योग यात्रा

ग्रंथालय  > ज्योतिष Posted at 2016-03-13 12:21:13
१.१ यश्चक्षुर्जगतः सहस्रकरबद्धाम्नां च धामाऽर्कवन् १.१ मोक्षद्वारमपावृत्तं च रविवद्ध्वान्तान्तकृत्सूर्यवत् । १.१ आत्मा सर्वशरीरिणां सवितृवत्तिमांशुवत्कालकृत् १.१ साध्वीं नः स गिरं करोतु सविता योऽअन्यैरतुल्योपमः॥ १.२ वक्ष्यामि भूपमधिकृत्य गुणोपपन्नं १.२ विज्ञातजन्मसमयं प्रविभ्क्तभाग्यम्। १.२ अज्ञातसूतिमथवाऽविदितैष्य भाग्यं १.२ सामुद्रयात्रिकनिमित्तशतैः पृथूक्तैः॥ १.३ कर्मऽन्यजन्मजनितं[K.न्यजन्मनि कृतं] सदसच्च दैवं १.३ तत्केवलं भवति जन्मनि सत्कुलाद्य् १.३ बाल्यात्परं विनयसौष्ठवपात्रता च[K.ऽपि] १.३ पुंदैवजा कृषिवदित्युपपाद्यमेतत्[K.अत उद्यमेत]॥ १.४ सामन्तकालयसु[K.वसु]धोद्यममन्त्रभृत्यैर् १.४ दैवेन चेति कृषिवन्नृपतेः फलाप्तिः। १.४ स्याच्छिद्रमेकमपि चेत्तत एव सर्वं १.४ नाशं प्रयाति हि दृतेः स्रवणाद्[K.दृतेश्चरणाद्] इवऽम्भः॥ १.५ ग्रहर्क्षतिथ्युद्गमराशिहोरा १.५ द्रेष्काणभागाद्यनुकूलमात्रम्। १.५ भवेद्यियासोर्यदि सिद्धिहेतुः १.५ स्वयं भवेद्दैवविदेव राजा॥ १.६ मन्त्राभिषेकमणिबन्धनशान्तिकर्म १.६ होमोपवाससुरयागजपादिमात्रम्। १.६ स्यात्सिद्धिहेतुरथ चेद्विजगीआअतो[K.विजिगीषतो]ऽरीण् १.६ कस्मात्तदा नरपतिर्न भवेत्पुरोधाः॥ १.७ बुधार्थशास्त्राण्य्[K.बुद्ध्वाऽर्थशास्त्राण्य्] अपि मन्त्रिणोऽपि १.७ कुयुः प्रणामं न नरेश्वराणाम्। १.७ यद्याभिजात्यद्विपवाजिपत्ति १.७ कोशाद्यपेक्षा न भवेत्प्रधाना॥ १.८ स्वदेशे सन्तुष्टः करितुरगकोशे सति न यो १.८ भवेद्यायी सैन्धैः[K.सोऽन्यैः] कृतपरिभवो याति विलयम्। १.८ स्वचक्रेणैवऽसौ क्षपितधनराष्ट्रो भवति वा। १.८ गतो यो नादत्ते[K.ऽन्यानादत्ते] सुनयचरितो नीतिविधूरान्॥ १.९ उलूकस्य ध्वांक्षो निशि वलिभुजां सोऽह्नि वशगः १.९ स्थले नक्रं सिंहो मृगपमुद्के हन्ति जलजः। १.९ अबुध्या यः कालं व्रजति नृपतिर्देशमथवा[K.ओमित्तेद्] १.९ हते दर्पे वाक्यं स्मरति विदुषां सोऽरिवशगः॥[K.थिस्ल्लिने ओमित्तेद्] १.१० रिपोः कृत्वाऽवज्ञां जितमिति विदित्वा मदबलान् १.१० न यत्नो हातव्यः शिखिविषसमोऽल्पोऽपि हि रिपुः। १.१० प्रमत्तोऽद्रेः कुञ्जादयुतबलभागैरपि नरैर् १.१० हतो बद्धस्तम्भे कखति[K.बद्धः स्तम्भेकषति] मदलेखां द्विपपतिः॥ १.११ वप्रप्राकारयन्त्रप्रहरणपरिखातोय*मेयेन्धनाढ्यं[K.धान्येन्धनाढ्यं १.११ दुर्गं कृत्वाऽऽत्मगुपतं[K.ऽऽत्मगुल्म] द्विपतुरगभिषक्शिल्पिविप्राभ्युपेतम्। १.११ लुब्धत्रस्ताभिमानिप्रकुपितकुभृतां ज्ञातशीलैर्विहीनं १.११ कृत्वा शूराप्तसंस्थं परविषयमियाच्छुद्धपार्ष्णिर्नरेन्द्रः॥ १.१२ बुध्वा शक्तिं स्वपरबलयोः साममेकप्रदानैः[K.सामभेकप्रदानैः] १.१२ कृत्वोपायैर्व्यसनसमरोपायसंरक्षणैश्[K.गमनसमरोपायसंसर्पणैश्] च् १.१२ भक्त्या[K.साम्ना] साधून् धनविरहितानर्थलुब्धांश्च दानैर् १.१२ नेयाद्[K.भेद्यान्] भेदैस्त्रिभिरपि न ये साधयेत्तांश्च दण्डैः॥ १.१३ साम्नो जीवः सभृगुतनयो दण्डनाथौ कुजार्कौ १.१३ दानस्येन्दुः शिखियमबुधाः सासुरा भेदनाथाः। १.१३ वीर्योपेतैरुपचयकरैर्लग्नगैर्वीर्यगैर्[K.केन्द्रगैर्] वा १.१३ तत्तत्सिद्धिं व्रजति तदहःस्वांशकैर्[K.अंशके] वापि तेषां॥ १.१४ षाड्गुण्ये सन्धिरादौ परिपणरचितो विग्रहोऽस्यापकारी[K.ऽस्यपाकारो] १.१४ नैतौ चेदासनं तत्परपुरगमनं सर्वसैनेय्न यानम्। १.१४ सैन्यार्द्धेनाभियुक्ते परपुरमपि यत्तद्द्विधायानमुक्तं १.१४ संश्लेषोऽन्यत्र यः स्यात्स खलु निगदितः संश्रयोऽन्यो[K.ऽन्त्यो] गुणानम्॥ १.१५ मध्याह्नेऽर्कस्तुहिनकिरणो नित्यमाक्रन्दसंज्ञः १.१५ पौरः पूर्वे भवति दिनकृद्यायिसंज्ञोऽन्त्यसंस्थाः[K.ऽन्त्यसंस्थः]। १.१५ जीवः सौरिस्[K.सौरस्] तुहिनकिरणास्यात्मजश्चेति पौराः १.१५ केतुर्यायी सभृगुजकुजः सिद्धिकानन्दनश्च् । १.१६ यानं यायिभिरासनं शुभकरैर्वीर्यान्वितैर्नागरैर् १.१६ द्वैधीभावमियाद्यदा शुभकराः पौराः सयायिग्रहाः। १.१६ सौम्यैः सन्धिरसद्ग्रहैश्च बलिभिर्युद्धेऽनुकूलैर्जयः १.१६ सर्वैरप्यशुभप्रदैर्नरपतिर्दैवाम्बितं संश्रयेत् ॥ १.१७ कोशो हि राज्यतरुमूलमतोऽस्य शाखाः १.१७ पक्षी विपक्ष इव किं निधनः[K.विधनं] करोति। १.१७ अन्नादिवेन्द्रियगणो वसुतस्तथाऽन्नं १.१७ तत्प्राप्तिरक्षणविवृद्धिषु यत्नवान् स्यात् ॥ १.१८ नीचाचिराढ्यनृपवल्लभतस्करेभ्यो १.१८ राष्ट्रं नृपेण परिरक्ष्यमतोऽस्य कोशः। १.१८ काले करप्रणयनं च यथोचितानां १.१८ तन्[K.तं] नार्थयेद्भवति येन जनापवादः॥ १.१९ यात्रा नृपस्य शरदीष्टफला मधौ च १.१९ छिद्रे रिपोर्न नियमोऽस्ति[K.ऽत्र] च केचिदाहुः। १.१९ छिद्रेऽप्यरेर्भवति दैवयुतस्य सिद्धिः १.१९ सामान्यमामिषमिदं प्रतिभूमिपानाम्॥ १.२० शत्रोर्वधाय सचिवं शुभदैवयुक्तम् १.२० आज्ञापयेन्नृपतिरात्मनि दैवहीन् १.२० जह्यान्न चार्थमति[K.अपि] दैवपरोऽपि भूत्वा १.२० दृष्टे द्विपे द्विपपदानुसृतिः किमर्थम्॥ १.२१ कालोऽभ्युपैति सकृदेव नरं कथंचित् १.२१ प्राप्नोति तन्न समयं[K.स पुनः] खलु कालकांक्सी। १.२१ कालेन गोचरगताननपेक्ष्य भक्ष्यान् १.२१ मन्दक्रमोऽप्यजगरः समुपैति सिद्धिम्॥ १.२२ दुर्गस्थितं फलमपक्वमनल्पयत्नात्[K.अनल्पयत्नं] १.२२ संसिद्धिमप्युपकरोति गुणं न पुंसाम्। १.२२ साधारणं स्वपतितं च भवेद्यतोऽतः १.२२ कालेऽभियुक्तपतितं रसवत्सुखाय् ।E२२ २.१ रक्तासिताद्या हि यथाम्बरस्य वर्णाः सितस्यैष भवन्ति सम्यक् । २.१ विलग्नतिथ्यादिगुणास्तथैव विशुद्धदोषस्य भवन्ति यातुः॥ २.२ मद्याङ्गनावादितनृत्यगीतान्यक्षा वृथाद्या[K.वृथाट्या] मृगया द्युनिद्रा। २.२ परोक्षनिन्देति च कामजानि दशैव विन्द्याद्[K.विद्याद्] व्यसनानि पुंसाम्॥ २.३ वाक्पारुष्यं दण्डपारुष्यमीर्ष्यां[K.ईर्ष्या] द्रोहोऽसूया पैशुनं साहसञ्च् २.३ अर्थस्योक्तं दूषणं चऽष्टसंख्यः क्रोधोद्भूतो वर्ग एष प्रदिष्टः। २.४ महदिदमनयानामास्पदं मद्यमाहुस्तनुधनमतिसत्त्वश्रेयसां कर्षणाय् २.४ समुपहतमतिः सन्[K.संस्] तत्प्रधानेन्द्रियत्वाद्गणयति न हि भक्ष्याभक्ष्यमन्यानि चैवम्॥ २.५ पत्नीयत्यपि मातरं मदवशात्पत्नीं च मात्रीयति २.५ श्वभ्रीयत्यपि मन्दिरं श्लथशिलं कूपं च गेहीयति। २.५ स्वल्पं वार्युदधीयतीश्वरमपां मोहात्स्थलीयत्यपि २.५ मित्रीयत्यपि पार्थिवं किमपरं कुर्यान्न यन्मद्यपः॥ २.६ भूयोऽपि दीव्यति जितो जयलिप्सयैव प्राप्नोति तच्च सविशेषतरं कदाचित् । २.६ कृत्वाऽप्रियाणि मदतः परितोऽप्यटन्ति[K.परितप्य चान्ते] भूयः[K.भूपः] पिवेत्किमपि दोषविशेषकांक्षी॥ २.७ अभ्यागमोत्सवभिषग्वचनोपदेशैः कामं पिबेदमतिलोपकृदप्रकाशम्[K.आप्रकामम्]। २.७ द्यूतं विनेन्द्रियसुखानि हितानि युक्त्या विज्ञस्य[K.शून्यं हि] जीवितफलं विषयैर्विना किम्॥ २.८ शौचाचारविवर्जितः शव इव त्यक्तः सुहृद्बान्धवैर् २.८ निश्शङ्को निरपत्रपो गतघृणः कृच्छ्रादवाप्ताशनः। २.८ बन्धुर्नास्य निबन्धनं न शपथो लोकद्वयं नेक्ष्यते २.८ मायावी कुलपांशलश्च कितवो दोषाकरो[K.दोषार्णवो] निःसुखः॥ २.९ दैवज्ञमन्त्रिसुहृदाप्तवचांसि राजा यो नऽऽद्रियेन्निजविचेष्टितदुष्टबुद्धिः[K.द्रियेत्स्वमतिचेष्टितदुष्टबुद्धिः]। २.९ सोऽग्रेमरेण[K.सन्नायकेन] रहितोऽन्ध इवऽचिरेण हास्यत्वमेति पतितो विषये रिपूणाम्॥ २.१० मेधावी मतिमानदीनवचनो दक्षः क्षमावानृजुर् २.१० धर्मात्माप्य्[K.धर्मात्मा त्व्] अनसूयको लघुकरः षाड्गुण्यविच्छक्तिमान्। २.१० उत्साही पररन्ध्रवित्कृतधृतिर्वृद्धिक्षयस्थानवित् २.१० शूरो न व्यसनी स्मरत्युपकृतिं[K.उपकृतं] वृद्धोपसेवी च यः॥ २.११ परीक्ष्यकारी न विकस्थनश्[K.विकत्थनश्] च दृढपतिज्ञोऽतिदृढपहारी। २.११ जितेन्द्रियः स्याज्जितकोपलोभनिद्रालसस्थानपरिग्रहश्च् । २.१२ त्यागी विनीतः प्रियदर्शनश्च व्यपेतमोहः प्रतिपत्तियुक्तः। २.१२ देशस्य कालस्य च भागविज्ञः[K.भागविद्यः] स्वयं च यः स्याद्व्यवहारदर्शी॥ २.१३ शब्दार्थविन्न्यायापटुः प्रगल्भः संग्रामविद्याकुशलोऽभिजातः। २.१३ स्मिताभिभाषी मितसत्यवक्ता दैवान्वितो यस्य[K.यश्च] स धाम लक्ष्म्याः॥ २.१४ गुणैः समस्तैरपि संप्रयुक्ता कन्येव यात्रा विगुणाय दत्ता। २.१४ करोत्यकीर्तिं सुखवित्तहानिं[K.सुखवित्तहीनां] यात्रान्तरज्ञानजडस्य[K.पात्रान्तरज्ञानजडस्य] दातुः। २.१५ गुणान्वितस्यैव गुणं करोति यात्रा शुभर्क्षग्रहलग्नयोगात् । २.१५ व्यर्था सदोषस्य गुणान्विताऽपि वीणेव शब्दाश्रयवर्जितस्य् । २.१६ यात्रा विशुद्धाऽपि समं प्रवृत्ता पात्रानुरूपाणि फलानि धत्त् २.१६ जगत्युदीर्णाऽपि हि कौशिकस्य भा भानवी नैव तमः प्रमार्ष्टि॥ २.१७ विचिन्त्य कार्याणि निशावसाने द्विषत्सुहृन्मण्डलसंश्रितानाम्। २.१७ बलार्थदेशेषु नियोजितानां समाश्रितानां च कृताकृतानि॥ २.१८ अनाद्श्रितः ख्यातगुणः परोऽपि शूरोऽथवा साधुजनः प्रशस्तः। २.१८ सम्पूजनीयो जनसंप्रहार्थं ममेति देशोपगतो विचिन्त्य् । २.१९ सवेणुबीणापणवस्वनेन गीतेन पूर्वं व्यपनीतनिद्रः। २.१९ शय्यां त्यजेत्तूर्यरवावसाने शृण्वन् गिरो मङ्गलपाठकानाम्॥ २.२० अज्ञातपूर्वाणि न दन्तकाष्ठान्यद्यान्न पत्रैश्च समन्वितानि। २.२० न चोर्ध्वशुष्कानि[K.युग्मपर्वाणि] न पाटितानि न युग्मपर्वाणि[K.चोर्ध्वशुष्कानि] विना त्वचा च् । २.२१ उदङ्मुखः प्राङ्मुखसंस्थितो वा ऋज्वब्रणं तच्च वितस्तिमात्रम्। २.२१ अद्यान्नरेन्द्रो विनियम्य[K.विनिगृह्या] वाचं प्रक्षाल्य जह्याच्च शुभप्रदेशे[K.शुचौ प्रदेशे]॥ २.२२ अभिमुखपतितं प्रशान्तदिक्स्थं शुभमतिशोभनमूर्ध्वसंस्थितं च् २.२२ अशुभकरमतोऽन्यथा प्रदिष्टं स्थितपतितं च करोति मिष्टम्[K.मृष्टम्] अन्नम्॥ २.२३ प्रणम्य देवांश्च गुरूंश्[K.देवाण्स्वगुरूंश्च] पूर्वं दत्वा च गां वत्सयुतां द्विजाय् २.२३ दृष्ट्वा मुखं सर्पिषि दर्पणे च नक्षत्रमादौ शृणुयात्तिथिं च् । २.२४ श्रुत्वा तिथिं भग्रहवासरं[K.भं ग्रहवासरं] च प्राप्नोति धर्मार्थयशांसि सौख्यम्। २.२४ आरोग्यमायुर्विजयं सुतांश्च दुःस्वप्नजातं[K.दुःस्वप्नघातं] प्रियतां च लोक् । २.२५ दूर्वेभदानाञ्जनतीर्थतोयमृद्रोचनासर्षपपुष्पगन्धान्। २.२५ सिताम्बरोष्णीषसुवणरत्नान्यासेव्य कुर्याद्भिषजां वचांसि॥ २.२६ स्मितप्रसन्नप्रथमाभिभाषितैः प्रसाददृष्ट्या करसंपरिग्रहैः। २.२६ यथाभिरूपं[K.यथानूपं] हृदयान्यपि द्विषां प्रसादयन् धर्मसभां समाश्रयेत् ॥ २.२७ विनीतवेषाभरणः सदक्षिणं[K.विनीतवेषाभरणश्च दक्षिणं] कर[K.करं] समुद्यम्य विचक्षणान्वितः। २.२७ सुखोपविष्टः स्थित एव वा नृपः समारिमित्रो व्यवहारदर्शन् । २.