेभ्यो ह्येनं गृह्णाति ४.२.३.[११] तं विगृह्णाति । देवेभ्यस्त्वा देवाव्यं यज्ञस्यायुषे गृह्णामीति प्रशासनं स कुर्याद्य एवं कुर्याद्यथादेवतं त्वेव विगृह्णीयात् ४.२.३.[१२] मित्रावरुणाभ्यां त्वा । देवाव्यं यज्ञस्यायुषे गृह्णामीत्येव मैत्रावरुणाय मैत्रावरुणीषु हि तस्मै स्तुवते मैत्रावरुणीरनुशंसति मैत्रावरुण्या यजति ४.२.३.[१३] इन्द्राय त्वा । देवाव्यं यज्ञस्यायुषे गृह्णामीत्येव ब्राह्मणाच्छंसिन ऐन्द्रीषु हि तस्मै स्तुवत ऐन्द्रीरनुशंसत्यैन्द्र्या यजति ४.२.३.[१४] इन्द्राग्निभ्यां त्वा । देवाव्यं यज्ञस्यायुषे गृह्णामीत्येवाच्छावाकायैन्द्राग्नीषु हि तस्मै स्तुवत ऐन्द्राग्नीरनुशंसत्यैन्द्राग्न्या यजतीन्द्राय त्वेत्येव माध्यन्दिने सवन ऐन्द्रं हि माध्यन्दिनं सवनम् ४.२.३.[१५] तदु ह चरकाध्वर्यवो विगृह्णन्ति । उपयामगृहीतोऽसि देवेभ्यस्त्वा देवाव्यमुक्थेभ्य उक्थाव्यं मित्रावरुणाभ्यां जुष्टं गृह्णाम्येष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयति पुनर्हविरसीति स्थालीमभिमृशति ४.२.३.[१६] उपयामगृहीतोऽसि । देवेभ्यस्त्वा देवाव्यमुक्थेभ्य उक्थाव्यमिन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वेति सादयति पुनर्हविरसीति स्थालीमभिमृशति ४.२.३.[१७] उपयामगृहीतोऽसि । देवेभ्यस्त्वा देवाव्यमुक्थेभ्य उक्थाव्यमिन्द्राग्निभ्यां जुष्टं गृह्णाम्येष ते योनिरिन्द्राग्निभ्यां त्वेति सादयति नात्र पुनर्हविरसीति स्थालीमभिमृशतीन्द्राय त्वेन्द्राय त्वेत्येव माध्यन्दिने सवन ऐन्द्रं हि माध्यन्दिनं सवनं द्विर्ह पुनर्हविरसीति स्थालीमभिमृशति तूष्णीं तृतीयं निदधाति ४.२.३.[१८] तं वै नोपयामेन गृह्णीयात् । न योनौ सादयेदग्रे ह्येवैष उपयामेन गृहीतो भवत्यग्रे योनौ सन्नो जामितायै जामि ह कुर्याद्यदेनमत्राप्युपयामेन गृह्णीयाद्यद्योनौ सादयेदथ यत्पुनर्हविरसीति स्थालीमभिमृशति पुनर्ह्यस्यै ग्रहं ग्रहीष्यन्भवति न तदाद्रियेत तूष्णीमेव निदध्यात् ४.२.४.[१] अयं ह वा अस्यैष प्राणः । योऽयं पुरस्तात्स वै वैश्वानर एवाथ योऽयं पश्चात्स ध्रुवस्तौ ह स्मैतौ द्वावेवाग्रे ग्रहौ गृह्णन्ति ध्रुववैश्वानराविति तयोरयमप्येतर्ह्यन्यतर एव गृह्यते ध्रुव एव स यदि तं चरकेभ्यो वा यतो वानुब्रुवीत यजमानस्य तं चमसेऽवनयेदथैतमेव होतृचमसे ४.२.४.[२] यद्वा अस्यावाचीनं नाभेः । तदस्यैष आत्मनः सोऽस्यैष आयुरेव तस्मादनया गृह्णात्यस्यै हि स्थाली भवति स्थाल्या ह्येनं गृह्णात्यजरा हीयममृताजरं ह्यमृतमायुस्तस्मादनया गृह्णाति ४.२.४.[३] तं वै पूर्णं गृह्णाति । सर्वं वै तद्यत्पूर्णं सर्वं तद्यदायुस्तस्मात्पूर्णं गृह्णाति ४.२.४.[४] वैश्वानराय गृह्णाति । संवत्सरो वै वैश्वानरः संवत्सर आयुस्तस्माद्वैश्वानराय गृह्णाति ४.२.४.[५] स प्रातःसवने गृहीतः । ऐतस्मात्कालादुपशेते तदेनं सर्वाणि सवनान्यतिनयति ४.२.४.[६] तं न स्तूयमानेऽवनयेत् । न ह संवत्सरं यजमानोऽतिजीवेद्यत्स्तूयमाने ऽवनयेत् ४.२.४.[७] तं शस्यमानेऽवनयति । तदेनं द्वादशं स्तोत्रमतिनयति तथा परम्परमायुः समश्नुते तथो ह यजमानो ज्योग्जीवति तस्माद्ब्राह्मणोऽग्निष्टोमसत्स्यादैतस्य होमान्न सर्पेन्न प्रस्रावयेत तथा सर्वमायुः समश्नुत आयुर्वा अस्यैष तथा सर्वमायुरेति ४.२.४.[८] यद्वा अस्यावाचीनं नाभेः । तदस्यैष आत्मनः स यत्पुरैतस्य होमात्सर्पेद्वा प्र वा स्रावयेत ध्रुवं हावमेहेन्नेद्ध्रुवमवमेहानीति तस्माद्वा अग्निष्टोमसद्भवति तद्वै तद्यजमान एव यजमानस्य ह्येष तदात्मनः ४.२.४.[९] स वा अग्निष्टोमसद्भवति । यशो वै सोमस्तस्माद्यश्च सोमे लभते यश्च नोभावेवागच्छतो यश एवैतद्द्रष्टुमागच्छन्ति तद्वा एतद्यशो ब्राह्मणाः सम्प्रसृप्यात्मन्दधते यद्भक्षयन्ति स ह यश एव भवति य एवं विद्वान्भक्षयति ४.२.४.[१०] ते वा एते । सर्पन्त एवाग्निष्टोमसद्येतद्यशः संनिधाय सर्पन्ति ते पराञ्चो यशसो भवन्ति तदेष परिगृह्यैव पुनरात्मन्यशो धत्ते तेषां हैष एव यशस्वितमो भूत्वा प्रैति य एवं विद्वानग्निष्टोमसद्भवति ४.२.४.[११] देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिर एतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरेऽस्माकमयं भविष्यत्यस्माकमयं भविष्यतीति ४.२.४.[१२] ततो देवाः । अर्चन्तः श्राम्यन्तश्चेरुस्त एतदग्निष्टोमसद्यं ददृशुस्त एतेनाग्निष्टोमसद्येन सर्वं यज्ञं समवृञ्जन्तान्तरायन्नसुरान्यज्ञात्तथो एवैष एतेनाग्निष्टोमसद्येन सर्वं यज्ञं संवृङ्क्तेऽन्तरेति सपत्नान्यज्ञात्तस्माद्वा अग्निष्टोमसद्भवति ४.२.४.[१३] तं गृहीत्वोत्तरे हविर्धाने सादयति प्राणा वै ग्रहा नेत्प्राणान्मोहयानीत्युपकीर्णे वा इतरान्ग्रहान्सादयत्यथैतं व्युह्य न तृणं चनान्तर्धाय ४.२.४.[१४] यद्वा अस्योर्ध्वं नाभेः । तदस्यैत आत्मन उपरीव वै तद्यदूर्ध्वं नाभेरुपरीवैतद्यदुपकीर्णं तस्मादुपकीर्णे सादयत्यथैतं व्युह्य न तृणं चनान्तर्धाय ४.२.४.[१५] यद्वा अस्यावाचीनं नाभेः । तदस्यैष आत्मनोऽध इव वै तद्यदवाचीनं नाभेरध इवैतद्य द्व्युह्य न तृणं चनान्तर्धाय तस्मादेतं व्युह्य न तृणं चनान्तर्धाय सादयति ४.२.४.[१६] एष वै प्रजापतिः । य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते स यानुपकीर्णे सादयति तस्माद्यास्ताननु प्रजाः प्रजायन्ते ता अन्येनात्मनोऽस्यां प्रतितिष्ठन्ति या वै शफैः प्रतितिष्ठन्ति ता अन्येनात्मनोऽस्यां प्रतितिष्ठन्त्यथ यदेतं व्युह्य न तृणं चनान्तर्धाय सादयति तस्माद्या एतमनु प्रजाः प्रजायन्ते या आत्मनैवास्यां प्रतितिष्ठन्ति मनुष्याश्च श्वापदाश्च ४.२.४.[१७] तद्वा एतत् । अस्या एवान्यदुतरं करोति यदुपकिरति स यानुपकीर्णे सादयति तस्माद्यास्ताननु प्रजाः प्रजायन्ते ता अन्येनैवात्मनोऽस्यां प्रतितिष्ठन्ति शफैः ४.२.४.[१८] तद्वा एतत् । आहवनीये जुह्वति पुरोडाशं धानाः करम्भं दध्यामिक्षामिति तद्यथा मुख आसिञ्चेदेवं तदथैष एकरूप उपशेत आप इवैव तस्माद्यदनेन मुखेन नानारूपमशनमश्नात्यथैतेन प्राणेनैकरूपमेव प्रस्रावयतेऽप इवैवाथ यस्माद्ध्रुवो नाम ४.२.४.[१९] देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्तान्दक्षिणतो ऽसुररक्षसान्यासेजुस्तेषामेतान्दक्षिणान्ग्रहानुज्जघ्नुरप्येतद्दक्षिणं हविर्धानमुज्जघ्नुरथैतमेव न शेकुरुद्धन्तुं तदुत्तरमेव हविर्धानं दक्षिणं हविर्धानमदृंहत्तद्यदेतं न शेकुरुद्धन्तुं तस्माद्ध्रुवो नाम ४.२.४.[२०] तं वै गोपायन्ति । शिरो वा एष एतस्यै गायत्र्यै यज्ञो वै गायत्री द्वादश स्तोत्राणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशत्यक्षरा वै गायत्री तस्या एष शिरः श्रीर्वै शिरः श्रीर्हि वै शिरस्तस्माद्योऽर्धस्य श्रेष्टो भवत्यसावमुष्यार्धस्य शिर इत्याहुः श्रेष्ठो ह व्यथेत यदेष व्यथेत यजमानो वै श्रेष्ठो नेद्यजमानो व्यथाता इति तस्माद्वै गोपायन्ति ४.२.४.[२१] वत्सो वा एषः । एतस्यै गायत्र्यै यज्ञो वै गायत्री द्वादश स्तोत्राणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशत्यक्षरा वै गायत्री तस्या एष वत्सस्तं यद्गोपायन्ति गोपायन्ति वा इमान्वत्सान्दोहाय यदिदं पयो दुह्र एवमियं गायत्री यजमानाय सर्वान्कामान्दोहाता इति तस्माद्वै गोपायन्ति ४.२.४.[२२] अथ यदध्वर्युश्च प्रतिप्रस्थाता च । निश्च क्रामतः प्र च पद्येते यथा बद्धवत्सोपाचरेदेवमेतं ग्रहमुपाचरतस्तमवनयति गायत्रीमेवैतत्प्रस्रावयति प्रत्तेयं गायत्री यजमानाय सर्वान्कामान्दोहाता इति तस्माद्वा अवनयति ४.२.४.[२३] सोऽवनयति । ध्रुवं ध्रुवेण मनसा वाचा सोममवनयामीति गृह्णामीति वाथा न इन्द्र इद्विशोऽसपत्नाः समनसस्करदिति यथा न इन्द्र इमाः प्रजा विशः श्रियै यशसे ऽन्नाद्यायासपत्नाः संमनसः करवदित्येवैतदाह ४.२.४.[२४] अथातो गृह्णात्येव । मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः । उपयामगृहीतोऽसि ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तम एष ते योनिर्वैश्वानराय त्वेति सादयति व्युह्य न तृणं चनान्तर्धाय वैश्वानराय ह्येनं गृह्णाति ४.२.५.[१] ग्रहान्गृहीत्वा । उपनिष्क्रम्य विप्रुषां होमं जुहोति तद्यद्विप्रुषां होमं जुहोति या एवास्यात्र विप्रुष स्कन्दन्ति ता एवैतदाहवनीये स्वगाकरोत्याहवनीयो ह्याहुतीनां प्रतिष्ठा तस्माद्विप्रुषां होमं जुहोति ४.२.५.[२] स जुहोति । यस्ते द्रप्स स्कन्दति यस्ते अंशुरिति यो वै स्तोक स्कन्दति स द्रप्सस्तत्तमाह यस्ते अंशुरिति तदंशुमाह ग्रावच्युतो धिषणयोरुपस्थादिति ग्राव्णा हि च्युतोऽधिषवणाभ्यां स्कन्दत्यध्वर्योर्वा परि वा यः पवित्रादित्यध्वर्योर्वा हि पाणिभ्यां स्कन्दति पवित्राद्वा तं ते जुहोमि मनसा वषट्कृतं स्वाहेति तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति ४.२.५.[३] अथ स्तीर्णायै वेदेः । द्वे तृणे अध्वर्युरादत्ते तावध्वर्यू प्रथमौ प्रतिपद्येते प्राणोदानौ यज्ञस्याथ प्रस्तोता वागेव यज्ञस्याथोद्गातात्मैव प्रजापतिर्यज्ञस्याथ प्रतिहर्ता भिषग्वा व्यानो वा ४.२.५.[४] तान्वा एतान् । पञ्चर्त्विजो यजमानोऽन्वारभत एतावान्वैसर्वो यज्ञो यावन्त एते पञ्चर्त्विजो भवन्ति पाङ्क्तो वै यज्ञस्तद्यज्ञमेवैतद्यजमानोऽन्वारभते ४.२.५.[५] अथान्यतरत्तृणम् । चात्वालमभिप्रास्यति देवानामुत्क्रमणमसीति यत्र वै देवा यज्ञेन स्वर्गं लोकं समाश्नुवत त एतस्माच्चात्वालादूर्ध्वाः स्वर्गं लोकमुपोदक्रामंस्तद्यजमानमेवैतत्स्वर्ग्यं पन्थानमनुसंख्यापयति ४.२.५.[६] अथान्यतरत्तृणम् । पुरस्तादुद्गातॄणामुपास्यति तूष्णिमेव स्तोमो वा एष प्रजापतिर्यदुद्गातारः स इदं सर्वं युत इदं सर्वं सम्भवति तस्मा एवैतत्तृणमपिदधाति तथो हाध्वर्युं न युते नैनं सम्भवत्यथ यदा जपन्तिजपन्ति ह्यत्रोद्गातारः ४.२.५.[७] अथ स्तोत्रमुपाकरोति । सोमः पवत इति स वै परागेव स्तोत्रमुपाकरोति पराञ्च स्तुवते देवान्वा एतानि स्तोत्राण्यभ्युपावृत्तानि यत्पवमानाः पराञ्चो ह्येतैर्देवाः स्वर्गं लोकं समाश्नुवत तस्मात्परागेव स्तोत्रमुपाकरोति पराञ्च स्तुवते ४.२.५.[८] उपावर्तध्वमिति वा अन्यानि स्तोत्राणि । अभ्यावर्तं धुर्यै स्तुवत इमा वै प्रजा एतानि स्तोत्राण्यभ्युपावृत्तास्तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ४.२.५.[९] अथ यदत्र बहिष्पवमानेन स्तुवते । अत्र ह वा असावग्र आदित्य आस तमृतवः परिगृह्यैवात ऊर्ध्वाः स्वर्गं लोकमुपोदक्रामन्त्स एष ऋतुषु प्रतिष्ठितस्तपति तथो एवैतदृत्विजो यजमानं परिगृह्यैवात ऊर्ध्वाः स्वर्गं लोकमुपोत्क्रामन्ति तस्मादत्र बहिष्पवमानेन स्तुवते ४.२.५.[१०] नौर्ह वा एषा स्वर्ग्या । यद्बहिष्पवमानं तस्या ऋत्विज एव स्फ्याश्चारित्राश्च स्वर्गस्य लोकस्य सम्पारणास्तस्या एक एव मज्जयिता य एव निन्द्यः स यथा पूर्णामभ्यारुह्य मज्जयेदेवं हैनां स मज्जयति तद्वै सर्व एव यज्ञो नौः स्वर्ग्या तस्मादु सर्वस्मादेव यज्ञान्निन्द्यं परिबिबाधिषेत ४.२.५.[११] अथ स्तुत एतां वाचं वदति । अग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशां अलंकुरु पशुनेहीति विहरत्यग्नीदग्नीन्त्समिन्द्ध एवैनानेतत्स्तृणाति बर्हि स्तीर्णे बर्हिषि समिन्द्धे देवेभ्यो जुहवानीति पुरोडाशां अलंकुर्विते पुरोडाशैर्हि प्रचरिष्यन्भवति पशुनेहीति पशुं ह्युपाकरीष्यन्भवति ४.२.५.[१२] अथ पुनः प्रपद्य । आश्विनं ग्रहं गृह्णात्याश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपं परिव्ययति परिवीय यूपं पशुमुपाकरोति रसमेवास्मिन्नेतद्दधाति ४.२.५.[१३] स प्रातःसवन आलब्धः । आ तृतीयसवनाच्रप्यमाण उपशेते सर्वस्मिन्नेवैतद्यज्ञे रसं दधाति सर्वं यज्ञं रसेन प्रसजति ४.२.५.[१४] तस्मादाग्नेयमग्निष्टोम आलभते । तद्धि सलोम यदाग्नेयमग्निष्टोम आलभेत यद्युक्थ्यः स्यादैन्द्राग्नं द्वितीयमालभेतैन्द्राग्नानि ह्युक्थानि यदि षोडशी स्यादैन्द्रं तृतीयमालभेतेन्द्रो हि षोडशी यद्यतीरात्रः स्यात्सारस्वतं चतुर्थमालभेत वाग्वै सरस्वती योषा वै वाग्योषा रात्रिस्तद्यथायथं यज्ञक्रतून्व्यावर्तयति ४.२.५.[१५] अथ सवनीयैः पुरोडाशैः प्रचरति । देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत्तस्यैतच्छरीरं यद्गिरयो यदश्मानस्तदेषोशाना नामौषधिर्जायत इति ह स्माह श्वेतकेतुरौद्दालकिस्तामेतदाहृत्याभिषुण्वन्तीति ४.२.५.[१६] स यत्पशुमालभते । रसमेवास्मिन्नेतद्दधात्यथ यत्सवनीयैः पुरोडाशैः प्रचरति मेधमेवास्मिन्नेतद्दधाति तथो हास्यैष सोम एव भवति ४.२.५.[१७] सर्व ऐन्द्रा भवन्ति । इन्द्रो वै यज्ञस्य देवता तस्मात्सर्व ऐन्द्रा भवन्ति ४.२.५.[१८] अथ यत्पुरोडाशः धानाः करम्भो दध्यामिक्षेति भवति या यज्ञस्य देवतास्ताः सुप्रीता असन्निति ४.२.५.[१९] इदं वा अपूपमशित्वा कामयते । धानाः खादेयं करम्भमश्नीयां दध्यश्नीयामामिक्षामश्नीयामिति ते सर्वे कामा या यज्ञस्य देवतास्ताः सुप्रीता असन्नित्यथ यदेषा प्रातःसवन एव मैत्रावरुणी पयस्यावकॢप्ता भवति नेतरयोः सवनयोः ४.२.५.[२०] गायत्री वै प्रातःसवनं वहति । त्रिष्टुम्माध्यन्दिनं सवनं जगती तृतीयसवनं तद्वा अनेकाकिन्येव त्रिष्टुम्माध्यन्दिनं सवनं वहति गायत्र्या च बृहत्या चानेकाकिनी जगती तृतीयसवनं गायत्र्योष्णिहककुब्भ्यामनुष्टुभा ४.२.५.[२१] गायत्र्येवैकाकिनी प्रातःसवनं वहति । सैताभ्यां पङ्क्तिभ्यां स्तोत्रपङ्क्त्या च हविष्पङ्क्त्या च चत्वार्याज्यानि बहिष्पवमानं पञ्चमं पञ्चपरा पङ्क्तिः सैतया स्तोत्रपङ्क्त्यानेकाकिनी गायत्री प्रातःसवनं वहति ४.२.५.[२२] इन्द्रस्य पुरोडाशः । हर्योर्धानाः पूष्णः करम्भः सरस्वत्यै दधि मित्रावरुणयोः पयस्या पञ्चपदा पङ्क्तिः सैतया हविष्पङ्क्त्यानेकाकिनी गायत्री प्रातःसवनं वहत्येतस्या एव पङ्क्तेः सम्पदः कामाय प्रातःसवन एवैषा मैत्रावरुणी पयस्यावकॢप्ता भवति नेतरयोः सवनयोः ४.३.१.[१] भक्षयित्वा समुपहूताः स्म इत्युक्त्वोत्तिष्ठति । पुरोडाशबृगलमादाय तद्यत्रैतदुपसन्नोऽच्छावाकोऽन्वाह तदस्मै पुरोडाशबृगलम् पाणावादधदाहाच्छावाक वदस्व यत्ते वाद्यमित्यहीयत वा अच्छावाकः ४.३.१.[२] तमिन्द्राग्नी अनुसमतनुताम् । प्रजानां प्रजात्यै तस्मादैन्द्राग्नोऽच्छावाकः स एतेन च हविषा यदस्मा एतत्पुरोडाशबृगलं पाणावादधात्येतेन चार्षेयेण यदेतदन्वाह तेनानुसमश्नुते ४.३.१.[३] स वै सन्नेऽच्छावाके । ऋतुग्रहैश्चरति तद्यत्सन्नेऽच्छावाक ऋतुग्रहैश्चरति मिथुनं वा अच्छावाक ऐन्द्राग्नो ह्यच्छावाको द्वौ हीन्द्राग्नी द्वन्द्वं हि मिथुनं प्रजननं स एतस्मान्मिथुनात्प्रजननादृतून्त्संवत्सरं प्रजनयति ४.३.१.[४] यद्वेव सन्नेऽच्छावाके । ऋतुग्रहैश्चरति सर्वं वा ऋतवः संवत्सरः सर्वमेवैतत्प्रजनयति तस्मात्सन्नेऽच्छावाक ऋतुग्रहैश्चरति ४.३.१.[५] तान्वै द्वादश गृह्णीयात् । द्वादश वै मासाः संवत्सरस्य तस्माद्द्वादश गृह्णीयादथो अपि त्रयोदश गृह्णीयादस्ति त्रयोदशो मास इति द्वादश त्वेव गृह्णीयादेषैव सम्पत् ४.३.१.[६] द्रोणकलशाद्गृह्णाति । प्रजापतिर्वै द्रोणकलशः स एतस्मात्प्रजापतेर्ऋतून्त्संवत्सरम् प्रजनयति ४.३.१.[७] उभयतोमुखाभ्यां पात्राभ्यां गृह्णाति । कुतस्तयोरन्ता ये उभयतोमुखे तस्मादयमन्तः संवत्सरः परिप्लवते तं गृहीत्वा न सादयति तस्मादयमसन्नः संवत्सरः ४.३.१.[८] नानुवाक्यामन्वाह । ह्वयति वा अनुवाक्ययागतो ह्येवायमृतुर्यदि दिवा यदि नक्तं नानुवषट्करोति नेदृतूनववृणजा इति सहैव प्रथमौ ग्रहौ गृह्णीतः सहोत्तमाविदमेवैतत्सर्वं संवत्सरेण परिगृह्णीतस्तदिदं सर्वं संवत्सरेण परिगृहीतम् ४.