ऋणमुक्ति गणेश स्तोत्र

स्तोत्र - मंत्र  > गणेश स्तोत्र Posted at 2016-02-06 21:37:00
ऋणमुक्ति गणेश स्तोत्र अथ श्रीऋणविमोचन महागणपतीस्तोत्रमंत्रस्य शुक्राचार्य ऋषी: , ऋणवोमोचनमहागणपतिर्देवता, अनुष्टुप् छन्दः, ऋणविमोचनमहागणपतिप्रीत्यर्थं जपे विनियोगः !! ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् ! षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये !! १ !! महागणपतिं वन्दे महासेतुं महाबलम् ! एकमेवाद्वितीयं तु नमामि ऋणमुक्तये !! २ !! एकाक्षरं त्वेकदन्तमेकं ब्रह्म सनातनम् ! महाविघ्नहरंदेवं नमामि ऋणमुक्तये !! ३ !! शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् ! सर्वशुक्लमयं देवं नमामि ऋणमुक्तये !! ४ !! रक्तम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ! रक्तपुष्पै: पूज्यमानं नमामि ऋणमुक्तये !! ५ !! कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ! कृष्णयज्ञोपवीतंच नमामि ऋणमुक्तये !! ६ !! पीताम्बरं पीतवर्ण पीतगन्धानुलेपनम् ! पीतपुष्पै: पूज्यमानं नमामि ऋणमुक्तये !! ७ !! सर्वात्मकं सर्ववर्णं सर्वगन्धानुलेपनम् ! सर्वपुष्पै: पूज्यमानं नमामि ऋणमुक्तये !! ८ !! एतद् ऋणहरं स्तोत्रं त्रिसन्धं यः पठेन्नरः ! षणमासाभ्यन्तरे तस्य ऋणच्छेदो न संशयः !! ९ !! सहस्त्रदशकं कृत्वा ऋणमुक्तो धनी भवेत् ! इति रुद्रयामले ऋणमुक्तिगणेशस्तोत्रं सम्पूर्णम् !! १० !! श्री श्याम जोशी गुरुजी टिटवाळा

Search

Search here.