२८ क्षमान्वितोऽस्मीति विचिन्त्यमेतद्दण्ड्येषु दण्डक्षमणं न धर्मः। २.२८ दण्डप्रभोआवो हि स दुर्जनस्य हस्ते न यो जीवति साधुवर्गः॥ २.२९ सुतरामभिवर्द्धतेऽभिमानो नीचानां क्षमयाऽन्वितेषु यस्मात् । २.२९ अत उग्रतरेण ते निवर्त्त्या येनऽन्येऽपि खलास्तथा न भूयः॥ २.३० यस्मिन् गृहीतः[K.गृहीते] सदृशापराधो महाजनस्त्रासमुपैति तस्मिन्। २.३० दण्डो निपात्यो मनुजेश्वरेन कालान्तरेऽन्यद्व्यपदिश्य कार्यम्॥ २.३१ द्विरद इव मदेन विप्रयुक्तो विषरहितो भुजगो व्यसिश्च कोशः। २.३१ परिभवमुपयाति नऽपराधे यदि मनुजाधिपतिः करोति दण्डम्॥ २.३२ एकस्य तुल्योदरपाणिपादा दण्डात्प्रभीताः[K.दण्डस्य भीताः] प्रणमन्ति मर्त्याः। २.३२ अत्युग्रदण्डादपि चोद्विजन्ते दण्डोऽपराधप्रतिमः शिवाय् । २.३३ दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः। २.३३ अपक्षपातोऽर्थिषु राष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम्॥ २.३४ श्रान्तश्च तस्मिन् विनियुज्य साधून् संग्रामविद्यादिविभक्तकालः। २.३४ सर्वाणि कार्याणि यथाक्रमेण कुर्यान्नृपः प्रत्यहमात्मवांश्च् । २.३५ राज्ञा कार्यं पञ्चमे पञ्चमेऽह्नि क्षौरर्क्षे वा श्मश्रु भस्योदये[K.तस्योदये] वा। २.३५ त्यक्त्वा ताराः पञ्चसप्तत्रिपूर्वा[K.सप्तपञ्चत्रिपूर्वा] यात्राकाले नैव कार्यं न युद्ध् । २.३६ आचारस्थः सागरान्तां धरित्रीं भुङ्क्ते दीर्धं कालमुत्खातशत्रुः। २.३६ यत्राऽऽचारस्तत्र धर्मस्य वृद्धिर्धर्माद्भोगान् देहभेदेऽपि भुङ्क्त् ।E३६ ३.१ अभिहितगुणसंयुतेन राज्ञा कथितगुणात्ययसंस्थितोऽभियोज्यः। ३.१ उपहतमुपलभ्य चास्य देशं बलमथवा निरुपद्रुतोऽभियुञ्ज्यात् ॥ ३.२ प्रचुरमशकयूकं मक्षिकादम्शपूर्वं बलमजलदवृष्ट्या पांशुवाताहतं वा[K.पांशुपाताहतं च]। ३.२ पिशितरुधिरधान्यप्राणिवृष्ट्या हतं वा[K. च] करितुरगमनुष्या यत्र वाध्या न दीनाः[K.च ध्यानदीनाः]॥ ३.३ शब्दायन्ते मुहुरपि शिवा गर्दभध्वानतुल्यं ३.३ त्यक्तस्नेहाः परिजनसुहृद्वाहनोपस्करेषु। ३.३ कष्टं को नः शरणमिति वा वादिनो यस्य सैन्ये ३.३ विद्विष्टा वा प्रवरपुरुषाः सोऽभियोज्यो नृपेण् । ३.४ निरालस्यावनतवदनाः केतनस्वप्नशीला ३.४ भ्रष्टाचारा मलिनपुरुषच्छाययाऽऽक्रान्तदेहाः। ३.४ दीर्घश्वासाः सजलनयनाः शोकलोभाभिभूताः ३.४ सैन्ये यस्य द्विजगुरुसुहृद्द्वेषिणश्चैव योधाः॥ ३.५ अकारणप्रोद्गतरोमकूपा जये निराशाः प्रकृतेरपेताः। ३.५ अमङ्गलाचेष्टितजातहासाः सैन्ये नरा यस्य स चाभियोज्यः॥ ३.६ कपोतकोलूकमधूनि यस्य समाश्रयन्ते ध्वजचामराणि। ३.६ छत्रायुधादीनि[K.छत्रायुधाद्यानि] च सोऽभियोज्यो यस्याथवाऽस्यजलाशयानाम्[K.ऽनाहततूर्यशब्दाः]। ३.७ प्रतीपगत्वं सरितामिषोश्च शोषोऽथवाऽशोष्यजलाशयानाम्। ३.७ अवारिदेशे सलिलप्रवृतिरहैतुकं[K.अवैकृते] चाप्सु तरेच्छिला वा॥ ३.८ भङ्गपातचलनान्यनिमित्तं रोदनानि च सुरप्रतिमानाम्। ३.८ अग्निरूपमनिलेन विना वा निश्चलानि च यदा प्रचलन्ति॥ ३.९ प्रसूतिवैकृत्यमकालपुष्पाण्यारण्यसत्त्वस्य पुरप्रवेशः। ३.९ प्रदोषकाले कृकवाकुशब्दा हिमागमे चऽन्यभृतः प्रलापाः[K.ऽन्यभृतप्रलापाः]॥ ३.१० दीर्घं दीनं संहताः सारमेयाः क्रोशन्त्युच्चैर्नित्यमेवऽनृतौ च् ३.१० हन्युर्योषा योषितो निर्घृणाश्च दृष्यं नित्यं[K.श्वेतः काको] नक्तमिद्रायुधं वा[K.च]॥ ३.११ तिला वितैला यदि वाऽर्द्धतैला[K.र्द्धतैलाः] सस्यस्य वृद्धिर्यदि वाऽतिरिक्ता। ३.११ अन्नस्य वैरस्यमसृक्तरूणां शुष्कप्ररोहो विरुजां प्रणाशः॥ ३.१२ विहाय सर्पाखुविडालमत्स्यान् स्वजातिमांसान्युपभुञ्जते वा। ३.१२ व्रजन्ति वा मैथुनमन्यजात्यां दीप्ताश्च नित्यं विहगा मृगाश्च् । ३.१३ भङ्गः पातस्तोरणेन्द्रध्वजानां शीतोष्मानां व्यत्ययो भूविदारः। ३.१३ निम्नोच्चानां तुङ्गता निम्नता च[K.वा] छाया चा[K.वा]ऽर्कस्यऽऽभिमुख्येन याता॥ ३.१४ त्र्यहातिरिक्तः पवनोऽतिचण्डो गन्धर्वसंज्ञस्य भवेत्पुरस्य् ३.१४ व्यक्तिर्भवेच्चऽहनि तारकाणां नक्तं च तारागणसंप्रणाशः॥ ३.१५ प्रासादवेश्मवसुधाशरगुल्मनिम्नेष्वावासका बलिभुजामनपत्यता वा। ३.१५ एकाण्डजत्वम्[K.एकात्मजत्वम्] अथवा भुवि मण्डलानि कुर्वन्ति चक्रकमिवोपरि वा भ्रमन्तः॥ ३.१६ उल्काऽभिघातेन तमोऽतिदीप्त्या वक्रातिवक्रेन सुतो धरित्र्याः। ३.१६ केतुर्गतिस्पर्शन -- धूपनेन चारेण पीडां कुरुतेऽर्कपुत्रः॥ ३.१७ त्रिभिस्त्रिभिर्भैरथ कृत्तिकाद्यैर्निपीडितैर्[K.निष्पीडितैर्] भूपतयोऽभियोज्याः। ३.१७ पाञ्चालनाथो मगधाधिपश्च कलिङ्गराडुज्जयिनीपतिश्च् । ३.१८ आनर्त्तराट्सैन्धवहारहोरौ[K.सैन्धवहारहौरौ] मद्रेश्वरोऽन्यश्च कुरङ्गनाथः[K.कुलिन्दनाथः]। ३.१८ एते हि कूर्माङ्गसमाश्रितानां विशेषपीडामुपयान्ति भूपाः॥ ३.१९ अङ्गेषु सूर्यो यवनेषु चन्द्रो भौमो ह्यवन्त्यां मगधेषु सौम्यः। ३.१९ सिन्धौ गुरुर्भोजकटे च[K.भोजकटेषु] शुक्रः सौरः सुराष्ट्रे विषये बभूव् । ३.२० म्लेच्छेषु केतुश्च तमः कलिङ्गे यातो[K.जातो] यतोऽतः परिपीडयन्ति[K.परिपिडितास्ते]। ३.२० स्वजन्मदेशान् परिपीडयन्ति ततो[K.तेऽतो]ऽभियोज्या क्षितिपेन देशाः॥ ३.२१ सम्पूज्यन्ते भैरवोच्चानुनादै[K.भैरवोच्चानुरावै] रक्तैर्मांसैस्तालजङ्घादयो वा। ३.२१ दृश्यन्ते वा यातुधानाः प्रभूता भ्रष्टश्रीकः सोऽपि देशोऽभियोज्यः॥ ३.२२ देशभ्रंशो यैर्निमित्तैः प्रदिष्टस्तास्ता वार्त्ता वक्ति लोके विशङ्कः। ३.२२ त्यक्त्वा देशं यान्ति यं भिक्षुका वा गम्यो देशो सोऽप्यसाधुप्रवृत्तः॥ ३.२३ रोगाभिभूतं विषदूषितं वा यथा विनाशाभिमुखं शरीरम्। ३.२३ वैद्यः प्रयोगैः सुदृढं करोति राष्ट्रं तथा शान्तिभिरग्रजन्मा॥E२३ ४.१ देहः कोशो योद्धा वाह्यं मन्त्रः शत्रुर्मार्गोऽप्यायुः। ४.१ चित्तं कर्म प्राप्तिर्मन्त्री प्राग्लग्नाद्या भावाश्चिन्त्याः॥ ४.२ त्रिलाभवर्जं रविसौरिभौमा[K.रविसौरभौमा] निघ्नन्ति नो कर्मणि सूर्यभौमौ[K.सूर्यभौमाः]। ४.२ पुष्णन्ति सौम्या रिपुराशिवर्ज्यमस्तं[K.रिपुराशिवर्जं नऽस्तं] भृगुर्मृत्युविलग्नमिन्दुः॥ ४.३ तिथ्युद्गमेन्दुकरणर्क्षदिनक्षणेषु शुद्धेष्व्[K.पापेष्व्] अभीष्टफलदा नृपतेर्यथा स्यात् । ४.३ यात्रा तथा परमिदं कथयामि गुह्यं शिष्याय नैऽतदचिराध्युषिताय दद्यात् ॥ ४.४ योगैः क्षितिपा विनिर्गताः शकुनैस्तस्करचारणादयः। ४.४ नक्षत्रबलैर्[K.नक्षत्रगुणैर्] द्विजातयः क्षणवीर्यादितरो जनोऽर्थभाक् ॥ ४.५ यद्यद्योगवशाद्व्रजत्यगदतां द्रव्यैर्विषं योजितम् ४.५ संयुक्तं मधुना घृतं च विषतां गच्छेद्[K.गच्छद्] यथा दृश्यत् ४.५ तद्वद्योगसमुद्भवं प्रकुरुते हित्वा ग्रहः स्वं फलं ४.५ यस्मात्तेन समुद्यतोऽस्मि गदितुं योगान् विचित्रानिमान्॥ ४.६ लग्ने गुरुर्बुधभृगू हिबुकात्मजस्थौ षष्ठौ कुजार्कतनयौ दिनकृत्तृतीयः। ४.६ चन्द्रश्च यस्य दशमो भवति प्रयाणे तस्यऽभिवाञ्छितफलाप्तिरलं नृपस्य् । ४.७ होरातृतीयरिपुलाभगतैः क्रमेण जीवार्किभौमरविभिर्भृगुजेऽनुकूल् ४.७ यातोऽतिदृप्तमपि शत्रुबलं निहन्ति नैशं तमिस्रमिव तिग्ममयूखकाली[K.अयूखमाली]॥ ४.८ उदयारिनभः स्थलगैर्[K.उदयारिनभस्थलगैर्] दिनकृद्यमशीतकरैः। ४.८ न भवन्त्यरयोऽभिमुखा हरिणा इव केशरिणः॥ ४.९ गुरुरुदये रिपुराशिगतोऽर्को यदि निधने न च[K.च न] शीतमयूखः। ४.९ भवति गतोऽत्र शशीऽव नरेन्द्रो रिपुवनिताननतामरसानाम्॥ ४.१० शुकवाक्पतिबुधैर्धनसंस्थैः सप्तमे शशिनि लग्नगतेऽर्क् ४.१० निर्गतो नृपतिरेति कृतार्थो वैनतेयवदहिं[K.अरीन्] विनिगृह्य् । ४.११ मूर्त्तिवित्तसहजेषु संस्थिताः शुक्रचन्द्रसुततिग्मरश्मयः। ४.११ यस्य यानसमये रणानले तस्य यान्ति शलभा इवऽरयः॥ ४.१२ सूर्येन्दू वलवर्जितौ वलयुतौ जन्मेशलग्नेश्वरौ ४.१२ पाताले दशमेऽपि वा शशिसुतो लग्नस्थितो वाक्पतिः। ४.१२ षट्सप्ताष्टमवर्जितेषु भृगुजः स्थानेषु यस्य स्थितो ४.१२ यातुस्तस्य न विद्विषो रणमुखे तिष्ठन्ति योषा इव् । ४.१३ सौरे भौमे[K.वा] लग्नगेऽर्फे[K.ऽर्के] खमध्ये कर्मण्याये[K.वा] भार्गवे चन्द्रजे च् ४.१३ यायाद्भूपः[K.भूपालः] शत्रुदेशं निहन्तुं दृप्तं शत्रुं[K.वा] कालवत्[K.कालयत्] क्रूरचेष्टः॥ ४.१४ लाभशत्रुसहजेषु यमारौ सौम्यशुक्रगुरवो बलयुक्ताः। ४.१४ गच्छतो यदि ततोऽस्य धरित्री सागराम्बुरसना वशमेति॥ ४.१५ पापास्तृतीये हिबुके ? जीवो बिलग्ने शशलाञ्छनोऽस्त् ४.१५ यस्योद्यमे तस्य बलं रिपूणां कृतं कृतघ्नेस्विव यात्नाशम्॥ ४.१६ चन्द्रेऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगेऽर्क् ४.१६ सौरारयोर्भ्रातृगयोश्च यातो नृपः स्वभृत्यानिव शास्ति शत्रून्॥ ४.१७ गुरौ विलग्ने यदि वा शशाङ्के षष्ठे रवौ कर्मगतेऽर्कपुत्र् ४.१७ सितज्ञयोर्बन्धुसुतस्थयोश्च यात्रा जनित्रीऽव हितानि धत्त् । ४.१८ पत्यौ गिरां लग्नगतेऽवशेषैरेकादशार्थोपगतैर्यियासोः। ४.१८ विदार्यते शत्रुबलं समन्ताद्धर्मो यथा हेतुशतैर्युगान्त् । ४.१९ त्रिषण्णवान्त्येष्वबलः शशाङ्कश्चान्द्रिर्बली यस्य गुरुश्च केन्द्र् ४.१९ तस्यऽरियोषाभरणैः प्रियाणि प्रियाः प्रियाणां जनयन्ति सैन्य् । ४.२० केन्द्रोपगतेन वीक्षिते गुरुणा त्रयायचतुर्थगे सित् ४.२० पापैरनवाष्टसप्तमैर्[K.अनवाष्टसप्तगैर्] वसु किं तन्न यदाप्नुयाद्गतः॥ ४.२१ लग्नारिकर्महिबुकेषु शुभेक्षिते ज्ञे द्यूनान्त्यलग्नरहितेष्वशुभग्रहेषु। ४.२१ यातुर्भयं न भवति प्रतरेत्समुद्रं यद्यश्मना[K.ऽपि] किमुत शत्रुसमागमेषु[K.उतऽरिसमागमेषु]॥ ४.२२ यस्योऽदयास्तारिचतुस्त्रिसंस्थाः शुक्राङ्गिरोऽङ्गारक --- सौम्यसौराः। ४.२२ द्विषद्बलस्त्रीवदनानि तस्य क्लान्तानि कान्तानवलोकयन्ति॥ ४.२३ पूर्वोक्तयोगे धनगो बुधश्चेच्छशाङ्कसूर्यौ च दशायसंस्थौ। ४.२३ अस्मिन् गतस्यऽलिकुलोपगीता नानावनोत्था द्विरदा भवन्ति॥ ४.२४ सूर्यादयोऽरिसहजाम्बरशत्रुलग्नबन्ध्वायगाः सुरगुरोर्दिवसश्च[K.दिवसोऽपि] यस्य् ४.२४ यानेऽरिसैन्यमुपगच्छति तस्य नाशं म मांसकश्रवणकेष्व्[K.मीमांसकश्रवणकेष्व्] इव तीर्थपुण्यम्॥ ४.२५ त्रिनिधनतनुसप्तमारिसंस्थाः कुजसितजीवबुधा रविश्च यस्य् ४.२५ खलजनजनितेऽव लोकयात्रा न भवति यस्य चिराय शत्रुसेना॥ ४.२६ कुजरविजयुतेऽरिभे[K.ऽतिभे] गतानां सुखसहजोपगतिः सितार्कजीवैः। ४.२६ रिपुबलम्[K.परबलम्] उपयाति नाशमाशु श्रुतमधनस्य कुटुम्बचिन्तयैव[K.कुटुम्बचिन्तयेऽव]॥ ४.२७ लग्नत्रिधर्मारिदशायगेषु सितार्किजीवेन्दुकुजेन्दुजेषु। ४.२७ सार्के बुधे चऽरिबलं विनाशमायाति गुह्यं पिशुनेष्विवोऽक्तम्॥ ४.२८ एकान्तरर्क्षे भृगुजात्कुजाद्वा सौम्ये स्थिते सूर्यसुताद्गुरोर्वा। ४.२८ प्रध्वस्यते[K.प्रध्वंसते]ऽरिर्न चिराद्गतस्य वेषाधिको भृत्य इवेऽऽश्वरस्य् । ४.