३.१.[९] निरेवान्यतरः क्रामति । प्रान्यतरः पद्यते तस्मादिमेऽन्वञ्चो मासा यन्त्यथ यदुभौ वा सह निष्क्रामेतामुभौ वा सह प्रपद्येयातां पृथगु हैवेमे मासा ईयुस्तस्मान्निरेवान्यतरः क्रामति प्रान्यतरः पद्यते ४.३.१.[१०] तौ वा ऋतुनेति षट्प्रचरतः । तद्देवा अहरसृजन्तर्तुभिरिति चतुस्तद्रात्रिमसृजन्त स यद्धैतावदेवाभविष्यद्रात्रिर्हैवाभविष्यन्न व्ययवत्स्यत् ४.३.१.[११] तौ वा ऋतुनेत्युपरिष्टाद्द्विश्चरतः । तद्देवाः पुरस्तादहरददुस्तस्मादिदमद्याहरथ रात्रिरथ श्वोऽहर्भविता ४.३.१.[१२] ऋतुनेति वै देवाः । मनुष्यानसृजन्तर्तुभिरिति पशून्त्स यत्तन्मध्ये येन पशूनसृजन्त तस्मादिमे पशव उभयतः परिगृहीता वशमुपेता मनुष्याणाम् ४.३.१.[१३] तौ वा ऋतुनेति षट्प्रचर्य । इतरथा पात्रे विपर्यस्येते ऋतुभिरिति चतुश्चरित्वेतरथा पात्रे विपर्यस्येते अन्यतरत एव तद्देवा अहरसृजन्तान्यतरतो रात्रिमन्यतरत एव तद्देवा मनुष्यानसृजन्तान्यतरतः पशून् ४.३.१.[१४] अथातो गृह्णात्येव । उपयामगृहीतोऽसि मधवे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि माधवाय त्वेति प्रतिप्रस्थातैतावेव वासन्तिकौ स यद्वसन्त ओषधयो जायन्ते वनस्पतयः पच्यन्ते तेनो हैतौ मधुश्च माधवश्च ४.३.१.[१५] उपयामगृहीतोऽसि । शुक्राय त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि शुचये त्वेति प्रतिप्रस्थातैतावेव ग्रैष्मौ स यदेतयोर्बलिष्ठं तपति तेनो हैतौ शुक्रश्च शुचिश्च ४.३.१.[१६] उपयामगृहीतोऽसि नभसे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि नभस्याय त्वेति प्रतिप्रस्थातैतावेव वार्षिकावमुतो वै दिवो वर्षति तेनो हैतौ नभश्च नभस्यश्च ४.३.१.[१७] उपयामगृहीतोऽसि । इषे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽस्यूर्जे त्वेति प्रतिप्रस्थातैतावेव शारदौ स यच्छरद्यूर्ग्रस ओषधयः पच्यन्ते तेनो हैताविषश्चोर्जश्च ४.३.१.[१८] उपयामगृहीतोऽसि सहसे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि सहस्याय त्वेति प्रतिप्रस्थातैतावेव हैमन्तिकौ स यद्धेमन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते तेनो हैतौ सहश्च सहस्यश्च ४.३.१.[१९] उपयामगृहीतोऽसि तपसे त्वेत्येवाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि तपस्याय त्वेति प्रतिप्रस्थातैतावेव शैशिरौ स यदेतयोर्बलिष्ठं श्यायति तेनो हैतौ तपश्च तपस्यश्च ४.३.१.[२०] उपयामिगृहीतोऽसि । अंहसस्पतये त्वेति त्रयोदशं ग्रहं गृह्णाति यदि त्रयोदशं गृह्णीयादथ प्रतिप्रस्थाताध्वर्योः पात्रे संस्रवमवनयत्यध्वर्युर्वा प्रतिप्रस्थातुः पात्रे संस्रवमवनयत्याहरति भक्षम् ४.३.१.[२१] अथ प्रतिप्रस्थाताभक्षितेन पात्रेण । ऐन्द्राग्नं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रेणैन्द्राग्नं ग्रहं गृह्णाति न वा ऋतुग्रहाणामनुवषट्कुर्वन्त्येतेभ्यो वा ऐन्द्राग्नं ग्रहं ग्रहीष्यन्भवति तदस्यैन्द्राग्नेनैवानुवषट्कृता भवन्ति ४.३.१.[२२] यद्वेवैन्द्राग्नं ग्रहं गृह्णाति । सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स इदं सर्वं प्रजनय्येदमेवैतत्सर्वं प्राणोदानयोः प्रतिष्ठापयति तदिदं सर्वं प्राणोदानयोः प्रतिष्ठितमिन्द्राग्नी हि प्राणोदानाविमे हि द्यावापृथिवी प्राणोदानावनयोर्हीदं सर्वं प्रतिष्ठितम् ४.३.१.[२३] यद्वेवैन्द्राग्नं ग्रहं गृह्णाति । सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स इदं सर्वं प्रजनय्यास्मिन्नेवैतत्सर्वस्मिन्प्राणादानौ दधाति ताविमावस्मिन्त्सर्वस्मिन्प्राणोदानौ हितौ ४.३.१.[२४] अथातो गृह्णात्येव । इन्द्राग्नी आगतं सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता । उपयामगृहीतोऽसीन्द्राग्नि यां त्वैष ते योनिरिन्द्राग्निभ्यां त्वेति सादयतीन्द्राग्निभ्यां ह्येनं गृह्णाति ४.३.१.[२५] अथ वैश्वदेवं ग्रहं गृह्णाति । सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स यद्धैतावदेवाभविष्यद्यावत्या हैवाग्रे प्रजाः सृष्टास्तावत्यो हैवाभविष्यन्न प्राजनिष्यन्त ४.३.१.[२६] अथ यद्वैश्वदेवं ग्रहं गृह्णाति । इदमेवैतत्सर्वमिमाः प्रजा यथायथं व्यवसृजति तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते शुक्रपात्रेण गृह्णात्येष वै शुक्रो य एष तपति तस्य ये रश्मयस्ते विश्वे देवास्तस्माच्छुक्रपात्रेण गृह्णाति ४.३.१.[२७] अथातो गृह्णात्येव । ओमासश्चर्षणीर्धतो विश्वे देवास आगत दाश्वांसो दाशुषः सुतम् उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति ४.३.२.[१] गृणाति ह वा एतद्धोता यचंसति । तस्मा एतद्गृणते प्रत्येवाध्वर्युरागृणाति तस्मात्प्रतिगरो नाम ४.३.२.[२] तं वै प्राञ्चमासीनमाह्वयते । सर्वे वा अन्य उद्गातुः प्राञ्च आर्त्विज्यं कुर्वन्ति तथो हास्यैतत्प्रागेवार्त्विज्यं कृतं भवति ४.३.२.[३] प्रजापतिर्वा उद्गाताः । योषर्ग्घोता स एतत्प्रजापतिरुद्गाता योषायामृचि होतरि रेतः सिञ्चति यत्स्तुते तद्धोता शस्त्रेण प्रजनयति तच्यति यथायं पुरुषः शितस्तद्यदेनच्यति तस्माच्छस्त्रं नाम ४.३.२.[४] तदुपपल्यय्य प्रतिगृणाति । इदमेवैतद्रेतः सिक्तमुपनिमदत्यथ यत्पराङ् तिष्ठन्प्रतिगृणीयात्परागु हैवैतद्रेतः सिक्तं प्रणश्येत्तन्न प्रजायेत सम्यञ्चा उ चैवैतद्भूत्वैतद्रेतः सिक्तं प्रजनयतः ४.३.२.[५] यातयामानि वै देवैश्चन्दांसि । च्छन्दोभिर्हि देवाः स्वर्गं लोकं समाश्नुवत मदो वै प्रतिगरो यो वा ऋचि मदो यः सामन्रसो वै स तच्चन्दःस्वेवैतद्रसं दधात्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते ४.३.२.[६] तस्माद्यद्यर्धर्चशः शंसेत् । अर्धर्चेऽर्धर्चे प्रतिगृणीयाद्यदि पचः शंसेत्पदेपदे प्रतिगृणीयाद्यत्र वै शंसन्नवानिति तदसुररक्षसानि यज्ञमन्ववचरन्ति तत्प्रतिगरेण संदधाति नाष्ट्राणां रक्षसामनन्ववचाराय यजमानस्यो चैवैतद्भ्रातृव्यलोकं च्छिनत्ति ४.३.२.[७] चतुरक्षराणि ह वा अग्रे च्छन्दांस्यासुः । ततो जगती सोममच्छापतत्सा त्रीण्य्क्षराणि हित्वाजगाम ततस्त्रिष्टुप्सोममच्छापतत्सैकमक्षरं हित्वाजगाम ततो गायत्री सोममच्छापतत्सैतानि चाक्षराणि हरन्त्यागच्छत्सोमं च ततोऽष्टाक्षरा गायत्र्यभवत्तस्मादाहुरष्टाक्षरा गायत्रीति ४.३.२.[८] तया प्रातःसवनमतन्वत । तस्माद्गायत्रं प्रातःसवनं तयैव माध्यन्दिनं सवनमतन्वत तां ह त्रिष्टुबुवाचोप त्वाहमायानि त्रिभिरक्षरैरुप मा ह्वयस्व मा मा यज्ञादन्तर्गा इति तथेति तामुपाह्वयत तत एकादशाक्षरा त्रिष्टुबभवत्तस्मादाहुस्त्रैष्टुभं माध्यन्दिनं सवनमिति ४.३.२.[९] तयैव तृतीयसवनमतन्वत । तां ह जगत्युवाचोप त्वाहमायान्येकेनाक्षरेणोप सा ह्वयस्व मा मा यज्ञादन्तर्गा इति तथेति तामुपाह्वयत ततो द्वादशाक्षरा जगत्यभवत्तस्मादाहुर्जागतं तृतीयसवनमिति ४.३.२.[१०] तदाहुः । गायत्राणि वै सर्वाणि सवनानि गायत्री ह्येवैतदुपसृजमानैदिति तस्मात्संसिद्धं प्रातःसवने प्रतिगृणीयात्संसिद्धा हि गायत्र्यागच्छत्सकृन्मद्वन्माध्यन्दिने सवन एकं हि साक्षरं हित्वागच्छत्तेनैवैनामेतत्समर्धयति कृत्स्नां करोति ४.३.२.[११] यत्र त्रिष्टुभः शस्यन्ते । त्रिमद्वत्तृतीयसवने त्रीणि हि साक्षराणि हित्वागच्छत्तैरेवैनामेतत्समर्धयति कृत्स्नां करोति ४.३.२.[१२] यत्र द्यावापृथिव्यं शस्यते । इमे ह वै द्यावापृथिवी इमाः प्रजा उपजीवन्ति तदनयोरेवैतद्द्यावापृथिव्यो रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति स वा ओमित्येव प्रतिगृणीयात्तद्धि सत्यं तद्देवा विदुः ४.३.२.[१३] तद्धैके । ओथामोदैव वागिति प्रतिगृणन्ति वाक्प्रतिगर एतद्वाचमुपाप्नुम इति वदन्तस्तदु तथा न कुर्याद्यथा वै कथा च प्रतिगृणात्युपाप्तैवास्य वाग्भवति वाचा हि प्रतिगृणाति तस्मादोमित्येव प्रतिगृणीयात्तद्धि सत्यं तद्देवा विदुः ४.३.३.[१] इहा इहा इत्यभिषुणोति । इन्द्रमेवैतदाच्यावयति बृहद्बृहदितीन्द्रमेवैतदाच्यावयति ४.३.३.[२] स शुक्रामन्थिनौ प्रथमौ गृह्णाति । शुक्रवद्ध्येतत्सवनमथाग्रयणं सर्वेषु ह्येष सवनेषु गृह्यतेऽथ मरुत्वतीयमथोक्थ्यमुक्थानि ह्यत्रापि भवन्ति ४.३.३.[३] तद्धैके । उक्थ्यं गृहीत्वाथ मरुत्वतीयं गृह्णन्ति तदु तथा न कुर्यान्मरुत्वतीयमेव गृहीत्वाथोक्थ्यं गृह्णीयात् ४.३.३.[४] तान्वा एतान् । पञ्च ग्रहान्गृह्णात्येष वै वज्रो यन्माध्यन्दिनः पवमानस्तस्मात्पञ्चदशः पञ्चसामा भवति पञ्चदशो हि वज्रः स एतैः पञ्चभिर्ग्रहैः पञ्च वा इमा अङ्गुलयोऽङ्गुलिभिर्वै प्रहरति ४.३.३.[५] इन्द्रो वृत्राय वज्रं प्रजहार । स वृत्रं पाप्मानं हत्वा विजितेऽभयेऽनाष्ट्रे दक्षिणा निनाय तस्मादप्येतर्हि यदैवैतेन माध्यन्दिनेन पवमानेन स्तुवते ऽथ विजितेऽभयेऽनाष्ट्रे दक्षिणा नीयन्ते तथो एवैष एतैः पञ्चभिर्ग्रहैः पाप्मने द्विषते भ्रातृव्याय वज्रं प्रहरति स वृत्रं पाप्मानं हत्वा विजिते ऽभये नाष्ट्रे दक्षिणा नयति तस्माद्वा एतान्पञ्च ग्रहान्गृह्णाति ४.३.३.[६] तद्यन्मरुत्वतीयान्गृह्णाति । एतद्वा इन्द्रस्य निष्केवल्यं सवनं यन्माध्यन्दिनं सवनं तेन वृत्रमजिघासत्तेन व्यजिगीषत मरुतो वा इत्यश्वत्थेऽपक्रम्य तस्थुः क्षत्रं वा इन्द्रो विशो मरुतो विशा वै क्षत्रियो बलवान्भवति तस्मादाश्वत्थे ऋतुपात्रे स्यातां कार्ष्मर्यमये त्वेव भवतः ४.३.३.[७] तानिन्द्र उपमन्त्रयां चक्रे । उप मावर्तध्वं युष्माभिर्बलेन वृत्रं हनानीति ते होचुः किं नस्ततः स्यादिति तेभ्य एतौ मरुत्वतीयौ ग्रहावगृह्णात् ४.३.३.[८] ते होचुः । अपनिधायैनमोज उपावर्तामहा इति त एनमपनिधायैवौज उपाववृतुस्तद्वा इन्द्रोऽस्पुणुतापनिधाय वै मौज उपावृतन्निति ४.३.३.[९] स होवाच । सहैव मौजसोपावर्तध्वमिति तेभ्यो वै नस्तृतीयं ग्रहं गृहाणेति तेभ्य एतं तृतीयं ग्रहमगृह्णादुपयामगृहीतोऽसि मरुतां त्वौजस इति त एनं सहैवौजसोपावर्तन्त तैर्व्यजयत तैर्वृत्रमहन्क्षत्रं वा इन्द्रो विशो मरुतो विशा वै क्षत्रियो बलवान्भवति तत्क्षत्र एवैतद्बलं दधाति तस्मान्मरुत्वतीयान्गृह्णाति ४.३.३.[१०] स वा इद्रायैव मरुत्वते गृह्णीयात् । नापि मरुद्भ्यः स यद्धापि मरुद्भ्यो गृह्णीयात्प्रत्युद्यामिनीं ह क्षत्राय विशं कुर्यादथैतदिन्द्रमेवानु मरुत आभजति तत्क्षत्रायैवैतद्विशं कृतानुकरामनुवर्त्मानं करोति तस्मादिन्द्रायैव मरुत्वते गृह्णीयान्नापि मरुद्भ्यः ४.३.३.[११] अपक्रमादु हैवैषामेतद्बिभयां चकार । यदिमे मन्नापक्रामेयुर्यन्नान्यद्ध्रियेरन्निति तानेवैतदनपक्रमिणोऽकुरुत तस्मादिन्द्रायैव मरुत्वते गृह्णीयान्नापि मरुद्भ्यः ४.३.३.[१२] ऋतुपात्राभ्यां गृह्णाति । ऋतवो वै संवत्सरो यज्ञस्तेऽदः प्रातःसवने प्रत्यक्षमवकल्प्यन्ते यदृतुग्रहान्गृह्णात्यथैतत्परोऽक्षं माध्यन्दिने सवनेऽवकल्पयन्ते यदृतुपात्राभ्यां मरुत्वतीयान्गृह्णाति विशो वै मरुतोऽन्नं वै विश ऋतवो वा इदं सर्वमन्नाद्यं पचन्ति तस्मादृतुपात्राभ्याम् मरुत्वतीयान्गृह्णाति ४.३.३.[१३] अथातो गृह्णात्येव । इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्नाविवासन्ति कवयः सुयज्ञाः । उपयामगृहीतोऽसीन्द्राय त्वामरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते ४.३.३.[१४] मरुत्वन्तं वृषभम् । वावृधानमकवारिं दिव्यं शासमिन्द्रं विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम । उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते उपयामगृहीतोऽसि मरुतां त्वौजस इति तृतीयं ग्रहं गृह्णाति ४.३.३.[१५] अथ महेन्द्रं ग्रहं गृह्णाति । पाप्मना वा एतदिन्द्रः संसृष्टोऽभूद्यद्विशा मरुद्भिः स यथा विजयस्य कामाय विशा समाने पात्रेऽश्नीयादेवं तद्यदस्मा एतं मरुद्भिः समानं ग्रहमगृह्णन् ४.३.३.[१६] तं देवाः । सर्वस्मिन्विजितेऽभयेऽनाष्ट्रे यथेषीकां मुञ्जाद्विवृहेदेवं सर्वस्मात्पाप्मनो व्यवृहन्यन्माहेन्द्रं ग्रहमगृह्णंस्तथो एवैष एतद्यथेषीका विमुञ्जा स्यादेवं सर्वस्मात्पाप्मनो निर्मुच्यते यन्माहेन्द्रं ग्रहं गृह्णाति ४.३.३.[१७] यद्वेव माहेन्द्रं ग्रहं गृह्णाति । इन्द्रो वा एष पुरा वृत्रस्य बधादथ वृत्रं हत्वा यथा महाराजो विजिग्यान एवं महेन्द्रोऽभवत्तस्मान्माहेन्द्रं ग्रहं गृह्णाति महान्तमु चैवैनमेतत्खलु करोति वृत्रस्य बधाय तस्माद्वेव माहेन्द्रं ग्रहं गृह्णाति शु पात्रेण गृह्णात्येष वै शुक्रो य एष तपत्येष उ एव महांस्तस्माच्छुक्रपात्रेण गृह्णाति ४.३.३.[१८] अथातो गृह्णात्येव । महां इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् उपयामगृहीतोऽसि महेन्द्राय त्वैष ते योनिर्महेन्द्राय त्वेति सादयति महेन्द्राय ह्येनं गृह्णाति ४.३.३.[१९] अथोपाकृत्यैतां वाचं वदति । अभिषोतारोऽभिषुणुतौलूखलानुद्वादयताग्नीदाशिरं विनय सौम्यस्य वित्तादिति ते वै तृतीयसवनायैवाभिषोतारोऽभिषुण्वन्ति तृतीयसवनायौलूखलानुद्वादयन्ति तृतीयसवनायाग्नीदाशिरं विनयति तृतीयसवनाय सौम्यं चरुं श्रपयत्येते वै शुक्रवती रसवती सवने यत्प्रातःसवनं च माध्यन्दिनं च सवनमथैतन्निर्धीतशुक्रं यत्तृतीयसवनं तदेवैतस्मान्माध्यन्दिनात्सवनान्निर्मिमीते तथो हास्यैतच्छुक्रवद्रसवत्तृतीयसवनं भवति तस्मादेतामत्र वाचं वदति ४.३.४.[१] घ्नन्ति वा एतद्यज्ञम् । यदेनं तन्वते यन्न्वेव राजानमभिषुण्वन्ति तत्तं घ्नन्ति यत्पशुं संज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति ४.३.४.[२] स एष यज्ञो हतो न ददक्षे । तं देवा दक्षिणाभिरदक्षयंस्तद्यदेनं दक्षिणाभिरदक्षयंस्तस्माद्दक्षिणा नाम तद्यदेवात्र यज्ञस्य हतस्य व्यथते तदेवास्यैतद्दक्षिणाभिर्दक्षयत्यथ समृद्ध एव यज्ञो भवति तस्माद्दक्षिणा ददाति ४.३.४.[३] तद्वै षड्द्वादशेत्येव हविर्यज्ञे ददति । न ह त्वेवाशतदक्षिणः सौम्यो ऽध्वरः स्यादेष वै प्रत्यक्षं यज्ञो यत्प्रजापतिः पुरुषो वै प्रजापतेर्नेदिष्ठं सोऽयं शतायुः शततेजाः शतवीर्यस्तं शतेनैव दक्षयति नाशतेन तस्मान्नाशतदक्षिणः सौम्योऽध्वरः स्यान्नो हैवाशतदक्षिणेन यजमानस्यर्त्विक्ष्यान्नेदस्याक्षिभूरसानि यमिमे हनिष्यन्त्येव न दक्षयिष्यन्तीति ४.३.४.[४] द्वया वै देवा देवाः । अहैव देवा अथ ये ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधाविभक्त एव यज्ञ आहुतय एव देवानां दक्षिणा मनुष्यदेवानां ब्राह्मणानां शुश्रुवुषामनूचानानामाहुतिभिरेव देवान्प्रीणाति दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणाञ्चुश्रुवुषोऽनूचानांस्त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति ४.३.४.[५] ता वा एताः । ऋत्विजामेव दक्षिणा अन्यं वा एत एतस्यात्मानं संस्कुर्वन्त्येतं यज्ञमृङ्मयं यजुर्मयं साममयमाहुतिमयं सोऽस्यामुष्मिंलोक आत्मा भवति तद्ये माजीजनन्तेति तस्मादृत्विग्भ्य एव दक्षिणा दद्यान्नानृत्विग्भ्यः ४.३.४.[६] अथ प्रतिपरेत्य गार्हपत्यम् । दक्षिणानि जुहोति स दशाहोमीये वाससि हिरण्यम् प्रबध्यावधाय जुहोति देवलोके मेऽप्यसदिति वै यजते यो यजते सोऽस्यैष यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा यां ददाति सैति दक्षिणामन्वारभ्य यजमानः ४.३.४.[७] चतस्रो वै दक्षिणाः । हिरण्यं गौर्वासोऽश्वो न वै तदवकल्पते यदश्वस्य पादमवध्याद्यद्वा गौः पादमवदध्यात्तस्माद्दशाहोमीये वाससि हिरण्यम् प्रबध्यावधाय जुहोति ४.३.४.