श्रीसूक्तमहात्म्यम्

यज्ञ - शान्ति  > वैदिक सुक्त Posted at 2018-12-06 13:52:34
॥ श्रीसूक्तमहात्म्यम् ॥

राम उवाच-
एकं मन्त्रं समाचक्ष्व देव लक्ष्मी विवर्धनम् ।
प्रतिवेदं जगन्नाथ यादोगणनृपात्मज ॥ १॥
पुष्कर उवाच-
श्रीसूक्तं प्रतिवेदञ्च ज्ञेयं लक्ष्मीविवर्धनम् ।
अस्मिँल्लोके परे वापि यथाकामं द्विजस्य तु ॥ २॥
राम उवाच-
प्रतिवेदं समाचक्ष्व श्रीसूक्तं पुष्टिवर्धनम् ।
श्रीसूक्तस्य तथा कर्म सर्वधर्मभृतां वर ॥ ३॥
पुष्कर उवाच-
हिरण्यवर्णां हरिणीं ॠचः पञ्चदश द्विज ।
श्रीसूक्तं कथितं पुण्यं ॠग्वेदे पुष्टिवर्धनम् ॥ ४॥
रथे अक्षेषु वाजेति चतस्रस्तु तथा ॠचः ।
श्रीसूक्तं तु यजुर्वेदे कथितं पुष्टिवर्धनम् ॥ ५॥
श्रायन्तीयं तथा साम सामवेदे प्रकीर्तितम् ।
श्रियं दातुर्मयिदेहि प्रोक्तमाथर्वणे तथा ॥ ६॥
श्रीसूक्तं यो जपेद्भक्त्या तस्यालक्ष्मीर्विनश्यति ।
जुहुयाद्यश्च धर्मज्ञ हविष्येण विशेषतः ॥ ७॥
श्रीसूक्तेन तु पद्मानां घृताक्तानां भृगूत्तम ।
अयुतं होमयेद्यस्तु वह्नौ भक्तियुतो नरः ॥ ८॥
पद्महस्ता च सा देवी तं नरं तूपतिष्टति ।
दशायुतं तु पद्मानां जुहुयाद्यस्तथा जले ॥ ९॥
नापैति तत्कुलाल्लक्ष्मीः विष्णोर्वक्षगता यथा ।
घृताक्तानान्तु बिल्वानां हुत्वा रामायुतं तथा ॥ १०॥
बहुवित्तमवाप्नोति स यावन्मनसेच्छति ।
बिल्वानां लक्षहोमेन कुले लक्ष्मीमुपाश्नुते ॥ ११॥
पद्मानामथ बिल्वानां कोटिहोमं समाचरेत् ।
श्रद्दधानः समाप्नोति देवेन्द्रत्वमपि ध्रुवम् ॥ १२॥
संपूज्य देवीं वरदां यथावत् पद्मैस्सितैर्वा कुसुमैस्तथान्यैः ।
क्षीरेण धूपैः परमान्नभक्ष्यैः लक्ष्मीमवाप्नोति विधानतश्च ॥ १३॥
इति श्री विष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे
रामं प्रति पुष्करोपाख्याने श्रीसूक्तमहात्म्यकथनं नाम
अष्टाविंशत्युत्तर शततमोऽध्यायः ॥
 

Search

Search here.