२९ [K.३० ]।.एकान्तरा यदि गता भवेनेषु षट्सु पृष्ठस्थितस्य[K.पृष्ठस्थितश्च] सुरशत्रुगुरोः[K.सुरशत्रुगुरुः] प्रयाण् ४.२९ [K.३० ]।.यातस्य नात्र रिपवो प्रहसन्ति वीर्यं विष्णोरिवोद्धृतगदारथवादपाणेः॥ ४.३० निरन्तरं यदि भवनेषु पञ्चसु ग्रहाः स्थिता दिवसकरेण वर्जिताः। ४.३० यियासतोर्[K.यियासतो] यदि च भवन्ति पृष्ठतस्तदा परान् बलभिदिवऽवकृन्तति॥ ४.३१ बृगुपुत्रमहेन्द्रगुरू गमने सहितौ यदि भं युगपत्त्यजतः। ४.३१ ज्ञगुरू यदि वाऽंशकमेकगतौ[K.एकमितौ] समरे सुरराड्[K.अमरराड्] इव भाति तदा॥ ४.३२ निस्त्रिंशवक्रोपगते च वक्रे वक्रेण वक्रं नृपतिं[K.नृपतिर्] निहन्यात् । ४.३२ पानप्रसक्तं निशि वा प्रसुप्तं तस्यैऽव चऽस्ते यदि वाऽंशकः स्यात् ॥ ४.३३ पुत्रो धरित्र्या दिनकृत्सुतश्च यदा त्यजेतां युगपन्नवांशम्। ४.३३ तदा ह्यवस्कन्दगतो नरेन्द्रो भुङ्क्ते रिपून् तार्क्ष्य इव द्विजिह्वान्॥ ४.३४ बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च नृपः प्रविशन्[K.प्रवसन्]। ४.३४ पुरुहूतदिशं यदि वाऽन्तकृतः पुरुहूतयमप्रतिमो भवति॥ ४.३५ सितेन्दुजौ चतुर्थगौ निशाकरश्च सप्तम् ४.३५ यदा तदा गतो नृपः प्रशास्त्यरीन् विना रणान्[K.रणात्]॥ ४.३६ शशिनि चतुर्थगृहं समुपेते बुधसहितेऽस्तगते भृगुपुत्र् ४.३६ गमनमवाप्य पतिर्मनुजानां जयति रिपून् समरेण विनैऽव् । ४.३७ क्षितितनययुतान्नवांशकाद्यदि शतमे[K.शतगो] भृगुजोऽथवा गुरुः। ४.३७ शतगुणमपि हन्त्यरेर्बलं विषमिव कायमसृक्पथोपपन्नम्[K.असृक्पथोपगम्]॥ ४.३८ शतांशकादूर्ध्वमवस्थिते बुधे यमारयोस्तत्र गतस्य भूभृतः। ४.३८ प्रयाति नाशं समरे द्विषड्बलं यथाऽर्थिभावोपगतस्य गौरवम्॥ ४.३९ नक्षत्रमेकं युगपत्प्रविष्टौ यदा धरित्रीतनयामरेज्यौ। ४.३९ कुर्यात्तदाऽन्तं द्विषतां बलस्य द्रौणिर्यथाऽरेर्निशि सौप्तिकेन् । ४.४० ऋक्षं गुरुज्ञौ बुधभार्ग्वौ वा यदा प्रविष्टौ युगपत्समेतौ। ४.४० अर्थानवाप्नोति तदा विचित्रान् छात्रः सुतीर्थान्[K.सुतीर्थाद्] गुरुपूजयैव[K.गुरुपूजयेऽव]॥ ४.४१ यात्रादिगीशाद्यदि पञ्चमेऽन्यो गृहे ग्रहो वीर्ययुतोऽवतिष्ठेत् । ४.४१ समुद्यताशाकथितानि भङ्क्त्वा फलानि वीर्यान्नयति स्वकाष्ठाम्॥ ४.४२ एकोऽपि जीवज्ञसितासितानां कुजात्त्रिकोणे रवितोऽथ वेऽन्दुः। ४.४२ यत्रोऽद्यतस्तत्र न याति याता तयोर्बलीयान्नयति स्वकाष्ठाम्॥ ४.४३ जन्मोदयर्क्षं हिबुकास्तसंस्थं यस्यऽशुभैर्दृष्टयुतं न सौम्यैः। ४.४३ स शाण्डिलीं प्राप्य यथा गरुत्मान् दन्यं[K.दैन्यं] गतोऽभ्येति हतस्वपक्षः॥ ४.४४ होराष्टमे जन्मगृहाष्टमे वा स्वाच्छत्रुभाच्छत्रुगृहोदये वा। ४.४४ तद्राशिपैर्वा गमनं विलग्ने तुल्यं नराणां विषभक्षणेन् । ४.४५ रिपुनिधनविलग्ने स्वात्त्रिषड्लाभगे वा ४.४५ बलवति भवनेशे स्वे कृशे शत्रुपक्ष् ४.४५ अनभिमुखदिगीशे दिक्पतौ सुस्थिते च ४.४५ व्रजति यदि यथेष्टं प्राप्नुयात्तत्र यता॥ ४.४६ केन्द्रत्रिकोणेषु शुभाः प्रशस्तास्तेष्वेव पापा न शुभप्रदाः स्युः। ४.४६ पपोऽपि कामं बलवन्नियोज्यः केन्द्रेषु शून्यं न शिवाय केन्द्रम्[K.लग्नम्]॥ ४.४७ सौम्यैश्च पापैश्च चतुष्टयस्थः कृच्छ्रेण सिद्धिं समुपैति याता। ४.४७ प्रपातपातप्रतिघातवक्रैर्[K.प्रपातयानप्रतिघातवक्रा] नदीऽव धात्रीधरकन्दरेषु॥ ४.४८ गुरो[K.गुरौ] विलग्ने भृगुजेऽरिसंस्थे चन्द्रेऽष्टमे हन्ति गतोऽरिसेनाम्। ४.४८ विष्टं[K.वृष्टिं] यथा दक्षिणमार्गचारी रूक्षो अथवा[K.यदा] ह्रस्वतनुश्च शुक्रः॥ ४.४९ सिंहाजतौलिमिथुना[K.सिंहाजतौलिमिथुनं] मृगकर्कटौ च स्वेशान्विता यदि भवति[K.भवति] यस्य शनिश्च लग्न् ४.४९ तत्सैनिकाः परबलं क्सपयन्ति यातुर्मूर्खस्य वित्तमिव चारणचाटुकाराः[K.चारणचाटचक्षाः(?)]॥ ४.५० उदये गुरुसौम्यभार्गवैः सहजेऽर्कार्किकुजैश्च गच्छतः। ४.५० न भवन्त्यरयो रणे स्थिराः कितवानामिव वित्तसंचयाः॥ ४.५१ जातकोक्तनृपयोगगतानां प्रत्यहं[K.प्रतिदिनम्] भवति राज्यविवृद्धिः। ४.५१ वातघूर्णितमिवऽर्णवयानं परबलं हि समुपैति विनाशम्॥ ४.५२ होराऽऽश्रिते[K.होराश्रिते] देवगुरौ प्रयाता क्रूरग्रहैः कर्मणि लाभगैर्वा। ४.५२ कृत्वा रिपूणां क्षयमक्षताङ्गः स्वयं[K.क्षयं] क्षितीशोऽक्षयकोशमेति[K.ऽक्षयकोश ऐति]॥ ४.५३ लाभार्थलग्नेषु शुभा रविः खे यस्यऽऽरसौरौ सहजेऽरिभे वा। ४.५३ तस्यऽर्थकोशः समुपैति वृद्धिं लाभो[K.लोभो] यथा प्रत्यहमर्थवृद्ध्या॥ ४.५४ स्वोच्चपगैर्जीवकुजार्कजार्कैरेभ्यस्त्रिभिर्वा कथितैकलग्न् ४.५४ राज्ञः प्रणाशं समुपैति शत्रुः सौख्यं द्विभार्यस्य यथाऽधनस्य् । ४.५५ एकोऽपि जीवार्ककुजार्कजानां स्वोच्चे विलग्ने स्वगृहे यदीऽन्दुः। ४.५५ जातस्य[K.यातस्य] यान्त्यत्र पराः प्रणाशं महाकुलानीऽव कुटुम्बभेदैः॥ ४.५६ लग्नाच्चतुर्थे अतिबले शशाङ्के[K.विबलः शशाङ्कः] योगाद्विना चन्द्रबलेन याता[K.यातः]। ४.५६ लब्धाऽपि लक्ष्मीं बहुरत्नपूर्णां[K.लक्ष्मीर्बहुरत्नपूर्णा] क्षिप्रं क्षयं याति यथा शशाङ्कः॥ ४.५७ येषां गमे नवमपञ्चमकण्टकस्थाः सौम्यास्तृतीयरिपुलाभगताश्च पापाः। ४.५७ आयान्ति ते स्वभवनानि पुनः कृतार्था दत्ता द्विजातिषु पुरा विधिवद्यथार्थाः॥ ५.१ पूर्वादितस्त्रिपरिवर्तगतैरजाद्यैर्भैः सप्तकैरनलभाच्च गमो जयाय् ५.१ वायुअग्निदिक्स्थपरिघस्य समार्द्धगैश्च मैत्राश्विहस्तगुरुभेषु च सर्वदिक्षु॥ ५.२ पूर्वेणाइन्द्रं[K.पूर्वेणाइऽऽन्द्रं] दक्षिणेनऽऽजपादं रोहिण्योऽतश्चऽर्यमाख्यं च शूलम्। ५.२ कामं यायात्साम्परायेषु कार्येष्वेवं द्वारे[K.अद्वारेऽपि] प्रोज्झ्य शूलानि तानि॥ ५.३ विवर्जयेत्त्वाष्ट्रयमोरगाणामर्धं द्वितीयं गमने जयेप्सुः। ५.३ पूर्वार्धमाग्नेयमघानिलानां स्वातीम्[K.स्वातिम्] मघां चोऽशनसः समस्ताम्॥ ५.४ उत्पातपापग्रहपीडिते भे ये यान्ति भूरिग्रहसंयुते वा। ५.४ ते पूर्ववित्तान्यपि नाशयन्ति धातुप्रसक्ता इव मूर्त्तिकेन्द्राः[K.वार्तिकेन्द्राः]॥ ५.५ रविसितकुजराहुसौरिचन्द्रा[K.रविसितकुजराहुसौरचन्द्रा] ज्ञगुरुयुताः पुरतः क्रमाद्दिगीशाः। ५.५ व्रजति यदि ललाटगे दिगीशे पतति ततो द्रुमवत्सरित्तटात्सः[K.सरित्तटस्थः]॥ ५.६ यातोऽयनस्य प्रतिलोमकाष्ठां यः स्यात्स्वतन्त्रो[K.सुतन्त्रो]ऽपि जितः परेषां। ५.६ स केवलव्याकरणाभियुक्तः[K.केवलं] व्याकरणाभियुक्तः काव्यज्ञगोष्ठ्यामिव हास्यमेति॥ ५.७ अयनेन गतोऽर्कसोमयोर्द्युनिशं वा स्थितयोः पृथक्पृथक् । ५.७ विदुषामिव सर्वशास्त्रवित्[K.शब्दशास्त्रवित्] समवाये द्विषतां विराजत् । ५.८ तिथिं चतुर्थीं नवमीं चतुर्दशीं विहाय विष्टिं करणं च गच्छतः। ५.८ भवन्ति चामीकरवाजिवारणाश्चतुर्थिपूर्वाश्च तदाप्तिवारणाः॥ ५.९ ऋक्षे[K.रिक्ते] तिथौ वा व्यतिपातदुष्टे यो याति मोहात्खलु वैधृते वा। ५.९ स नाशमायात्यचिरेण याता[K.राजा] राजेऽव दैवज्ञविलोमचेष्टः॥ ५.१० आरोग्यमृक्षेण धनं क्षणेन कार्यस्य सिद्धिस्तिथिना शुभेन् ५.१० राश्युद्गमेनऽध्वनि सिद्धिमाहुः प्रायः शुभानि[K.सुखानि] क्षणदाकरेण् । ५.११ ब्[K.ओमित्तेद्]।.न राजते भूरिगुणान्विताऽपि व्यर्ह्तब्ययस्य क्षितिपस्य यात्रा। ५.११ द्[K.ओमित्तेद्]।.शुक्रे प्रणष्टे धनदर्पितस्य विवाहयात्रेव जरार्द्दितस्य् । ५.१२ प्रतिशुक्रबुधाशनिवृष्टिहता दिगधः कुरुते नृपतिं गमन् ५.१२ मदिरामुदिता मदनाकुलिता प्रमदेऽव कुलं परवेश्मरता॥ ५.१३ वीर्यान्वितैर्यायिभिरात्मभद्रैः क्लेशं[K.क्लेशेद्] विना हन्ति चमूमरीणाम्। ५.१३ त्रैलोक्यलाभेऽप्यसमाप्तकार्यां तृष्णां यथा चीरफलाम्बुतुष्टः॥ ५.१४ सर्पिस्तिलौदनषैः[K.तिलोदनझषैः] पयसा च भुक्त्वा पूर्वादि वारणरथाश्वनरैर्गतस्य् ५.१४ सोढुं प्रतापमरयो न न्र्पस्य शक्ता गन्धद्विपस्य कलभा इव गन्धदानम्[K.दानगन्धम्]॥ ५.१५ एकतश्च सकलानि निमित्तान्येकतश्च मनसः परिशुद्धिः। ५.१५ चेतसोऽस्ति[K.ऽपि] सहसा न[K.ऽस्ति] रणे भीर्मारुतोऽपि विजयाजयहेतुः॥ ५.१६ भूरिशूरवरवाजिकुञ्जरा ज्ञातयुद्धगतयोऽभिमानिनः। ५.१६ क्वऽपि यान्ति घनतूलराशिवन्मारुताभिहतवक्षसोऽरयः॥ ५.१७ अनुलोमगते[K.अनुलोमगतौ] प्रदक्षिणे सुरभौ देहसुखेऽनिले गतः। ५.१७ तिमिराणि गभस्तिमानिव प्रसभं हन्ति बलानि विद्विषाम्॥ ५.१८ उपपत्तिरयत्नतो यदा तृणपानाशनरत्नवाससाम्॥ ५.१८ प्रमदाक्षितिनागवाजिनां विजयद्वारमपावृतं तदा॥ ५.१९ लग्नस्य येऽंशा ह्युदिता[K.उदिता] ग्रहो यस्तेषु स्थितो लग्नफलं स धत्त् ५.१९ यस्तानतीतः स भवेद्द्वितीयः स्थानेषु शेषेष्वपि चिन्त्यमेतत्[K.चिन्तनीयम्]॥ ५.२० गतोऽनुकूलैर्ग्रहभाग्निमारुतैर्मनोऽब्दविद्युत्स्वनवृष्टिकार्मुकैः। ५.२० रिपोः प्रमथ्नाति रणाजिरे चमूं द्विपः समूलां सरसीऽव पद्मिनीम्॥ ५.२१ दैवेन हीनः परभीषणार्थं यातोऽतिकृच्छ्रेण नयत्यहानि। ५.२१ स्वशक्त्यतीतो नृपवेश्मनीऽव कृत्वा प्रतिज्ञां प्रतिवादिभीतः॥ ५.२२ दैवान्वितः साधुजनोपकारी प्रभावमन्त्रोद्यमशक्तियुक्तः। ५.२२ भुङ्क्ते महीं सम्यगवाप्य यात्रां ससह्यविन्द्याचलपारियात्राम्॥ ५.२३ गोचरेण शुभदः शशी न चेदष्टवर्गपरिशोधितोऽपि[Kऽथ] वा। ५.२३ पूर्ववायुरिव पुष्पकालजो यायिनां फलविनाशकृद्भवेत् ॥ ५.२४ आश्रित्य चन्द्रस्य बलाबलानि ग्रहाः प्रयच्छन्ति शुभाशुभानि। ५.२४ मनःसमेतानि यथेन्द्रियाणि कर्मार्हतां[K.कर्मण्यतां] यान्ति न केवलानि॥ ५.२५ सर्वतः क्षुतमशोभनमुक्तं गोः क्षुतं[K.गोक्षुतम्] मरणमेव करोति। ५.२५ केचिदाहुरफलं बकाद्च[K.हि बलाद्] यद्वृद्धपीनसितबालाकृतं च् । ५.२६ शकुनतिथिभलाभे छत्त्रशय्यासनाद्यं पदमपि विजिगीषुश्चालयेच्छ्रदधानः[K.छ्रद्धधानः]। ५.२६ यदि शकुननिमित्तस्वप्नचेतोविशुद्धिर्[K.शकुननिमित्तेऽस्य स्वचेतोविशुद्धिर्] न भवति तदनिष्टं सर्वकार्येषु यानम्॥ ५.२७ दिनकृद्दिवसे तथाऽंशके यात्रा लग्नगतेऽथवा रवौ। ५.२७ संतापायति स्मरातुरा[K.स्मरातुरं] वेश्येऽवाऽर्थविवर्जितं नरम्॥ ५.२८ उदये शशिनोऽंशकेऽह्नि वा भवति गतो न चिरेण दुर्मनाः॥ ५.२८ प्रमदामिव जातयौवनां[K.यातयौवनां] रत्यर्थं समवाप्य कर्कशः॥ ५.२९ भौमोदयेऽंशेऽहनि वाऽस्य यात्रा करोति बन्धं वधमर्थनाशम्। ५.२९ संसेविताऽपापपराङ्मुखेन मनोभवान्धेन पराङ्गनेऽव् । ५.३० बुधस्य लग्नांशकवासरेषु यात्रा नरं प्रीणयति प्रकामम्। ५.३० भावानुरक्ता प्रवराङ्गनेऽव विदग्धचेष्टा मदनाभितप्तम्[K.मदनाभिभूतम्]॥ ५.३१ गुरोर्विलग्नांशदिनेषु यात्रा शुभानु[K.हितानु]बन्धेप्सितकामदा च्(Bॠ ५.३१--३३) ५.३१ जायेऽव भर्तुर्मनसोऽनुकूला कुलाभिवृद्ध्यै रतिदा हिता च् । ५.३२ यात्रा भृगोरंशदिनोदयेषु प्रीणाति कामैर्विविधैर्यियासुम्॥ ५.