[८] सौरीभ्यामृग्भ्यां जुहोति । तमसा वा असौ लोकोऽन्तर्हितः स एतेन ज्योतिषा तमो ऽपहत्य स्वर्गं लोकमुपसंक्रामति तस्मात्सौरीभ्यामृग्भ्यां जुहोति ४.३.४.[९] स जुहोति । उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यं स्वाहेत्यतया गायत्र्या गायत्री वा इयं पृथिवी सेयं प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति ४.३.४.[१०] अथ द्वितीयां जुहोति । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च स्वाहेत्येतया त्रिष्टुभा लोकमेवैतयोपप्रैति ४.३.४.[११] अथाग्नीध्रे । द्वे वैकां वा जुहोति तद्यदग्नावाग्नीध्रे द्वे वैकां वा जुहोत्यग्निर्वै पशूनामीष्टे त एनमभितः परिणिविशन्ते तमेतयाहुत्या प्रीणाति सो ऽस्मै प्रीतोऽनुमन्यते तेनानुमतां ददाति ४.३.४.[१२] स जुहोति । अग्ने नय मुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम स्वाहेत्यथ यद्यश्वं युक्तं वायुक्तं वा दास्यन्त्स्यादथ द्वितीयां जुहुयाद्यद्यु न नाद्रियेत ४.३.४.[१३] स जुहोति । अयं नो अग्निर्वरिवस्कृणोत्वयं मृधः पुर एतु प्रभिन्दनयं वाजान्जयतु वाजसातावयं शत्रून्जयतु जर्हृषाणः स्वाहेति वाजसा ह्यश्वः ४.३.४.[१४] अथ हिरण्यमादाय शालामभ्यैति । दक्षिणेन वेदिं दक्षिणा उपतिष्ठन्ते सोऽग्रेण शालां तिष्ठन्नभिमन्त्रयते रूपेण वो रूपमभ्यागामिति न ह वा अग्रे पशवो दानाय चक्षमिरे तेऽपनिधाय स्वानि रुपाणि शरीरैः प्रत्युपातिष्ठन्त तानेतद्देवाः स्वैरेव रूपैर्यज्ञस्यार्धादुपायंस्ते स्वानि रूपाणि जानाना अभ्यवायंस्ते रातमनसो ऽलं दानायाभवंस्तथो एवैनानेष एतत्स्वैरेव रूपैर्यज्ञस्यार्धादुपैति ते स्वानि रूपाणि जानाना अभ्यवायन्ति ते रातमनसोऽलं दानाय भवन्ति ४.३.४.[१५] तथो वो विश्ववेदा विभजत्विति । ब्रह्म वै तुथस्तदेना ब्रह्मणा विभजति ब्रह्म वै दक्षिणीयं चादक्षिणियं च वेद तथो हास्यैता दक्षिणीयायैव दत्ता भवन्ति नादक्षिणीयाय ४.३.४.[१६] ऋतस्य पथा प्रेतेति । यो वै देवानां पथैति स ऋतस्य पथैति चन्द्रदक्षिणा इति तदेतेन ज्योतिषा यन्ति ४.३.४.[१७] अथ सदोऽभ्यैति । वि स्वः पश्य व्यन्तरिक्षमिति वि त्वया दक्षिणया लोकं ख्येषमित्येवैतदाह ४.३.४.[१८] अथ सदः प्रेक्षते । यतस्व सदस्यैरिति मा त्वा सदस्या अतिरिक्षतेत्येवैतदाह ४.३.४.[१९] अथ हिरण्यमादायाग्नीध्रमभ्यैति । ब्राह्मणमद्य विदेयं पितृमन्तम् पैतृमत्यमिति यो वै ज्ञातो ज्ञातकुलीनः स पितृमान्पैतृमत्यो या वै ज्ञातायापि कतिपयीर्दक्षिणा ददाति ताभिर्महज्जयत्यृषिमार्षेयमिति यो वै ज्ञातोऽनूचानः स ऋषिरार्षेयः सुधातुदक्षिणामिति स हि सुधातुदक्षिणः ४.३.४.[२०] अथैवमुपसद्य । अग्नीधे हिरण्यं ददात्यस्मद्राता देवत्रा गच्छतेति यां वै रातमना अविचिकित्सन्दक्षिणां ददाति तया महज्जयति देवत्रा गच्छतेति देवलोके मे ऽप्यसदिति वै यजते यो यजते तद्देवलोक एवैनमेतदपित्विनं करोति प्रदातारमाविशतेति मामाविशतेत्येवैतदाह तथो हास्मादेताः पराच्यो न प्रणश्यन्ति तद्यदग्नीधे प्रथमाय दक्षिणां ददात्यतो हि विश्वे देवा अमृतत्वमपाजयंस्तस्मादग्नीधे प्रथमाय दक्षिणां ददाति ४.३.४.[२१] अथैवमेवोपसद्य । आत्रेयाय हिरण्यं ददाति यत्र वा अदः प्रातरनुवाकमन्वाहुस्तद्ध स्मैतत्पुरा शंसन्त्यत्रिर्वा ऋषीणां होताऽऽसाथैतत्सदो ऽसुरतमसमभिपुप्रुवे तऽऋषयोऽत्रिमब्रुवन्नेहि प्रत्यङ्ङिदं तमोऽपजहीति स एतत्तमोऽपाहन्नयं वै ज्योतिर्य इदं तमोऽपावधीदिति तस्मा एतज्ज्योतिर्हिरण्यं दक्षिणामनयन् ज्योतिर्हि हिरण्यं तद्वै स तत्तेजसा वीर्येणऽर्षिस्तमो ऽपजघानाथैष एतेनैवैतज्ज्योतिषा तमोऽपहन्ति तस्मादात्रेयाय हिरण्यं दधाति ४.३.४.[२२] अथ ब्रह्मणे । ब्रह्मा हि यज्ञं दक्षिणतोऽभिगोपायत्यथोद्गात्रेऽथ होत्रे ऽथाध्वर्युभ्यां हविर्धान आसीनाभ्यामथ पुनरेत्य प्रस्तोत्रेऽथ मैत्रावरुणायाथ ब्राह्मणाच्छंसिनेऽथ पोत्रेऽथ नेष्ट्रेऽथाच्छावाकायाथोन्नेत्रेऽथ ग्रावस्तुतेऽथ सुब्रह्मण्यायै प्रतिहर्त्र उत्तमाय ददाति प्रतिहर्ता वा एष सोऽस्मा एतदन्ततः प्रतिहरति तथो हास्मादेताः पराच्यो न प्रणश्यन्ति ४.३.४.[२३] अथाहेन्द्राय मरुत्वतेऽनुब्रूहीति । यत्र वै प्रजापतिरग्रे ददौ तद्धेन्द्र ईक्षां चक्रे सर्वं वा अयमिदं दास्यति नास्मभ्यं किं चन परिशेक्ष्यतीति स एतं वज्रमुदयच्छदिन्द्राय मरुत्वतेऽनुब्रूहीत्यदानाय ततो नाददात्स एषोऽप्येतर्हि तथैव वज्र उद्यम्यत इन्द्राय मरुत्वतेऽनुब्रूहीत्यदानाय ततो न ददाति ४.३.४.[२४] चतस्रो वै दक्षिणाः । हिरण्यमायुरेवैतेनात्मनस्त्रायत आयुर्हि हिरण्यं तदग्नय आग्नीध्रं कुर्वतेऽददात्तस्मादप्येतर्ह्यग्नीधे हिरण्यं दीयते ४.३.४.[२५] अथ गौः । प्राणमेवैतयात्मनस्त्रायते प्राणो हि गौरन्नं हि गौरन्नं हि प्राणस्तां रुद्राय होत्रेऽददात् ४.३.४.[२६] अथ वासः । त्वचमेवैतेनात्मनस्त्रायते त्वग्घि वासस्तद्बृहस्पतय उद्गायते ऽददात् ४.३.४.[२७] अथाश्वः । वज्रो वा अश्वो वज्रमेवैतत्पुरोगां कुरुते यमलोके मेऽप्यसदिति वै यजते यो यजते तद्यमलोक एवैनमेतदपित्विनं करोति तं यमाय ब्रह्मणे ऽददात् ४.३.४.[२८] स हिरण्यं प्रत्येति । अग्नये त्वा मह्यं वरुणो ददात्वित्यग्नये ह्येतद्वरुणो ऽदधात्सोऽमृतत्वमशीयायुर्दात्र एधि मयो मह्यं प्रतिग्रहीत्र इति ४.३.४.[२९] अथ गां प्रत्येति । रुद्राय त्वा मह्यं वरुणो ददात्विति रुद्राय ह्येतां वरुणो ऽददात्सोऽमृतत्वमशीय प्राणो दात्र एधि वयो मह्यं प्रतिग्रहीत्र इति ४.३.४.[३०] अथ वासः प्रत्येति । बृहस्पतये त्वा मह्यं वरुणो ददात्विति बृहस्पतये ह्येतद्वरुणोऽददात्सोऽमृतत्वमशीय त्वग्दात्र एधि मयो मह्यं प्रतिग्रहीत्र इति ४.३.४.[३१] अथाश्वं प्रत्येति । यमाय त्वा मह्यं वरुणो ददात्विति यमाय ह्येतं वरुणो ऽददात्सोऽमृतत्वमशीय हयो दात्र एधि वयो मह्यं प्रतिग्रहीत्र इति ४.३.४.[३२] अथ यदन्यद्ददाति । कामेनैव तद्ददातीदं मेऽप्यमुत्रासादिति तत्प्रत्येति को ऽदात्कस्मा अदात्कामोऽदात्कामायादात् कामो दाता कामः प्रतिग्रहीता कामैतत्त इति तद्देवताया अतिदिशति ४.३.४.[३३] तदाहुः । न देवताया अतिदिशेदिदं वै यां देवतां समिन्द्धे सा दीप्यमाना श्वःश्वः श्रेयसी भवतीदं वै यस्मिन्नग्नावभ्यादधति स दीप्यमान एव श्वःश्वः श्रेयान्भवति श्वःश्वो ह वै श्रेयान्भवति य एवं विद्वान्प्रतिगृह्णाति तद्यथा समिद्धे जुहुयादेवमेतां जुहोति यामधीयते ददाति तस्मादधीयन्नातिदिशेत् ४.३.५.[१] त्रया वै देवाः । वसवो रुद्रा आदित्यास्तेषां विभक्तानि सवनानि वसूनामेव प्रातःसवनं रुद्राणां माध्यन्दिनं सवनमादित्यानां तृतीयसवनं तद्वा अमिश्रमेव वसूनां प्रातःसवनममिश्रं रुद्राणां माध्यन्दिनं सवनम् मिश्रमादित्यानां तृतीयसवनम् ४.३.५.[२] ते हादित्या ऊचुः । यथेदममिश्रं वसूनां प्रातःसवनममिश्रं रुद्राणाम् माध्यन्दिनं सवनमेवं न इमं पुरा मिश्राद्ग्रहं जुहुथेति तथेति देवा अब्रुवंस्ते संस्थित एव माध्यन्दिने सवने पुरा तृतीयसवनादेतमजुहवुः स एषोऽप्येतर्हि तथैव ग्रहो हूयते संस्थित एव माध्यन्दिने सवने पुरा तृतीयसवनात् ४.३.५.[३] ते हादित्या ऊचुः । नेव वा इतरस्मिन्त्सवने स्मो नेवेतरस्मिन्यद्वै नो रक्षांसि न हिंस्युरिति ४.३.५.[४] ते ह द्विदेवत्यानूचुः । रक्षोभ्यो वै बिभीमो हन्त युष्मान्प्रविशामेति ४.३.५.[५] ते ह द्विदेवत्या ऊचुः । किमस्माकं ततः स्यादित्यस्माभिरनुवषट्कृता भविष्यथेत्यु हादित्या ऊचुस्तथेति ते द्विदेवत्यान्प्राविशन् ४.३.५.[६] स यत्र प्रातःससवने । द्विदेवत्यैः प्रचरति तत्प्रतिप्रस्थातादित्यपात्रेण द्रोणकलशात्प्रतिनिगृह्णीत उपयामगृहीतो ऽसीत्येतावताध्वर्युरेवाश्रावयत्यध्वर्योरनु होमं जुहोति प्रतिप्रस्थातादित्येभ्यस्त्वेति संस्रवमवनयत्येतावतैवमेव सर्वेषु ४.३.५.[७] तद्यत्प्रतिप्रस्थाता प्रतिनिगृह्णीते । द्विदेवत्यान्वै प्राविशन्नस्माभिरनुवषट्कृता भविष्यथेत्यु हादित्या ऊचुर्यां वा अमूं द्वितीयामाहुतिं जुहोति स्विष्टकृते वै तां जुहोति स्विष्टकृतो वा एतेऽनुवषट्क्रियन्ते तथो हास्यैतेऽनुवषट्कृता इष्टस्विष्टकृतो भवन्त्युत्तरार्धे जुहोत्येषा ह्येतस्य देवस्य दिक्तस्मादुत्तरार्धे जुहोति ४.३.५.[८] यद्वेव प्रतिप्रस्थाता प्रतिनिगृह्णीते । द्विदेवत्यान्वै प्राविशन्त्स यानेव प्राविशंस्तेभ्य एवैतन्निर्मिमीतेऽथापिदधाति रक्षोभ्यो ह्यबिभयुर्विष्ण उरुगायैष ते सोमस्तं रक्षस्व मा त्वा दभन्निति यज्ञो वै विष्णुस्तद्यज्ञायैवैतत्परिददाति गुप्त्या अथाह संस्थित एव माध्यन्दिने सवने पुरा तृतीयसवनादेहि यजमानेति ४.३.५.[९] सम्प्रपद्यन्ते । अध्वर्युश्च यजमानश्चाग्नीध्रश्च प्रतिप्रस्थाता चोन्नेताथ यो ऽन्यः परिचरो भवत्युभे द्वारे अपिदधति रक्षोभ्यो ह्यबिभयुरथाध्वर्युरादित्यस्थालीं चादित्यपात्रं चादत्ते स उपर्युपरि पूतभृतं विगृह्णाति नेद्व्यवश्चोतदिति ४.३.५.[१०] अथ गृह्णाति । कदा चन स्तरीरसि नेन्द्र सश्चासि दाशुषे उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत आदित्येभ्यस्त्वेति ४.३.५.[११] तं वै नोपयामेन गृह्णीयात् । अग्रे ह्येवैष उपयामेन गृहीतो भवत्यजामितायै जामि ह कुर्याद्यदेनमत्राप्युपयामेन गृह्णीयात् ४.३.५.[१२] अथापगृह्य पुनरानयति । कदा चन प्रयुच्छस्युभे निपासि जन्मनी तुरीयादित्य सवनं त इन्द्रियमातस्थावमृतं दिव्यादित्येभ्यस्त्वेति ४.३.५.[१३] अथ दधि गृह्णाति । आदित्यानां वै तृतीयसवनमादित्यान्वा अनु पशवस्तत्पशुष्वेवैतत्पयो दधाति तदिदं पशुषु पयो हितं मध्यत इव गृह्णीयादित्याहुर्मध्यत इव हीदं पशूनां पय इति पश्चादिव त्वेव गृह्णीयात्पश्चादिव हीदं पशूनां पयः ४.३.५.[१४] यद्वेव दधि गृह्णाति । हुतोच्छिष्टा वा एते संस्रवा भवन्ति नालमाहुत्यै तानेवैतत्पुनराप्याययति तथालमाहुत्यै भवन्ति तस्माद्दधि गृह्णाति ४.३.५.[१५] स गृह्णाति । यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासदादित्येभ्यस्त्वेति ४.३.५.[१६] तमुपांशुसवनेन मेक्षयति । विवस्वान्वा एष आदित्यो निदानेन यदुपांशुसवन आदित्यग्रहो वा एष भवति तदेनं स्व एव भागे प्रीणाति ४.३.५.[१७] तं न दशाभिर्न पवित्रेणोपस्पृशति एते वै शुक्रवती रसवती सवने यत्प्रातःसवनं च माध्यन्दिनं च सवनमथैतन्निर्धीतशुक्रं यत्तृतीयसवनं स यन्न दशाभिर्न पवित्रेणोपस्पृशति तेनो हास्यैतच्छुक्रवद्रसवत्तृतीयसवनं भवति तस्मान्न दशाभिर्न पवित्रेणोपस्पृशति ४.३.५.[१८] स मेक्षयति । विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन्मत्स्वेत्यथोन्नेत्र उपांशुसवनं प्रयच्छत्यथाहोन्नेतारमासृज ग्राव्ण इति तानाधवनीये वासृजति चमसे वा ४.३.५.[१९] राजानमुन्नीय । आदित्यानां वै तृतीयसवनमादित्यान्वा अनु ग्रावाणस्तदेनान्त्स्व एव भागे प्रीणात्यपोर्णुवन्ति द्वारे ४.३.५.[२०] अथापिधायोपनिष्क्रामति । रक्षोभ्यो ह्यबिभयुरथाहादित्येभ्योऽनुब्रूहीत्यत्र सम्पश्येद्यदि कामयेताश्राव्य त्वेव सम्पश्येदादित्येभ्यः प्रेश्य प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति वषट्कृते जुहोति नानुवषट्करोति नेत्पशूनग्नौ प्रवृणजानीति प्रयच्छति प्रतिप्रस्थात्रे संस्रवौ ४.३.५.[२१] अथ पुनः प्रपद्य । आग्रयणमादत्त उदीचीनदशं पवित्रं वितन्वन्ति प्रस्कन्दयत्यध्वर्युराग्रयणस्यप्रतिप्रस्थाता सम्प्रगृह्णाति संस्रवावानयत्युन्नेता चमसेन वोदञ्चनेन वा ४.३.५.[२२] तं चतसृणां धाराणामाग्रयणं गृह्णाति । आदित्यानां वै तृतीयसवनमादित्यान्वा अनु गावस्तस्मादिदं गवां चतुर्धाविहितं पयस्तस्माच्चतसृणां धाराणामाग्रयणं गृह्णाति ४.३.५.[२३] तद्यत्प्रतिप्रस्थाता संस्रवौ सम्प्रगृह्णाति । आदित्यग्रहो वा एष भवति न वा आदित्यग्रहस्यानुवषट्करोत्येतस्माद्वै सावित्रं ग्रहं ग्रहीष्यन्भवति तदस्य सावित्रेणैवानुवषट्कृतो भवति ४.३.५.[२४] यद्वेव प्रतिप्रस्थाता संस्रवौ सम्प्रगृह्णाति । पुरा वा एभ्य एतन्मिश्राद्ग्रहमहौषुः पुरा तृतीयसवनात्तृतीयसवनाय वा एष ग्रहो गृह्यते तदादित्यास्तृतीयसवनमपियन्ति तथा न बहिर्धा यज्ञाद्भवन्ति तस्मात्प्रतिप्रस्थाता संस्रवौ सम्प्रगृह्णाति ४.४.१.[१] मनो ह वा अस्य सविता । तस्मात्सावित्रं गृह्णाति पाणो ह वा अस्य सविता तमेवास्मिन्नेतत्पुरस्तात्प्राणं दधाति यदुपांशु गृह्णाति तमेवास्मिन्नेतत्पश्चात्प्राणं दधाति यत्सावित्रं गृह्णाति ताविमा उभयतः प्राणौ हितौ यश्चायमुपरिष्टाद्यश्चाधस्तात् ४.४.१.[२] ऋतवो वै संवत्सरो यज्ञः । तेऽदः प्रातःसवने प्रत्यक्षमवकल्प्यन्ते यदृतुग्रहान्गृह्णात्यथैतत्परोऽक्षं माध्यन्दिने सवनेऽवकल्प्यन्ते यदृतुपात्राभ्यां मरुत्वतीयान्गृह्णाति न वा अत्रर्तुभ्य इति कं चन ग्रहं गृह्णन्ति नर्तुपात्राभ्यां कश्चन ग्रहो गृह्यते ४.४.१.[३] एष वै सविता य एष तपति । एष उ एव सर्व ऋतवस्तदृतवः संवत्सरस्तृतीयसवने प्रत्यक्षमवकल्प्यन्ते तस्मात्सावित्रं गृह्णाति ४.४.१.[४] तं वा उपांशुपात्रेण गृह्णाति । मनो ह वा अस्य सविता प्राण उपांशुस्तस्मादुपांशुपात्रेण गृह्णात्यन्तर्यामपात्रेण वा समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि ४.४.१.[५] आग्रयणाद्गृह्णाति । मनो ह वा अस्य सवितात्माग्रयण आत्मन्येवैतन्मनो दधाति प्राणो ह वा अस्य सवितात्माग्रयण आत्मन्येवैतत्प्राणं दधाति ४.४.१.[६] अथातो गृह्णात्येव । वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम उपयामगृहीतो ऽसि सावित्रोऽसि चनोधाश्चनोधा असि चनो मयि धेहि जिन्व यज्ञं जिन्व यज्ञपतिम् भगायेति ४.४.१.[७] तं गृहीत्वा न सादयति । मनो ह वा अस्य सविता तस्मादिदमसन्नं मनः प्राणो ह वा अस्य सविता तस्मादयमसन्नः प्राणः संचरत्यथाह देवाय सवित्रे ऽनुब्रूहीत्याश्राव्याह देवाय सवित्रे प्रेष्येति वषट्कृते जुहोति नानुवषट्करोति मनो ह वा अस्य सविता नेन्मनोऽग्नौ प्रवृणजानीति प्राणो ह वा अस्य सविता नेत्प्राणमग्नौ प्रवृणजानीति ४.४.१.[८] अथाभक्षितेन पात्रेण । वैश्वदेवं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रेण वैश्वदेवं ग्रहं गृह्णाति न वै सावित्रस्यानुवषट्करोत्येतस्माद्वै वैश्वदेवं ग्रहं ग्रहीष्यन्भवति तदस्य वैश्वदेवेनैवानुवषट्कृतो भवति ४.४.१.[९] यद्वेव वैश्वदेवं ग्रहं गृह्णाति । मनो ह वा अस्य सविता सर्वमिदं विश्वे देवा इदमेवैतत्सर्वं मनसः कृतानुकरमनुवर्त्म करोति तदिदं सर्वं मनसः कृतानुकरमनुवर्त्म ४.४.१.[१०] यद्वेव वैश्वदेवं ग्रहं गृह्णाति । प्राणो ह वा अस्य सविता सर्वमिदं विश्वे देवा अस्मिन्नेवैतत्सर्वस्मिन्प्राणोदानौ दधाति ताविमावस्मिन्त्सर्वस्मिन्प्राणोदानौ हि तौ ४.४.१.[११] यद्वेव वैश्वदेवं ग्रहं गृह्णाति । वैश्वदेवं वै तृतीयसवनं तदुच्यत एव सामतो यस्माद्वैश्वदेवं तृतीयसवनमुच्यत ऋक्तोऽथैतदेव यजुष्टः पुरश्चरणतो यदेतं महावैश्वदेवं गृह्णाति ४.४.१.[१२] तं वै पूतभृतो गृह्णाति । वैश्वदेवो वै पूतभृदतो हि देवेभ्य उन्नयन्त्यतो मनुष्येभ्योऽतः पितृभ्यस्तस्माद्वैश्वदेवः पूतभृत् ४.४.१.[१३] तं वा अपुरोरुक्कं गृह्णाति । विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति सर्वं वै विश्वे देवा यदृचो यद्यजूंषि यत्सामानि स यदेवैनं विश्वेभ्यो देवेभ्यो गृह्णाति तेनो हास्यैष पुरोरुङ्मान्भवति तस्मादपुरोरुक्कं गृह्णाति ४.४.१.[१४] अथातो गृह्णात्येव । उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठान इति प्राणो वै सुशर्मा सुप्रतिष्ठानो बृहदुक्षाय नम इति प्रजापतिर्वै बृहदुक्षः प्रजापतये नम इत्येवैतदाह विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णात्यथेत्य प्राङुपविशति ४.