श्री राम सहस्त्रनाम स्तोत्रम्

नामावली  > विष्णु नामावली Posted at 2018-10-27 17:05:26
श्री राम सहस्त्रनामस्तोत्रम् ॥ श्रीरामाय नम: ॥ अस्य श्रीरामसहस्त्रनाममालामन्त्रस्य विनायक ऋषिः अनुष्टुप् छन्द: श्रीरामो देवता महाविष्णुरिति बीजं गुणभृन्निर्गुणो महानिति शक्तिः सच्चिदानन्दविग्रह इति कीलकं श्रीरामप्रीत्यर्थे जपे विनियोगः । न्यासः (क) करन्यासः - ॐ श्रीरामचन्द्राय अङुष्ठाभ्यां नमः । ॐ श्रीसीतापतये तर्जनीभ्यां नमः । ॐ श्रीरघुनाथाय मध्यमाभ्यां नमः । ॐ श्रीभरताग्रजाय अनामिकाभ्यां नमः । ॐ श्रीदशरथात्मजाय कनिष्ठिकाभ्यां नमः । ॐ श्रीहनुमत्प्रभवे करतलकरपृष्ठाभ्यां नमः । (ख) ह्रदयादिन्यासः - ॐ श्रीरामचन्द्राय ह्रदयाय नमः । ॐ श्रीसीतापतये शिरसे स्वाहा । ॐ श्रीरघुनाथाय शिखायै वषट् । ॐ श्रीभरताग्रजाय कवचाय हुम् । ॐ श्रीदशरथात्मजाय नेत्रत्रयाय वौषट् । ॐ श्रीहनुमत्प्रभवे अस्त्राय फट् । ध्यानम् ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्दारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ नीलाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासिनं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्‍वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तीं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ स्तोत्रम् राजीवलोचन: श्रीमान् श्रीरामो रघुपुङ्गवः । रामभद्र: सदाचारो राजेन्द्रो जानकीपतिः ॥ १ ॥ अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥ २ ॥ विश्वामित्रप्रियो दान्तश्शत्रुजिच्छत्रुतापनः । सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः ॥ ३ ॥ ज्ञानभाव्योऽपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः । ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् ॥ ४ ॥ द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः । विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ॥ ५ ॥ ईशः खड्‍गधरः श्रीमान् कौसलेयोऽनसूयकः । विपुलांसो महोरस्कः परमेष्ठी परायणः ॥ ६ ॥ सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः । लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः ॥ ७ ॥ अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः । रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः ॥ ८ ॥ ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः । सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः ॥ ९ ॥ सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः । कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः ॥ १० ॥ भव्यो जितारिषड्‌वर्गो महोदरोऽघनाशनः । सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः ॥ ११ ॥ अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः । स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः ॥ १२ ॥ धीरो दान्तो घनश्यामः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥ १३ ॥ सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः । यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः ॥ १४ ॥ वर्णाश्रमकरो वर्णी शत्रुजित् पुरुषोत्तमः । विभीषणप्रतिष्ठाता परमात्मा परात्परः ॥ १५ ॥ प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः । अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः ॥ १६ ॥ गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः । अभिवन्द्यो महाकायो विश्वकर्मा विशारदः ॥ १७ ॥ विनीतात्मा वीतरागस्तपस्वीशो जनेश्वरः । कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः ॥ १८ ॥ अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः । लोकाध्यक्षो महामायो विभीषणवरप्रदः ॥ १९ ॥ आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः । भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः ॥ २० ॥ सुखदः कारणं कर्ता भवबन्धविमोचनः । देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥ २१ ॥ संसारोत्तारको रामः सर्वदु:खविमोक्षकृत् । विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् ॥ २२ ॥ नित्यो नियतकल्याणः सीताशोकविनाशकृत् । काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः ॥ २३ ॥ मारीचमथनो रामो विराधवधपण्डितः । दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः ॥ २४ ॥ महाधनुर्महाकायो भीमो भीमपराक्रमः । तत्त्वस्वरूपी तत्त्वज्ञस्तत्त्ववादी सुविक्रमः ॥ २५ ॥ भूतात्मा भूतकृत् स्वामी कालज्ञानी महापटुः । अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥ २६ ॥ स्वभावभद्रश्शत्रुघ्नः केशवः स्थाणुरीश्वरः । भूतादिः शम्भुरादित्यः स्थविष्ठश्शाश्वतो ध्रुवः ॥ २७ ॥ कवची कुण्डली चक्री खड्‌गी भक्तजनप्रियः । अमृत्युर्जन्मरहितः सर्वजित् सर्वगोचरः ॥ २८ ॥ अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः । समः समात्मा समगो जटामुकुटमण्डितः ॥ २९ ॥ अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः । लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः ॥ ३० ॥ सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः । अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली ॥ ३१ ॥ धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः । हंसो मरीचिर्गोविन्दो रत्‍नगर्भो महामतिः ॥ ३२ ॥ व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः । जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः ॥ ३३ ॥ सम्भवोऽतीन्द्रियो वेद्योऽनिर्देशो जाम्बवत्प्रभुः । मदनो मथनो व्यापी विश्वरूपो निरञ्जनः ॥ ३४ ॥ नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः । नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः ॥ ३५ ॥ जितक्रोधो जितारातिः प्लवगाधिपराज्यदः । वसुदः सुभुजो नैकमायो भव्यप्रमोदनः ॥ ३६ ॥ चण्डांशु सिद्धिदः कल्पः शरणागतवत्सलः । अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः ॥ ३७ ॥ सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् । वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः ॥ ३८ ॥ अतुलः सात्त्विको धीरः शरासनविशारदः । ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः ॥ ३९ ॥ वैकुण्ठः प्राणिनां प्राणः कमठ: कमलापतिः । गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः ॥ ४० ॥ कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः । मायावी व्यापको व्यापी रैणुकेयबलापहः ॥ ४१ ॥ पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः । लोकत्रयाश्रयो लोकचरितो भरताग्रजः ॥ ४२ ॥ श्रीधरः सद्वतिर्लोकसाक्षी नारायणो बुधः । मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः ॥ ४३ ॥ यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः । तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः ॥ ४४ ॥ चाणुरमर्दनो दिव्यश्शान्तो भरतवन्दितः । शब्दातिगो गभीरात्मा कोमलाङ्‍गः प्रजागरः ॥ ४५ ॥ लोकगर्भश्शेषायी क्षीराब्धिनिलयोऽमलः । आत्मयोनिरदीनात्मा सहस्त्राक्षः सहस्त्रपात् ॥ ४६ ॥ अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः । त्रिकालज्ञो मुनिस्साक्षी विहायसगतिः कृती ॥ ४७ ॥ पर्जन्यः कुमुदो भूतावासः कमललोचनः । श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः ॥ ४८ ॥ लोकाभिरामो लोकारिमर्दनः सेवकप्रियः । सनातनतमो मेघश्यामलो राक्षसान्तकृत् ॥ ४९ ॥ दिव्यायुधधरश्श्रीमानप्रमेयो जितेन्द्रियः । भूदेववन्द्यो जनकप्रियकृत् प्रपितामहः ॥ ५० ॥ उत्तमः सात्त्विकः सत्यः सत्यसन्धस्त्रिविक्रमः । सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः ॥ ५१ ॥ दामोदरोऽच्युतश्शार्ङी वामनो मधुराधिपः । देवकीनन्दनः शौरिः शूरः कैटभमर्दनः ॥ ५२ ॥ सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः । कालस्वरूपी कालात्मा कालः कल्याणदः कविः ॥ ५३ ॥ संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः । स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः । अनादिनिधनः सर्वलोकपूज्यो निरामयः ॥ ५४ ॥ रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः । सर्वदुःखातिगो विद्याराशिः परमगोचरः ॥ ५५ ॥ शेषो विशेषो विगतकल्मषो रघुनायकः । वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः ॥ ५६ ॥ कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः । देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः ॥ ५७ ॥ सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः । मनो बुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः ॥ ५८ ॥ अहल्यापावनः स्वामी पितृभक्तो वरप्रदः । न्यायो न्यायी नयी श्रीमान् नयो नगधरो ध्रुवः ॥ ५९ ॥ लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः । वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः ॥ ६० ॥ देवाग्रणी: शिवध्यानतत्परः परमः परः । सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिस्सुलोचनः ॥ ६१ ॥ पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः । जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः ॥ ६२ ॥ अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी । कलानिधिः कलानाथो कमलानन्दवर्धनः ॥ ६३ ॥ जयी जितारिः सर्वादिः शमनो भवभञ्जनः । अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ॥ ६४ ॥ आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः । निश्शब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः ॥ ६५ ॥ आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्त्रपात् । सनातनतमस्स्त्रग्वी पेशलो जविनां वरः ॥ ६६ ॥ शक्तिमाञ्शङ्खभृन्नाथः गदापद्मरथाङ्गभृत् । निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ॥ ६७ ॥ शताननः सहस्त्राक्षः शतमूर्तिर्घनप्रभः । ह्रत्पुण्डरीकशयनः कठिनो द्रव एव च ॥ ६८ ॥ उग्रो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः । अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरुष्टुतः ॥ ६९ ॥ ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः ॥ ७० ॥ शिवपूजारतः श्रीमान् भवानिप्रियकृद्वशी । नरो नारायणः श्यामः कपर्दीनीललोहितः ॥ ७१ ॥ रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः । मातामहो मातरिश्वा विरिञ्चोविष्टरश्रवाः ॥ ७२ ॥ अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः । वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः ॥ ७३ ॥ निदाघस्तपनोऽमोघः श्‍लक्ष्णः परबलापह्रत् । कबन्धमथनो दिव्यः कम्बुग्रीवशिवप्रियः ॥ ७४ ॥ शङ्खोऽनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः । असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत् ॥ ७५ ॥ वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः । रामो नीलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः ॥ ७६ ॥ पवित्रपाद: पापरिर्मणिपूरो नभोगतिः । उत्तारणो दुष्कृतिहा दुर्धर्षो दुस्सहोऽभयः ॥ ७७ ॥ अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः । भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः ॥ ७८ ॥ उदारकिर्तिरुद्योगी वाङ्‌मयः सदसन्मयः । नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ७९ ॥ चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः । निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः ॥ ८० ॥ श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः । भूशयो भूतिकृद्‌भूतिर्भूषणो भूतवाहनः ॥ ८१ ॥ अकायो भक्तकायस्थः कालज्ञानी महावटुः । परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः ॥ ८२ ॥ स्वभावभद्रो मध्यस्थः संसारभयनाशनः । वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥ ८३ ॥ सुरेन्द्रः करणं कर्म कर्मकृत् कर्म्यधोक्षजः । ध्येयो धुर्यो धराधीशः संकल्पः शर्वरीपतिः ॥ ८४ ॥ परमार्थगुरुर्वृद्धः शुचिरश्रितवत्सलः । विष्णुर्जिष्णुर्विभुर्वनन्द्यो यज्ञेशो यज्ञपालकः ॥ ८५ ॥ प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः । केशवः केशिहा काव्यः कविः कारणकारणम् ॥ ८६ ॥ कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः । आदिकर्ता वराहश्च माधवो मधुसूदनः ॥ ८७ ॥ नारायणो नरो हंसो विष्वक्सेनो जनार्दनः । विश्वकर्ता महायज्ञो ज्योतिष्मान् पुरुषोत्तमः ॥ ८८ ॥ वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः । नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः ॥ ८९ ॥ अदिदेवो जगत्कर्ता योगीशो गरुडध्वजः । गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ॥ ९० ॥ पद्मनाभो ह्रषीकेशो धाता दामोदरः प्रभुः । त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ॥ ९१ ॥ वामनो दुष्टदमनो गोविन्दो गोपवल्लभः । भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः ॥ ९२ ॥ कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः । संन्यासी शास्त्रतत्त्वज्ञो मन्दराद्रिनिकेतनः ॥ ९३ ॥ बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः । भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः ॥ ९४ ॥ तपोवासो मुदावासः सत्यवासः सनातनः । पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ॥ ९५ ॥ पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः । शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसलि हली ॥ ९६ ॥ किरीटी कुण्डली हारी मेखली कवची ध्वजी । योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः ॥ ९७ ॥ शास्ता शास्त्रकरः शास्त्रं शङ्करः शङ्करस्तुतः । सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः ॥ ९८ ॥ पवन: संहत: शक्ति: सम्पूर्णाङ्‌गः समृद्धिमान् । स्वर्गदः कामदः श्रीदः कीर्तिदोऽकीर्तिनाशनः ॥ ९९ ॥ मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः । सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः ॥ १०० ॥ सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः । सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः ॥ १०१ ॥ अक्षय्यः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः । निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥ १०२ ॥ सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः । अधिकारी विभुर्नित्यः परमात्मा सनातनः ॥ १०३ ॥ अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः । श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः ॥ १०४ ॥ आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः । सत्यवान् गुणसम्पन्नः स्वयंतेजाः सुदीप्तिमान् ॥ १०५ ॥ कालात्मा भगवान् कालः कालचक्रप्रवर्तकः । नारायणः परंज्योतिः परमात्मा सनातनः ॥ १०६ ॥ विश्वसृड्‌विश्वगोप्ता च विश्वभोक्ता च शाश्वतः । विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः ॥ १०७ ॥ सर्वभूतसुह्रच्छान्तः सर्वभूतानुकम्पनः । सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः ॥ १०८ ॥ सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः । अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः ॥ १०९ ॥ अनादिनिधनः स्त्रष्टा प्रजापतिपतिर्हरिः । नरसिंहो ह्रषीकेशः सर्वात्मा सर्वदृग् वशी ॥ ११० ॥ जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः । कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः ॥ १११ ॥ सहस्त्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः । पुराणपुरुषः स्त्रष्टा सहस्त्राक्षः सहस्त्रपात् ॥ ११२ ॥ तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः । परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ॥ ११३ ॥ परं ज्योतिः परं धाम पराकाशः परात्परः । अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ॥ ११४ ॥ नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः । हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः । ११५ ॥ रामः श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः । तत्त्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः ॥ ११६ ॥ अकारवाच्यो भगवान् श्रीर्भूलीलापतिः पुमान् । सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः ॥ ११७ ॥ स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान् । नित्यः सम्पूर्णकामश्च नैसर्गिकसुह्रत् सुखी ॥ ११८ ॥ कृपापीयूषजलधिश्शरण्यः सर्वदेहिनाम् । श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः ॥ ११९ ॥ श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः । अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान ॥ १२० ॥ ॥ इति श्रीआनन्दरामायणे वाल्मीकीये श्रीरामसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

Search

Search here.