३२ विलासिनी कामवशोपयातं भावैरनेकैर्मदनातुरेऽव् । ५.३३ द्युलग्नभागेषु शनेश्च यात्रा प्राणच्छिदादीन् प्रचिनोति[K.प्रतनोति] दोषान्। ५.३३ अन्यप्रसक्ता वनितेऽव मोहात्संषेविता[K.मोहान्निषेविता] मन्मथमोहितेन् । ५.३४ लग्नेन हीनाऽन्यगुणान्वितापि प्रीतिं न यात्रा मनसः करोति। ५.३४ स्वलङ्कृता रूपसमन्विताऽपि प्रभ्रष्टशीला वनितेऽव पुंसः॥ ५.३५ लग्नस्य शुद्धिः शकुनैर्निमित्तैर्विज्ञायतेऽन्तःकरणेन सम्यक् । ५.३५ अनन्यभावाश्रयसंप्रवृत्तैः कौलीऽव पुंसश्चरितैर्विदेश् । ५.३६ छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः। ५.३६ तेजोगुणान् बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थितैव[K.स्फटिकरत्नघटस्थितेऽव]॥ ५.३७ स्निघद्विजत्वङ्नखरोमकेशा छाया सुगन्धा च महीसमुत्था। ५.३७ तुष्ट्यर्थलाभाभिउदयान् करोति धर्मस्य चऽहन्यहनि प्रवृद्धिम्॥ ५.३८ स्निग्धा सिता च हरिता नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति। ५.३८ सर्वार्थसिद्धिजननी जननीऽव चाप्या[K.ऽऽप्या] छाया फलं तनुभृतां शुभमादधाति॥ ५.३९ चण्डाऽधृष्या पद्महेमाग्निवर्णा युक्ता तेजोविक्रमैः सप्रतापैः। ५.३९ आग्नेयीऽति प्राणिनां स्याज्जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य धत्त् । ५.४० मलिनपरुषकृष्णा पापगन्धाऽनिलोत्था जनयति वधबन्धव्याध्यनर्थार्थनाशान्। ५.४० स्फटिकसदृशरूपा भाग्ययुक्ताऽत्युदारा निधिरिव गगनोत्था श्रेयसां स्वच्छवर्णा॥E४० ६.१ पुरुहूतहुताशयमा निरृतिर्वरुणानिलयक्षशिवाश्च दिशाम्। ६.१ पुनरर्कसितारतमोरविजाः शशिसौम्यबृहस्पतयः पतयः॥ ६.२ शच्या सहैरावणगः सवज्रो हैमोऽथवा दारुमयो महेन्द्रः। ६.२ विचित्रमाल्यध्वजरक्तचन्दनैः सौम्योपहारेण च पूजनीयः॥ ६.३ अथ मन्त्रम्[K.मन्त्रः:] <अभी स्हु नः सखीनाम्> इति जप्त्वा पुरतः प्रन्दरस्य् ६.३ पुरुहूतदिशं नृपोऽभियुञ्ज्यात्पुरुहूतं हृदये निवेश्य सम्यक् ॥ ६.४ ताम्रजा प्रतिकृतिः सहस्रगो रक्तचन्दनकृतानुलेपना। ६.४ रक्तवस्त्रकुसुमध्वजार्चिता[K.ध्वजाचिता] सूर्यकान्तमणिभिर्विभूषिता॥ ६.५ <आ कृष्ण> पूर्वं यदिवाऽप्य्<उदु त्यं> मन्त्रं समावर्त्य रवेः पुरस्तात् । ६.५ क्षीरौदनेन प्रतिपूज्य यायात्प्राचीं पुरस्कृत्य दिनेशशक्रौ॥ ६.६ अग्नेस्तनुः कनकेनैव कार्या रक्तआ[K.रक्तं] ध्वजं कुसुमं चन्दनं च् ६.६ आज्यं बलिर्हुतभुग्विजिगीषोर्[K.हुतभुग्दिग्जिगीषोर्] मन्त्रो[K.मन्त्रं] <घृतं घृतयोनं[K.घृतयोनेः]> पिबेति[K.पठेच्च]॥ ६.७ कार्यश्चित्रो दितिसुतगुरुर्वामयोर्षाद्धकायो[K.यमो वाऽर्धकायो] नानारूपाः कुसुमभलयस्तस्य चित्रो ध्वजश्च् ६.७ <शुक्रज्योतिः> प्रभृति च जपेन्[K.पठेन्] मन्त्रमस्यऽग्रतस्तौ कृत्वा यायाद्भृगुजदहनौ जेतुमिच्छुस्[K.इच्छंस्] तदाशाम्॥ ६.८ अयोमयं प्रोद्यतदण्डहस्तं यमं सकृष्णध्वजपुष्पगन्धम्[K.सकृष्ण-.ध्वज-.पुष्प-.गन्धैः]। ६.८ तिलौदनैर्[K.तिलोदनैर्] अर्च्य समांसमद्यैर्<यमेन दत्तं> च जपोऽस्य कार्यः॥ ६.९ मूर्त्तिः स्याद्रुधिराख्यसंज्ञमणिना[K.रुधिराक्षसंज्ञमणिना] भौमस्य रक्ताः स्रजो रक्तानि ध्वजचन्दनानि कुसुमैः पक्वान्नमांसैर्बलिः। ६.९ <अग्निर्मूर्ध[K.मूर्धा]>पदैः स्तुतिः क्षितिसुतस्यैवं यमाङ्गारकौ दिङ्नाथौ गमनेऽग्रतो नरपतिः कृत्वा व्रजेद्दक्षिणम्[K.दक्षिणाम्]॥ ६.१० भैरवाप्रतिकृतिः पटे कृता सर्वगन्ध[K.पुष्प]फलपुष्प[K.धूप]पूजिता। ६.१० <एष ते> निरृतिमन्त्रचोदना कृष्णरक्तकुसुमध्वजाम्बरा॥ ६.११ सुरदारुमयः शशाङ्कशत्रुः कुसुमाद्यैरसितैः कृतोपहारः। ६.११ निरृतिसहितः[K.निरृतेर्महितः] स्वदिक्प्रयाणे स्तुतिमन्त्रोऽस्य च कीर्तितः <कया नः>॥ ६.१२ पश्चाद्व्रजेद्रजतमयं जलेश्वरं पाशान्वितं सह गदयाऽब्जपूजितम्। ६.१२ कृत्वौदनैर्बलिमपि यावाकान्वितं[K.यावाकाचितं] <ये ते शतं[K.(लचुन)शं]> वरुण[K.वरुणं] इति स्तुयाद्द्विजः॥ ६.१३ सौरेरर्चा नीलकाचा ऋशाङ्गी पूज्या कृष्णैर्वस्त्रमाल्योपहारैः। ६.१३ <शं नो देवी>ऽत्येष मन्त्रोऽपराशां जेतुं यायात्तौ पुरस्कृत्य देवौ॥ ६.१४ वायोर्मूर्त्तिः श्वेतमृद्भिर्विधेया पूज्या श्वेतैः पुष्पवस्त्रध्वजाद्यैः। ६.१४ मन्त्रो <वातो वा मनो वे>ऽति जाप्यो वायव्याशां प्रस्थितस्येऽऽश्वरस्य् । ६.१५ मन्त्रः सोमस्या <ऽऽप्यायस्वे>ऽत्यन्यच्छ्वेतं स्रग्वस्त्राद्यम्। ६.१५ वायुं सोमं चऽग्रे कृत्वा यायाद्राजा वायोः काष्ठाम्॥ ६.१६ हाटकमूर्तिं[K.हाटकीं मूर्तिं] कुर्याद्धनदस्य विभूषितां[K.भूषितां] रत्नैः सगदाञ्च[K.सर्वैः सगदां च]। ६.१६ पूजितां स्रग्वस्त्राद्यैश्च विचित्रै <रक्षसां भागोऽसि>ऽत्येष हि मन्त्रः॥ ६.१७ सौवर्णं रजतासने नृमिथुनं चन्द्रात्मजस्येष्यते हारिद्रौदन-.मिष्ट-.गन्ध-.कुसुमैर्गन्धैश्च संपूजितम्[K.तत्पूजितम्]। ६.१७ <उद्बुध्यस्व> जपश्च तस्य कथितः स्याद्ब्रह्मयज्ञेति च[K.ब्रह्मयज्ञादिना] गच्छेदुत्तरतो धनेश्वरबुधौ ध्यायन् पुरस्कृत्य च् । ६.१८ गोत्वग्जाप्यति भैरवा[K.गोत्वग्जा प्रतिभैरवा] प्रतिकृतिर्भस्मोत्कटा शूलिनो दध्ना चोदनषंयुतेन च[K.ओमित्तेद्] बलिर्[K.बलिभिर्] मन्त्रो <नमः शम्भवे>। ६.१८ मूर्त्तिः स्यान्मणितो गुरोर्विमलिका[K.विमलकात्] पीतं तु वस्त्रादिकं[K.वस्त्रादि यन्] मन्त्रश्चऽस्य <बृहस्पतेर्[K.बृहस्पते]> इति तयोर्यायाद्दिशं पूज्य तौ॥ ६.१९ दिङ्नाथं कुलदेवतां स्वनगरे येषां कृताच्चऽऽलयास्तान् सम्पूज्य यथानुरूप-.बलिभिर्दद्याद्बलिं भौतिकीम्[K.भौतिकम्]। ६.१९ कृत्वा पायसमद्यमांसपललैर्भक्ष्यैश्च नानाविधैर्बालकृईडनकैः सुगन्धकुसुमैर्[K.सुगन्धिकुसुमैर्] मूलैः फलैः स्वादुभिः॥ ६.२० रथ्यापुरद्वारनदीतटेषु चतुष्पथाट्टालकनिःकुटेषु। ६.२० गुहैकवृक्षादिषु ये वसन्ति ते पूजनीयाः प्रमथा यथावत् ॥ ६.२१ <नमोऽस्तु वः शक्रहुताशदण्डभृत्क्षपाचराम्भःपतिमातरिश्वनाः[K.नाम्]। ६.२१ कुबेररुद्राहिसुपर्णशक्तिभृत्पिशाचदैत्यानुचराश्च ये गणाः>॥ ६.२२ <कुसुमशरशरीरस्पर्धिनः कामरूपा विविधसुरभिवस्त्राः स्रग्विणो[K.विविध-.सुरभिवस्त्रस्रग्विणो]ऽसह्यवीर्याः। ६.२२ पवनसदृशवेगा मानिनो नित्यहृष्टास्तरुणदिनकरत्विट्स्पर्धितेजोदधाणाः>॥ ६.२३ <लम्बक्रोडा ह्रस्वा दीर्घाः खञ्जैकाक्षाः शुष्काः स्थूलाः। ६.२३ नानापक्षिव्यालोष्ट्रास्या वक्त्रैर्हीनाः क्रोडास्याश्च>॥ ६.२४ <बहुवक्त्रशिरोभुजपाददृशः कृकलासभुजंगकृताभरणाः। ६.२४ विकटा मुकुटोत्कटरत्नभृतस्तरुणार्कतडिद्धुतभुक्कपिलाः>॥ ६.२५ <भ्रमरतमालद्विपगवलाभाः क्षितिधरमेघप्रतिमशरीराः[K.क्षितिधर-.मेघ-.प्रतिभशरीराः]। ६.२५ अशनिनिपातस्वनसनिनादा[K.मनादा] द्रुतगमने च स्व[K.श्व]सनमनोगाः>॥ ६.२६ <असिमुशलगदाश्मशक्तिशूलद्रुमसशरासनबाणचक्रहस्ताः। ६.२६ कणय[K.कणप]परिघकुन्तमुष्टिमाया लगुडकुठारशतघ्नीधारिणश्च>॥ ६.२७ <गृह्णन्तु[K.गृह्णीत] प्रमथगणा बलिं सभूता भूभर्त्रा विजिगीषुणा निवेदितं वः। ६.२७ जित्वाऽरीन् द्विगुणमतो बलिं विचित्रं दास्यामः स्वविषयमेत्य वः प्रसादात्>॥ ६.२८ <राजा वः शरणमुपागतः सभृत्यः सामात्यः ससुतकलत्रमित्रबन्धुः। ६.२८ रक्षार्थं मनुजपतेः सहायकृत्यं क्रुवीध्वं रिपुबलसंक्षयाय चऽस्य>॥ ६.२९ <स्वप्ने निमित्तमथवा मनुजेश्वरस्य यच्छब्दम्[K.छध्वम्] एकतममस्य जयाजयाय् ६.२९ एवं भवत्युपकृतं सुमहद्भवद्भिः कार्यं करिष्यति यथा भवतां प्रसादात्>॥E२९ ७.१ मदयन्तिकाऽश्वगन्धा मदनफलवचामधूनि शस्यन्त् ७.१ प्रथमर्क्षे भरणीषु च[K.(तु)] सिद्धार्थकभद्रदारुवचाः॥ ७.२ न्यग्रोधशिरीषाश्वत्थपत्रगन्धाश्च कृत्तिकास्नान् ७.२ बहुबीजप्रशस्ततोयैर्जयार्थिनो रोहिणीस्नानम्॥ ७.३ मुक्ताकाञ्चनमणिसंयुक्तेनऽम्भसा मृइगाङ्कर्क्ष् ७.३ रौद्रे वचाश्वगन्धाप्रियंगुमिश्रैर्जलैः कथितम्॥ ७.४ आदित्ये गोमयगोष्ठमृद्भिरथ गौरशालिभिः पुष्य् ७.४ सिद्धार्थसहस्रद्वय[K.सिद्धार्थद्विसहस्रैः]प्रियंगुमदयन्तिकाभिश्च् । ७.५ वल्मीकशतान्मृद्भिः नागे[K.सार्पे] पित्र्ये च देवनिर्माल्यैः। ७.५ पूर्वासु फल्गुनीषु च सलवणघृतशाड्वलैः प्रोक्तम्॥ ७.६ शतपुष्पया प्रियंग्वा मुस्ताभिश्चोत्तरासु क्रुवीत् ७.६ हस्ते सरोगिरिमृदा चित्रायां देवनिर्माल्यैः॥ ७.७ स्वातौ जलरुहकुसुमैरैन्द्राग्न्ये[K.ऐन्द्राग्ने] मत्स्य[K.मुस्त]पद्मकक्षौद्रैः। ७.७ मैत्रे सरिदुभयमृदा हरितालमृदा च माहेन्द्र् । ७.८ भद्रासने शमीमयपत्रसहस्रद्वयाम्बुभिर्मूल् । ७.८ समधूकपद्ममत्स्यैः स्नानमषाढासु पूर्वासु॥ ७.९ कुर्यादुशीरचन्दनपद्मकमिश्रेण वारिणा वैश्व् ७.९ नद्युभयकूलसंगममृत्कनकैः कीर्त्यते श्रवण् । ७.१० घृतभद्रदारुमधुभिश्च वासवे वारुने घृतक्षौद्रैः। ७.१० समदनफल[K.समदनफलैः]सहदेवाम्बुशूकमदयन्तिकामिश्रैः॥ ७.११ श्रीवासकः प्रियंगुश्चऽऽजे स्यादुत्तरास्वगुरुगन्धाः। ७.११ शस्ताः सपद्मकोशीरचन्दना मानवेन्द्राणाम्॥ ७.१२ रेवत्यां वृषभद्विपविषाणकोशैः च सर्पिमधुपूर्णैः[K.ससर्पिमधुपूर्णैः]। ७.१२ गोरोचनाञ्जनयुतैः सलिलैश्च यियासतः पुंसः[K.यियासतां पुंसाम्]॥ ७.१३ गिरिवल्मीकनदीमुखकूलद्वयशक्रपादमृद्भिरतः। ७.१३ द्विपवृषविषाणपार्थिवगणिकाद्वाराहृताभिश्च् । ७.१४ गिरिशिखरान्मूर्धानं वल्मीकमृदा च शोधयेत्[K.शोचयेत्] कर्णौ। ७.१४ नद्युभयकूलसंगममृद्भिः प्रक्षालयेत्पार्श्व् । ७.१५ इन्द्रस्थानाद्ग्रीवां बाहू करिवृषभयोर्विस्हाणात्[K.विस्हाणाग्रात्]। ७.१५ हृदयं च[K.ओमित्तेद्] नृपद्वारात्[K.नृपतिद्वारात्] कटिमपि वेश्याघृहद्वारात् ॥ ७.१६ अक्षतमाषाः स्विन्नास्तिलसहितास्तण्दुला दधि च गव्यम्[K.अक्षतमाषा आद्यं तिलसहितस्तण्डुलश्च दधिगव्यम्]। ७.१६ वृषत[K.वृषभ]पिशितं मृगस्य च पञ्चानामाश्विनादीनाम्॥ ७.१७ रुधिरविलापनपायसविहग[K.भुजंग]मांसानि शांकरादीनाम्। ७.१७ पित्र्ये तिलौदनं षष्टिकान्नमृक्षद्वये परतः[K.च तत्परतः]॥ ७.१८ प्राश्याः प्रियंगुचित्राण्डजफलं[K.प्रियंगुचित्राण्डजाः पलं] यावकं कुलत्थाश्च् ७.१८ मधुससर्पिषी[K.मधुसर्पिषी] च हस्तान्मूलान्यापः [मूलाम्भः] सक्तवोऽपि[K.ओमित्तेद्] मूलात् ॥ ७.१९ श्रवणादीनामद्यात्[K.भक्ष्याः] शालिशाकं[K.शालिः शाकं] बिडालमांसं च् ७.१९ आजं यथेष्टमांसं च शक्तवो[K.सुसक्तवो] माषसंपृक्ताः॥ ७.२० प्राचीं गजेन यायाद्रथेन याम्यां हयेन वारुण्याम्। ७.२० नरयानेनोदीचीं सर्वं दत्वा दिगीशाय् । ७.२१ प्राच्यादि घृतं तिलौदनं मत्स्याण्क्षीरं इति प्रदक्षिणम्। ७.२१ अद्यान्न्र्पतिर्यथादिशं नक्षत्राभिहितं च सिद्धय् । ७.२२ अस्वादु च्युतमक्षिकानुविद्धं[K.च्युतकचमक्षिकानुविद्धं] ७.२२ दुर्गन्धि क्षयकृदभूरि यच्च दघ्दम्। ७.