४.१.[१५] स यत्रैतां होता शंसति । एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशती च तिसृभिश्च वहसे त्रिंशता च नियुद्भिर्वायविह ता विमुञ्चेति तदेतस्यां वायव्यायामृचि पात्राणि विमुच्यन्ते वायुप्रणेत्रा वै पशवः प्राणो वै वायुः प्राणेन हि पशवश्चरन्ति ४.४.१.[१६] स ह देवेभ्यः पशुभिरपचक्राम । तं देवाः प्रातःसवनेऽन्वमन्त्रयन्त स नोपाववर्त तं माध्यन्दिने सवनेऽन्वमन्त्रयन्त स ह नैवोपाववर्त तं तृतीयसवनेऽन्वमन्त्रयन्त ४.४.१.[१७] स होपावर्त्स्यन्नुवाच । यद्व उपावर्तेय किं मे ततः स्यादिति त्वयैवैतानि पात्राणि युज्येरंस्त्वया विमुच्येरन्निति तदेनेनैतत्पात्राणि युज्यन्ते यदैन्द्रवायवाग्रान्प्रातःसवने गृह्णात्यथैनेनैतत्पात्राणि विमुच्यन्ते यदाह नियुद्भिर्वायविह ता विमुञ्चेति पशवो वै नियुतस्तत्पशुभिरेवैतत्पात्राणि ४.४.१.[१८] स यत्प्रातःसवन उपावर्त्स्यत् । गायत्रं वै प्रातःसवनं ब्रह्म गायत्री ब्राह्मणेषु ह पशवोऽभविष्यन्नथ यन्माध्यन्दिने सवन उपावर्त्स्यदैन्द्रं वै माध्यन्दिनं सवनं क्षत्रमिन्द्रः क्षत्रियेषु ह पशवोऽभविष्यन्नथ यत्तृतीयसवन उपावर्तत वैश्वदेवं वै तृतीयसवनं सर्वमिदं विश्वे देवास्तस्मादिमे सर्वत्रैव पशवः ४.४.२.[१] सौम्येन चरुणा प्रचरति । सोमो वै देवानां हविरथैतत्सोमायैव हविष्क्रियते तथातः सोमोऽनन्तर्हितो भवति चरुर्भवति चरुर्वै देवानामन्नमोदनो हि चरुरोदनो हि प्रत्यक्षमन्नं तस्माच्चरुर्भवति ४.४.२.[२] तेन न प्रातःसवने प्रचरति । न माध्यन्दिने सवन एते वै देवानां निष्केवल्ये सवने यत्प्रातःसवनं च माध्यन्दिनं च सवनं पितृदेवत्यो वै सोमः ४.४.२.[३] स यत्प्रातःसवने वा प्रचरेत् । माध्यन्दिने वा सवने समदं ह कुर्याद्देवेभ्यश्च पितृभ्यश्च तेन तृतीयसवने प्रचरति वैश्वदेवं वै तृतीयसवनं तथा हासमदं करोति नानुवाक्यामन्वाह सकृदुह्येव पराञ्चः पितरस्तस्मान्नानुवाक्यामन्वाह ४.४.२.[४] अथ चतुर्गृहीतमाज्यं गृहीत्वा । आश्राव्याह घृतस्य यजेति वषट्कृते जुहोति तद्या अतः प्राच्य आहुतयो हुता भवन्ति ताभ्य एवैतदन्तर्दधाति तथा हासमदं करोति ४.४.२.[५] स आज्यस्योपस्तीर्य । द्विश्चरोरवद्यत्यथोपरिष्टादाज्यस्याभिघारयत्याश्राव्याह सौम्यस्य यजेति वषट्कृते जुहोति ४.४.२.[६] अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । आश्राव्याह घृतस्य यजेति वषट्कृते जुहोति तद्या अत ऊर्ध्वा आहुतीर्होष्यन्भवति ताभ्य एवैतदन्तर्दधाति तथा हासमदं करोति स यदि कामयेतोभयतः परियजेद्यद्यु कामयेतान्यतरतः परियजेत् ४.४.२.[७] अथ प्रचरणीति स्रुग्भवति । तस्यां चतुर्गृहीतमाज्यं गृहीत्वाध्वर्युः शालाकैर्धिष्ण्यान्व्याघारयति तद्यच्छालाकैर्धिष्ण्यान्व्याघारयति यदेवैनानदो देवा अब्रुवंस्तृतीयसवने वो घृत्याहुतिः प्राप्स्यति न सौम्यापहृतो हि युष्मत्सोमपीथस्तेन सोमाहुतिं सैनानेषा तृतीयसवन एव घृत्याहुतिः प्राप्नोति न सौम्या यच्छालाकैर्धिष्ण्यान्व्याघारयति तानेतैरेव यजुर्भिर्यथोपकीर्णं यथापूर्वं व्याघारयति मार्जालीय एवोत्तमम् ४.४.२.[८] तद्धैके । आग्नीध्रीये पुनराघारयन्त्युदग्न इदं कर्मानुसंतिष्ठाता इति तदु तथा न कुर्यान्मार्जालीय एवोत्तमम् ४.४.२.[९] स यत्राध्वर्युः । शालाकैर्धिष्ण्यान्व्याघारयति तत्प्रतिप्रस्थाता पात्नीवतं ग्रहं गृह्णाति यज्ञाद्वै प्रजाः प्रजायन्ते यज्ञात्प्रजायमाना मिथुनात्प्रजायन्ते मिथुनात्प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते तदेना एतदन्ततो यज्ञस्य मिथुनात्प्रजननात्प्रजनयति तस्मान्मिथुनात्प्रजननादन्ततो यज्ञस्येमाः प्रजाः प्रजायन्ते तस्मात्पात्नीवतं गृह्णाति ४.४.२.[१०] तं वा उपांशुपात्रेण गृह्णाति । यदि सावित्रमुपांशुपात्रेण गृह्णीयादन्तर्यामपात्रेणैतं यदि सावित्रमन्तर्यामपात्रेण गृह्णीयादुपांशुपात्रेणैतं समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणो हि यो वै प्राणः स उदानो वृषा वै प्राणो योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते ४.४.२.[११] तं वा अपुरोरुक्कं गृह्णाति । वीर्यं वै पुरोरुङ्नेत्स्त्रीषु वीर्यं दधानीति तस्मादपुरोरुक्कं गृह्णाति ४.४.२.[१२] अथातो गृह्णात्येव । उपयामगृहीतोऽसि बृहस्पतिसुतस्य देव सोम त इति ब्रह्म वै बृहस्पतिर्ब्रह्मप्रसूतस्य देव सोम त इत्येवैतदाहेन्दोरिन्द्रियावत इति वीर्यवत इत्येवैतदाह यदाहेन्दोरिन्द्रियावत इति पत्नीवतो ग्रहां ऋध्यासमिति न सम्प्रति पत्नीभ्यो गृह्णाति नेत्स्त्रीषु वीर्यं दधानीति तस्मान्न सम्प्रति पत्नीभ्यो गृह्णाति ४.४.२.[१३] अथ यः प्रचरण्यां संस्रवः परिशिष्टो भवति । तेनैनं श्रीणाति समर्धयति वा अन्यान्ग्रहाञ्च्रीणान्नथैतं व्यर्धयति वज्रो वा आज्यमेतेन वै देवा वज्रेणाज्येन घ्नन्नेव पत्नीर्निराक्ष्णुवंस्ता हता निरष्टा नात्मनश्चनैशत न दायस्य चनैशत तथो एवैष एतेन वज्रेणाज्येन हन्त्येव पत्नीर्निरक्ष्णोति ता हता निरष्टा नात्मनश्चनेशते न दायस्य चनेशते ४.४.२.[१४] स श्रीणाति । अहं परस्तादहमवस्ताद्यदन्तरिक्षं तदु मे पिताभूत् अहं सूर्यमुभयतो ददर्शाहं देवानां परमं गुहा यदिति स यदहमहमिति श्रीणाति पुंस्वेवैतद्वीर्यं दधाति ४.४.२.[१५] अथाहाग्नीत्पात्नीवतस्य यजेति । वृषा वा अग्नीद्योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते स जुहोत्यग्ना इ पत्नीव्न्निति वृषा वा अग्निर्योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते ४.४.२.[१६] सजूर्देवेन त्वष्ट्रेति । त्वष्टा वै सिक्तं रेतो विकरोति तदेष एवैतत्सिक्तं रेतो विकरोति सोमं पिब स्वाहेत्युत्तरार्धे जुहोति या इतरा आहुतयस्ते देवा अथैताः पत्न्य एवमिव हि मिथुनं कॢप्तमुत्तरतो हि स्त्री पुमांसमुपशेत आहरत्यध्वर्युरग्नीधे भक्षं स आहाध्वर्य उप मा ह्वयस्वेति तं न प्रत्युपह्वयेत को हि हतस्य निरष्टस्य प्रत्युपहवस्तं वै प्रत्येवोपह्वयेत जुह्वत्यस्याग्नौ वषट्कुर्वन्ति तस्मात्प्रत्येवोपह्वयेत ४.४.२.[१७] अथ सम्प्रेष्यति । अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा संख्यापयोन्नेतर्होतुश्चमसमनून्नय सोमं मातिरीरिच इति यद्यग्निष्टोमः स्यात् ४.४.२.[१८] यद्युक्थ्यः स्यात् । सोमं प्रभावयेति ब्रूयात्स बिभ्रदेवैतत्पात्रमग्नीन्नेष्टुरुपस्थमासीदत्यग्निर्वा एष निदानेन यदाग्नीध्रो योषा नेष्टा वृषा वा अग्नीद्योषा नेष्टा मिथुनमेवैतत्प्रजननं क्रियत उदानयति नेष्टा पत्नीं तामुद्गात्रा संख्यापयति प्रजापतिर्वृषासि रेतोधा रेतो मयि धेहीति प्रजापतिर्वा उद्गाता योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते ४.४.३.[१] पशवो वै देवानां छन्दांसि । तद्यथेदं पशवो युक्ता मनुष्येभ्यो वहन्त्येवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहन्ति तद्यत्र छन्दांसि देवान्त्समतर्पयन्नथ छन्दांसि देवाः समतर्पयंस्तदतस्तत्प्रागभूद्यच्चन्दांसि युक्तानि देवेभ्यो यज्ञमवाक्षुर्यदेनान्त्समतीतृपन् ४.४.३.[२] अथ हारियोजनं गृह्णाति । छन्दांसि वै हारियोजनश्चन्दांस्येवैतत्संतर्पयति तस्माद्धारियोजनं गृह्णाति ४.४.३.[३] तं वा अतिरिक्तं गृह्णाति । यदा हि शम्योराहाथैनं गृह्णातीदं वै देवा अथ छन्दांस्यतिरिक्तान्यथ मनुष्या अथ पशवोऽतिरिक्तास्तस्मादतिरिक्तं गृह्णाति ४.४.३.[४] द्रोणकलशे गृह्णाति । वृत्रो वै सोम आसीत्तं यत्र देवा अघ्नंस्तस्य मूर्धोद्ववर्त स द्रोणकलशोऽभवत्तस्मिन्यावान्वा यावान्वा रसः समस्रवदतिरिक्तो वै स आसीदतिरिक्त एष ग्रहस्तदतिरिक्त एवैतदतिरिक्तं दधाति तस्माद्द्रोणकलशे गृह्णाति ४.४.३.[५] तं वा अपुरोरुक्कं गृह्णाति । च्छन्दोभ्यो ह्येनं गृह्णाति स यदेवैनं च्छन्दोभ्यो गृह्णाति तेनो हास्यैष पुरोरुङ्नान्भवति तस्मादपुरोरुक्कं गृह्णाति ४.४.३.[६] अथातो गृह्णात्येव । उपयामगृहीतोऽसि हरिरसि हारियोजनो हरिभ्यां त्वेत्यृक्षामे वै हरी ऋकसामाभ्यां ह्येनं गृह्णाति ४.४.३.[७] अथ धाना आवपति । हर्योर्धाना स्थ सहसोमा इन्द्रायेति तद्यदेवात्र मितं च च्छन्दोऽमितं च तदेवैतत्सर्वं भक्षयति ४.४.३.[८] तस्योन्नेताश्रावयति । अतिरिक्तो वा उन्नेता न ह्येषीऽन्यस्याश्रावयत्यतिरिक्त एष ग्रहस्तदतिरिक्त एवैतदतिरिक्तं दधाति तस्मादुन्नेताश्रावयति ४.४.३.[९] मूर्धन्नभिनिधायाश्रावयति । मूर्धा ह्यस्यैषोऽथाह धानासोमेभ्यो ऽनुब्रूहीत्याश्राव्याह धानासोमान्प्रस्थितान्प्रेष्येति वषट्कृते जुहोत्यनुवषट्कृते ऽथ धाना विलिप्सन्ते भक्षाय ४.४.३.[१०] तद्धैके । होत्रे द्रोणकलशं प्रतिपराहरन्ति वषट्कर्तुर्भक्ष इति वदन्तस्तदु तथा न कुर्याद्यथाचमस वा अन्ये भक्षा अथैषो ऽतिरिक्तस्तस्मादेतस्मिन्त्सर्वेषामेव भक्षस्तस्माद्धाना विलिप्सन्ते भक्षाय ४.४.३.[११] ता न दद्भिः खादेयुः । पशवो वा एते नेत्पशून्प्रम्रदे करवामहा इति प्राणैरेव भक्षयन्ति यस्ते अश्वसनिर्भक्षो यो गोसनिरित पशवो ह्येते तस्मादाह यस्ते अश्वसनिर्भक्षो यो गोसनिरिति तस्य त इष्टयजुष स्तुतस्तोमस्येतीष्टानि हि यजूंषि भवन्ति स्तुता स्तोमाः शस्तोक्थस्येति शस्तानि ह्युक्थानि भवन्त्युपहूतस्योपहूतो भक्षयामीत्युपहूतस्य ह्येतदुपहूतो भक्षयति ४.४.३.[१२] ता नाग्नौ प्रकिरेयुः । नेदुच्छिष्टमग्नौ जुहवामेत्युत्तरवेदावेव निवपन्ति तथा न बहिर्धा यज्ञाद्भवन्ति ४.४.३.[१३] अथ पूर्णपात्रान्त्समवमृशन्ति । यानेकेऽप्सुषोमा इत्या चक्षते यथा वै युक्तो वहेदेवमेते य आर्त्विज्यं कुर्वन्त्युत वै युक्तः क्षणुते वा वि वा लिशते शान्तिरापो भेषजं तद्यदेवात्र क्षण्वते वा वि वा लिशन्ते शान्तिरापस्तदद्भिः शान्त्या शमयन्ते तदद्भिः संदधते तस्मात्पूर्णपात्रान्त्समवमृशन्ति ४.४.३.[१४] ते समवमृशन्ति । सं वर्चसा पयसा स तनूभिरगन्महि मनसा सं शिवेन त्वष्टा सुदत्रो विदधातु रायोऽनुमार्ष्टु तन्वो यद्विलिष्टमिति यद्विवृढं तत्संदधते ४.४.३.[१५] अथ मुखान्युपस्पृशन्ते । द्वयं तद्यस्मान्मुखान्युपस्पृशन्तेऽमृतं वा आपो ऽमृतेनैवैतत्संस्पृशन्त एतदु चैवैतत्कर्मात्मन्कुर्वते तस्मान्मुखान्युपस्पृशन्ते ४.४.४.[१] तानि वा एतानि । नव समिष्टयजूंषि जुहोति तद्यन्नव समिष्टयजूंषि जुहोति नव वा अमूर्बहिष्पवमाने स्तोत्रिया भवन्ति सैषोभयतो न्यूना विराट् प्रजननायैतस्माद्वा उभयतो न्यूनात्प्रजननात्प्रजापतिः प्रजाः ससृज इतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव न्यूनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीः ४.४.४.[२] हिङ्कार स्तोत्रियाणां दशमः । स्वाहाकार एतेषां तथो हास्यैषा न्यूना विराड्दशदशिनी भवति ४.४.४.[३] अथ यस्मात्समिष्टयजूंषि नाम । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायते सर्वा वै तत्ताः समिष्टा भवन्ति तद्यत्तासु सर्वासु समिष्टास्वथैतानि जुहोति तस्मात्समिष्टयजूंषि नाम ४.४.४.[४] अथ यस्मात्समिष्टयजूंषि जुहोति । रिरिचान इव वा एतदीजानस्यात्मा भवति यद्ध्यस्य भवति तस्य हि ददाति तमेवातस्त्रिभिः पुनराप्याययति ४.४.४.[५] अथ यान्युत्तराणि त्रीणि जुहोति । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायत उप हैव ता आसते यावन्न समिष्टयजूंषि जुह्वतीमानि नु नो जुह्वत्विति ता एवैतद्यथायथं व्यवसृजति यत्र यत्रासां चरणं तदनु ४.४.४.[६] अथ यान्युत्तमानि त्रीणि जुहोति । यज्ञं वा एतदजीजनत यदेनमतन तं जनयित्वा यत्रास्य प्रतिष्ठा तत्प्रतिष्ठापयति तस्मात्समिष्टयजूंषि जुहोति ४.४.४.[७] स जुहोति । समिन्द्र णो मनसा नेषि गोभिरिति मनसेति तन्मनसा रिरिचानमाप्याययति गोभिरिति तद्गोभी रिरिचानमाप्याययति सं सूरिभिर्मघवन्त्सं स्वस्त्या सं ब्रह्मणा देवकृतं यदस्तीति ब्रह्मणेति तद्ब्रह्मणा रिरिचानमाप्याययति सं देवानां सुमतौ यज्ञियानां स्वाहा ४.४.४.[८] सं वर्चसा । पयसा सं तनूभिरिति वर्चसेति तद्वर्चसा रिरिचानमाप्याययति पयसेति रसो वै पयस्तत्पयसा रिरिचानमाप्याययत्यगन्महि मनसा सं शिवेन त्वष्टा सुदत्रो विदधातु रायोऽनुमार्ष्टु तन्वो यद्विलिष्टमिति विवृढं तत्संदधाति ४.४.४.[९] सवितेदं जुषन्तां प्रजापतिर्निधिपा देवो अग्निः । त्वष्टा विष्णुः प्रजया संरराणा यजमानाय द्रविणं द्+धात स्वाहेति तद्वेव रिरिचानं पुनराप्याययति यदाह यजमानाय द्रविणं दधात स्वाहेति ४.४.४.[१०] सुगा वो देवाः । सदना अकर्म य आजग्मेदं सवनं जुषाणा इति सुगानि वो देवाः सदनान्यकर्म य आगन्तेदं सवनं जुषाणा इत्येवैतदाह भरमाणा वहमाना हवींषीति तद्देवता व्यवसृजति भरमाणा अह ते यन्तु येऽवाहना वहमाना उ ते यन्तु ये वाहनवन्त इत्येवैतदाह तस्मादाह भरमाणा वहमाना हवींष्यस्मेधत्त वसवो वसूनि स्वाहा ४.४.४.[११] यां आवहः । उशतो देव देवांस्तान्प्रेरय स्वे अग्ने सधस्थ इत्यग्निं वा आहामून्देवानावहामून्देवानावहेति तमेवैतदाह यान्देवानावाक्षीस्तान्गमय यत्रयत्रैषां चरणं तदन्विति जक्षिवांसः पपिवांसश्च विश्व इति जक्षिवांसो हि पशुं पुरोडाशं भवन्ति पपिवांस इति पपिवांसो हि सोमं राजानं भवन्ति तस्मादाह जक्षिवांसः पपिवांसश्च विश्वेऽसुं घर्मं स्वरातिष्ठतानु स्वाहेति तद्वेव देवता व्यवसृजति ४.४.४.[१२] वयं हि त्वा । प्रयति यज्ञे अस्मिन्नग्ने होतारमवृणीमहीह ऋधगया ऋधगुताशमिष्ठाः प्रजानन्यज्ञमुपयाहि विद्वान्त्स्वाहेत्यग्निमेवैतया विमुञ्चत्यग्निं व्यवसृजति ४.४.४.[१३] देवा गातुविद इति । गातुविदो हि देवा गातुं वित्त्वेति यज्ञं वित्त्वेत्येवैतदाह गातुमितेति तदेतेन यथायथं व्यवसृजति मनसस्पत इमं देव यज्ञं स्वाहा वाते धा इत्ययं वै यज्ञो योऽयं पवते तदिमं यज्ञं सम्भृत्यैतस्मिन्यज्ञे प्रतिष्ठापयति यज्ञेन यज्ञं संदधाति तस्मादाह स्वाहा वाते धा इति ४.४.४.[१४] यज्ञ यज्ञं गच्छ । यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहेति तत्प्रतिष्ठितमेवैतद्यज्ञं सन्तं स्वायां योनौ प्रतिष्ठापयत्येष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस्तं जुषस्व स्वाहेति तत्प्रतिष्ठितमेवैतद्यज्ञं सन्तं सहसूक्तवाकः सर्ववीरं यजमानेऽन्ततः प्रतिष्ठापयति ४.४.५.[१] स वा अवभृथमभ्यवैति । तद्यदवभृथमभ्यवैति यो वा अस्य रसो ऽभूदाहुतिभ्यो वा अस्य तमजीजनदथैतच्छरीरं तस्मिन्न रसोऽस्ति तन्न परास्यं तदपोऽभ्यवहरन्ति रसो वा आपस्तदस्मिन्नेतं रसं दधाति तदेनमेतेन रसेन संगमयति तदेनमतो जनयति स एनं जात एव सञ्जनयति तद्यदपो ऽभ्यवहरन्ति तस्मादवभृथः ४.४.५.[२] अथ समिष्टयजूंषि जुहोति । समिष्टयजूंषि ह्येवान्तो यज्ञस्य स हुत्वैव समिष्टयजूंषि यदेतमभितो भवति तेन चात्वालमुपसमायन्ति स कृष्णविषाणाम् मेखलां च चात्वाले प्रास्यति ४.४.५.[३] माहिर्भूर्मा पृदाकुरिति । असौ वा ऋजीषस्य स्वगाकारो यदेनदपो ऽभ्यवहरन्त्यथैष एवैतस्य स्वगाकारो रज्जुरिव हि सर्पाः कूपा इव हि सर्पाणामायतनान्यस्ति वै मनुष्याणां च सर्पाणां च विभ्रातृव्यमिव नेत्तदतः सम्भवदिति तस्मादाह माहिर्भूर्मा पृदाकुरिति ४.४.५.[४] अथ वाचयति । उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ इति यथायमुरुरभयोऽनाष्ट्रः सूर्याय पन्था एवं मेऽयमुरुरभयोऽनाष्ट्रः पन्था अस्त्वित्येवैतदाह ४.४.५.[५] अपदे पादा प्रतिघातवेऽकरिति । यदि ह वा अप्यपाद्भवत्यलमेव प्रतिक्रमणाय भवत्युतापवक्ता हृदयाविधश्चिदिति तदेनं सर्वस्माद्धृद्यादेनसः पाप्मनः प्रमुञ्चति ४.