श्रीसूर्याष्टकम्

स्तोत्र - मंत्र  > नवग्रह स्तोत्र Posted at 2016-02-10 10:20:28
श्रीसूर्याष्टकम् आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥ सप्ताश्वरथमारूढं प्रचण्डं कश्यपमात्मजम् । श्वेत पद्मधरं देवं तं सूर्य प्रणमाम्यहम ॥ लोहितं रथमारूढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्य प्रणमाम्यहम्॥ त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वम् । महापापहरं देवं तं सूर्य प्रणमाम्यहम् ॥ बश्हितं तेजर्पुद्बजं च वायुमाकाशमेव च । प्रभुं च सर्व लोकानां तं सूर्य प्रणमाम्यहम् ॥ बंधुक पुष्पसंकाशं हारकुण्डलभूषितम् । एकचधरं देवं तं सूर्य प्रणमाम्यहम् ॥ तं सूर्य जगत्कर्तारं महातेज: प्रदीपनम् । महापापहरं देवं तं सूर्य प्रणमाम्यहम् ॥ तं सूर्य जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सूर्य प्रणमाम्यहम् ॥ ॥इति श्री शिवप्रोक्तं सूर्याष्टकं सम्पूर्णम्॥

Search

Search here.