२२ सुस्विन्नं शुचि[K.मृदु] रुचिरं मनोऽनुकूलं ७.२२ स्वाद्वन्नं बहु विजाय[K.च जयाय] यानकाल् ।E२२ ८.१ वेदी शुभा शुल्व[K.शिल्प]विधानदृष्टा दिक्स्थानमानाभ्य्धिका[K.दिक्-.स्थान-.मानानधिका] न हीना। ८.१ भ्रष्टप्रमाण[K.भ्रष्टा प्रमाणेन] प्रकरोति[K.करोति] भङ्गं दिग्वक्रसंस्था च न[K.न च] सिद्धिदा स्यात् ॥ ८.२ प्राग्भागहीना नगरस्य नेष्टा पुरोधसां[K.पुरोधसो] दक्षिणभागवक्रा। ८.२ नरेन्द्रजायाशुभदा परस्यामुदग्बलेशस्य नृपस्य मध्य् । ८.३ सत्त्वैरलीढं न पिपीलमक्षिकामलाविलं वा[K.तद्] विजयप्रदं हविः। ८.३ द्रव्याण्यनूनानि पटुः पुरोहितो जुहोति सम्यग्विजयाय भूभृताम्॥ ८.४ गन्धमाल्यचरुकुम्भभाजनस्रुक्कुशव्यजनसर्पिषां यदा। ८.४ भङ्गविस्मृतिनिपातहीनता पार्थिवस्य न भवेत्तदा शुभम्[K.तदा भवेच्छिवम्]॥ ८.५ शान्तायां दिशि यदि शङ्खतूर्यशब्दाः सप्तीनां प्लुतमिभबृङ्हितानि[K.रुतगजबृंहितानि] वा स्युः। ८.५ पुंसां वा प्रमुदितचेष्टितप्रलापाः श्रूयन्ते यदि च जयोऽस्ति होमकाल् । ८.६ अप्रतिरथः समस्तो यात्रालिङ्गस्तथाऽभयश्च[K.ऽभयस्य] गणः। ८.६ स्वस्त्ययनशर्मवर्माऽपराजिताः पुष्पसंज्ञाश्[ऽपराजिताऽऽयुष्यसंज्ञाश्] च् । ८.७ इन्द्रश्चन्द्रश्चिति[K.चन्द्रेति] गणो यत्[K.यं] ते चन्द्रश्च भूतभूतेति।छेच्केद् ८.७ सूक्तं महाव्याहृतयो मन्त्राशीर्वैष्णवा[K.सूक्तमहाव्याहृतयः प्राजापत्याश्च ये] मन्त्राः॥ ८.८ प्राजापत्याश्चोक्ता होमे[K.उक्ताः काले (लचुन) राज्ञो] निर्गच्छतोऽनु गमने च् ८.८ अग्निपुरोहितसंस्थान्यतो[K.होमेऽग्निप्रोहितसंस्थानि] निमित्तानि वक्ष्यामि[K.गृह्णीयात्]॥ ८.९ कृतेऽपि यत्नेऽतिकृशः [ऊ.ऽपि कृZअः] कृशानुर्यातव्यकाष्ठाविमुखो नतार्चिः। ८.९ वामीकृतावर्तशिखो [ऊ.वामे कृतावर्तशिखो]ऽतिधूमो विच्छिन्नसाकम्पविलीनमूर्तिः॥ ८.१० शिमशिमायति[K.शिमिशिमायति,ऊ.सिमिसिमायति] यस्य [ऊ.चास्य] हविर्हुतं सुर-.धनुः-.सदृशः कपिशो [ऊ.कपिलो]ऽथवा। ८.१० रुधिरपीतकबभ्रुहरिच्छविः परुषमूर्त्तिरनिष्टकरोऽनलः॥ ८.११ श्वखरकरभ [ऊ.खरकरभक]वानरानुरूपो निगडविभीषणशस्त्ररूपभृद्वा। ८.११ शवरुधिरवसास्थिवस्त[K.ऊ.मज्ज]गन्धो हुतभुगनिष्टफलः स्फुलिङ्गकृच्च् । ८.१२ चर्मविपाटनतुल्यनिनादो जर्जरमन्दवि[K.मन्द्रवि,ऊ.दर्दुर]रूक्षरवो वा। ८.१२ आकुलयंश्च पुरोहितसभ्यान् [ऊ.पुरोहितमर्त्यान्] धूमचयैर्[K.ऊ.धूमलवैर्] अशिवाय [ऊ.न शिवाय] हुताशः॥ ८.१३ ब्[K.१४ ब्]।.स्वाहावसानसमये स्वयमुज्ज्वलार्चिः स्निग्धप्रदक्सिणशिखो[K.स्निग्धः प्रदक्सिणशिखो] हुतभुग्नृपस्य् ८.१३ द्[K.१४ द्]।.गङ्गादिवाकरसुताजलचारुहारां धात्रीं समुद्ररसनां वशगां करोति॥ ८.१४ हारकुन्दकुसुमेन्दु[K.ऊ.कुमुदेन्दु]संनिभः संहतोऽङ्गसुखदो महोदयः। ८.१४ अङ्कुशाब्जजलवारणच्छविर्[K.वङ्कुशातपनिवारणाकृतिर्] हूयतेऽल्पतपसां न [ऊ.ऽल्प उपमान] हव्यभुक् ॥ ८.१५ चामीकराशोककिरीटरत्न[K.कुरण्टकाब्ज]वैदूर्यनीलोत्पलसंनिभेऽग्नौ। ८.१५ न ध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहृतं[K.हतं] नृपस्य् । ८.१६ येषां रथौघार्णवमेघदन्तिनां समः स्वनो[K.समस्वनो]ऽग्निर्यदि वाऽपि दुन्दुभेः। ८.१६ तेषां मदान्धेभघटावघट्टिता भवन्ति याने तिमिराबिला [तिमिरोपमा] दिशः॥ ८.१७ ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति भूभृताम्। ८.१७ उदयास्तधराधराधरा हिमवद्विन्ध्यपयोधरा धरा॥ ८.१८ द्विरदमदमहीसरोजलाजैर्घृतमधुना[K.घृतमधुनोश्] च हुताशने सगन्ध् ८.१८ प्रणतनृपशिरोमणिप्रभाभिर्भवति पुरश्छुरिता नृपस्य दीप्तिः[K.पुरश्छुरितेव भूर्नृपस्य]॥ ८.१९ अग्न्याश्रितं यत्फलमुक्तमस्मिंस्नृजातकर्मादिषु[K.तज्जातकर्मादिषु] पौष्टिकेषु। ८.१९ यज्ञेषु सर्वेषु च वह्निकार्येष्वेवं वदेद्यस्य यथानुरूपम्॥E१९ ९.१ जन्मर्क्षमाद्यं दशमन् तु कर्मं[K.दशमं च कर्म] सांघातिकं षोडशमृक्षमाद्यात् । ९.१ अष्टादशं स्यात्समुदायसंज्ञं वैनाशिकं विंशतिभात्तृतीयम्[K.विंशतिभिस्त्रिभिश्च]॥ ९.२ यत्पञ्चविंशं खलु मानसं तत्षडृक्ष एवं पुरुषस्तु सर्वः। ९.२ राज्ञो नवर्क्षाणि वदन्ति जातिदेशाभिषेकैः सहितानि तानि॥ ९.३ राज्ञोऽभिषेकर्क्षमुशन्त्यमिश्रं साधारणे द्वे सह षड्भिराद्यैः। ९.३ किम्त्वत्र दोषाश्च गुणाश्च सर्वे प्रधानमेकं पुरुषं भजन्त् । ९.४ कूर्मोपदिष्टानि हि देशभानि राज्ञोऽभिषेकाहनि चऽऽभिषेकम्। ९.४ या जातयश्भस्य[K.चऽपि] भवन्त्यतस्ता वर्गांश्च वक्ष्यामि यथाक्रमेण[K.वक्ष्यामि दैवज्ञनिराकुलार्थम्]॥ ९.५ पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि। ९.५ सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं च कृषीवलानाम्॥ ९.६ आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदन्ति भानि। ९.६ मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः॥ ९.७ सौम्येन्द्र[K.ऐन्द्र]चित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि। ९.७ सार्पं विशाखाश्रवणे भरण्यश्चाण्डालजातेरभिनिर्दिशन्ति[K.इति निर्दिशन्ति]॥ ९.८ रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितं। ९.८ ग्रहणगतमथोऽल्कया हतं नियतमुखाकर[K.नियतमुषाकर]पीडितं च यत् ॥ ९.९ तदुपहतमिति प्रचक्षते प्रकृतिविपर्ययजातम्[K.यातम्] एव वा। ९.९ निगदितपर[K.परि]वर्गदूषितं[K.दूषणं] कथितविपर्ययगं समृद्धय् । ९.१० रोगाभियागमवित्तनाशकलहा[K.रोगाभियागमवित्तनाशकलहाः] सम्पीडिते जन्मभे ९.१० सिद्धिं कर्म न याति कर्मणि हते भेदास्तु सांघातिक् ९.१० द्रव्यस्योपचितस्य सामुदयिके संपीडिते संक्षयो ९.१० वैनाशे तु भवन्ति कायविपदश्चित्तासुखं मानस्। ९.११ निरुपद्रुतभो निरामयः सुखभाग्पुष्टतनुर्[K.नष्टरिपुर्] धनान्वितः। ९.११ षडुपद्रुतभो विनश्यति त्रिभिरन्यैश्च सहऽवनीश्वरः॥ ९.१२ न भवति शरीरपीडा यस्य विना शान्तिभिर्भपीडायाम्। ९.१२ तस्य शरीरविपत्तिः पाकान्ते देवलः प्राह् । ९.१३ सर्वेषां पीडायां दिनमेकमुपोषितोऽनलं जुहुयात् । Vढ्ড়् १.८९.१--१३ ९.१३ सावित्र्या क्षीरतरोः समिद्भिरमरद्विजानुरक्तः[K.रतः]॥ ९.१४ गोक्षीरसितवृषभ[K.वृष]शकृन्मूत्रैः पत्रैश्च पूर्णकोशायाः। ९.१४ स्नानं जन्मनि दुष्टे स्वाचारवतां हरति पापम्॥ ९.१५ कर्मणि मधुघृतहोमो दशाहमक्षारमद्यमांसादः। ९.१५ दूर्वाप्रियंगुसर्षपशतपुष्पशतावरीस्नानम्॥ ९.१६ सांघातिकेऽभितप्ते[K.तु तप्ते] मांसमधुक्रौर्यमन्मथांस्त्यक्त्वा। ९.१६ स्नातो[K.दान्तो] दूर्वां जुहुयाद्दानं दद्याद्यथाशक्ति॥ ९.१७ सामुदयिकेऽपि[K.तु] दद्यात्काञ्चनरजतान्युपहते[K.उपद्रुते] धिष्ण्य् ९.१७ वैनाशिकेऽन्नपानं वसुधां च गुणाण्विते दद्यात् ॥ ९.१८ मानसतापे होमः सरोरुहैः पायसैर्द्विजाः पूज्याः। ९.१८ गजमदशिरीषचन्दनबलातिबलवारिणा स्नानम्॥E१८ ःेरे Kएर्न्ऽस्वेर्सिओनेन्द्स्. १०.१ आरिराधयिषुणा नराधिपं वारणाश्रितमिदं शुभाशुभम्। १०.१ ज्ञेयमादरवता विपश्चिता वारणेषु नृपतेर्जयस्थितिः॥ १०.२ सार्द्धं हस्तशतं दैर्घ्या सावंशं विपुला शतम्। १०.२ चतुरस्त्राऽथवा वृत्ता वारी वारणवृद्धिदा॥ १०.३ दशावगाहेन करा विस्तीर्णा दश चोपरि। १०.३ अधःखातस्य पदवी हस्तमात्रा प्रकीर्तिता॥ १०.४ कर्त्तव्यं पूर्वतो द्वारमुत्तरं वा शुभावहम्। १०.४ दक्षिणं पश्चिमं वाऽपि न कर्त्तव्यं कथञ्चन् । १०.५ मेढकस्तम्भमात्तृणां वृक्षाग्रं नावनौ क्षिपेत् । १०.५ पूर्वाप्राच्चोत्तराग्राच्च संयोज्या नित्यमर्गला॥ १०.६ दश विस्तारतो द्वारं पार्श्वयोस्तस्य मातृकाः। १०.६ चतुर्दश करोत्सेधा निःखात्य चतुरः करान्॥ १०.७ षट्षण्मेढान्तरस्थाश्च मेढकाः पञ्च पञ्च च् १०.७ चतुर्हस्तनिखातास्ते समुच्छ्रायान् वदाम्यतः॥ १०.८ षट्सप्ताष्टनवोत्सेधा दश वेति यथाक्रमम्। १०.८ नव वा दश वा वेधा मातृका याः षडङ्गुलाः॥ १०.९ वेधहान्यावशेषाः स्युर्मातृकाः क्रमशोऽपराः। १०.९ इति द्वारसमासोऽयं वार्य्यास्संपरिकीर्त्तितः॥ १०.१० मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धा न कृशाः क्षमाश्च् १०.१० गात्रैः समैश्चापसमानवंशा वाराहतुल्यैर्जघनैश्च भद्राः॥ १०.११ वक्षोऽथ कक्षा वलयः श्लथश्च लम्बोदरस्त्वग्वृहती गलश्च् १०.११ स्थूला च कुक्षिः सह मेचकेन सैंही च दृग्मन्दमतङ्गजस्य् । १०.१२ मृगास्तु ह्रस्वाधरबालमेढ्रास्तन्वघ्रिकण्ठद्विजहस्तकर्णाः। १०.१२ स्थूलेक्षणाश्चेति यथोक्तचिह्नैः सङ्कीर्णनागा व्यतिमिस्रचिह्नाः॥ ह्न् B १०.१३ पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यमष्टौ च हस्ताः परिणाहमानम्। १०.१३ एकद्विवृद्धावथ मन्दभद्रौ संकीर्णनागोऽनियतप्रमाणः॥ १०.१४ भद्रस्य वर्णो हरितो मदस्य मन्दस्य हारिद्रिकसन्निकाशः। १०.१४ कृष्णो मदश्चाभिहितो मृगस्य संकीर्णनागस्य मदो विमिश्रः॥ १०.१५ स्थपतिरतः प्रयतो गजशालां नरपतिमन्दिरदक्सिणभाग् १०.१५ अवनिगुणानवलोक्य विदध्यात्कृतबलिहोमसुराचनशान्तिः॥ १०.१६ यातुधानदितिसर्पसङ्कुला सन्निकृष्टविबुधद्विजालया। १०.१६ शर्करास्थिचयभस्मदूषिता पार्थिवद्विरददोषदा मही॥ १०.१७ किञ्चिदभ्युन्नता भूः प्रशस्तद्रुमा गोभिरध्यासिता साधु मध्ये समा। १०.१७ भूरितोयाऽघना हृद्दृगाह्लादिनी शल्यदोषैर्विना सानुनादस्वना॥ १०.१८ स्निग्धपल्लवद्रुमा प्रदक्षिणाम्बुवाहिनी। १०.१८ स्वराष्ट्रवृद्धिदा मही हिताऽथ नागवाजिनाम्॥ १०.१९ भद्रमन्दमृगमिश्रदन्तिनां श्वेतरक्तकनकोपमासिताः। १०.१९ भूमयो द्विरदपुष्टिवृद्धिदा भूभृतामपि यशः सुखावहाः॥ १०.२० ज्येष्ठा चतुर्विंशतिरेव हस्ता द्विद्व्यूनिते मध्यजघन्यशाल् १०.२० विस्तारतस्तद्द्विगुणाश्च दीर्घास्तम्भाश्च विस्तारसमुच्छ्रिताः स्युः॥ १०.२१ ज्येष्ठोऽङ्गुलानि बहुलो दशषड्युतानि मध्यस्तु पञ्चदश कन्यस्?ओऽङ्गुलोनः। १०.२१ स्तम्भप्रमाणविपुलाः क्रमशो निषङ्गाः प्रोक्ताङ्गुलार्द्धसदृशं बहुलत्वमेषाम्॥ १०.२२ सर्वासु शालासु च कण्टकस्य हस्तोऽर्धयुक्तः परिणाह उक्तः। १०.२२ कण्टप्रमाणेन समुन्नतश्च तलप्रवन्धो दृढदारुबन्धः॥ १०.२३ अलिन्दभित्तौ तु गवाक्षकेषु कुर्याद्गुणद्वारकजालकांश्च् १०.२३ निर्ब्यूहयुक्तासु च वेदिकासु कार्या बिभूषा परितो मयोक्ता॥ १०.२४ कमलोत्पलहंसयुगप्रमथैः प्रमदायुगपत्रविहङ्गघटैः। १०.२४ विविधैस्तरुभिः सशुकभ्रमरैः फलपल्लवपुष्पभरावनतैः॥ १०.२५ व्यालककुञ्जरमत्स्यमृगेन्द्रैः कन्दम्र्णाललतांकुरशोभैः। १०.२५ वारिचरैश्च चिता मकराद्यैः शिक्षितशिल्पिविनिर्मितरूपा॥ १०.२६ द्वारोच्छ्रायाः कुञ्जराणामतुल्या विस्तारोऽस्य त्र्यंशहीनः स एव् १०.२६ हीनो भूयश्चात्मषष्ठांशकेन शालाद्द्वारं प्रागुदक्च प्रशस्तम्॥ १०.