४.५.[६] अथाह साम गायेति । साम ब्रूहीति वा गायेति त्वेव ब्रूयाद्गायन्ति हि साम तद्यत्साम गायति नेदिदं बहिर्धा यज्ञाच्छरीरं नाष्ट्रा रक्षांसि हिनसन्निति साम हि नाष्ट्राणां रक्षसामपहन्ता ४.४.५.[७] आग्नेय्यां गायति । अग्निर्हि रक्षसामपहन्तातिच्छन्दसि गायत्येषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तस्मादतिच्छन्दसि गायति ४.४.५.[८] स गायति । अग्निष्टपति प्रतिदहत्यहावोऽहाव इति तन्नाष्ट्रा एवैतद्रक्षांस्यतो ऽपहन्ति ४.४.५.[९] त उदञ्चो निष्क्रामन्ति । जघनेन चात्वालमग्रेणाग्नीध्रं स यस्यां ततो दिश्यापो भवन्ति तद्यन्ति ४.४.५.[१०] स यः स्यन्दमानानां स्थावरो ह्रदः स्यात् । तमपोऽभ्यवेयादेता वा अपां वरुणगृहीता याः स्यन्दमानानां न स्यन्दन्ते वरुण्यो वा अवभृथो निर्वरुणतायै यद्यु ता न विन्देदपि या एव काश्चापोऽभ्यवेयात् ४.४.५.[११] तमपोऽवक्रमयन्वाचयति । नमो वरुणायाभिष्ठितो वरुणस्य पाश इति तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति ४.४.५.[१२] अथ चतुर्गृहीतमाज्यं गृहीत्वा । समिधं प्रास्याभिजुहोत्यग्नेरनीकमप आविवेशापां नपात्पतिरक्षन्नसुर्यं दमेदमे समिधं यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चरण्यत्स्वाहेति ४.४.५.[१३] अग्नेर्ह वै देवाः । यावद्वा यावद्वाप्सु प्रवेशयां चक्रुर्नेदतो नाष्ट्रा रक्षांस्युपोत्तिष्ठानित्यग्निर्हि रक्षसामपहन्ता तमेतया च समिधैतया चाहुत्या समिन्द्धे समिद्धे देवेभ्यो जुहवानीति ४.४.५.[१४] अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । आश्राव्याह समिधो यजेति सो ऽपबर्हिषश्चतुरः प्रयाजान्यजति प्रजा वै बर्हिर्वरुण्यो वा अवभृथो नेत्प्रजा वरुणो गृह्णादिति तस्मादपबर्हिषश्चतुरः प्रयाजान्यजति ४.४.५.[१५] अथ वारुण एककपालः पुरोडाशो भवति । यो वा अस्य रसोऽभूदाहुतिभ्यो वा अस्य तमजीजनदथैतच्छरीरं तस्मिन्न रसोऽस्ति रसो वै पुरोडाशस्तदस्मिन्नेतं रसं दधाति तदेनमेतेन रसेन संगमयति तदेनमतो जनयति स एनं जात एव सञ्जनयति तस्माद्वारुण एककपालः पुरोडाशो भवति ४.४.५.[१६] स आज्यस्योपस्तीर्य । पुरोडाशस्यावद्यन्नाह वरुणायानुब्रूहीत्यत्र हैक ऋजीषस्य द्विरवद्यन्ति तदु तथा न कुर्याच्छरीरं वा एतद्भवति नालमाहुत्यै द्विरवद्यति सकृदभिघारयति प्रत्यनक्त्यवदाने आश्राव्याह वरुणं यजेति वषट्कृते जुहोति ४.४.५.[१७] अथाज्यस्योपस्तीर्य । पुरोडाशमवदधदाहाग्नीवरुणाभ्यामनुब्रूहीति तत्स्विष्टकृते स यन्नाग्नय इत्याह नेदग्नि वरुणो गृह्णादिति स यद्यमुत्रर्जीषस्य द्विरवद्येदथात्र सकृद्यद्यु न नाद्रियेताथोपरिष्टाद्द्विराज्यस्याभिघारयत्याश्राव्याहाग्नीवरुणौ यजेति वषट्कृते जुहोति ४.४.५.[१८] ता वा एताः । षडाहुतयो भवन्ति षड्वा ऋतवः संवत्सरस्य संवत्सरो वरुणस्तस्मात्षडाहुतयो भवन्ति ४.४.५.[१९] एतदादित्यानामयनम् । आदित्यानीमानि यजूंषीत्याहुः स यावदस्य वशः स्यादेवमेव चिकीर्षेद्यद्यु एनमितरथा यजमानः कर्तवै ब्रूयादितरथो तर्हि कुर्यादेतानेव चतुरः प्रयाजानपबर्हिषो यजेद्द्वावाज्यभागौ वरुणमग्नीवरुणौ द्वावनुयाजावपबर्हिषौ तद्दश दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयति ४.४.५.[२०] एतदङ्गिरसामयनम् । अतोऽन्यतरत्कृत्वा यस्मिन्कुम्भ ऋजीषं भवति तम् प्रप्लावयति समुद्रे ते हृदयमप्स्वन्तरित्यापो वै समुद्रो रसो वा आपस्तदस्मिन्नेतं रसं दधाति तदेनमेतेन रसेन संगमयति तदेनमतो जनयति स एनं जात एव सञ्जनयति सं त्वा विशन्त्वोषधीरुताप इति तदस्मिन्नुभयं रसं दधाति यश्चौषधिषु यश्चाप्सु यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत्स्वाहेति तद्यदेव यज्न्=अस्य साधु तदेवास्मिन्नेतद्दधाति ४.४.५.[२१] अथानुसृज्योपतिष्ठते । देवीराप एष वो गर्भ इत्यपां ह्येष गर्भस्तं सुप्रीतं सुभृतं बिभृतेति तदेनमद्भ्यः परिददाति गुप्त्यै देव सोमैष ते लोक इत्यापो ह्येतस्य लोकस्तस्मिञ्चं च वक्ष्व परि च वक्ष्वेति तस्मिन्नः शं चैधि सर्वाभ्यश्च न आर्तिभ्यो गोपायेत्येवैतदाह ४.४.५.[२२] अथोपमारयति । अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः अव देवैर्देवकृतमेनो यासिषमव मर्त्यैर्मर्त्यकृतमित्यव ह्येतद्देवैर्देवकृतमेनोऽयासीत्सोमेन राज्ञाव मर्त्यैर्मर्त्यकृतमित्यव ह्येतन्मर्त्यैर्मर्त्यकृतमेनोऽयासीत्पशुना पुरोडाशेन पुरुराव्णो देव रिषस्पाहीति सर्वाभ्यो मार्तिभ्यो गोपायेत्येवैतदाह ४.४.५.[२३] अथाभ्यवेत्य स्नातः । अन्योऽन्यस्य पृष्ठे प्रधावतस्तावन्ये वाससी परिधायोदेतः स यथाहिस्त्वचो निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यते तस्मिन्न तावच्चनैनो भवति यावत्कुमारेऽदति स येनैव निष्क्रामन्ति तेन पुनरायन्ति पुनरेत्याहवनीये समिधमभ्यादधाति देवानां समिदसीति यजमानमेवैतया समिन्द्धे देवानां हि समिद्धिमनु यजमानः समिध्यते ४.५.१.[१] आदित्येन चरुणोदयनीयेन प्रचरति । तद्यदादित्यश्चरुर्भवति यदेवैनामदो देवा अब्रुवंस्तवैव प्रायणीयस्तवोदयनीय इति तमेवास्या एतदुभयत्र भागं करोति ४.५.१.[२] स यदमुत्र राजानं क्रेष्यन्नुपप्रैष्यन्यजते । तस्मात्तत्प्रायणीयं नामाथ यदत्रावभृथादुदेत्य यजते तस्मादेतदुदयनीयं नाम तद्वा एतत्समानमेव हविरदित्या एव प्रायणीयमदित्या उदयनीयमियं ह्येवादितिः ४.५.१.[३] स वै पथ्यामेवाग्रे स्वस्तिं यजति । तद्देवा अप्रज्ञायमाने वाचैव प्रत्यपद्यन्त वाचा हि मुग्धं प्रज्ञायतेऽथात्र प्रज्ञाते यथापूर्वं करोति ४.५.१.[४] सोऽग्निमेव प्रथमं यजति । अथ सोममथ सवितारमथ पथ्यां स्वस्तिमथादितिं वाग्वै पथ्या स्वस्तिरियमदितिरस्यामेव तद्देवा वाचम् प्रत्यष्ठापयन्त्सेयं वागस्यां प्रतिष्ठिता वदति ४.५.१.[५] अथ मैत्रावरुणीं वशामनूबन्ध्यामालभते । स एषोऽन्य एव यज्ञस्तायते पशुबन्ध एव समिष्टयजूंषि ह्येवान्तो यज्ञस्य ४.५.१.[६] तद्यन्मैत्रावरुणी वशा भवति । यद्वा ईजानस्य स्विष्टं भवति मित्रोऽस्य तद्गृह्णाति यद्वस्य दुरिष्टं भवति वरुणोऽस्य तद्गृह्णाति ४.५.१.[७] तदाहुः । क्वे जानोऽभूदिति तद्यदेवास्यात्र मित्रः स्विष्टं गृह्णाति तदेवास्मा एतया प्रीतः प्रत्यवसृजति यदु चास्य वरुणो दुरिष्टं गृह्णाति तच्चैवास्मा एतया प्रीतः स्विष्टं करोति तदु चास्मै प्रत्यवसृजति सोऽस्यैष स्व एव यज्ञो भवति स्वं सुकृतम् ४.५.१.[८] तद्यन्मैत्रावरुणी वशा भवति । यत्र वै देवा रेतः सिक्तम् प्राजनयंस्तदाग्निमारुतमित्युक्थं तस्मिंस्तद्व्याख्यायते यथा तद्देवा रेतः प्राजनयंस्ततोऽङ्गाराः समभवन्नङ्गारेभ्योऽङ्गिरसस्तदन्वन्ये पशवः ४.५.१.[९] अथ यदासाः पांसवः पर्यशिष्यन्त । ततो गर्दभः समभवत्तस्माद्यत्र पांसुलं भवति गर्दभस्थानमिव बतेत्याहुरथ यदा न कश्चन रसः पर्यशिष्यत तत एषा मैत्रावरुणी वशा समभवत्तस्मादेषा न प्रजायते रसाद्धि रेतः सम्भवति रेतसः पशवस्तद्यदन्ततः समभवत्तस्मादन्तं यज्ञस्यानुवर्तते तस्माद्वा एषात्र मैत्रावरुणी वशावकॢप्ततमा भवति यदि वशां न विन्देदप्युक्षवश एव स्यात् ४.५.१.[१०] अथेतरं विश्वे देवा अमरीमृत्स्यन्त । ततो वैश्वदेवी समभवदथ बार्हस्पत्या सोऽन्तोऽन्तो हि बृहस्पतिः ४.५.१.[११] स यः सहस्रं वा भूयो वा दद्यात् । स एनाः सर्वा आलभेत सर्वं वै तस्याप्तम् भवति सर्वं जितं यः सहस्रं वा भूयो वा ददाति सर्वमेता एवमेव यथापूर्वम् मैत्रावरुणीमेवाग्रेऽथ वैश्वदेवीमथ बार्हस्पत्यम् ४.५.१.[१२] अथो ये दीर्घसत्त्रमासीरन् । संवत्सरं वा भूयो वा त एनाः सर्वा आलभेरन्त्सर्वं वै तेषामाप्तं भवति सर्वं जितं ये दीर्घसत्त्रमासते संवत्सरं वा भूयो वा सर्वमेता एवमेव यथापूर्वम् ४.५.१.[१३] अथोदवसानीययेष्ट्या यजते । स आग्नेयं पञ्चकपालं पुरोडाशं निर्वपति तस्य पञ्चपदाः पङ्क्तयो याज्यानुवाक्या भवन्ति यातयामेव वा एतदीजानस्य यज्ञो भवति सोऽस्मात्पराङिव भवत्यग्निर्वै सर्वे यज्ञा अग्नौ हि सर्वान्यज्ञांस्तन्वते ये च पाकयज्ञा ये चेतरे तद्यज्ञमेवैतत्पुनरारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ्भवति ४.५.१.[१४] तद्यत्पञ्चकपालः पुरोडाशो भवति । पञ्चपदाः पङ्क्तयो याज्यानुवाक्याः पाङ्क्तो वै यज्ञस्तद्यज्ञमेवैतत्पुनरारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ्भवति ४.५.१.[१५] तस्य हिरण्यं दक्षिणा । आग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणानड्वान्वा स हि वहेनाग्नेयोऽग्निदग्धमिव ह्यस्य वहम् भवति ४.५.१.[१६] अथो चतुर्गृहीतमेवाज्यं गृहीत्वा । वैष्णव्यर्चा जुहोत्युरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति यज्ञो वै विष्णुस्तद्यज्ञमेवैतत्पुनरारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ्भवति तत्रो यच्छक्नुयात्तद्दद्यान्नादक्षिणं हविः स्यादिति ह्याहुरथ यदेवैषोदवसानीयेष्टिः संतिष्ठतेऽथ सायमाहुतिं जुहोति काल एव प्रातराहुतिम् ४.५.२.[१] वशामालभते । तामालभ्य संज्ञपयन्ति संज्ञप्याह वपामुत्खिदेत्युत्खिद्य वपामनुमर्शं गर्भमेष्टवै ब्रूयात्स यदि न विन्दन्ति किमाद्रियेरन्यद्यु विन्दन्ति तत्र प्रायश्चित्तिः क्रियते ४.५.२.[२] न वै तदवकल्पते । यदेकां मन्यमाना एकयेवैतया चरेयुर्यद्द्वे मन्यमाना द्वाभ्यामिव चरेयु स्थालीं चैवोष्णीषं चोपकल्पयितवै ब्रूयात् ४.५.२.[३] अथ वपया चरन्ति । यथैव तस्यै चरणं वपया चरित्वाध्वर्युश्च यजमानश्च पुनरेतः स आहाध्वर्युर्निरूहैतं गर्भमिति तं ह नोदरतो निरूहेदार्ताया वै मृताया उदरतो निरूहन्ति यदा वै गर्भः समृद्धो भवति प्रजननेन वै स तर्हि प्रत्यङ्ङैति तमपि विरुज्य श्रोणी प्रत्यञ्चं निरूहितवै ब्रूयात् ४.५.२.[४] तं निरुह्यमाणमभिमन्त्रयते । एजतु दशमास्यो गर्भो जरायुणा सहेति स यदाहैजत्विति प्राणमेवास्मिन्नेतद्दधाति दशमास्य इति यदा वै गर्भः समृद्धो भवत्यथ दशमास्यस्तमेतदप्यदशमास्यं सन्तं ब्रह्मणैव यजुषा दशमास्यं करोति ४.५.२.[५] जरायुणा सहेति । तद्यथा दशमास्यो जरायुणा सहेयादेवमेतदाह यथायं वायुरेजति यथा समुद्र एजतीति प्राणमेवास्मिन्नेतद्दधात्येवायं दशमास्यो अस्रज्जरायुणा सहेति तद्यथा दशमास्यो जरायुणा सह स्रंसेतैवमेतदाह ४.५.२.[६] तदाहुः । कथमेतं गर्भं कुर्यादित्यङ्गादङ्गाद्धैवास्यावद्येयुर्यथैवेतरेषामवदानानामवदानं तदु तथा न कुर्यादुत ह्येषोऽविकृताङ्गो भवत्यधस्तादेव ग्रीवा अपिकृत्यैतस्यां स्थाल्यामेतं मेधं श्चोतयेयुः सर्वेभ्यो वा अस्यैषोऽङ्गेभ्यो मेध श्चोतति तदस्य सर्वेषामेवाङ्गानामवत्तं भवत्यवद्यन्ति वशाया अवदानानि यथैव तेषामवदानम् ४.५.२.[७] तानि पशुश्रपणे श्रपयन्ति । तदेवैतं मेधं श्रपयन्त्युष्णीषेणावेष्ट्य गर्भं पार्श्वतः पशुश्रपणस्योपनिदधाति यदा शृतो भवत्यथ समुद्यावदानान्येवाभिजुहोति नैतं मेधमुद्वासयन्ति पशुं तदेवैतम् मेधमुद्वासयन्ति ४.५.२.[८] तं जघनेन चात्वालमन्तरेण यूपं चाग्निं च हरन्ति । दक्षिणतो निधाय प्रतिप्रस्थातावद्यत्यथ स्रुचोरुपस्तृणीतेऽथ मनोतायै हविषोऽनुवाच आहावद्यन्ति वशाया अवदानानां यथैव तेषामवदानम् ४.५.२.[९] अथ प्रचरणीति स्रुग्भवति । तस्यां प्रतिप्रस्थाता मेधायोपस्तृणीते द्विरवद्यति सकृदभिघारयति प्रत्यनक्त्यवदाने अथानुवाच आहाश्राव्याह प्रेष्येति वषट्कृते ऽध्वर्युर्जुहोत्यध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता ४.५.२.[१०] यस्यै ते यज्ञियो गर्भ इति । अयज्ञिया वै गर्भास्तमेतद्ब्रह्मणैव यजुषा यज्ञियं करोति यस्यै योनिहिरण्ययीत्यदो वा एतस्यै योनिं विच्छिन्दन्ति यददो निष्कर्षन्त्यमृतमायुर्हिरण्यं तामेवास्या एतदमृतां योनिं करोत्यङ्गान्यह्रुता यस्य तं मात्रा समजीगमं स्वाहेति यदि पुमान्त्स्याद्यद्यु स्त्री स्यादङ्गान्यह्रुता यस्यै तां मात्रा समजीगमं स्वाहेति यद्यु अविज्ञातो गर्भो भवति पुंस्कृत्यैव जुहुयात्पुमांसो हि गर्भा अङ्गान्यह्रुता यस्य तं मात्रा समजीगमं स्वाहेत्यदो वा एतं मात्रा विष्वञ्चं कुर्वन्ति यददो निष्कर्षन्ति तमेतद्ब्रह्मणैव यजुषा समर्ध्य मध्यतो यज्ञस्य पुनर्मात्रा सङ्गमयति ४.५.२.[११] अथाध्वयुर्वनस्पतिना चरति । वनस्पतिनाध्वर्युश्चरित्वा यान्युपभृत्यवदानानि भवन्ति तानि समानयमान आहाग्नये स्विष्टकृतेऽनुब्रूहीत्यत्याक्रामति प्रतिप्रस्थाता स एतं सर्वमेव मेधं गृह्णीते ऽथोपरिष्टाद्द्विराज्यस्याभिघारयत्याश्राव्याह प्रेष्येति वषट्कृते ऽध्वर्युर्जुहोत्यध्वर्योरनु होमं जुहोति प्रतिप्रस्थाता ४.५.२.[१२] पुरुदस्मो विषुरूप इन्दुरिति । बहुदान इति हैतद्यदाह पुरुदस्म इति विषुरूप इति विषुरूपा इव हि गर्भा इन्दुरन्तर्महिमानमानञ्ज धीर इत्यन्तर्ह्येष मातर्यक्तो भवत्येकपदीं द्विपदीं त्रिपदीं चतुष्पदीमष्टापदीं भुवनानु प्रथन्तां स्वाहेति प्रथयत्येवैनामेतत्सुभूयो ह जयत्यष्टापद्येष्ट्वा यदुचानष्टापद्या ४.५.२.[१३] तदाहुः । क्वैतं गर्भं कुर्यादिति वृक्ष एवैनमुद्दध्युरन्तरिक्षायतना वै गर्भा अन्तरिक्षमिवैतद्यद्वृक्षस्तदेनं स्व एवायतने प्रतिष्ठापयति तदु वा आहुर्य एनं तत्रानुव्याहरेद्वृक्ष एनं मृतमुद्धास्यन्तीति तथा हैव स्यात् ४.५.२.[१४] अप एवैनमभ्यवहरेयुः । आपो वा अस्य सर्वस्य प्रतिष्ठा तदेनमप्स्वेव प्रतिष्ठापयति तदु वा आहुर्य एनं तत्रानुव्याहरेदप्स्वेव मरिष्यतीति तथा हैव स्यात् ४.५.२.[१५] आखूत्कर एवैनमुपकिरेयुः । इयं वा अस्य सर्वस्य प्रतिष्ठा तदेनमस्यामेव प्रतिष्ठापयति तदु वा आहुर्य एनं तत्रानुव्याहरेत्क्षिप्रेऽस्मै मृताय श्मशानं करिष्यन्तीति तथा हैव स्यात् ४.५.२.[१६] पशुश्रपण एवैनं मरुद्भ्यो जुहुयात् । अहुतादो वै देवानां मरुतो विडहुतमिवैतद्यदशृतो गर्भ आहवनीयाद्वा एष आहृतो भवति पशुश्रपणस्तथाह न बहिर्धा यज्ञाद्भवति न प्रत्यक्षमिवाहवनीये देवानां वै मरुतस्तदेनं मरुत्स्वेव प्रतिष्ठापयति ४.५.२.[१७] स हुत्वैव समिष्टयजूंषि । प्रथमावशान्तेष्वङ्गारेष्वेतं सोष्णीषं गर्भमादत्ते तं प्राङ्तिष्ठञ्जुहोति मारुत्यर्चा मरुतो यस्य हि क्षये पाथा दिवो विमहसः स सुगोपातमो जन इति न स्वाहाकरोत्यहुतादो वै देवानां मरुतो विडहुतमिवैतद्यदस्वाहाकृतं देवानां वै मरुतस्तदेनं मरुत्स्वेव प्रतिष्ठापयति ४.५.२.[१८] अथाङ्गारैरभिसमूहति । मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् पिपृतां नो भरीमभिरिति ४.५.३.[१] इन्द्रो ह वै षोडशी । तं नु सकृदिन्द्रं भूतान्यत्यरिच्यन्त प्रजा वै भूतानि ता हैनेन सदृग्भवमिवासुः ४.५.३.[२] इन्द्रो ह वा ईक्षां चक्रे । कथं न्वहमिदं सर्वमतितिष्ठेयमर्वागेव मदिदं सर्वं स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत स इदं सर्वमेवात्यतिष्ठदर्वागेवास्मादिदं सर्वमभवत्सर्वं ह वा इदमतितिष्ठत्यर्वागेवास्मादिदं सर्वं भवति यस्यैवं विदुष एतं ग्रहं गृह्णन्ति ४.५.३.[३] तस्मादेतदृषिणाभ्यानूक्तम् । न ते महित्वमनुभूदध द्यौर्यदन्यया स्फिग्या क्षामवस्था इति न ह वा अस्यासौ द्यौरन्यतरां चन स्फिचीमनुबभूव तथेदं सर्वमेवात्यतिष्ठदर्वागेवास्मादिदं सर्वमभवत्सर्वं ह वा इदमतितिष्ठत्यर्वागेवास्मादिदं सर्वं भवति यस्यैवं विदुष एतं ग्रहं गृह्णन्ति ४.५.३.[४] तं वै हरिवत्यर्चा गृह्णाति । हरिवतीषु स्तुवते हरिवतीरनुशंसति वीर्यं वै हर इन्द्रोऽसुराणां सपत्नानां समवृङ्क्त तथो एवैष एतद्वीर्यं हरः सपत्नानां संवृङ्क्ते तस्माद्धरिवत्यर्चा गृह्णाति हरिवतीषु स्तुवते हरिवतीरनुशंसति ४.५.३.