२७ विचित्रनिर्व्यूहमृगेन्द्रपञ्जरं कपाटमेढार्गलसुप्रयोजितम्। १०.२७ सुवेदिकालङ्कृतमीक्षणप्रियं प्रवेशनं निर्गमनाय चापरम्॥ १०.२८ चन्दनार्जुनशिरीषमधूका देवदारुसरलाञ्जनशालाः। १०.२८ रोहिणीखदिरचम्पकशाकाः स्यन्दनश्च सकदम्बविशोकाः॥ १०.२९ शीताः शिवाश्च द्विपबन्धनार्थमेते द्रुमाः पुष्टिकरा द्विपानाम्। १०.२९ स्तम्भार्थमन्येऽपि हि सारवन्तः कार्याः प्रशस्ता गुणसंप्रयुक्ताः॥ १०.३० पूर्वाभिमुखो निबध्यते यः क्षिप्रं स करोति विक्रमम्। १०.३० राज्ञस्समरेष्वनिर्जितो दीर्घं चायुरवाप्नुयाद्गजः॥ १०.३१ दक्षिणदिग्वदनस्य च बन्धो जीवितनाशकरो द्विरदस्य् १०.३१ धान्यधनक्षयमाशु च कुर्यान्मन्त्रिजनस्य नराधिपतेश्च् । १०.३२ पश्चान्मुखं बन्धमवाप्य नागो नित्यं भवेद्रोगनिपीडिताङ्गः। १०.३२ नाशञ्च वित्तस्य करोति राज्ञस्तस्मात्स याम्यापरदिग्विवर्ज्यः॥ १०.३३ उदङ्मुखं बन्धमुपैति नागो योऽर्थस्य वृद्धिं स करोति भर्तुः। १०.३३ प्राप्नोति पुष्टिं चिरजीविताञ्च संग्रामकालेष्वपराजयञ्च् । १०.३४ सुषिरोर्ध्वशुष्ककोटरकोलाक्षप्रन्थिबहुलशूलाग्राः। १०.३४ मधुनिलयमूलहीनाग्रकुञ्जबल्लीव्रणानुगताः॥ १०.३५ वामावर्त्तः शृङ्गी कुणिलोऽवनतोऽनुजातविद्धश्च् १०.३५ पितृवनजः स्थूलाप्रस्त्रिकुब्जको द्राणिकावहुतः?॥ १०.३६ स्थूलग्रन्थिर्वज्रेण चूर्णितश्चाशुभप्रदाः। १०.३६ सर्वे बन्धार्थे नागानामतः फलानि प्रवक्ष्यामि॥ १०.३७ मासान् षडूर्ध्वसुषिरे स्तम्भे च बन्धमासाद्य् १०.३७ मरणमुपयाति नागो निपीडितो वातरोगेण् । १०.३८ म्रियते कोटरविद्धे कोलाक्षेऽन्धत्वमाप्नुयाद्नागः। १०.३८ क्षुत्पीडां ग्रन्थिचिते मृत्युं शूलेन शूलाग्र् । १०.३९ मूलाग्रकुब्जहीनेषु मरणमब्दात्सहैव हस्तिन्याः। १०.३९ शृङ्गिनि मृत्युर्मधुदूषिते च मरणं कृमिगदेन् । १०.४० गात्रस्य भवति भङ्गो बल्लीदुष्टे घ्राणावकीर्णे च् १०.४० वामावर्त्ते नृपतेर्विनश्यते वाहनं सर्वम्। १०.४१ मृद्गर्भे कुणिलाख्ये नृपतेः समहाजनस्य मरणाय् १०.४१ नागस्य तु त्रिकुब्जे भवति बधो युध्यतः स्तम्भ् । १०.४२ अनुजातविद्धबद्धः सुकुमारो वारणो मरणमेति। १०.४२ वर्षद्वयेन मृत्युः पितृवनजाते निबद्धस्य् । १०.४३ स्थूलाग्रानतयोर्मरणमेति मासेऽष्टमे महामात्रः। १०.४३ द्विरदस्य क्षुत्पीडा बद्धस्य द्रोणिकाबहुल् । १०.४४ स्थूलग्रन्थिर्विस्फोटमृत्युकृद्दन्तिनो द्वितीयेऽब्द् १०.४४ अशनिहते विज्ञेयः षण्मासाद्दन्तिनां मृत्युः॥ १०.४५ प्रदक्षिणावर्त्तमनोज्ञवृतसुस्निग्धऋज्वव्रणसारवन्तः। १०.४५ दोषैर्विहीना विजयाय शुद्धाः स्तम्भा द्विपानां बलपुष्टिदाः स्युः॥ १०.४६ यः सम्पातः कर्णसूत्र?द्वयस्य तस्माद्धस्तं सार्द्धमुत्सृज्य कार्यः। १०.४६ दिश्यैशान्यां बन्धनार्थं द्विपानां स्तम्भो राज्ञः श्रेयसे दन्तिनश्च् । १०.४७ आग्नेय्यां द्विपमरणं नृपार्थहानिर्नैरृत्यां समरपराभवार्थनाशौ। १०.४७ मारुत्यां भवति मतङ्गजस्य रोगः स्तम्भोऽतः शिवदिशि रोपितः शिवाय् । १०.४८ ज्येष्ठो दशोच्चो नव मध्यमश्च स्तम्भोऽष्टहस्तः कथितः कनीयान्। १०.४८ सर्वे निखाताश्चतुरश्च हस्तान्मानाधिकोनाश्च शिवाय न स्युः॥ १०.४९ स्याद्विंशतिर्द्वित्रिचतुर्विहीना मूलेऽङ्गुलानां पृथुता क्रमेण् १०.४९ द्व्यूनानि तान्येव हि मस्तके स्युः पर्यन्तवेष्टा त्रिगुणानि तानि॥ १०.५० ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः॥(Bॠ २१.२, Bष्६६.६) १०.५० चापोन्नता यतनिगूढनिमग्नवंशास्तन्वेकरोमचितकूर्मसमानकुम्भाः॥ १०.५१ विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतैर्द्विनवविंशतिभिर्नखैश्च्(Bॠ २१.३, Bष्६६.७) १०.५१ रेखात्रयोपचितवृत्तकराः सुब?ला धन्याः सुगन्धिमदपुष्करमारुताश्च् । १०.५२ दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिणः।(Bॠ २१.४, Bष्६६.८) १०.५२ बृहदायतवृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः॥ १०.५३ निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणान्।(Bॠ २१.५, Bष्६६.९) १०.५३ दृश्यकोशफलपुष्करदीनान् श्यावनीलशवलासिततालून्॥ १०.५४ स्वल्पवक्त्ररुहमत्कुणषण्ढान् हस्तिनीञ्च गजलक्षणयुक्ताम्।(Bॠ २१.६, Bष्६६.१०) १०.५४ गर्भिनीञ्च नृपतिः परदेशं प्रापयेदतिबिरूपफलास्त् । १०.५५ दन्तमूलपरिणाहदीर्घतां द्विःप्रमुच्य परतोऽस्य कल्पयेत् ।(Bॠ २१.७) १०.५५ श्यावपू?तिमलरक्तदर्शनं पापसत्त्वसदृशं च पापदम्॥ १०.५६ पार्थिवोपकरणाकृतिं यदा चिह्नमुद्वहति कल्पिते रद्(Bॠ २१.८) ह्न् B १०.५६ श्रीजयार्थवलवृद्धयस्तदा स्निग्धशुक्लरुचिराश्च शोभनाः॥ १०.५७ दक्षिणे शुभमतीवशोभन पापमप्यतिविरूपमन्यतः।(Bॠ २१.९) १०.५७ जाप्यता भवति तद्विपर्यये विस्तरोऽन्यमुनिभिः प्रकीर्त्तितः॥ १०.५८ मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात्ततः।(Bॠ २१.१०) १०.५८ स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसंभवम्॥ १०.५९ दन्तभङ्गफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम्।(Bॠ २१.११) १०.५९ वामतः सुतपुरोहिते भयं हन्ति भृत्यजनदारनायकान्॥ १०.६० आदिशेदुभयभङ्गदर्शनात्पार्थिवस्य सकलं कुलक्षयम्।(Bॠ २१.१२) १०.६० सौम्यलग्नतिथिभादिभिः शुभं वर्द्धते शुभमतोऽन्यथापरम्॥ १०.६१ क्षीरमिष्टफलपुष्पपादपैश्चापगातटविघट्टनेन वा।(Bॠ २१.१३) १०.६१ वाममध्यरदभङ्गखण्डनं शत्रुनाशकृदतोऽन्यथापरम्॥ १०.६२ स्खलितगतिरकस्मात्त्रस्तकर्णोऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्। १०.६२ द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृदहितभक्षी नैकशोऽसृअक्शकृत्कृत् ॥ १०.६३ वल्मीकस्थाणुगुल्मेक्षुतरुविमथनः स्वेच्छया हृष्टदृष्टिर् १०.६३ यायाद्यात्रानुलोमं त्वरितपदगतिर्वक्त्रमुन्नाम्य चोच्चैः। १०.६३ कक्ष्यासद्माहकाल्जनयति च मुहुः शीकरं बृंहते वा १०.६३ तत्कालं वा मदाप्तिर्जयकृदथ रदं वेष्टयन् दक्षिणश्च् । १०.६४ प्रवेशनं वारिणि वारणस्य ग्राहेण नाशाय भवेन्नृपस्य् १०.६४ ग्राहं गृहीत्वात्तरणं द्विपस्य तोयात्स्थले वृद्धिकरं नृभर्तुः॥ १०.६५ रणे जित्वा शत्रून् भवति नृपलक्ष्मीः क्षितिभृतां १०.६५ जयस्तेषां येषां मदमलिनगण्डाः करिवराः। १०.६५ भिनत्येको मत्तः परवलममत्तेभबहुलं १०.६५ यतोऽतोऽहं वक्ष्ये करिमदकरं द्रव्यनिचयम्॥ १०.६६ जातीगुडूचीकदलीतिलानामास्फोतकर्पासवलान्वितानाम्। १०.६६ मार्गी सनीलीगिरिकर्णिकानां धत्तूस्कस्यन्दनमाषभागः॥ १०.६७ कलम्बुका कर्णकमापपर्णीं पुनर्नवा भृङ्गरजोऽश्वगन्धाः। १०.६७ शेफालिकांसोटककच्छुराश्च कोशातकी गोक्षुरकं विदारी॥ १०.६८ विष्णुक्रान्ता दुग्धिका शालपर्णी खट्वापादी वाकुची वस्तगन्धा। १०.६८ व्याघ्री च स्यात्पृष्णिपर्णी मृणालं पटोरकः सल्लकी तन्दुलीयः॥ १०.६९ एतैर्यथासंभवसम्प्रयुक्तैर्मत्तस्य नागस्य मदाभिवृद्धिः। १०.६९ दानप्रमेदश्च मदोज्झितस्य सर्वाङ्गशोभा च मुखेऽतिरिक्ता॥ १०.७० जीवकमधूकधन्वनपटेरकङ्कोलकदलिऋषभाणाम्। १०.७० सौभाञ्जननिम्बेङ्गुदपरुषकाणाञ्च मूलानि॥ १०.७१ मूलानि शतावर्याः काकोली क्षीरसंज्ञकाकोली। १०.७१ श्लेष्मान्तकशाल्मलिशल्लकीजटाः स्युर्बिम्दायश्च् । १०.७२ काशीसाश्मन्तकराजमाषमूलानि चैवमेतानि। १०.७२ सर्वाणि वक्त्रशाभां जनयन्ति सदैव नागानाम्॥ १०.७३ नीलीपत्रैश्चूर्णितैर्माषचूर्णो दध्ना युक्तो माहिषेणैव पिण्डः। १०.७३ नागेन्द्राणामाशु घत्ते मदाप्तिं नील्येकैव द्रव्यवर्गे प्रधाना॥ १०.७४ एकैव करोति काकजङ्घा ह्येकेकैव च माषमुद्गपर्णी। १०.७४ ताम्बूलवनार्द्रवृश्चिकाल्षश्चैकैका मददास्तथैव मुस्ताः॥ १०.७५ कार्पास्येका चञ्चुसंयोजिता वा ज्ञेया चैका कण्टकी शैलिकाख्या। १०.७५ एकः शस्तो बल्कलः स्फूर्जकस्य जाती भृङ्गेनान्वितो वा कुठेरः॥ १०.७६ एवमेवेङ्गुदीमूलं मदप्राचुर्यकारकम्। १०.७६ एका च श्वेतकाम्बोजी श्वेता चैकाऽपराजिता॥ १०.७७ समूलो वीरणस्तम्बः समूला मल्लिका तथा। १०.७७ मदप्राचुयसौरम्यं कुर्वन्तीन्दीवराणि च् । १०.७८ सुरसा गण्डसंयुक्ता पुनर्नवा गोमयेऽथवा स्विन्ना। १०.७८ वाराहीमूलानि च निन्दन्ति गुडेन युक्तानि॥ १०.७९ मध्वालुका मधुयुता मुखशोभामातनोति नागानाम्। १०.७९ नेक्ष्वाहारस्य हितो गुडेन पिण्डो हितो दध्ना॥ १०.८० माषाशिनां गुडयुतस्तृणाशिनां शस्यते वसायुक्तः। १०.८० व्यतिमिश्राहाराणां विज्ञाय बलाबलं दद्यात् ॥ १०.८१ प्रायो मदस्य पवनः कुरुते विघातं स्रोतांस्यतो घृतयुतैर्बहुशोऽस्य पिण्डैः। १०.८१ स स्वेदयेद्भवति येन मदप्रवृद्धिर्भिन्नस्य चापि मदवृद्धिकराणि दद्यात् ॥E८१ ११.१ दीर्घग्रीवाक्षिकूतस्त्रिकहृदयपृथुस्ताम्रताल्वोष्ठजिह्वः(Bष्६५.१) ११.१ सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः। ११.१ जंघाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो ११.१ वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम्॥ ११.२ उत्सर्गान्न शुभदमासनापरस्थं वामे च ज्वलनमतोऽपरं प्रशस्तम्।(Bष्९२.१) ११.२ सर्वाङ्गज्वलनमवृद्धिदं हयानां द्वे वर्षे दहनकणाश्च धूपनं वा॥ ११.३ अन्तःपुरं नाशमुपैति मेढ्रे कोशक्षयं यात्युदरे प्रदीप्त्(Bष्९२.२) ११.३ पायौ च पुच्छे च पराजयः स्याद्वक्त्रोत्तमाङ्गज्वलने जयश्च् । ११.४ स्कन्धासनांशज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम्।(Bष्९२.३) ११.४ ललाटवक्षोऽक्षिभुजे च धूमः पराभवाय ज्वलनं जयाय् । ११.५ नासापुटप्रोथशिरोऽश्रुपातनेत्रे च रात्रौ ज्वलनं जयाय्(Bष्९२.४) ११.५ पालाशताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम्॥ ११.६ प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना(Bष्९२.५) ११.६ कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा संभवः। ११.६ अस्वप्नश्च विरुध्यता निशि दिवा निद्रालसध्यानता ११.६ सादोऽधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम्॥ ११.७ आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः।(Bष्९२.६) ११.७ उपवाह्य तुरङ्गमस्य वा कल्पस्यैव विपन्न शोभना॥ ११.८ क्रौञ्चवद्रिपुवधाय ह्रेषितं ग्रीवया त्वचलया च सोन्मुखम्।(Bष्९२.७) ११.८ स्निग्धमुच्चमनुनादि हृष्टवद्ग्रासरुद्धवदनश्च वाजिभिः॥ ११.९ पूर्णपात्रदधिविप्रदेवता गन्धपुष्पफलकाञ्चनादि च्(Bष्९२.८) ११.९ द्रव्यमिष्टमथवापरं भवेध्रेषता यदि समीपतो जयः॥ ११.१० भक्ष्यपानखलिनाभिनन्दिनः पत्युरौपयिकनन्दिनोऽथवा।(Bष्९२.९) ११.१० सव्यपार्श्वगतदृष्टयोऽथवा वाञ्छिरार्थफलदास्तुरङ्गमाः॥ ११.११ वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्त्तुः।(Bष्९२.१०) ११.११ सन्ध्यासु दीप्तामवलोकयन्तो ह्रेषन्ति चेद्वन्धपराजयाय् । ११.१२ अतीव ह्रेषन्ति किरन्ति बालान्निद्रारताश्च प्रवदन्ति यात्राम्।(Bष्९२.११) ११.१२ रोमत्यजा दीनखरस्वरांश्च प्रांशून् ग्रसन्तश्च भयाय दिष्टाः॥ ११.१३ समुद्गवद्दक्षिणपार्श्वशायिनः पादं समुत्क्षिप्य च दक्षिणं स्थिताः।(Bष्९२.१२) ११.१३ जयाय शेषेष्वपि वाहनेष्विदं फलं यथासंभवमादिशेद्बुधः॥ ११.१४ आरोहति क्षितिपतौ विनयोपपन्नो यात्राऽनुगोऽन्यतुरगं प्रति ह्रेषितश्च्(Bष्९२.१३) ११.१४ वक्रेण वा स्पृशति दक्षिणमात्मपार्श्वं योऽश्वः स भर्तुरचिरात्प्रचिनोति लक्ष्मीम्॥ ११.१५ मुहुर्मुहुर्मूत्रशकृत्करोति न ताड्यमानोऽप्यनुलोमयायी। ११.१५ अकार्यभीतोऽश्रुविलोचनश्च शिवं न भर्त्तुस्तुरगोऽभिधत्त् ।E१५ १२.१ अङ्गुलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिः खड्गः।(Bष्४९.१) १२.१ अंगुलमानाज्ज्ञेयः समांगुलस्थो व्रणः शुभदः॥ १२.२ श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम्।(Bष्४९.२) १२.२ सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च् । १२.३ कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः।(Bष्४९.३) १२.३ खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश्च् । १२.४ स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृङ्मनोऽनुगतः।(Bष्४९.४) १२.४ अस्वर इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः॥ १२.५ क्वणितं मरणायोक्तं पराजयायाप्रवर्त्तनं कोशात् ।(Bष्४९.५) १२.५ स्वयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्ग् । १२.६ नाकारणं विवृणुयान्न विघट्टयेच्च पश्येन्न तत्र वदनं न वदेच्च मूल्यम्।(Bष्४९.६) १२.६ देशं न वास्य कथयेत्प्रतिमानयेच्च नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम्॥ १२.७ गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश्च्(Bष्४९.७) १२.७ करवीरपत्रसदृशश्चन्द्रमण्डलाग्रः प्रशस्तश्च् । १२.८ निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः।(Bष्४९.८) १२.८ मृते म्रियते स्वामी जननी तस्याग्रतश्छिन्न् । १२.९ यस्मिन् त्सरुप्रदेशे व्रणो भवेत्तद्वदेव खड्गस्य्(Bष्४९.९) १२.९ वनितानामिव तिलकं गुह्ये वाच्यो मुखे दृष्ट्वा॥ १२.१० अथवा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत्तदवधार्य्(Bष्४९.१०) १२.१० कोशस्थस्यादेश्यो व्रणोऽसिशास्त्रं विदित्वेदम्॥ १२.११ शिरसि स्पृष्टे प्रथमेऽङ्गुले द्वितीये ललाटसंस्पर्श्(Bष्४९.११) १२.११ भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चतुर्थे च् । १२.१२ नासौष्ठकपोलहनुश्रवणग्रीवांशकेषु पञ्चाद्याः।(Bष्४९.१२) १२.१२ उरसि द्वादशसंस्थः त्रयोदशे कक्षयोर्ज्ञेयः॥ १२.१३ स्तनहृदयोदरकुक्षौ नाभौ च चतुर्दशादयो ज्ञेयाः।(Bष्४९.१३) १२.१३ नाभीमूले कट्यां गुह्ये चैकोनविंशतितः स्यात् ॥ १२.१४ ऊर्वोर्द्वाविंशे स्यादूर्वोर्मध्ये व्रणस्त्रयोविंश्(Bष्४९.१४) १२.१४ जानुनि च चतुर्विंशे जघायां पञ्चविंशे स्यात् ॥ १२.१५ जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तथाङ्गुलीष्वपि च्(Bष्४९.५) १२.१५ षड्विंशादिषु यावत्त्रिंशादिति मतेन गर्गस्य् । १२.१६ पुत्रमरणं धनाप्तिर्धनहानिः सम्पदश्च वधश्च्(Bष्४९.१६) १२.१६ एकाद्यंगुलसंस्थैर्व्रणैः फलं निर्दिशेत्क्रमशः॥ १२.१७ सुतलाभः कलहो हस्तिलयः पुत्रमरणधनलाभौ।(Bष्४९.१७) १२.१७ क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति॥ १२.१८ लब्धिर्हानिस्त्रीलयो वधो वृधिमरणपरितोषाः।(Bष्४९.१८) १२.१८ ज्ञेयाश्च चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥ १२.१९ वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम्।(Bष्४९.१९) १२.१९ ऐश्वर्यमृत्युराज्यानि च क्रमात्त्रिंशदिति यावत् ॥ १२.२० परतो न विशेषफलं विषमसमस्थाश्च पापशुभफलदाः।(Bष्४९.२०) १२.२० कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽग्रमिति यावत् ॥ १२.२१ करवीरोत्पलगजमदघृतकुंकुमकुन्दचम्पकसुगन्धिः।(Bष्४९.२१) १२.२१ शुभदो गोमूत्रहरितालपङ्कमेदसदृशगन्धिः॥ १२.२२ कूर्मवसाऽस्टकक्षारोपमश्च भयदुःखदो भवति गन्धः।(Bष्४९.२२) १२.२२ वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः॥ १२.२३ इदमैशनसञ्च शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदीप्ताम्।(Bष्४९.२३) १२.२३ हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम्॥ १२.२४ वडवोष्ट्रकरेणदुग्धपानं यदि पापेन समीहतेऽर्थसिधिः।(Bष्४९.२४) १२.२४ झषपित्तमृगाश्ववस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः। १२.२५ आर्कं पयो हुडविषाणमषीसमेतं पारावताखुशकृता च युतं प्रलेषः।(Bष्४९.२५) १२.२५ शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छ्रितस्य न शिलासु भवेद्विघातः॥ १२.२६ क्षारे कदन्या मथितेन युक्ते दिनोषिते पायुतमायसं यत् ।(Bष्४९.२६) १२.२६ सम्यक्छिरितं चाश्मनि नैति भङ्गं न चान्यलौहेष्वपि तस्य कौष्ठ्यम्॥E२६ १३.१ अन्तःपुराद्वा स्वनिवेशनाद्वा सिंहासनादग्निपरिस्तराद्वा। १३.१ कुर्यान्नरेन्द्रः प्रथमं प्रयाणं विप्रैः शताग्रैः कृतमङ्गलाशीः॥ १३.२ द्विजो विष्णुक्रमाद्भूयं मन्त्रेणानेन दापयेत् । १३.२ इदं विष्णुर्विचक्रम इत्येवं पादमुद्धरेत् ॥ १३.३ अमुकस्य वधायेति दक्षिणं क्षितिपो न्यसेत् । Kअने V. ६२१ १३.३ मङ्गलानि ततः पश्यन् स्पृशन् शृण्वन्नृपो व्रजेत् ॥ १३.४ वेदाङ्गवेदध्वनिशङ्खभेरीमृदङ्गपुण्याहपुराणशब्दाः। १३.४ धर्मर्थशास्त्राणि च भारतं च रामायणं मङ्गलकीर्त्तनानि॥ १३.५ वाचः शुभाः सारसचाषवर्हिणः कादम्बहंसाश्च सजीवजीवकाः। १३.५ काकश्च पङ्काक्तवराहपृष्ठगः श्रीवृक्षवालव्यजनानि चन्दनम्॥ १३.६ गौर्वत्सलाऽजो रुचकः प्(र्)इयङ्गुलाजा नृयुक्तश्च रथाः पताका। १३.६ सर्वौषधी स्वस्तिकपूर्णपात्राण्यश्वोऽथ दूर्वाद्रकगोमयं च् । १३.७ सरांस्यशोष्यानि सरित्समुद्रा रुद्रेन्द्रलोकेशमहीध्रनागाः। १३.७ दिशो ग्रहर्क्षाणि शिवः सुपर्णः स्कन्दो विशाखो मरुतश्च साध्याः॥ १३.८ भूर्द्वादशार्का वसवोऽश्विनौ च स्वाहा शाची मातृगणो भवानी। १३.८ पत्न्यो जनन्यश्च सुरासुराणां साध्योगणाश्चाप्सरसः सविद्याः॥ १३.९ यक्षाः ससिद्धा मुनयः सजायाः पर्जन्यकम्पद्रुममारुताश्च् १३.९ प्रजापतिः सर्वगतश्च विष्णुः शिवाय ते भूप भवन्तु यान् । १३.१० सिद्धार्थकादर्शपयोञ्जनानि बद्धैकपश्वामिषपूर्णकुम्भाः। १३.१० उष्णीषभृङ्गारनृवर्धमानपुंयानवीणातपवारणानि॥ १३.११ दधि मधु घृत रोचना कुमारी ध्वजकनकाम्बुजभद्रपीठशङ्खाः। १३.११ सितवृषकुसुमाम्बराणि मीनद्विजगणिकाप्तजनाश्च चारुवेषाः॥ १३.१२ ज्वलितशिखिफलाक्षतेक्षुभक्ष्या द्विरदमृदङ्कुशचामरायुधानि। १३.१२ मरकतकुरुविन्दपद्मरागाः स्फतिकमणिप्रमुखाश्च रत्नमेदाः॥ १३.१३ स्वयमथ रचितान्ययत्नतो वा यदि कथितानि भवन्ति मङ्गलानि। १३.१३ स जयति सकलां ततो धरित्रीं प्रहणदृगालभनश्रुतैरुपास्य् । १३.१४ कार्पासौषधकृष्णधान्यलवणक्लीवास्थितैलं वसा १३.१४ पङ्काङ्गारगुडाहिचर्मशकृतः केशाय सव्याधिताः। १३.१४ वान्तोन्मत्तजडेन्धनतृणतुषक्षुत्क्षामतक्रारयो १३.१४ मुण्डाभ्यक्तविमुक्तकेशपतिताः काषाविनश्चाशुभाः॥ १३.१५ पटुपटहमृदङ्गशङ्खभेरीवणवरदं सपताकतोरणाग्रम्। १३.१५ प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं व्रजेच्च मार्गम्॥ १३.१६ यान्यत्र मङ्गलामङ्गलानि निर्गच्छतां प्रदिष्टानि। १३.१६ स्वप्नेष्वप्येतानि शुभाशुभानि विड्लेपनं धन्यम्॥ १४.१ छुछुन्दरी शूकरिका शिवा च श्यामा रला पिङ्गलिकाऽन्यपुष्टा। १४.१ वामा प्रशस्ता गृहगोधिका च पुंसंज्ञका ये च पतत्रिणः स्युः॥ १४.२ श्येनो रुरुः पूर्णकुटः कपिश्च श्रीकर्णछिक्कारकपिप्पिकाऽजाः। १४.२ स्त्रीसंज्ञका ये च शिखिद्विपौ च याने हिता दक्षिणभागसंस्थाः॥ १४.३ आस्फोटिताक्ष्वेडितशङ्खतूर्यपुंयाहवेदध्वनिगीतशब्दाः। १४.३ वामाः प्रयाणे शुभदा नराणामाक्रन्दितं दक्षिणतः परेषाम्॥ १४.४ भारद्वाज्यजवर्हिचाषनकुलाः सङ्कीर्त्तनाद्दर्शनात् १४.४ क्रोशन्तश्च शुभप्रदा न सरटो दृष्टः शिवाय क्वचित् । १४.४ गोधाशूकरजाहकाहिशशकाः पाषा रुतालोकने १४.४ धन्यं कीर्त्तनमृक्षवानरफलं तद्व्यत्ययाच्छोभनम्॥ १४.५ नकुलस्य मृगस्य पक्षिणां वामाद्दक्षिणभागसेवनम्। १४.५ शुभदं श्वशृगालयोरिदं व्यत्यासेन फलं प्रशस्यत् । १४.६ चाषो नकुलश्च वामगौ दिवसार्धात्परतः शुभप्रदौ। १४.६ मृगवच्च वनेषु कुक्कुराः शतपत्रोऽस्तमये च दक्षिणः॥ १४.७ नष्टावलोकनसमागमयुद्धक्रमवेश्मप्रवेशमनुजेश्वरदर्शनेषु। १४.७ यानप्रतीपविधिना शुभदा भवन्ति केचिज्जगुर्गमनवन्नृपदर्शनेषु॥ १४.८ निरुपहतमनोज्ञवृक्षसंस्थः शुचिरुचिरावनिसस्यसंस्थिताश्च् १४.८ शुभतिथिदिवसर्क्षलग्नकालेष्वशुभफलोऽपि शुभप्रदः प्रदिष्टः॥ १४.९ प्रभग्नशुष्कद्रुमकण्टकेषु श्मशानभस्मास्थितुषाकुलेषु। १४.९ प्राकारशून्यालयदुर्दृशेषु सौम्योऽपि पापः शकुनः प्रदिष्टः॥ १४.१० अङ्गारिणी दिग्रविणा प्रमुक्ता यस्यां रविस्तिष्ठति सा प्रदीप्ता। १४.१० प्रधूमिता यास्यति यां दिनेशः शेषाश्च शान्ताः शुभदाश्च ताः स्युः॥ १४.११ यातं मुक्तायां साम्प्रतं दीपितायामेष्यं ज्ञेयं धूमितायामनिष्टम्। १४.११ शान्तास्वेवं दिक्षु तत्पञ्चमासु प्रत्यासन्नं शेषयोः शान्तदीप्तम्॥ १४.१२ पिशिताशुचिभोजनः प्रदीप्तस्तृणफलभुक्च निसर्गतः प्रशान्तः। १४.१२ उभयः कथितस्तथान्नभोजी दिक्स्थानोदयकालतश्च चिन्त्याः॥ १४.१३ द्वन्द्वार्त्तरोगार्दितभीतमत्तवैरार्त्तयुद्धामिषकांक्षिणश्च् १४.१३ सीमान्तनद्यन्तरिताश्च सेर्वे न चिन्तनीयाः सदसत्फलेषु॥ १४.१४ रिक्तोऽनुकूलः कलशो जलार्थमभ्युद्यतः सिद्धिकरः प्रयाण् १४.१४ विद्यार्थिनां चौर्यसमुद्यतानां वणिक्क्रियाभ्युद्यमिनामतीव् । १४.१५ श्यामाश्येनशशघ्नवञ्जलशिखिश्रीकर्णचक्राह्वयाश् १४.१५ चाषाण्दीरकखञ्जरीटकशुकाः ध्वांक्षः कपोतास्त्रयः। १४.१५ भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिस् १४.१५ फेटौ कुक्कुरपूर्णकूटचटकाश्चोक्ता दिवासंचराः॥ १४.१६ लोमासिका पिङ्गलछप्पिकाख्यौ वल्गुल्युलूकौ शशकश्च रात्रौ। १४.१६ सर्वे स्वकालोत्क्रमचारिणः स्युर्दशस्य नाशाय नृपान् तदा वा॥ १४.१७ हयनरभुजगोष्ट्रद्वीपिसिंहर्क्षगोधावृकनकुलकुरङ्गश्वाजगोव्याघ्रहंसाः। १४.१७ पृषतमृगशृगालश्वाविधाख्याऽन्यपुष्टा द्युनिशमपि विडालः सारसः शूकरश्च् । १४.१८ द्युनिशोभयचारिणः स्वकाले पुरवनमिश्रचराः स्वभूमिसंस्थाः। १४.