[५] तं वा अनुष्टुभा गृह्णाति । गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनमथातिरिक्तानुष्टुबत्येवैनमेतद्रेचयति तस्मादनुष्टुभा गृह्णाति ४.५.३.[६] तं वै चतुःस्रक्तिना पात्रेण गृह्णाति । त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिः स्रक्तिभिराप्नोत्यत्येवैनं चतुर्थ्या स्रक्त्या रेचयति तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति ४.५.३.[७] तं वै प्रातःसवने गृह्णीयात् । आग्रयणं गृहीत्वा स प्रातःसवने गृहीत एतस्मात्कालादुपशेते तदेनं सर्वाणि सवनान्यतिरेचयति ४.५.३.[८] माध्यन्दिने वैनं सवने गृह्णीयात् । आग्रयणं गृहीत्वा सो एषा मीमांसैव प्रातःसवन एवैनं गृह्णीयादाग्रयणं गृहीत्वा स प्रातःसवने गृहीत ऐतस्मात्कालादुपशेते ४.५.३.[९] अथातो गृह्णात्येव । आतिष्ठ वृत्रहन्रथ युक्ता ते ब्रह्मणा हरी अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिन इति ४.५.३.[१०] अनया वा । युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिन इति ४.५.३.[११] अथेत्य स्तोत्रमुपाकरोति । सोमोऽत्यरेच्युपावर्तध्वमित्यत्येवैनमेतद्रेचयति तं वै पुरास्तमयादुपाकरोत्यस्तमितेऽनुशंसति तदेनेनाहोरात्रे संदधाति तस्मात्पुरास्तमयादुपाकरोत्यस्तमितेऽनुशंसति ४.५.४.[१] सर्वे ह वै देवाः । अग्रे सदृशा आसुः सर्वे पुण्यास्तेषां सर्वेषां सदृशानां सर्वेषाम् पुण्यानां त्रयोऽकामयन्तातिष्ठावानः स्यामेत्यग्निरिन्द्रः ४.५.४.[२] तेऽर्चन्तः श्राम्यन्तश्चेरुः । त एतानतिग्राह्यान्ददृशुस्तानत्यगृह्णत तद्यदेनानत्यगृह्णत तस्मादतिग्राह्या नाम तेऽतिष्ठावानोऽभवन्यथैत एतदतिष्ठेवातिष्ठेव ह वै भवति यस्यैवं विदुष एतान्ग्रहान्गृह्णन्ति ४.५.४.[३] नो ह वा इदमग्रेऽग्नौ वर्च आस । यदिदमस्मिन्वर्चः सोऽकामयतेदं मयि वर्चः स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत ततोऽस्मिन्नेतद्वर्च आस ४.५.४.[४] नो ह वा इदमग्र इन्द्र ओज आस । यदिदमस्मिन्नोजः सोऽकामयतेदं मय्योजः स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत ततोऽस्मिन्नेतदोज आस ४.५.४.[५] नो ह वा इदमग्रे सूर्ये भ्राज आस । यदिदमस्मिन्भ्राजः सोऽकामयतेदं मयि भ्राजः स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत ततोऽस्मिन्नेतद्भ्राज आसैतानि ह वै तेजांस्येतानि वीर्याण्यात्मन्धत्ते यस्यैवं विदुष एतान्ग्रहान् गृह्णन्ति ४.५.४.[६] तान्वै प्रातःसवने गृह्णीयात् । आग्रयणं गृहीत्वात्मा वा आग्रयणो बहु वा इदमात्मन एकैकमतिरिक्तं क्लोमहृदयं त्वद्यत्त्वत् ४.५.४.[७] माध्यन्दिने वैनान्त्सवने गृह्णीयात् । उक्थ्यं गृहीत्वोपाकरिष्यन्वा पूतभृतोऽयं ह वा अस्यैषोऽनिरुक्त आत्मा यदुक्थ्यः सो एषा मीमांसैव प्रातःसवन एवैनान्गृह्णीयादाग्रयणं गृहीत्वा ४.५.४.[८] ते माहेन्द्रस्यैवानु होमं हूयन्ते । एष वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रोऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्यं शस्त्रमिन्द्रो वै यजमानो यजमानस्य वा एते कामाय गृह्यन्ते तस्मान्माहेन्द्र्रस्यैवानु होमं हूयन्ते ४.५.४.[९] अथातो गृह्णात्येव । अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यं दधद्रयिं मयि पोषमुपयामगृहीतोऽस्यग्नये त्वा वर्चस एष ते योनिरग्नये त्वा वर्चसे ४.५.४.[१०] उत्तिष्ठन्नोजसा । सह पीत्वी शिप्रे अवेपयः सोममिन्द्र चमूसुतमुपयामगृहीतो ऽसीन्द्राय त्वौजस एष ते योनिरिन्द्राय त्वौजसे ४.५.४.[११] अदृश्रमस्य केतवः । वि रश्मयो जनां अनु भ्राजन्तो अग्नयो यथा उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजायेति ४.५.४.[१२] तेषां भक्षः । अग्ने वर्चस्विन्वर्चस्वांस्त्वं देवेष्वसि वर्चस्वानहम् मनुष्येषु भूयासमिन्द्रौजिष्ठौजिष्ठस्त्वं देवेष्वस्योजिष्ठोऽहम् मनुष्येषु भूयासं सूर्य भ्राजिष्ठ भ्राजिष्ठस्त्वं देवेष्वसि भ्राजिष्ठोऽहम् मनुष्येषु भूयासमित्येतानि ह वै भ्राजांस्येतानि वीर्याण्यात्मन्धत्ते यस्यैवं विदुष एतान्ग्रहान् गृह्णन्ति ४.५.४.[१३] तान्वै पृष्ठ्ये षडहे गृह्णीयात् । पूर्वे त्र्यह आग्नेयमेव प्रथमेऽहन्नैन्द्रं द्वितीये सौर्यं तृतीय एवमेवान्वहम् ४.५.४.[१४] तानु हैक उत्तरे त्र्यहे गृह्णन्ति । तदु तथा न कुर्यात्पूर्व एवैनांस्त्र्यहे गृह्णीयाद्यद्युत्तरे त्र्यहे ग्रहीष्यन्त्स्यात्पूर्व एवैनांस्त्र्यहे गृहीत्वाथोत्तरे त्र्यहे गृह्णीयादेवमेव यथापूर्वं विश्वजिति सर्वपृष्ठ एकाह एव गृह्यन्ते ४.५.५.[१] एष वै प्रजापतिः । य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते ४.५.५.[२] उपांशुपात्रमेवान्वजाः प्रजायन्ते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ४.५.५.[३] अन्तर्यामपात्रमेवान्ववयः प्रजायन्ते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ४.५.५.[४] अथ यदेतयोरुभयोः । सह सतोरुपांशु पूर्वं जुहोति तस्मादु सह सतो ऽजाविकस्योभयस्यैवाजाः पूर्वा यन्त्यनूच्योऽवयः ४.५.५.[५] अथ यदुपांशुं हुत्वा । ऊर्ध्वमुन्मार्ष्टि तस्मादिमा अजा अरा डीतरा आक्रममाणा इव यन्ति ४.५.५.[६] अथ यदन्तर्यामं हुत्वा । अवाञ्चमवमार्ष्टि तस्मादिमा अवयोऽवाचीनशीर्ष्ण्यः खनन्त्य इव यन्त्येता वै प्रजापतेः प्रत्यक्षतमां यदजावयस्तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्ति ४.५.५.[७] शुक्रपात्रमेवानु मनुष्याः प्रजायन्ते । तद्द्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्त एष वै शुक्रो य एष तपत्येष उ एवेन्द्रः पुरुषो वै पशूनामैन्द्रस्तस्मात्पशूनामीष्टे ४.५.५.[८] ऋतुपात्रमेवान्वेकशफं प्रजायते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्त इतीव वा ऋतुपात्रमितीवैकशफस्य शिर आग्रयणपात्रमुक्थ्यपात्रमादित्यपात्रमेतान्येवानु गावः प्रजायन्ते तानि वै तानि पुनर्यज्ञे प्रयुज्यन्ते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ४.५.५.[९] अथ यदजाः । कनिष्ठानि पात्राण्यनु प्रजायन्ते तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्त्यः कनिष्ठाः कनिष्ठानि हि पात्राण्यनु प्रजायन्ते ४.५.५.[१०] अथ यद्गावः । भूयिष्ठानि पात्राण्यनु प्रजायन्ते तस्मादेताः सकृत्संवत्सरस्य विजायमाना एकैकं जनयन्त्यो भूयिष्ठा भूयिष्ठानि हि पात्राण्यनु प्रजायन्ते ४.५.५.[११] अथ द्रोणकलशे । अन्ततो हारियोजनं ग्रहं गृह्णाति प्रजापतिर्वै द्रोणकलशः स इमाः प्रजा उपावर्तते ता अवति ता अभिजिघ्रत्येतद्वा एना भवति यदेनाः प्रजनयति ४.५.५.[१२] पञ्च ह त्वेव तानि पात्राणि । यानीमाः प्रजा अनु प्रजायन्ते समानमुपांश्वन्तर्यामयोः शुक्रपात्रमृतुपात्रमाग्रयणपात्रमुक्थ्यपात्रम् पञ्च वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञो यद्यु षडेवर्तवः संवत्सरस्येत्यादित्यपात्रमेवैतेषां षष्ठम् ४.५.५.[१३] एकं ह त्वेव तत्पात्रम् । यदिमाः प्रजा अनु प्रजायन्त उपांशुपात्रमेव प्राणो ह्युपांशुः प्राणो हि प्रजापतिः प्रजापतिं ह्येवेदं सर्वमनु ४.५.६.[१] एष वै प्रजापतिः । य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते स आश्विनं ग्रहं गृहीत्वावकाशानवकाशयति ४.५.६.[२] स उपांशुमेव प्रथममवकाशयति । प्राणाय मे वर्चोदा वर्चसे पवस्वेत्यथोपांशुसवनं व्यानाय मे वर्चोदा वर्चसे पवस्वेत्यथान्तर्याममुदानाय मे वर्चोदा वर्चसे पवस्वेत्यथैन्द्रवायवं वाचे मे वर्चोदा वर्चसे पवस्वेत्यथ मैत्रावरुणं क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्वेत्यथाश्विनं श्रोत्राय मे वर्चोदा वर्चसे पवस्वेत्यथ शुक्रामन्थिनौ चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथामिति ४.५.६.[३] अथाग्रयणम् । आत्मने मे वर्चोदा वर्चसे पवस्वेत्यथोक्थ्यमोजसे मे वर्चोदा वर्चसे पवस्वेत्यथ ध्रुवमायुषे मे वर्चोदा वर्चसे पवस्वेत्यथाम्भृणौ विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथामिति वैश्वदेवौ वा अम्भृणावतो हि देवेभ्य उन्नयन्त्यतो मनुष्येभ्योऽतः पितृभ्यस्तस्माद्वैश्वदेवावम्भृणौ ४.५.६.[४] अथ द्रोणकलशम् । कोऽसि कतमोऽसीति प्रजापतिर्वै कः कस्यासि को नामासीति प्रजापतिर्वै को नाम यस्य ते नामामन्महीति मनुते ह्यस्य नाम यं त्वा सोमेनातीतृपामेति तर्पयति ह्येनं सोमेन स आश्विनं ग्रहं गृहीत्वान्वङ्गमाशिषमाशास्ते सुप्रजाः प्रजाभिः स्यामिति तत्प्रजामाशास्ते सुवीरो वीरैरिति तद्वीरानाशास्ते सुपोषः पोषैरिति तत्पुष्टिमाशास्ते ४.५.६.[५] तान्वै न सर्वमिवावकाशयेत् । यो न्वेव ज्ञातस्तमवकाशयेद्यो वास्य प्रियः स्याद्यो वानूचानोऽनूक्तेनैनान्प्राप्नुयात्स आश्विनं ग्रहं गृहीत्वा कृत्स्नं यज्ञं जनयति तं कृत्स्नं यज्ञं जनयित्वा तमात्मन्धत्ते तमात्मन्कुरुते ४.५.७.[१] ता वा एताः । चतुस्त्रिंशद्व्याहृतयो भवन्ति प्रायश्चित्तयो नामैष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते ४.५.७.[२] अष्टौ वसवः । एकादश रुद्रा द्वादशादित्या इमे एव द्यावापृथिवी त्रयस्त्रिंश्यौ त्रयस्त्रिंशद्वै देवाः प्रजापतिश्चतुस्त्रिंशस्तदेनं प्रजापतिं करोत्येतद्वा अस्त्येतद्ध्यमृतं यद्ध्यमृतं तद्ध्यस्त्येतदु तद्यन्मर्त्यं स एष प्रजापतिः सर्वं वै प्रजापतिस्तदेनं प्रजापतिं करोति तस्मादेताश्चतुस्त्रिंशद्व्याहृतयो भवन्ति प्रायश्चित्तयो नाम ४.५.७.[३] ता हैके । यज्ञतन्व इत्याचक्षते यज्ञस्य ह त्वेवैतानि पर्वाणि स एष यज्ञस्तायमान एता एव देवता भवन्नेति ४.५.७.[४] स यदि घर्मदुघा ह्वलेत् । अन्यामुपसंक्रामेयुः स यस्यामेवैनं वेलायां पुरा पिन्वयन्ति तद्वैवैनामुदीचीं स्थापयेदग्रेण वा शालां प्राचीम् ४.५.७.[५] तद्ये एते अभितः । पुच्छकाण्डं शिखण्डास्थे अनुच्छयाते तयोर्यद्दक्षिणं तस्मिन्नेताश्चतुस्त्रिंशतमाज्याहुतीर्जुहोत्येतावान्वै सर्वो यज्ञो यावत्य एताश्चतुस्त्रिंशद्व्याहृतयो भवन्ति तदस्यां कृत्स्नमेव सर्वं यज्ञं दधात्येषा ह्यतो घर्मं पिन्वत एषो तत्र प्रायश्चित्तिः क्रियते ४.५.७.[६] अथ यद्यज्ञस्य ह्वलेत् । तत्समन्वीक्ष्य जुहुयाद्दीक्षोपसत्स्वाहवनीये प्रसुत आग्नीध्रे वि वा एतद्यज्ञस्य पर्व स्र्ंसते यद्ध्वलति सा यैव तर्हि तत्र देवता भवति तयैवैतद्भिषज्यति तया संदधाति ४.५.७.[७] अथ यदि स्कन्देत् । तदद्भिरुपनिनयेदद्भिर्वा इदं सर्वमाप्तं सर्वस्यैवाप्त्यै वैष्णववारुण्यर्चा यद्वा इदं किं चार्चति वरुण एवेदं सर्वमार्पयति ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा या पत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूताविति यज्ञो वै विष्णुस्तस्यैतदार्चति वरुणो वा आर्पयिता तद्यस्याश्चैवैतद्देवताया आर्चति यो च देवतार्पयति ताभ्यामवैतदुभाभ्याम् भिषज्यत्युभाभ्यां संदधाति ४.५.७.[८] अथो अभ्येव मृशेत् । देवान्दिवमगन्यज्ञस्ततो मा द्रविणमष्टु मनुष्यानन्तरिक्षमगन्यज्ञस्ततो मा द्रविणमष्टु पितॄ!न्पृथिवीमगन्यज्ञस्ततो मा द्रविणमष्टु यं कं च लोकमगन्यज्ञस्ततो मे भद्रमभूदित्येवैतदाह ४.५.७.[९]] तद्ध स्मैतदारुणिराह । किं स यजेत यो यज्ञस्य व्यृद्ध्या पापीयान्मन्येत यज्ञस्य वा अहं व्यृद्ध्या श्रेयान्भवामीत्येतद्ध स्म स तदभ्याह यदेता आशिष उपगच्छति ४.५.८.[१] तद्यत्रैतत्त्रिरात्रे सहस्रं ददाति । तदेषा साहस्री क्रियते स प्रथमेऽहंस्त्रीणि च शतानि नयति त्रयस्त्रिंशतं चैवमेव द्वितीयेऽहंस्त्रीणि चैव शतानि नयति त्रयस्त्रिंशतं चैवमेव तृतीयेऽहंस्त्रीणि चैव शतानि नयति त्रयस्त्रिंशतं चाथैषा साहस्र्यतिरिच्यते ४.५.८.[२] सा वै त्रिरूपा स्यादित्याहुः । एतद्ध्यस्यै रूपतममिवेति रोहिणी ह त्वेवोपध्वस्ता स्यादेतद्धैवास्यै रूपतममिव ४.५.८.[३] सा स्यादप्रवीता । वाग्वा एषा निदानेन यत्साहस्र्ययातयाम्नी वाऽयं वागयातयाम्न्यप्रवीता तस्मादप्रवीता स्यात् ४.५.८.[४] तां प्रथमेऽहन्नयेत् । वाग्वा एषा निदानेन यत्साहस्री तस्या एतत्सहस्रं वाचः प्रजातं पूर्वा हैषैति पश्चादेनां प्रजातमन्वेत्युत्तमे वैनामहन्नयेत्पूर्वमहास्यै प्रजातमेति पश्चादेषान्वेति सो एषा मीमांसैवोत्तम एवैनामहन्नयेत्पूर्वमहास्यै प्रजातमेति पश्चादेषान्वेति ४.५.८.[५] तामुत्तरेण हविर्धाने । दक्षिणेनाग्नीध्रं द्रोणकलशमवघ्रापयति यज्ञो वै द्रोणकलशो यज्ञमेवैनामेतद्दर्शयति ४.५.८.[६] आजिघ्र कलशम् । मह्या त्वा विशन्त्विन्दव इति रिरिचान इव वा एष भवति यः सहस्रं ददाति तमेवैतद्रिरिचानं पुनराप्याययति यदाहाजिघ्र कलशं मह्या त्वा विशन्त्विन्दव इति ४.५.८.[७] पुनरूर्जा निवर्तस्वेति । तद्वेव रिरिचानं पुनराप्याययति यदाह पुनरूर्जा निवर्तस्वेति ४.५.८.[८] सा नः सहस्रं धुक्ष्वेति । तत्सहस्रेण रिरिचानं पुनराप्याययति यदाह सा नः सहस्रं धुक्ष्वेति ४.५.८.[९] उरुधारा पयस्वती पुनर्माविशताद्रयिरिति । तद्वेव रिरिचानं पुनराप्याययति यदाह पुनर्माविशताद्रयिरिति ४.५.८.[१०] अथ दक्षिणे कर्ण आजपति । इडे रन्ते हव्ये काम्ये चन्द्रे ज्योतेऽदिति सरस्वति महि विश्रुति एता ते अघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतादिति वोचेरिति वैतानि ह वा अस्यै देवत्रा नामानि सा यानि ते देवत्रा नामानि तैर्मा देवेभ्यःसुकृतम् ब्रूतादित्येवैतदाह ४.५.८.[११] तामवार्जन्ति । सा यद्यपुरुषाभिवीता प्राचीयात्तत्र विद्यादरात्सीदयं यजमानः कल्याणं लोकमजैषीदिति यद्युदीचीयाच्रेयानस्मिंलोके यजमानो भविष्यतीति विद्याद्यदि प्रतीचीयादिभ्यतिल्विल इव धान्यतिल्विलो भविष्यतीति विद्याद्यदि दक्षिणेयात्क्षिप्रेऽस्माल्लोकाद्यजमानः प्रैष्यतीति विद्यादेतानि विज्ञानानि ४.५.८.[१२] तद्या एतास्तिस्रस्तिस्रस्त्रिंशत्यधि भवन्ति । तास्वेतामुपसमाकुर्वन्ति वि वा एतां विराजं वृहन्ति यां व्याकुर्वन्ति विच्छिन्नो एषा विराड्या विवृढा दशाक्षरा वै विराट्तत्कृत्स्नां विराजं संदधाति तां होत्रे दद्याद्धोता हि साहसस्तस्मात्तां होत्रे दद्यात् ४.५.८.[१३] द्वौ वोन्नेतारौ कुर्वीत । तयोर्यतरो नाश्रावयेत्तस्मा एनां दद्याद्व्यृद्धो वा एष उन्नेता य ऋत्विक्षन्नाश्रावयति व्यृद्धो एषा विराड्या विवृढा तद्व्यृद्ध एवैतद्व्यृद्धं दधाति ४.५.८.[१४] तदाहुः । न सहस्रेऽधि किं चन दद्यात्सहस्रेण ह्येव सर्वान् कामानाप्नोतीति तदु होवाचासुरिः काममेव दद्यात्सहस्रेणाह सर्वान् कामानाप्नोति कामेनो अस्येतरद्दत्तं भवतीति ४.५.८.[१५] अथ यदि रथं वा युक्तं दास्यन्त्स्यात् । यद्वा वशायै वा वपायां हुतायां दद्यादुदवसानीयायां वेष्टौ ४.५.८.[१६] स वै दक्षिणा नयन् । अन्यूना दशतो नयेद्यस्मा एकां दास्यन्त्स्याद्दशभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै द्वे दास्यन्त्स्यात्पञ्चभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै तिस्रो दास्यन्त्स्यात्त्रिभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै पञ्च दास्यन्त्स्याद्द्वाभ्यां ताभ्यां दशतमुपावर्तयेदेवमा शतात्तथो हास्यैषान्यूना विराडमुष्मिंलोके कामदुघा भवति ४.५.९.[१] तद्यत्रैतद्द्वादशाहेन व्यूढच्छन्दसा यजते । तद्ग्रहान्व्यूहति व्यूहत उद्गाता च होता च छन्दांसि स एष प्रज्ञात एव पूर्वस्त्र्यहो भवति समूडच्छन्दास्तदैन्द्रवायवाग्रान्गृह्णाति ४.५.९.[२] अथ चतुर्थेऽहन्व्यूहति । ग्रहान्यूहन्ति छन्दांसि तदाग्रयणाग्रान् गृह्णाति प्राजापत्यं वा एतच्चतुर्थमहर्भवत्यात्मा वा आग्रयण आत्मा वै प्रजापतिस्तस्मादाग्रयणाग्रान्गृह्णाति ४.