१८ सफला विफला विपर्ययस्था गमनेप्सोः पुरपार्थिवाशुभास्त् । १४.१९ यानं धुरेण पतितं बृहती च कन्या गर्भेण चातिमहता पुरतः स्थितो स्त्री। १४.१९ आगच्छ तिष्ठ विश गच्छसि वा किमर्थं शब्दाः स्थिरश्च गमनं प्रतिषेधयन्ति॥ १४.२० गान्धारषड्जऋषभाः खलु मध्यमश्च याने स्वराः शुभकरा न तु येऽत्र शेषाः। १४.२० ग्रामौ शुभावपि च मध्यमषड्जसञ्ज्ञौ गान्धारगीतमपि भद्रमुशन्ति देवाः॥ १४.२१ सर्वत्र पापं क्षुतमुद्दिशन्ति गोस्तु क्षुतं मृत्युकरं यियासोः। १४.२१ मार्जाररावस्खलनं च यातुर्वस्त्रस्य भङ्गश्च न शोभनानि॥ १४.२२ जलकरश्वकरौ न शुभौ प्राग्घातकशस्त्रकरौ यमदिक्स्थौ। १४.२२ षण्ढकमद्यकरावपि पश्चातासनसीरखलैः सह चोदक् ॥ १४.२३ द्रव्याणि शुक्लानि तुरङ्गमश्च पूर्वेण याम्येन शवं समासम्। १४.२३ पश्चात्कुमारी दधि चातिशस्तं सौम्येन गोब्राह्मणसाधवश्च् । १४.२४ यः पूर्णकूटः सकरायिकाख्यो वामः प्रशस्तः स च पूर्वदेश् १४.२४ काकः शुभो दक्षिणतश्च तेषामन्येषु देशेषु विपर्ययेण् । १४.२५ वामे शस्तो धन्वनः सिद्धिदाता प्रोत्तुङ्गश्चेद्धस्तमात्रं जयाय् १४.२५ आकायश्चेदुन्नतो वामभागे पृथ्वीलाभं धन्वनागः करोति॥ १४.२६ नरतुरगगजातपत्रकुम्भध्वजशयनासनपुष्पचामराणि। १४.२६ व्रजति यदि पुरोऽवमूत्र्य यातुः क्षपयति शत्रुबलं ततो नरेन्द्रः॥ १४.२७ विषकण्टकिशुष्कवृक्षलोष्टानवमूत्र्यास्थिचितेन याति चेच्छ्वा। १४.२७ न शुभोऽभिमुखो भषन् विधुन्वन् युध्यन् गां विलिखन्नखैर्वमंश्च् । १४.२८ उत्तानापादः स्वपते च पापो विलोक्य सूर्यं विरुवंश्च दीनम्। १४.२८ शुष्कास्थिलाभाभिमुखश्च कष्टो मांसादिभिः पूर्णमुखश्च शस्तः॥ १४.२९ पूर्णाननो यस्य क्रोति चाषः प्रदक्षिणं स्वस्तिकमेव वा ख् १४.२९ लाभो महान्तस्य पराभवाय कालेन भङ्गो विजयो जयोऽस्य् । १४.३० कार्यन्तु मूलशकुनेऽन्तरजे तदह्नि विन्द्यात्फलं नियतमेवमिमे विचिन्त्याः। १४.३० प्रारंभयानसमयेषु तथा प्रवेशे ग्राह्यं क्षुतन्न शुभदं क्वचिदप्युशन्ति॥ १४.३१ क्रोशादूर्ध्वं शकुनविरुतं निष्फलं प्राहुरेके १४.३१ तत्रानिष्टे प्रथमशकुने मानयेत्पञ्च षट्च् १४.३१ प्राणायामान्नृपतिरशुभे षोडशैवं द्वितीये १४.३१ प्रत्यागच्छेत्स्वभवनमतो यद्यनिष्टस्तृतीयः॥ १४.३२ शुभं दशापाकमविघ्नसिद्धिं मूलाभिरक्षामथवा सहायान्। १४.३२ दुष्टस्य संसिद्धिमनामयत्वं वदन्ति ते मानयितुर्नृपस्य् ।E३२ १५.१ शूरकृतास्रमहाकुलजाताः स्वामिहिता बलिनः कृतयोग्याः। १५.१ दृष्टगुणा बहुबान्धवमित्रा नागकरोरुभुजाः कठिनाङ्गाः॥ १५.२ व्याघ्रमृगेश्वरगोवृषनादाः श्येनदृशः शुकसन्निभनासाः। १५.२ केकरजिह्मनिमीलितनेत्राः पुण्यकृतां समरेषु सहायाः॥ १५.३ देशगुणैः प्रथिताश्च पुरोगास्ते बहवो गुणलक्षणलक्ष्याः। १५.३ कालभृतो भृकुटीकृतवक्रावमभृतो विविधायुधहस्ताः॥ १५.४ दण्डोरगौ रविसुतस्य रवेस्तु चक्रं शुक्रस्य पद्मशकटौ गरुडो बुधस्य् १५.४ व्यूहौ तु सूचिमकरौ धरणीसुतस्य श्येनो गुरोः शिशिरगोरपि मण्डलाख्यः॥ १५.५ व्यूहमात्मशुभदग्रहस्य यद्विद्विषामशुभसंस्थितस्य वा। १५.५ तत्प्रयोज्यमरियोजितस्य वा घातनं तदरिभिर्बलोत्तरैः॥ १५.६ रणे प्रत्यासन्ने सदसि नृपतिर्मन्त्रिविदितं १५.६ बलोत्साहं कुर्यादहितवलविद्रावणकरम्। १५.६ जयं नो दैवज्ञः कथयति जनः सत्यवचनो १५.६ निमित्तानीष्टानि द्विपतुरगयोधादिषु च म् । १५.७ अभिजनयुता यूयं सौर्यं जनाः कथयन्ति वो १५.७ धनुषि कणये चक्रे शक्त्यामसौ च कृतश्रमाः। १५.७ मयि च भवतामस्ति स्नेहः कथन्न जयो मम १५.७ द्विरदतुरगं स्यादाक्रान्तं भवद्भिरिदं यदा॥ १५.८ बृंहन्ति हेषन्ति शिवं ब्रुवन्ति दीप्यन्ति शोचन्ति मुदान्विताश्च् १५.८ नागाश्वविप्रानलशत्रुयोधाः कः संशयश्चात्र रणे जयस्य् । १५.९ द्वेषायनेन मुनिना मनुना च धर्मा युद्धेषु ये निगदिता विदितास्तु ते वः। १५.९ स्वाम्यर्थगोद्विजहिते त्यजतां शरीरं लोका भवन्ति सुलभा विपुलं जयश्च् । १५.१० तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिज्यया च या। १५.१० व्रजन्ति तामाशु गतिं मनस्विनो रणाश्वमेधे पशुतामुपागतः॥ १५.११ यस्य तपो न जनाः कथयन्ति नो मरणं समरे विजयञ्च् १५.११ न श्रुतदानमहाधनतां वा तस्य भवः कृमिकीटसमानः॥ १५.१२ सरक्ष्यमाणमपि नाशमुपैत्यवश्यमेतच्छरीरमपहाय सुहृत्सुतार्थान्। १५.१२ तत्किं वरं प्रलपतां सुहृदां समक्षं किं निध्नतः परबलं भृकुटीमुखस्य् । १५.१३ हा तात मातेति च वेदनार्त्थाः धवणञ्छकृन्मूत्रकफानुलिप्तः। १५.१३ वरं मृतः किं भवने किमाजौ सन्दष्टदन्तच्छदभीमवक्त्रः॥ १५.१४ लोकः शुभस्तिष्ठतु तावदन्यः पराङ्मुखानां समरेषु पुंसाम्। १५.१४ पत्न्योऽपि तेषां न ह्रिया मुखानि पुरः सखीनामवलोकयन्ति॥ १५.१५ शत्रुसैन्यमवदार्य वर्त्ततां यत्सुखन्तु कथयामि तादृशम्। १५.१५ शृण्वतां स्वयशसोग्रपल्लवान् दिग्बधूवदनकर्णपूरकान्॥ १५.१६ निपतति शिरसि द्विपस्य सिंहः स्वतनुशताधिकमांसराशिमूर्त्तेः। १५.१६ पिबति च तदसृग्मदेष्टगन्धं वदनगतांश्च शनैः प्रसृज्य मुक्तान्॥ १५.१७ मणिकनकविभूषिता युवत्यो द्विपतुरगं वसु चामरानिलश्च् १५.१७ अविरलशशिकान्ति चातपत्रं भवति न मातृमुखस्य युद्धभीरोः॥ १५.१८ रुचिमत्कु बाहुपञ्जरे हरिनाक्ष्यः प्रवरोरुपीडनम्। १५.१८ रमयन्ति विमानसंस्थिताः सुरबध्वोऽतिमुदा रणार्जिताः॥ १५.१९ एकतोऽस्य सुरसुन्दरीजनः श्रीः प्रतीच्छति युयुत्सुतोऽन्यः। १५.१९ पद्मया सह पलायते यशश्चैकतः कुलकलङ्ककारकम्॥ १५.२० आरामदेवकुलकूपतडागयज्ञा ये वः कृता बिलसितञ्च नृपप्रसादात् । १५.२० तद्वो वृथो यदि न निश्छलमाजिमध्ये विद्युल्लताविकसितानि करोति वोऽसिः॥ १५.२१ चित्रं किमस्मिन् वद साहसं वा यत्स्वामिनोऽर्थे गनयन्ति नासून्। १५.२१ युद्धात्प्रनष्टो विदितोऽरिमध्ये यद्वालिश स्तष्ठति साहसं तत् ॥ १५.२२ न केवलं गात्रविभूषणानि क्षतानि शूरस्य रणे कृतानि। १५.२२ यशस्तरोर्मूलकृषिक्षतानि तान्येव वंशस्य विभूषणानि॥ १५.२३ भग्नेषु योधेष्ववपूर्य शस्त्राण्याजौ प्रवृत्ता व्यसवः कृता य् १५.२३ ऊर्ध्वानना वाजिमखाप्तलोकास्तेषां विमानान्यवलोकयन्ति॥ १५.२४ यैर्श्वमेधेऽभिहितं फलं वा देवैर्द्विजैर्वा श्रुतिशास्त्रकारैः। १५.२४ तैरेव भङ्गे प्रतिलोमगस्य पदे पदे वाजिमखः प्रदिष्टः॥ १५.२५ स्वर्गस्य मार्गा बहवः प्रदिष्टास्ते कृच्छ्रसाध्याः कुटिलाः सविघ्नाः। १५.२५ निमेषमात्रेण महाफलोऽयमृजुश्च पन्थाः समरे व्यासुत्वम्॥ १५.२६ दृष्टाइश्वर्यं स्वामिगोब्राह्मणार्थे त्यक्तासूनां सङ्गरे सङ्गतानाम्। १५.२६ कृच्छ्रोपायैरर्जितस्वर्गलोकाः जन्मेच्छन्ति क्षिप्रमेवाजिलोभात् ॥ १५.२७ संमूर्च्छितं संयुगसंप्रहारैः पश्यन्ति सुप्तप्रतिबुद्धतुल्यम्। १५.२७ आत्मानमङ्केषु सुराङ्गनानां मन्दाकिनीमारुतबीजिताङ्गाः॥ १५.२८ जीवितोऽपि निहतस्य वा रणे धर्म एव हि नरस्य युध्यतः। १५.२८ निश्चयान्न मरणां हि सङ्गरे नैव भीरुजरामरः क्वचित् ॥ १५.२९ मानमात्रमवलम्ब्य युध्यते कीटकोऽपि विहगोऽथ वा पशुः। १५.२९ को हि नाम पुरुषस्त्यजेद्रणं स्वगमानसुखकीर्त्तिवित्तदम्॥ १५.३० यदभावि न मेऽस्ति तत्क्वचित्सदसद्भावि न मे क्व यास्यति। १५.३० इति संपरिचिन्त्य पण्डिताः परसैन्यानि विशन्त्यविक्लवाः॥ १५.३१ उरः कृत्वा वेद्यां मणिफलकगाढस्थितकुचं भुजा वालम्ब्यैर्हीत्यमरवनिता व्योमगृहगाः। १५.३१ अपद्वारेणैवं त्वरितपदमत्याहुरपरा हतं हस्तालघ्वैर्हरति सुरलोको रणमुखात् ॥ १५.३२ हंसाढयं मणिवेदिकाकुहरकव्यालं बिहाराम्बरं १५.३२ निर्व्यूहस्थितरत्नचित्रकनकं स्तम्भाश्रितं व्यालकम्। १५.३२ घण्टाकिङ्किणिचारुचामरयुतस्त्रीगीतनृत्यान्वितं १५.३२ बालार्कोपममाविशन्त्यभिमुखा युद्धे विमानं हताः॥E३२ १६.१ अत्र ध्वजप्रहरणान्यभिमन्त्रितानि कुर्वन्ति शत्रुकदन रिपुवाहिनीनाम्। १६.१ मन्त्रं जगाद भगवानुशनाः स्वशास्त्रे यल्लिख्यते स इह पूर्वविधिक्रमेण् । १६.२ <ओमिन्द्रोऽग्निरिन्द्रवज्रधरोऽयं हरिणोऽभिनिर्याय परं हन हन दह दह स्वाहा>। १६.२ प्रचलितगजवाजिशूरयोधं समभिमुखोद्यतशस्त्रमभ्युपेतम्। १६.२ अभिमुखदिनकृत्प्रभञ्जनं च स्थिरहृदयोऽरिबल सुखं निहन्यात् ॥ १६.३ अशुभखगमृगं च दक्षिणे निपतति केतुपताकभेव वा। १६.३ परुषविषममन्दजर्जरो यदि खलु तूर्यरवोऽस्य वामतः॥ १६.४ यत्पृष्ठतः सेषुगजाश्वयोधं निष्ठितव्यूहमरातिसैन्यम्। १६.४ यस्येन्द्रचापं च ललाटसंस्थ तत्पृष्ठभागः कुशलोऽभिहन्यात् ॥ १६.५ नार्त्ता न भीता न तृणाननाश्च विमुक्तशस्त्राः प्रपलयमानाः। १६.५ क्षीणायुधा वाजिगजावतीर्णा ह्येते न बध्या न च पीडनीयाः॥ १६.६ कुलैकतन्तुः शरणागतो वा कृताञ्जलिर्यश्च वदेत्तवऽस्मि। १६.६ अयुध्यमानानवगम्य हन्याश्न पालकान् स्त्रीपरिरक्षितांश्च् । १६.७ दिग्दाहक्षितिजरजोश्मवृष्टिपातैर्निर्घातक्षितिचलनादिवैकृतैश्च् १६.७ युद्धान्ते मृगशकुनैश्च दीप्तनादैर्नो भद्रं भवति जयेऽपि पार्थिवस्य् । १६.८ शुभा मृगपतत्रिणो मृदुसमीरणोह्लादकृद्ग्रहाः स्फुटमरीचयो विगतरेणुदिग्मण्डलम्। १६.८ यदन्यमपि वैकृतन्न विजयावसाने यदा तदा सुखमकण्टकं नृपतिरत्ति देशं रिपोः॥ १६.९ परविषयपुराप्तौ साधुदेवद्विजस्वं कुलजनवनिताश्च क्ष्माधिपो नोपरुन्ध्यात् । १६.९ जनपदहितयुक्तान् पूजयेत्पौरमुख्यान् शुभतिथिकरणर्क्षे हृष्टसैन्यो विशोच्च् । १६.१० दृति मनुजपतिर्यथोपदेशं भगणविदां प्रकरोति यो वचांसि। १६.१० स सकलमहिमण्डलाधिपत्यं व्रजति दिवीव पुरन्दरोऽचिरेण् । १६.११ अलब्धलिप्सा प्रथमं नृपस्य लब्धस्य संरक्षणसम्प्रवृद्धी। १६.११ सम्यक्प्रवृद्धस्य च लाभकोऽयं तीर्थेषु सम्यक्पतिपादनानि॥ १६.१२ केन्द्रेषु सौम्यैर्गुरुशुक्रलग्ने पापेषु केन्द्राष्टमवर्जितेसु। १६.१२ प्राम्ये स्थिरे वाऽनिधने च लग्ने गृहं विशेच्छ्रीतकरेऽनुकूल् १६.१३ पौष्णे धनिष्ठास्वथ वारुणेषु स्वायम्भुवर्क्षेषु त्रिषूत्तरासु। १६.१३ अक्षीणचन्द्रे शुभवासरे च तिथावरिक्ते च गृहप्रवेशः॥ १६.१४ धर्मेण पृथ्वीं किल पालयित्वा जलाशयारामसुरालयाढ्याम्। १६.१४ कृत्वा सकूपां चितिभिश्चिताञ्च जयन्ति लोकानमरेश्वरस्य् । १६.१५ स्वविषयमुपगम्य मानवेन्द्रो वल्लिमुपयाचितकानि चाधिकानि। १६.१५ निगदितविधिनैव सम्प्रदद्यात्प्रमथगणासुरभूतदेवताभ्यः॥ १६.१६ यात्रावतार आदावाचारश्वाभियोज्यको देशः। १६.१६ योगाध्यायो भिषकबल्युपहारौ तथा स्नानम्॥ १६.१७ अग्निनिमित्तं नक्षत्रकैन्दुभं लक्षणं तथा वार्याः। १६.१७ शालाविधिर्गजेङ्गितमदकरणं वाजिचेष्टा च् । १६.१८ खड्गविधिः प्रस्थानं शाकुनमुत्साहपुरनिवेशश्च् १६.१८ अध्यायसंप्रहोऽयं समासतश्चात्र निर्दिष्टः॥ १८

Search

Search here.