५.९.[३] तं गृहीत्वा न सादयति । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यसादयेत्तं धारयन्त एवोपासतेऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान् गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं हिंकृत्य सादयत्यथैतत्प्रज्ञातमेव पञ्चममहर्भवति तदैन्द्रवायवाग्रान् गृह्णाति ४.५.९.[४] अथ षष्ठेऽहन्व्यूहति । ग्रहान्व्यूहन्ति छन्दांसि तच्छुक्राग्रान् गृह्णात्यैन्द्रं वा एतत्षष्ठमहर्भवत्येष वै शुक्रो य एष तपत्येष उ एवेन्द्रस्तस्माच्छुक्राग्रान् गृह्णाति ४.५.९.[५] तं गृहीत्वा न सादयति । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासतेऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान् गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं सादयति ४.५.९.[६] अथ सप्तमेऽहन्व्यूहति । ग्रहान्व्यूहन्ति छन्दांसि तच्छुक्राग्रान् गृह्णाति बार्हतं वा एतत्सप्तममहर्भवत्येष वै शुक्रो य एष तपत्येष उ एव बृहंस्तस्माच्छुक्राग्रान् गृह्णाति ४.५.९.[७] तं गृहीत्वा न सादयति । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासतेऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान् गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं सादयत्यथैतत्प्रज्ञातमेवाष्टममहर्भवति तदैन्द्रवायवाग्रान् गृह्णाति ४.५.९.[८] अथ नवमेऽहन्व्यूहति । ग्रहान्व्यूहन्ति छन्दांसि तदाग्रयणाग्रान् गृह्णाति जागतं वा एतन्नवममहर्भवत्यात्मा वा आग्रयणः सर्वं वा इदमात्मा जगत्तस्मादाग्रयणाग्रान् गृह्णाति ४.५.९.[९] तं गृहीत्वा न सादयति । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यत्सादयेत्तं धारयन्त एवोपासतेऽथ ग्रहान् गृह्णात्यथ यदा ग्रहान् गृह्णात्यथ यत्रैवैतस्य कालस्तदेनं हिंकृत्य सादयति ४.५.९.[१०] तदाहुः । न व्यूहेद्ग्रहान्प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यद्व्यूहेत्तस्मान्न व्यूहेत् ४.५.९.[११] तदु व्यूहेदेव । अङ्गानि वै ग्रहाः कामं वा इमान्यङ्गानि व्यत्यासं शेते तस्मादु व्यूहेदेव ४.५.९.[१२] तदु नैव व्यूहेत् । प्राणा वै ग्रहा नेत्प्राणान्मोहयानीति मोहयेद्ध प्राणान्यद्व्यूहेत्तस्मान्न व्यूहेत् ४.५.९.[१३] किं नु तत्राध्वर्यो । यदुद्गाता च होता च छन्दांसि व्यूहत एतद्वा अधर्युर्व्यूहति ग्रहान्यदैन्द्रवायवाग्रान्प्रातःसवने गृह्णाति शुक्राग्रान्माध्यन्दिने सवन आग्रयणाग्रांस्तृतीयसवने ४.५.१०.[१] यदि सोममपहरेयुः । विधावतेच्छतेति ब्रूयात्स यदि विन्दन्ति किमाद्रियेरन्यद्यु न विन्दन्ति तत्र प्रायश्चित्तिः क्रियते ४.५.१०.[२] द्वयानि वै फाल्गुनानि । लोहितपुष्पाणि चारुणपुष्पाणि च स यान्यरुणपुष्पाणि फाल्गुनानि तान्यभिषुणुयादेष वै सोमस्य न्यङ्गो यदरुणपुष्पाणि फाल्गुनानि तस्मादरुणपुष्पाण्यभिषुणुयात् ४.५.१०.[३] यद्यरुणपुष्पाणि न विन्देयुः । श्येनहृतमभिषुणुयाद्यत्र वै गायत्री सोममच्छापतत्तस्या आहरन्त्यै सोमस्यांशुरपतत्तच्येनहृतमभवत्तस्माच्येनहृतमभिषुणुयात् ४.५.१०.[४] यदि श्येनहृतं न विन्देयुः । आदारानभिषुणुयाद्यत्र वै यज्ञस्य शिरोऽच्छिद्यत तस्य यो रसो व्यप्रुष्यत्तत आदाराः समभवंस्तस्मादादारानभिषुणुयात् ४.५.१०.[५] यद्यादारान्न विन्देयुः । अरुणदूर्वा अभिषुणुयादेष वै सोमस्य न्यङ्गो यदरुणदूर्वास्तस्मादरुणदूर्वा अभिषुणुयात् ४.५.१०.[६] यद्यरुणदूर्वा न विन्देयुः । अपि यानेव कांश्च हरितान्कुशानभिषुणुयात्तत्राप्येकामेव गां दद्यादथावभृथादेवोदेत्य पुनर्दीक्षेत पुनर्यज्ञो ह्येव तत्र प्रायश्चित्तिरिति नु सोमापहृतानाम् ४.५.१०.[७] अथ कलशदिराम् । यदि कलशो दीर्येतानुलिप्सध्वमिति ब्रूयात्स यद्यनुलभेरन्प्रसृतमात्रं वाञ्जलिमात्रं वा तदन्यैरेकधनैरभ्युन्नीय यथाप्रभावं प्रचरेयुर्यद्यु नानुलभेरन्नाग्रयणस्यैव प्रस्कन्द्यान्यैरेकधनैरभ्युन्नीय यथाप्रभावं प्रचरेयुः स यद्यनीतासु दक्षिणासु कलशो दीर्येत तत्राप्येकामेव गां दद्यादथावभृथादेवोदेत्य पुनर्दीक्षेत पुनर्यज्ञो ह्येव तत्र प्रायश्चित्तिरिति नु कलशदिराम् ४.५.१०.[८] अथ सोमातिरिक्तानाम् । यद्यग्निष्टोममतिरिच्येत पूतभृत एवोक्थ्यं गृह्णीयाद्यद्युक्थ्यमतिरिच्येत षोडशिनमुपेयुर्यदि षोडशिनमतिरिच्येत रात्रिमुपेयुर्यदि रात्रिमतिरिच्येताहरुपेयुर्नेत्त्वेवातीरेकोऽस्ति ४.६.१.[१] प्रजापतिर्वा एष यदंशुः । सोऽस्यैष आत्मैवात्मा ह्ययम् प्रजापतिस्तदस्यैतमात्मानं कुर्वन्ति यत्रैतं गृह्णन्ति तस्मिन्नेतान्प्राणान्दधाति यथा यथैते प्राणा ग्रहा व्याख्यायन्ते स ह सर्वतनूरेव यजमानोऽमुष्मिंलोके सम्भवति ४.६.१.[२] तदारम्भणवत् । यत्रैतं गृह्णन्त्यथैतदनारम्भणमिव यत्रैतं न गृह्णन्ति तस्माद्वा अंशुं गृह्णाति ४.६.१.[३] तं वा औदुम्बरेण पात्रेण गृह्णाति । प्रजापतिर्वा एष प्राजापत्य उदुम्बरस्तस्मादौदुम्बरेण पात्रेण गृह्णाति ४.६.१.[४] तं वै चतुःस्रक्तिना पात्रेण गृह्णाति । त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिराप्नोति प्रजापतिर्वा अतीमांलोकांश्चतुर्थस्तत्प्रजापतिमेव चतुर्थ्याप्नोति तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति ४.६.१.[५] स वै तूष्णीमेव ग्रावाणमादत्ते । तूष्णीमंशून्निवपति तूष्णीमप उपसृजति तूष्णीमुद्यत्य सकृदभिषुणोति तूष्णीमेनमनवानन्जुहोति तदेनं प्रजापतिं करोति ४.६.१.[६] अथास्यां हिरण्यं बद्धं भवति । तदुपजिघ्रति स यदेवात्र क्षणुते वा वि वा लिशतेऽमृतमायुर्हिरण्यं तदमृतमायुरात्मन्धत्ते ४.६.१.[७] तदु होवाच राम औपतस्विनिः । काममेव प्राण्यात्काममुदन्याद्यद्वै तूष्णीं जुहोति तदेवैनं प्रजापतिं करोतीति ४.६.१.[८] अथास्यां हिरण्यं बद्दं भवति । तदुपजिघ्रति स यदेवात्र क्षणुते वा वि वा लिशतेऽमृतमायुर्हिरण्यं तदमृतमायुरात्मन्धत्ते ४.६.१.[९] तदु होवाच बुडिल आश्वतराश्विः । उद्यत्यैव गृह्णीयान्नाभिषुणुयादभिषुण्वन्ति वा अन्याभ्यो देवताभ्यस्तदन्यथा ततः करोति यथो चान्याभ्यो देवताभ्योऽथ यदुद्यच्छति तदेवास्याभिषुतं भवतीति ४.६.१.[१०] तदु होवाच याज्ञवल्क्यः । अभ्येव षुणुयान्न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतास इत्यृषिणाभ्यनूक्तं न वा अन्यस्यै कस्यै चन देवतायै सकृदभिषुणोति तदन्यथा ततः करोति यथो चान्याभ्यो देवताभ्यस्तस्मादभ्येव षुणुयादिति ४.६.१.[११] तस्य द्वादश प्रथमगर्भाः । पष्ठौह्यो दक्षिणा द्वादश वै मासाः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिरंशुस्तदेनं प्रजापतिं करोति ४.६.१.[१२] तासां द्वादश गर्भाः । ताश्चतुर्विंशतिश्चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरः प्रजापतिः प्रजापतिरंशुस्तदेनं प्रजापतिं करोति ४.६.१.[१३] तदु ह कौकूस्तः । चतुर्विंशतिमेवैताः प्रथमगर्भाः पष्ठौहीर्दक्षिणा ददावृषभं पञ्चविंशं हिरण्यमेतदु ह स ददौ ४.६.१.[१४] स वा एष न सर्वस्येव ग्रहीतव्यः । आत्मा ह्यस्यैष यो न्वेव ज्ञातस्तस्य ग्रहीतव्यो यो वास्य प्रियः स्याद्यो वानूचानोऽनूक्तेनैनं प्राप्नुयात् ४.६.१.[१५] सहस्रे ग्रहीतव्यः । सर्वं वै सहस्रं सर्वमेष सर्ववेदसे ग्रहीतव्यः सर्वं वै सर्ववेदसं सर्वमेष विश्वजिति सर्वपृष्ठे ग्रहीतव्यः सर्वं वै विश्वजित्सर्वपृष्ठः सर्वमेष वाजपेये राजसूये ग्रहीतव्यः सर्वं हि तत्सत्त्रे ग्रहीतव्यः सर्वं वै सत्त्रं सर्वमेष एतानि ग्रहणानि ४.६.२.[१] एतं वा एते गच्छन्ति । षड्भिर्मासैर्य एष तपति ये संवत्सरमासते तदुच्यत एव सामतो यथैतस्य रूपं क्रियत उच्यत ऋक्तोऽथैतदेव यजुष्टः पुरश्चरणतो यदेतं गृह्णन्त्येतेनो एवैनं गच्छन्ति ४.६.२.[२] अथातो गृह्णात्येव । उदु त्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम् उपयामगृहीतोऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजायेति ४.६.३.[१] अथातः पश्वयनस्यैव । पश्वेकादशिन्यैवेयात्स आग्नेयं प्रथमम् पशुमालभतेऽथ वारुणमथ पुनराग्नेयमेवमेवैतया पश्वेकादशिन्येयात् ४.६.३.[२] अथो अप्यैन्द्राग्नमेवाहरहः पशुमालभेत । अग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वतीन्द्रो वै यज्ञस्य देवता तत्सर्वाश्चैवैतद्देवता नापराध्नोति यो च यज्ञस्य देवता तां नापराध्नोति ४.६.३.[३] अथात स्तोमायनस्यैव । आग्नेयमग्निष्टोम आलभेत तद्धि सलोम यदाग्नेयमग्निष्टोम आलभेत यद्युक्थ्यः स्यादैन्द्राग्नं द्वितीयमालभेतैन्द्राग्नानि ह्युक्थानि यदि षोडशी स्यादैन्द्रं तृतीयमालभेतेन्द्रो हि षोडशी यद्यतिरात्रः स्यात्सारस्वतं चतुर्थमालभेत वाग्वै सरस्वती योषा वै वाग्योषा रात्रिस्तद्यथायथं यज्ञक्रतून्व्यावर्तयत्येतानि त्रीण्ययनानि तेषां यतमत्कामयेत तेनेयाद्द्वा उपालम्भ्यौ पशू सौर्यं द्वितीयं पशुमालभते वैषुवतेऽहन्प्राजापत्यं महाव्रते ४.६.४.[१] अथातो महाव्रतीयस्यैव । प्रजापतेर्ह वै प्रजाः ससृजानस्य पर्वाणि विसस्रंसुः स विस्रस्तैः पर्वभिर्न शशाक संहातुं ततो देवा अर्चन्तः श्राम्यन्तश्चेरुस्त एतम् महाव्रतीयं ददृशुस्तमस्मा अगृह्णस्तेनास्य पर्वाणि समदधुः ४.६.४.[२] स संहितैः पर्वभिः । इदमन्नाद्यमभ्युत्तस्थौ यदिदं प्रजापतेरन्नाद्यं यद्वै मनुष्याणामशनं तद्देवानां व्रतं महद्वा इदं व्रतमभूद्येनायं समहास्तेति तस्मान्महाव्रतीयो नाम ४.६.४.[३] एवं वा एते भवन्ति । ये संवत्सरमासते यथैव तत्प्रजापतिः प्रजाः ससृजान आसीत्स यथैव तत्प्रजापतिः संवत्सरेऽन्नाद्यमभ्युदतिष्ठदेवमेवैत एतत्संवत्सरे ऽन्नाद्यमभ्युत्तिष्ठन्ति येषामेवं विदुषामेतं ग्रहं गृह्णन्ति ४.६.४.[४] तं वा इन्द्रायैव विमृधे गृह्णीयात् । सर्वा वै तेषां मृधा हता भवन्ति सर्वं जितं ये संवत्सरमासते तस्माद्विमृधे वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्मानभिदासत्यधरं गमया तमः । उपयामगृहीतोऽसीन्द्राय त्वा विमृध एष ते योनिरिन्द्राय त्वा विमृध इति ४.६.४.[५] अथो विश्वकर्मणे । विश्वं वै तेषां कर्म कृतं सर्वं जितं भवति ये संवत्सरमासते तस्माद्विश्वकर्मणे वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम । स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्ना उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मण इति ४.६.४.[६] यद्यु ऐन्द्रीं वैश्वकर्मणीं विद्यात् । तथैव गृह्णीयाद्विश्वकर्मन्हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम् । तस्मै विशः समनमन्त पूर्वीरयमुग्रो विहव्यो यथासत् । उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मण इति ४.६.५.[१] एष वै ग्रहः । य एष तपति येनेमाः सर्वाः प्रजा गृहीतास्तस्मादाहुर्ग्रहान्गृह्णीम इति चरन्ति ग्रहगृहीताः सन्त इति ४.६.५.[२] वागेव ग्रहः । वाचा हीदं सर्वं गृहीतं किमु तद्यद्वाग्ग्रहः ४.६.५.[३] नामैव ग्रहः । नाम्ना हीदं सर्वं गृहीतं किमु तद्यन्नाम ग्रहो बहूनां वै नामानि विद्माथ नस्तेन ते न गृहीता भवन्ति ४.६.५.[४] अन्नमेव ग्रहः । अन्नेन हीदं सर्वं गृहीतं तस्माद्यावन्तो नोऽशनमश्नन्ति ते नः सर्वे गृहीता भवन्त्येषैव स्थितिः ४.६.५.[५] स य एष सोमग्रहः । अन्नं वा एष स यस्यै देवताया एतं ग्रहं गृह्णाति सास्मै देवतैतेन ग्रहेण गृहीता तं कामं समर्धयति यत्काम्या गृह्णाति स उद्यन्तं वादित्यमुपतिष्ठतेऽस्तं यन्तं वा ग्रहोऽस्यमुमनयार्त्या गृहाणासावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समर्धीति वा न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते ४.६.६.[१] देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्ते होचुः को नो दक्षिणत आसिष्यतेऽथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति ४.६.६.[२] ते होचुः । य एव नो वीर्यवत्तमः स दक्षिणत आस्तामथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति ४.६.६.[३] ते होचुः । इन्द्रो वै नो वीर्यवत्तम इन्द्रो दक्षिणत आस्तामथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति ४.६.६.[४] ते हेन्द्रमूचुः । त्वं वै नो वीर्यवत्तमोऽसि त्वं दक्षिणत आस्वाथाभये नाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति ४.६.६.[५] स होवाच । किं मे ततः स्यादिति ब्राह्मणाच्छंस्या ते ब्रह्मसाम त इति तस्माद्ब्राह्मणाच्छंसिनं प्रवृणीत इन्द्रो ब्रह्मा ब्राह्मणादितीन्द्रस्य ह्येषा स इन्द्रो दक्षिणत आस्ताथाभये नाष्ट्र उत्तरतो यज्ञमुपाचरंस्तस्माद्य एव वीर्यवत्तमः स्यात्स दक्षिणत आसीताताभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरेयुर्यो वै ब्राह्मणानामनूचानतमः स एषां वीर्यवत्तमोऽथ यदिदं य एव कश्च ब्रह्मा भवति कुवित्तूष्णीमास्त इति तस्माद्य एव वीर्यवत्तमः स्यात्स दक्षिणत आसीताथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरेयुस्तस्माद्ब्राह्मणा दक्षिणत आसते ऽथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरन्ति ४.६.६.[६] स यत्राह । ब्रह्मन्त्स्तोष्यामः प्रशास्तरिति तद्ब्रह्मा जपत्येतं ते देव सवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमव तेन यज्ञपतिं तेन मामव स्तुत सवितुः प्रसव इति सोऽसावेव बन्धुरेतेन न्वेव भूयिष्ठा इवोपचरन्ति ४.६.६.[७] अनेन त्वेवोपचरेत् । देव सवितरेतद्बृहस्पते प्रेति तत्सवितारं प्रसवायोपधावति स हि देवानां प्रसविता बृहस्पते प्रेति बृहस्पतिर्वै देवानां ब्रह्मा तद्य एव देवानां ब्रह्मा तस्मा एवैतत्प्राह तस्मादाह बृहस्पते प्रेति ४.६.६.[८] अथ मैत्रावरुणो जपति । प्रसूतं देवेन सवित्रा जुष्टं मित्रावरुणाभ्यामिति तत्सवितारं प्रसवायोपधावति स हि देवानां प्रसविता जुष्टम् मित्रावरुणाभ्यामिति मित्रावरुणौ वै मैत्रावरुणस्य देवते तद्ये एव मैत्रावरुणस्य देवते ताभ्यामेवैतत्प्राह तस्मादाह जुष्टं मित्रावरुणाभ्यामिति ४.६.७.[१] त्रयी वै विद्या । ऋचो यजूंषि सामानीयमेवर्चोऽस्यां ह्यर्चति योऽर्चति स वागेवर्चो वाचा ह्यर्चति योऽर्चति सोऽन्तरिक्षमेव यजूंषि द्यौः सामानि सैषा त्रयी विद्या सौम्येऽध्वरे प्रयुज्यते ४.६.७.[२] इममेव लोकमृचा जयति । अन्तरिक्षं यजुषा दिवमेव साम्ना तस्माद्यस्यैका विद्यानूक्ता स्यादन्वेवापीतरयोर्निर्मितं विवक्षेतेममेव लोकमृचा जयत्यन्तरिक्षं यजुषा दिवमेव साम्ना ४.६.७.[३] तद्वा एतत् । सहस्रं वाचः प्रजातं द्वे इन्द्रस्तृतीये तृतीयं विष्णुर्ऋचश्च सामानि चेन्द्रो यजूंषि विष्णुस्तस्मात्सदस्यृक्षामाभ्यां कुर्वन्त्यैन्द्रं हि सदः ४.६.७.[४] अथैतं विष्णुं यज्ञम् । एतैर्यजुर्भिः पुर इवैव बिभ्रति तस्मात्पुरश्चरणं नाम ४.६.७.[५] वागेवर्चश्च सामानि च । मन एव यजूंषि सा यत्रेयं वागासीत्सर्वमेव तत्राक्रियत सर्वं प्राज्ञायताथ यत्र मन आसीन्नैव तत्र किं चनाक्रियत न प्राज्ञायत नो हि मनसा ध्यायतः कश्चनाजानाति ४.६.७.[६] ते देवा वाचमब्रुवन् । प्राची प्रेहीदं प्रज्ञपयेति सा होवाच किं मे ततः स्यादिति यत्किं चावषट्कृतं स्वाहाकारेण यज्ञे हूयते तत्त इति तस्माद्यत्किं चावषट्कृतं स्वाहाकारेण यज्ञे हूयते तद्वाचः सा प्राची प्रैत्सैतत्प्राज्ञपयदितीदं कुरुतेतीदं कुरुतेति ४.६.७.[७] तस्मादु कुर्वन्त्येवर्चा हविर्धाने । प्रातरनुवाकमन्वाह सामिधेनीरन्वाह ग्राव्णोऽभिष्टौत्येवं हि सयुजावभवताम् ४.६.७.[८] तस्मादु कुर्वन्त्येव सदसि । यजुष्टौदुम्बरीमुच्रयन्ति सदः समिन्वन्ति धिष्ण्यानुपकिरन्त्येवं हि सयुजावभवताम् ४.६.७.[९] तद्वा एतत्सदः परिश्रयन्ति । एतस्मै मिथुनाय तिर इवेदं मिथुनं चर्याता इति व्यृद्धं वा एतन्मिथुनं यदन्यः पश्यति तस्माद्यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति व्येव द्रवत आग एव कुर्वाते तस्मादद्वारेण सदः प्रेक्षमाणं ब्रूयान्मा प्रेक्षथा इति यथा ह मिथुनं चर्यमाणं पश्येदेवं तत्कामं द्वारेण देवकृतं हि द्वारम् ४.६.७.[१०] एवमेवैतद्धविर्धानं परिश्रयन्ति । एतस्मै मिथुनाय तिर इवेदं मिथुनं चर्याता इति व्यृद्धं वा एतन्मिथुनं यदन्यः पश्यति तस्माद्यद्यपि जायापती मिथुनं चरन्तौ पश्यन्ति व्येव द्रवत आग एव कुर्वाते तस्मादद्वारेण हविर्धानं प्रेक्षमाणं ब्रूयान्मा प्रेक्षथा इति यथा ह मिथुनं चर्यमाणम् पश्येदेवं तत्कामं द्वारेण देवकृतं हि द्वारम् ४.६.७.[११] तद्वा एतद्वृषा साम । योषामृचं सदस्यध्येति तस्मान्मिथुनादिन्द्रो जातस्तेजसो वै तत्तेजो जातं यदृचश्च साम्नश्चेन्द्र इन्द्र इति ह्येतमाचक्षते य एष तपति ४.६.७.[१२] अथैतद्वृषा सोमः । योषा अपो हविर्धानेऽध्येति तस्मान्मिथुनाच्चन्द्रमा जातो ऽन्नाद्वै तदन्नं जातं यदद्ब्यश्च सोमाच्च चन्द्रमाश्चन्द्रमा ह्येतस्यान्नं य एष तपति तद्यजमानं चैवैतज्जनयत्यन्नाद्यं चास्मै जनयत्यृचश्च साम्नश्च यजमानं जनयत्यद्भ्यश्च सोमाच्चास्मा अन्नाद्यम् ४.६.७.[१३] यजुषा ह वै देवाः । अग्रे यज्ञं तेनिरेऽथर्चाथ साम्ना तदिदमप्येतर्हि यजुषैवाग्रे यज्ञं तन्वतेऽथर्चाथ साम्ना यजो ह वै नामैतद्यद्यजुरिति ४.६.७.[१४] यत्र वै देवाः । इमा विद्याः कामान्दुदुह्रे तद्ध यजुर्विद्यैव भूयिष्ठान्कामान्दुदुहे सा निर्धीततमेवास सा नेतरे विद्य प्रत्यास नान्तरिक्षलोक इतरौ लोकौ प्रत्यास ४.६.७.[१५] ते देवा अकामयन्त । कथं न्वियं विद्येतरे विद्ये प्रतिस्यात्कथमन्तरिक्षलोक इतरौ लोकौ प्रतिस्यादिति ४.६.७.[१६] ते होचुः । उपांश्वेव यजुर्भिश्चराम तत एषा विद्येतरे विद्ये प्रतिभविष्यति ततो ऽन्तरिक्षलोक इतरौ लोकौ प्रतिभविष्यतीति ४.६.७.[१७] तैरुपांश्वचरन् । आप्याययन्नेवैनानि तत्तत एषा विद्येतरे विद्ये प्रत्यासीत्ततो ऽन्तरिक्षलोक इतरौ लोकौ प्रत्यासीत्तस्माद्यजूंषि निरुक्तानि सन्त्यनिरुक्तानि तस्मादयमन्तरिक्षलोको निरुक्तः सन्ननिरुक्तः ४.६.७.[१८] स य उपांशु यजुर्भिश्चरति । आप्याययत्येवैनानि स तान्येनमापीनान्याप्याययन्त्यथ य उच्चैश्चरति रूक्षयत्येवैनानि स तान्येनं रूक्षाणि रुक्षयन्ति ४.६.७.[१९] वागेवर्चश्च सामानि च । मन एव यजूंषि स य ऋचा च साम्ना च चरन्ति वाक्ते भवन्त्यथ ये यजुषा चरन्ति मनस्ते भवन्ति तस्मान्नानभिप्रेषितमध्वर्युणा किं चन क्रियते यदैवाध्वर्युराहानुब्रूहि यजेत्यथैव ते कुर्वन्ति य ऋचा कुर्वन्ति यदैवाध्वर्युराह सोमः पवत उपावर्तध्वमित्यथैव ते कुर्वन्ति ये साम्ना कुर्वन्ति नो ह्यनभिगतं मनना वाग्वदति ४.६.७.[२०] तद्वा एतन्मनोऽध्वर्युः । पुर इवैव चरति तस्मात्पुरश्चरणं नाम पुर इव ह वै श्रिया यशसा भवति य एवमेतद्वेद ४.६.७.[२१] तद्वा एतदेव पुरश्चरणम् । य एष तपति स एतस्यैवावृता चरेद्ग्रहं गृहीत्वैतस्यैवावृतमन्वावर्तेत प्रतिगीर्यैतस्यैवावृतमन्वावर्तेत ग्रहं हुत्वैतस्यैवावृतमन्वावर्तेत स हैष भर्ता स यो हैवं विद्वानेतस्यावृता शक्नोति चरितुं शक्नोति हैव भार्यान्भर्तुम् ४.६.८.[१] या वै दीक्षा सा निषत् । तत्सत्त्रं तस्मादेनानासत इत्याहुरथ यत्ततो यज्ञं तन्वते तद्यन्ति तन्नयति यो नेता भवति स तस्मादेनान्यन्तीत्याहुः ४.६.८.[२] या ह दीक्षा सा निषत् । तत्सत्त्रं तदयनं तत्सत्त्रायणमथ यत्ततो यज्ञस्योदृचं गत्वोत्तिष्ठन्ति तदुत्थानं तस्मादेनानुदस्थुरित्याहुरिति नु पुरस्ताद्वदनम् ४.६.८.[३] अथ दीक्षिष्यमाणाः समवस्यन्ति । ते यद्यग्निं चेष्यमाणा भवन्त्यरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्त एतेन प्राजापत्येन पशुना ४.६.८.[४] तस्य शिरो निदधति । तेषां यदि तदहर्दीक्षा न समैत्यरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति ४.६.८.[५] अथ यदहरेषां दीक्षा समैति । अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र दीक्षिष्यमाणा भवन्ति गृहपतिरेव प्रथमो मन्थते मध्यं प्रति शालाया अथेतरेषामर्धा दक्षिणत उपविशन्त्यर्धा उत्तरतो मथित्वोपसमाधायैकैकमेवोल्मुकमादायोपसमायन्ति गृहपतेर्गार्हपत्यं गृहपतेरेव गार्हपत्यादुद्धृत्याहवनीयं दीक्षन्ते तेषां समान आहवनीयो भवति नाना गार्हपत्या दीक्षोपसत्सु ४.६.८.[६] अथ यदहरेषां क्रयो भवति । तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति प्रजहत्येतानपरानग्नीन्हुत एव वैसर्जिने ४.६.८.[७] राजानं प्रणयति । उद्यत एवैष आग्नीध्रीयोऽग्निर्भवत्यथैत एकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति तैरेव तेषामुल्मुकैः प्रघ्नन्तीति स स्माह याज्ञवल्क्यो ये तथा कुर्वन्तीत्येतन्न्वेकमयनम् ४.६.८.[८] अथेदं द्वितीयम् । अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्त एतेन प्राजापत्येन पशुना ४.६.८.[९] तस्य शिरो निदधति । तेषां यदि तदहर्दीक्षा न समैत्यरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति ४.६.८.[१०] अथ यदहरेषां दीक्षा समैति । अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र दीक्षिष्यमाणा भवन्ति गृहपतिरेव प्रथमो मन्थतेऽथेतरे पर्युपविश्य मन्थन्ते ते जातं जातमेवानुप्रहरन्ति गृहपतेर्गार्हपत्ये गृहपतेरेव गार्हपत्यादुद्धृत्याहवनीयं दीक्षन्ते तेषां समान आहवनीयो भवति समानो गार्हपत्यो दीक्षोपसत्सु ४.६.८.[११] अथ यदहरेषां क्रयो भवति । तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति प्रजहत्येतमपरमग्निं हुत एव वैसर्जिने ४.६.८.[१२] राजानं प्रणयति । उद्यत एवैष आग्नीध्रीयोऽग्निर्भवत्यथैत एकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति समदमु हैव ते कुर्वन्ति समद्धैनान्विन्दत्यर्तुका ह भवन्त्यपि ह तमर्धं समद्विन्दति यस्मिन्नर्धे यजन्ते ये तथा क् ४.६.८.[१३] अथेदं तृतीयम् । गृहपतेरेवारण्योः संवदन्ते य इतो उर्वन्त्येतद्द्वितीयमयनम् ४.६.८.[१४] अथेदं तृतीयम् । गृहपतेरेवारण्योः संवदन्ते य इतोऽग्निर्जनिष्यते स नः सह यदनेन यज्ञेन जेष्यामोऽनेन पशुबन्धेन तन्नः सह सह नः साधुकृत्या य एव पापं करवत्तस्यैव तदित्येवमुक्त्वा गृहपतिरेव प्रथमः समारोहयते ऽथेतरेभ्यः समारोहयति स्वयं वैव समारोहयन्ते त आयन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्त एतेन प्राजापत्येन पशुना ४.६.८.[१५] तस्य शिरो निदधति । तेषां यदि तदहर्दीक्षा न समैत्यरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति ४.६.८.[१६] अथ यदहरेषां दीक्षा समैति । गृहपतेरेवारण्योः संवदन्ते य इतो ऽग्निर्जनिष्यते स नः सह यदनेन यज्ञेन जेस्यामोऽनेन सत्त्रेण तन्नः सह सह नः साधुकृत्या य एव पपं करवत्तस्यैव तदित्येवमुक्त्वा गृहपतिरेव प्रथमः समारोहयतेऽथेतरेभ्यः समारोहयति स्वयं वैव समारोहयन्ते त आयन्ति यत्र दीक्षिष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं दीक्षन्ते तेषां समान आहवनीयो भवति समानो गार्हपत्यो दीक्षोपसत्सु ४.६.८.[१७] अथ यदहरेषां क्रयो भवति । तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति प्रजहत्येतमपरमग्निं हुत एव वैसर्जिने ४.६.८.[१८] राजानं प्रणयति । उद्यत एवैष आग्नीध्रीयोऽग्निर्भवत्यथैत एकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति तत्तत्कृतं नाकृतं यन्नानाधिष्ण्या भवन्ति वरीयानाकाशोऽसत्परिचरणायेत्यथ यन्नानापुरोडाशा भूयो हविरुच्छिष्टमसत्समाप्त्या इति ४.६.८.[१९] अथ येन सत्त्रेण देवाः । क्षिप्र एव पाप्मानमपाघ्नतेमां जितिमजयन्यैषामियं जितिस्तदत उद्यत एकगृहपतिका वै देवा एकपुरोडाशा एकधिष्ण्याः क्षिप्र एव पाप्मानमपाघ्नत क्षिप्रे प्राजायन्त तथो एवैत एकगृहपतिका एकपुरोडाशा एकधिष्ण्याः क्षिप्र एव पाप्मानमपघ्नते क्षिप्रे प्रजायन्ते ४.६.८.[२०] अथादः पूर्वस्मिन्नुदीचीनवंशा शाला भवति । तन्मानुषं समान आहवनीयो भवति नाना गार्हपत्यास्तद्विकृष्टं गृहपतेरेव गार्हपत्ये जाघन्या पत्नीः संयाजयन्त्याज्येनेतरे प्रतियजन्त आसते तद्विकृष्टम् ४.६.८.[२१] अथात्र प्राचीनवंशा शाला भवति । तद्देवत्रा समान आहवनीयो भवति समानो गार्हपत्यः समान आग्नीध्रीयस्तदेतत्सत्त्रं समृद्धं यथैकाहः समृद्ध एवं तस्य न ह्वलास्ति तस्यैषैव समान्यावृद्यदन्यद्धिष्ण्येभ्यः ४.६.९.[१] देवा ह वै सत्त्रमासत । श्रियं गच्छेम यशः स्यामान्नादाः स्यामेति तेभ्य एतदन्नाद्यमभिजितमपाचिक्रमिषत्पशवो वा अन्नं पशवो हैवैभ्यस्तदपाचिक्रमिषन्यद्वै न इमे श्रान्ता न हिंस्युः कथमिव स्विन्नः सक्ष्यन्त इति ४.६.९.[२] त एते गार्हपत्ये द्वे आहुती अजुहवुः । गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तदेनान्गृहेष्वेव न्ययचंस्तथैभ्य एतदन्नाद्यमभिजितं नापाक्रामत् ४.६.९.[३] तथो एवेमे सत्त्रमासते । ये सत्त्रमासते श्रियं गच्छेम यशः स्यामान्नादाः स्यामेति तेभ्य एतदन्नाद्यमभिजितमपचिक्रमिषति पशवो वा अन्नं पशवो हैवैभ्यस्तदपचिक्रमिषन्ति यद्वै न इमे श्रान्ता न हिंस्युः कथमिव स्विन्नः सक्ष्यन्त इति ४.६.९.[४] त एते गार्हपत्ये द्वे आहुती जुह्वति गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तदेनान्गृहेष्वेव नियच्छन्ति तथैभ्य एतदन्नाद्यमभिजितं नापक्रामति ४.६.९.[५] तथो एवैतस्मात् । एतदन्नाद्यमुपाहृतमपचिक्रमिषति यद्वै मायं न हिंस्यात्कथमिव स्विन्मा सक्ष्यत इति ४.६.९.[६] तस्य परस्तादेवाग्रेऽल्पश इव प्राश्नाति । तदेनदुपनिमदति तद्वेद न वै तथाभूद्यथामंसि न वै माहिंसीदिति तदेनमुपावश्रयते स ह प्रिय एवान्नस्यान्नादो भवति य एवं विद्वानेतस्य व्रतं शक्नोति चरितुम् ४.६.९.[७] तद्वा एतत् । दशमेऽहन्त्सत्त्रोत्थानं क्रियते तेषामेकैक एव वाचंयम आस्ते वाचमाप्याययंस्तयापीनयायातयाम्न्योत्तरमहस्तन्वतेऽथेतरे विसृज्यन्ते समिद्धारा वा स्वाध्यायं वा तत्राप्यश्नन्ति ४.६.९.[८] तेऽपराह्ण उपसमेत्य । अप उपस्पृश्य पत्नीशालं सम्प्रपद्यन्ते तेषु समन्वारब्धेष्वेते आहुती जुहोतीह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहेति पशूनेवैतदाह पशूनेवैतदात्मन्नियच्छन्ते ४.६.९.[९] अथ द्वितीयां जुहीति । उपसृजन्धरुणं मात्र इत्यग्निमेवैतत्पृथिव्या उपसृजन्नाह धरुणो मातरं धयन्नित्यग्निमेवैतत्पृथिवीं धयन्तमाह रायस्पोषमस्मासु दीधरत्स्वाहेति पशवो वै रायस्पोषः पशूनेवैतदात्मन्नियच्छन्ते ४.६.९.[१०] ते प्राञ्च उपनिष्क्रामन्ति । ते पश्चात्पाञ्चो हविर्धाने सम्प्रपध्यन्ते पुरस्ताद्वै प्रत्यञ्चस्तंस्यमाना अथैवं सत्रोत्थाने ४.६.९.[११] त उत्तरस्य हविर्धानस्य । जघन्यायां कूबर्यां सामाभिगायन्ति सत्त्रस्य ऋद्धिरिति राद्धिमेवैतदभ्युत्तिष्ठन्त्युत्तरवेदेर्वोत्तरायां श्रोणावितरं तु कृततरम् ४.६.९.[१२] यदुत्तरस्य हविर्धानस्य । जघन्यायां कूबर्यामगन्म ज्योतिरमृता अभूमेति ज्योतिर्वा एते भवन्त्यमृता भवन्ति ये सत्त्रमासते दिवं पृथिव्या अध्यारुहामेति दिवं वा एते पृथिव्या अध्यारोहन्ति ये सत्त्रमासतेऽविदाम देवानिति विन्दन्ति हि देवान्त्स्वर्ज्योतिरिति त्रिर्निधनमुपावयन्ति स्वर्ह्येते ज्योतिर्ह्येते भवन्ति तद्यदेवैतस्य साम्नो रूपं तदेवैते भवन्ति ये सत्त्रमासते ४.६.९.[१३] ते दक्षिणस्य हविर्धानस्य । अधोऽधोऽक्षं सर्पन्ति स यथाहिस्त्वचो निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यन्तेऽतिच्छन्दसा सर्पन्त्येषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तथैनान्पाप्मा नान्वत्येति तस्मादतिच्छन्दसा सर्पन्ति ४.६.९.[१४] ते सर्पन्ति । युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तं तमिद्धतं वज्रेण तंतमिद्धतम् । दूरे चत्ताय च्छन्त्सद्गहने यदिनक्षत् । अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वत इति ४.६.९.[१५] ते प्राञ्च उपनिष्क्रामन्ति । ते पुरस्तात्प्रत्यञ्चः सदः सम्प्रपद्यन्ते पश्चाद्वै प्राञ्चस्तंस्यमाना अथैवं सत्रोत्थाने ४.६.९.[१६] ते यथाधिष्ण्यमेवोपविशन्ति । देवेभ्यो ह वै वाचो रसोऽभिजितोऽपचिक्रमिषां चकार स इमामेव पराङत्यसिसृप्सदियं वै वाक्तस्या एष रसो यदोषधयो यद्वनस्पतयस्तमेतेन साम्नाप्नुवन्त्स एनानाप्तोऽभ्यावर्तत तस्मादस्यामूर्ध्वा ओषधयो जायन्त ऊर्ध्वा वनस्पतयस्तथो एवैतेभ्य एतद्वाचो रसोऽभिजितो ऽपचिक्रमिषति स इमामेव पराङतिसिसृप्सतीयं वै वाक्तस्या एष रसो यदोषधयो यद्वनस्पतयस्तमेतेन साम्नाप्नुवन्ति स एनानाप्तोऽभ्यावर्तते तस्मादस्यामूर्ध्वा ओषधयो जायन्त ऊर्ध्वा वनस्पतयः ४.६.९.[१७] सर्पराज्ञ्या ऋक्षु स्तुवते । इयं वै पृथिवी सर्पराज्ञी तदनयैवैतत्सर्वमाप्नुवन्ति स्वयम्प्रस्तुतमनुपगीतं यथा नान्य उपशृणुयादति ह रेचयेद्यदन्यः प्रस्तुयादतिरेचयेद्यदन्य उपगायेदतिरेचयेद्यदन्य उपशृणुयात्तस्मात्स्वयम्प्रस्तुतमनुपगीतम् ४.६.९.[१८] चतुर्होतॄन्होता व्याचष्टे । एतदेवैतत्स्तुतमनुशंसति यदि होता न विद्याद्गृहपतिर्व्याचक्षीत होतुस्त्वेव व्याख्यानम् ४.६.९.[१९] अथाध्वर्योः प्रतिगरः । अरात्सुरिमे यजमाना भद्रमेभ्योऽभूदिति कल्याणमेवैतन्मानुष्यै वाचो वदति ४.६.९.[२०] अथ वाकोवाक्ये ब्रह्मोद्यं वदन्ति । सर्वं वै तेषामाप्तं भवति सर्वं जितं ये सत्त्रमासतेऽचारिषुर्यजुर्भिस्तत्तान्यापंस्तदवारुत्सताशंसिषुर्ऋचस्तत्ता आपस्तदवारुत्सतास्तोषत सामभिस्तत्तान्यापंस्तदवारुत्सताथैषामेतदेवानाप्तमनवरुद्धं भवति यद्वाकोवाक्यं ब्राह्मणं तदेवैतेनाप्नुवन्ति तदवरुन्धते ४.६.९.[२१] औदुम्बरीमुपसंसृप्य वाचं यच्छन्ति । विदुहन्ति वा एते यज्ञं निर्धयन्ति ये वाचा यज्ञं तन्वते वाग्घि यज्ञस्तामेषां पुरैकैक एव वाचंयम आस्ते वाचमाप्याययंस्तयापीनयायातयाम्न्योत्तरमहस्तन्वतेऽथात्र सर्वैव वागाप्ता भवत्यपवृक्ता तां सर्व एव वाचंयमा वाचमाप्याययन्ति तयापीनयायातयाम्न्यातिरात्रं तन्वते ४.६.९.[२२] औदुम्बरीमन्वारभ्यासते । अन्नं वा ऊर्गुदुम्बर ऊर्जैवैतद्वाचमाप्याययन्ति ४.६.९.[२३] तेऽस्तमिते प्राञ्च उपनिष्क्रामन्ति । ते जघनेनाहवनीयमासतेऽग्रेण हविर्धाने तान्वाचंयमानेव वाचंयमः प्रतिरस्थाता वसतीवरीभिरभिपरिहरति ते यत्कामा आसीरंस्तेन वाचं विसृजेरन्कामैर्ह स्म वै पुरर्षयः सत्त्रमासतेऽसौ नः कामः स नः समृध्यतामिति यद्यु अनेककामाः स्युर्लोककामा वा प्रजाकामा वा पशुकामा वा ४.६.९.[२४] अनेनैव वाचं विसृजेरन् । भूर्भुवः स्वरिति तत्सत्येनैवैतद्वाचं समर्धयन्ति तया समृद्धयाशिष आशासते सुप्रजाः प्रजाभिः स्यामेति तत्प्रजामाशासते सुवीरा वीरैरिति तद्वीरानाशासते सुपोषाः पोषैरिति तत्पुष्टिमाशासते ४.६.९.[२५] अथ गृहपतिः सुब्रह्मण्यामाह्वयति । यं वा गृहपतिर्ब्रूयात्पृथगु हैवैके सुब्रह्मण्यामाह्वयन्ति गृहपतिस्त्वेव सुब्रह्मण्यामाह्वयेद्यं वा गृहपतिर्ब्रूयात्तस्मिन्त्समुपहवमिष्ट्वा समिधोऽभ्यादधति ५.१.१.[१] देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव कस्मिन्नु वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्तेऽतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य हैतन्मुखं यदतिमानः  

Search

Search here.